०४ ०३ ब्रह्माण्डदानम्

अथ ब्रह्माण्डदानम्

तत्र मत्स्यपुराणे

४.३.१अथातः संप्रवक्ष्यामि ब्रह्माण्डं विधिपूर्वकम् ।
यच् छ्रेष्ठं सर्वदानानां महापातकनाशनम् ॥ [म्प् २७६.१, हेम् २३२]

४.३.२ पुण्यं दिनम् अथासाद्य तुलापुरुषदानवत् ।
ऋत्विङ्मण्डपसंभारभूषणाछादनादिकम् ।

लोकेशावाहनं तद्वद् अधिवासनकं तथा ॥ [म्प् २७६.२–३, हेम् २३२]

४.३.३ कुर्याद् विंशत्पलाद् ऊर्ध्वम् आसहस्राच् च शक्तितः ।
शकलद्वयसंयुक्तं ब्रह्माण्डं काञ्चनं बुधः ॥ [म्प् २७६.३–४, हेम् २३२]

इशकलद्वयसंयुक्तं खण्डद्वयसंयुक्तम् ।

४.३.४ दिग्गजाष्टकसंयुक्तं षड्वेदाङ्गसमन्वितम् ।
लोकपालाष्टकोपेतं मध्यस्थितचतुर्मुखम् ॥ [म्प् २७६.४–५, हेम् २३२–३३]

४.३.५ शिवाच्युतार्कशिखरम् उमालक्ष्मीसमन्वितम् ।
वस्वादित्यमरुद्गर्भं महारत्नसमन्वितम् ॥ [म्प् २७६.५–६, हेम् २३३]

४.३.६ वितस्तेर् अङ्गुलशतं यावद् आयामविस्तरम् ॥ [म्प् २७६.६, हेम् २३६]
महारत्नानि पद्मरागादीनि । वितस्तेर् अङ्गुलशतं यावद् द्वादशाङ्गुलम् आरभ्या-ङ्गुलशतं यावद् धेमानुसारेण कार्यम् इत्य् अर्थः ।

४.३.७ कौशेयवस्त्रसंवीतं तिलद्रोणोपरि न्यसेत् ।
तथाष्टादश धान्यानि समन्तात् परिकल्पयेत् ॥ [म्प् २७६.७, हेम् २३६]

४.३.८ पूर्वेणानन्तशयनं प्रद्युम्नं पूर्वदक्षिणे ।
प्रकृतिं दक्षिणे देशे संकर्षणम् अतः परम् ।

पश्चिमे चतुरो वेदान् अनिरुद्धम् अतः परम् ॥ [म्प् २७६.८–९, हेम् २३६]

अनन्तशयनः शेषशायी । प्रकृतिर् देवी । वेदमूर्तयो भूतघटे वक्ष्यन्ते ।

४.३.९ अग्निम् उत्तरतो हैमं वासुदेवम् अतः परम् ।
समन्ताद् गुडपीठस्थान् अर्चयेत् काञ्चनान् बुधः ॥ [म्प् २७६.९–१०, हेम् २३६]

४.३.१० स्थापयेद् वस्त्रसंवीतान् पूर्णकुम्भान् दशैव तु ।
दशैव धेनवो देयाः सहेमाम्बरदोहनाः ॥ [म्प् २७६.१०–११, हेम् २३६, २३८]

४.३.११ पादुकोपानहछत्त्रचामरासनदर्पणैः ।
भक्ष्यभोज्यान्नदीपेक्षुफलमाल्यानुलेपनैः ॥ [म्प् २७६.११, हेम् २३८]

४.३.१२ होमाधिवासनान्ते च स्नापितो वेदपुंगवैः ।
इमम् उच्चारयेन् मन्त्रं त्रिः कृत्वाथ प्रदक्षिणम् ॥ [म्प् २७६.१२, हेम् २३८]

४.३.१३ नमो ऽस्तु विश्वेश्वर विश्वधाम जगत्सवित्रे भगवन् नमस् ते ।
सप्तार्चिलोकामरभूतलेश गर्भेण सार्धं वितराभिरक्षाम् ॥

[म्प् २७६.१३, हेम् २३९]

४.३.१४ ये दुःखितास् ते सुखिनो भवन्तु प्रयान्तु पापानि चराचराणाम् ।
त्वद्दानशस्त्राहतपातकानां ब्रह्माण्ड दोषाः प्रलयं व्रजन्तु ॥

[म्प् २७६.१४, हेम् २३९]

४.३.१५ एवं प्रणम्यामरविश्वगर्भं दद्याद् द्विजेभ्यो दशधा विभज्य ।
भागद्वयं तत्र गुरोः प्रकल्प्य समं भजेच् छेषम् अतः क्रमेण ॥

[म्प् २७६.१५, हेम् २३९]

४.३.१६ स्वल्पे च होमं गुरुर् एक एव कुर्याद् अथैकाग्निविधानयुक्त्या ।
स एव संपूज्यतमो ऽल्पवित्तैर् यथोक्तवस्त्राभरणादिकेन ॥

[म्प् २७६.१६, हेम् २३९]

४.३.१७ इत्थं य एतद् अखिलं पुरुषो ऽत्र कुर्याद्
ब्रह्माण्डदानम् अधिगम्य महद् विमानम् ।

निर्धूतकल्मषविशुद्धतनुर् मुरारेर्

आनन्दकृत् पदम् उपैति सहाप्सरोभिः ॥ [म्प् २७६.१७, हेम् २४०]

४.३.१८ संतारयेत् पितृपितामहपुत्रपौत्र-
बन्धुप्रियातिथिकलत्रशताष्टकं सः ।

ब्रह्माण्डदानशकलीकृतपातकौघम्

आनन्दयेच् च जननीकुलम् अप्य् अशेषम् ॥ [म्प् २७६.१८, हेम् २४०]

४.३.१९इति पठति शृणोति वा य एतत्
सुरभवनेषु गृहेषु धार्मिकाणाम् ।

मतिम् अपि च ददाति मोदते ऽसाव्

अमरपतेर् भवने सहाप्सरोभिः ॥ [म्प् २७६.१९, हेम् २४०]

इति ब्रह्माण्डदानम् ॥