०४ ०४ कल्पपादपदानम्

अथ कल्पपादपदानम्

तत्र मत्स्यपुराणे

४.४.१ कल्पपादपदानाख्यम् अतः परम् अनुत्तमम् ।
महादानं प्रवक्ष्यामि सर्वपातकनाशनम् ॥ [म्प् २७७.१, हेम् २४५]

४.४.२ पुण्यं दिनम् अथासाद्य तुलापुरुषदानवत् ।
पुण्याहवाचनं कुर्याल् लोकेशावाहनं तथा ।

ऋत्विङ्मण्डपसंभारभूषणाछादनादिकम् ॥ [म्प् २७७.२–३, हेम् २४५]

४.४.३ काञ्चनं कारयेद् वृक्षं नानाफलसमन्वितम् ।
नानाविहगवस्त्राणि भूषणाछादनानि च ॥ [म्प् २७७.३–४, हेम् २४६]

४.४.४ शक्तितस् त्रिपलाद् ऊर्ध्वम् आसहस्रात् प्रकल्पयेत् ।
अर्धकॢप्तसुवर्णस्य कारयेत् कल्पपादपम् ॥ [म्प् २७७.४–५, हेम् २४६]

४.४.५ गुडप्रस्थोपरिष्टाच् च सितवस्त्रयुगान्वितम् ।
ब्रह्मविष्णुशिवोपेतं पञ्चशाखं सभास्करम् ॥ [म्प् २७७.५–६, हेम् २४६]

४.४.६ कामदेवम् अधस्ताच् च सकलत्रं प्रकल्पयेत् ॥ [म्प् २७७.६, हेम् २४६]
४.४.७ संतानं पूर्वतस् तद्वत् तुरीयांशेन कल्पयेत् ।
मन्दारं दक्षिणे पार्श्वे श्रिया सार्धं घृतोपरि ॥ [म्प् २७७.७, हेम् २४७]

४.४.८ पश्चिमे पारिभद्रं तु सावित्र्या सह जीरके ।
सुरभीसहितं तद्वत् तिलेषु हरिचन्दनम् ।

तुरीयांशेन सौम्येन कुर्वीत फलसंयुतम् ॥ [म्प् २७७.८–९, हेम् २४७]

तुरीयांशेन यावता कॢप्तसुवर्णांशेन मध्यपादपः प्रतिमादिसहितः क्रियते तदीयचतुर्थचतुर्थांशेन संतानादयश् चत्वारः प्रतिमादिसहिताः कर्तव्याः ।

४.४.९ कौशेयवस्त्रसंयुक्तान् इक्षुमाल्यफलान्वितान् ।
तथाष्टौ पूर्णकलशान् पादुकासनभाजनम् ॥ [म्प् २७७.९–१०, हेम् २४७]

४.४.१० दीपिकोपानहछत्त्रचामरासनसंयुतम् ।
फलमाल्ययुतं तद्वद् उपरिष्टाद् वितानकम् ।

तथाष्टादश धान्यानि समन्तात् परिकल्पयेत् ॥ [म्प् २७७.१०–११, हेम् २४७–४८]

४.४.११ होमाधिवासनान्ते च स्नापितो वेदपुंगवैः ।
त्रिः प्रदक्षिणम् आवृत्य मन्त्रम् एतम् उदीरयेत् ॥ [म्प् २७७.१२, हेम् २४८]

४.४.१२ नमस् ते कल्पवृक्षाय चिन्तितार्थप्रदायिने ।
विश्वंभराय देवाय नमस् ते विश्वमूर्तये ॥ [म्प् २७७.१३, हेम् २४८]

४.४.१३ यस्मात् त्वम् एव विश्वात्मा ब्रह्मा स्थाणुर् दिवाकरः ।
मूर्तामूर्त परं बीजम् अतः पाहि सनातन ॥ [म्प् २७७.१४, हेम् २४८]

४.४.१४ त्वम् एवामृतसर्वस्वम् अनन्तः पुरुषो ऽव्ययः ।
संतानाद्यैर् उपेतः सन् पाहि संसारसागरात् ॥ [म्प् २७७.१५, हेम् २४८]

४.४.१५ एवम् आमन्त्र्य तं दद्याद् गुरवे कल्पपादपम् ।
चतुर्भ्यश् चाथ ऋत्विग्भ्यः संतानादीन् प्रकल्पयेत् ॥ [म्प् २७७.१६, हेम् २४८]

४.४.१६ स्वल्पेष्व् एकाग्निवत् कुर्याद् गुरवे चाभिपूजनम् ।
न वित्तशाठ्यं कुर्वीत न च विस्मयवान् भवेत् ॥ [म्प् २७७.१७, हेम् २४८–४९]

४.४.१७ अनेन विधिना यस् तु महादानं निवेदयेत् ।
सर्वपापविनिर्मुक्तः सो ऽश्वमेधफलं लभेत् ॥ [म्प् २७७.१८, हेम् २४९]

४.४.१८ अप्सरोभिः परिवृतः सिद्धचारणकिंनरैः ।
भूतान् भव्यांश् च मनुजांस् तारयेद् रोमसंमितान् ।

स्तूयमानो दिवः पृष्ठे पितृपुत्रप्रपौत्रकान् ॥ [म्प् २७७.१९–२०, हेम् २४९]

४.४.१९ विमानेनार्कवर्णेन विष्णुलोकं स गच्छति ।
दिवि कल्पशतं तिष्ठेद् राजराजो भवेत् ततः ॥ [म्प् २७७.२०–२१, हेम् २४९]

४.४.२० नारायणबलोपेतो नारायणपरायणः ।
नारायणकथासक्तो नारायणपुरं व्रजेत् ॥ [म्प् २७७.२१, हेम् २४९]

४.४.२१ यो वा पठेत् सकलकल्पतरुप्रदानं
यो वा शृणोति पुरुषो ऽल्पधनः स्मरेद् वा ।

सो ऽपीन्द्रलोकम् अधिगम्य सहाप्सरोभिर्

मन्वन्तरं वसति पापविमुक्तदेहः ॥ [म्प् २७७.२२, हेम् २४९]

इति कल्पतरुदानम् ॥