०४ ०५ गोसहस्रदानम्

अथ गोसहस्रदानम्

तत्र मत्स्यपुराणे

४.५.१ अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
गोसहस्रप्रदानाख्यं सर्वपापहरं परम् ॥ [म्प् २७८.१, हेम् २५१]

४.५.२ पुण्यां तिथिम् अथासाद्य युगमन्वन्तरादिकम् ।
पयोव्रतस् त्रिरात्रं स्याद् एकरात्रम् अथापि वा ॥ [म्प् २७८.२, हेम् २५१]

४.५.३ लोकेशावाहनं कुर्यात् तुलापुरुषदानवत् ।
पुण्याहवाचनं कुर्याद् धोमः कार्यस् तथैव च ॥ [म्प् २७८.३, हेम् २५१]

४.५.४ ऋत्विङ्मण्डपसंभारभूषणाछादनादिकम् ॥ [म्प् २७८.४, हेम् २५१]
४.५.५ वृषं लक्षणसंयुक्तं वेदिमध्ये ऽधिवासयेत् ।
गोसहस्राद् विनिःकृष्य गवां दशकम् एव तु ॥ [म्प् २७८.४, हेम् २५१]

लक्षणसंयुक्तं शुभलक्षणसंयुतम् । लक्षणानि च शुभानि मत्स्यपुराणो-क्तानि उन्नतस्कन्धककुदम् उज्ज्वलायतकम्बलम् इत्य् आदीनि । विनिःकृष्य गवां दशकं सहस्राद् अधिकम् अग्रे दशाधिकसहस्रविनियोगदर्शनात् ।

४.५.६ गोसहस्रं बहिः कुर्याद् वस्त्रमाल्यविभूषितम् ।
सुवर्णशृङ्गाभरणं रौप्यपादसमन्वितम् ॥ [म्प् २७८.५, हेम् २५२]

४.५.७ अन्तः प्रवेश्य दशकं वस्त्रमाल्यैः प्रपूजयेत् ।
सुवर्णघण्टिकायुक्तं ताम्रदोहनकान्वितम् ॥ [म्प् २७८.६, हेम् २५२]

४.५.८ सुवर्णतिलकोपेतं हेमपट्टैर् अलंकृतम् ।
कौशेयवस्त्रसंवीतं माल्यगन्धसमन्वितम् ॥ [म्प् २७८.७, हेम् २५२]

४.५.९ हेमरत्नयुतैः शृङ्गैश् चामरैश् चोपशोभितम् ।
पादुकोपानहछत्त्रचामरासनसंयुतम् ॥ [म्प् २७८.८]

४.५.१० गवां दशकमध्ये स्यात् काञ्चनो नन्दिकेश्वरः ।
कौशेयवस्त्रसंवीतो नानाभरणसंयुतः ।

लवणद्रोणशिखरे माल्येक्षुफलसंयुतः ॥ [म्प् २७८.९–१०, हेम् २५३]

४.५.११ कुर्यात् पलशताद् ऊर्ध्वं सर्वम् एतद् अशेषतः ।
शक्तितः पलसाहस्रत्रितयं यावद् एव तु ॥ [म्प् २७८.१०–११, हेम् २५३]

४.५.१२ गोशते ऽपि दशांशेन सर्वम् एतत् समाचरेत् ॥ [म्प् २७८.११, हेम् २५३]
४.५.१३ पुण्यं कालम् अथासाद्य गीतमङ्गलनिस्वनैः ।
सर्वौषध्युदकस्नानस्नापितो वेदपुंगवैः ।

इमम् उच्चारयेन् मन्त्रं गृहीतकुसुमाञ्जलिः ॥ [म्प् २७८.१२–१३, हेम् २५३–५४]

४.५.१४ नमो वो विश्वमूर्तिभ्यो विश्वमातृभ्य एव च ।
लोकाधिवासिनीभ्यश् च रोहिणीभ्यो नमो नमः ॥ [म्प् २७८.१३–१४, हेम् २५४]

४.५.१५ गवाम् अङ्गेषु तिष्ठन्ति भुवनान्य् एकविंशतिः ।
ब्रह्मादयस् तथा देवा रोहिण्यः पान्तु मातरः ॥ [म्प् २७८.१४–१५, हेम् २५४]

४.५.१६ गावो मे अग्रतः सन्तु गावः पृष्ठत एव च ।
गावः शिरसि मे नित्यं गवां मध्ये वसाम्य् अहम् ॥ [म्प् २७८.१५–१६, हेम् २५४]

४.५.१७ यस्मात् त्वं वृषरूपेण धर्म एव सनातनः ।
अष्टमूर्तेर् अधिष्ठानम् अतः पाहि सनातनः ॥ [म्प् २७८.१६–१७, हेम् २५४]

४.५.१८ इत्य् आमन्त्र्य ततो दद्याद् गुरवे नन्दिकेश्वरम् ।
सर्वोपकरणोपेतं गोयुगं च विचक्षणः ॥ [म्प् २७८.१७–१८, हेम् २५४]

४.५.१९ ऋत्विग्भ्यो धेनुम् एकैकां दशकाद् विनिवेदयेत् ॥ [म्प् २७८.१८, हेम् २५४]
४.५.२० गवां शतम् अथैकैकं तदर्धं वाथ विंशतिम् ।
दश पञ्चाथ वा दद्याद् अन्येभ्यस् तदनुज्ञया ॥ [म्प् २७८.१९, हेम् २५४]

४.५.२१ नैका बहुभ्यो दातव्या यतो दोषकरी भवेत् ।
बह्व्यस् त्व् एकस्य दातव्याः श्रीमदारोग्यवृद्धये ॥ [म्प् २७८.२०, हेम् २५५]

४.५.२२ पयोव्रतः पुनस् तिष्ठेद् एकाहं गोसहस्रदः ।
श्रावयेच् छृणुयाद् वापि महादानानुकीर्तनम् ॥ [म्प् २७८.२१, हेम् २५५]

४.५.२३ तद् दिनं ब्रह्मचारी स्याद् यदीच्छेद् विपुलां श्रियम् ॥ [म्प् २७८.२२, हेम् २५५]
४.५.२४ अनेन विधिना यस् तु गोसहस्रप्रदो भवेत् ।
सर्वपापविनिर्मुक्तः सिद्धचारणसेवितः ॥ [म्प् २७८.२२, हेम् २५६]

४.५.२५ विमानेनार्कवर्णेन किङ्किणीजालमालिना ।
सर्वेषां लोकपालानां लोके संपूज्यते ऽमरैः ॥ [म्प् २७८.२३, हेम् २५६]

४.५.२६ प्रतिमन्वन्तरं तिष्ठेत् पुत्रपौत्रसमन्वितः ।
यावत् कल्पशतं तिष्ठेद् राजराजो भवेत् पुनः ॥ [म्प् २७८.२४, हेम् २५७]

४.५.२७ अश्वमेधशतं कुर्याच् छिवध्यानपरायणः ।
वैष्णवं योगम् आस्थाय ततो मुच्येत बन्धनात् ॥ [म्प् २७८.२६, हेम् २५७]

४.५.२८ पितरश् चाभिनन्दन्ति गोसहस्रप्रदं शुभम् ।
अपि स्यात् स कुले ऽस्माकं पुत्रो दौहित्र एव वा ।

गोसहस्रप्रदो भूत्वा नरकाद् उद्धरिष्यति ॥ [म्प् २७८.२७, हेम् २५७]

४.५.२९ तस्य कर्मकरो वा स्याद् अपि द्रष्टा तथैव च ।
संसारसागराद् अस्माद् यो ऽस्मान् संतारयिष्यति ॥ [म्प् २७८.२८, हेम् २५७]

४.५.३० इति पठति य एतद् गोसहस्रप्रदानं
सुरभवनम् उपेयात् संस्मरेद् वाथ पश्येत् ।

अनुभवति मुदं वा वाच्यमाने निकामं

प्रहतकलुषदेहः सो ऽपि यातीन्द्रलोकम् ॥ [म्प् २७८.२९, हेम् २५७]

इति गोसहस्रदानम् ॥