अथ हिरण्यगर्भदानम्
तत्र मत्स्यपुराणे
४.२.१ अथातः संप्रवक्ष्यामि महादानम् अनुत्तमम् ।
नाम्ना हिरण्यगर्भाख्यं महापातकनाशनम् ॥ [म्प् २७५.१, हेम् २१८]
४.२.२ पुण्यं दिनम् अथासाद्य तुलापुरुषदानवत् ।
ऋत्विङ्मण्डपसंभारभूषणाछादनादिकम् ।
कुर्याद् उपोषितस् तद्वल् लोकेशावाहनं पुनः ॥ [म्प् २७५.२–३, हेम् २१८]
४.२.३ पुण्याहवाचनं कृत्वा तद्वत् कृत्वाधिवासनम् ।
ब्राह्मणैर् आनयेत् कुण्डं तपनीयमयं शुभम् ॥ [म्प् २७५.३–४, हेम् २१९]
४.२.४ द्वासप्तत्यङ्गुलोच्छ्रायं हेमपङ्कजगर्भवत् ।
त्रिभागहीनविस्तारं प्रशस्तमुरजाकृति ॥ [म्प् २७५.४–५, हेम् २१९]
४.२.५ दशान्त्राणि सरत्नानि दात्रं सूचीं तथैव च ।
हेमनालं सपिटकं बहिर् आदित्यसंयुतम् ॥ [म्प् २७५.५–६, हेम् २१९]
तपनीयमयं सुवर्णमयम् । त्रिभागहीनविस्तारम् अष्टाचत्वारिंशदङ्गुल-विस्तारम् । बहिर् आदित्यसंयुतं हेमकुण्डाद् बहिर् आदित्यसंयुतम् । एतत् सर्वं पार्श्वतः स्थापयेद् इत्य् अर्थः ।
४.२.६ तथैवावरणं नाभेर् उपवीतं च काञ्चनम् ।
पार्श्वयोः स्थापयेत् तद्वद् धेमदण्डं कमण्डलुम् ॥ [म्प् २७५.६–७, हेम् २१९]
४.२.७ पद्माकारं पिधानं स्यात् समन्ताद् अङ्गुलाधिकम् ॥ [म्प् २७५.७, हेम् २२०]
४.२.८ मुक्तावलीसमोपेतं पद्मरागदलान्वितम् ।
तिलद्रोणोपरि गतं वेदीमध्ये ततो ऽर्चयेत् ॥ [म्प् २७५.८, हेम् २२०]
द्रोणो धान्यपर्वते वक्ष्यमानः ।
४.२.९ ततो मङ्गलशब्देन ब्रह्मघोषरवेण च ।
सर्वौषध्युदकस्नानस्नापितो वेदपुंगवैः ॥ [म्प् २७५.९, हेम् २२०]
४.२.१० शुक्लमाल्याम्बरधरः सर्वाभरणभूषितः ।
इमम् उच्चारयेन् मन्त्रं गृहीतकुसुमाञ्जलिः ॥ [म्प् २७५.१०, हेम् २२०]
४.२.११ नमो हिरण्यगर्भाय हिरण्यकवचाय च ।
सप्तलोकसुराध्यक्ष जगद्धात्रे नमो नमः ॥ [म्प् २७५.११, हेम् २२०]
४.२.१२ भूर्लोकप्रमुखा लोकास् तव गर्भे व्यवस्थिताः ।
ब्रह्मादयस् तथा देवा नमस् ते विश्वधारिणे ॥ [म्प् २७५.१२, हेम् २२०–२१]
४.२.१३ नमस् ते भुवनाधार नमस् ते भुवनाश्रय ।
नमो हिरण्यगर्भाय गर्भो यस्य पितामहः ॥ [म्प् २७५.१३, हेम् २२१]
४.२.१४ यतस् त्वम् एव भूतात्मा भूते भूते व्यवस्थितः ।
तस्मान् माम् उद्धराशेषदुःखसंसारसागरात् ॥ [म्प् २७५.१४]
४.२.१५ एवम् आमन्त्र्य तन्मध्यम् आविश्यास्त उदङ्मुखः ॥ [म्प् २७५.१५, हेम् २२१]
४.२.१६ मुष्टिभ्यां परिसंगृह्य धर्मराजचतुर्मुखौ ।
जानुमध्ये शिरः कृत्वा तिष्ठेद् उच्छ्वासपञ्चकम् ॥ [म्प् २७५.१५–१६, हेम् २२१]
४.२.१७ गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।
कुर्युर् हिरण्यगर्भस्य ततस् ते द्विजपुंगवाः ॥ [म्प् २७५.१६–१७, हेम् २२१]
४.२.१८ गीतमङ्गलघोषेण गुरुर् उत्थापयेत् ततः ।
जातकर्मादिकाः कुर्युः क्रियाः षोडश चापराः ॥ [म्प् २७५.१७–१८, हेम् २२१]
४.२.१९ सूच्यादिकं च गुरवे दत्त्वा मन्त्रम् इमं जपेत् ॥ [म्प् २७५.१८, हेम् २२१]
४.२.२० नमो हिरण्यगर्भाय विश्वगर्भाय वै नमः ।
चराचरस्य जगतो गृहभूताय वै नमः ॥ [म्प् २७५.१९, हेम् २२१–२२]
४.२.२१ मात्राहं जनितः पूर्वं मर्त्यधर्मा नरोत्तमः ।
त्वद्गर्भसंभवो देव दिव्यदेहो भवाम्य् अहम् ॥ [म्प् २७५.२०, हेम् २२२]
४.२.२२ चतुर्भिः कलशैर् भूयस् ततस् ते द्विजपुंगवाः ।
स्नानं कुर्युः प्रसन्नाङ्गाः सर्वाभरणभूषिताः ॥ [म्प् २७५.२१, हेम् २२२]
इस्नानं कुर्युर् यजमानस्येति शेषः ।
४.२.२३ देवस्य त्वेति मन्त्रेण स्थितस्य कनकासने ॥ [म्प् २७५.२२, हेम् २२२]
४.२.२४ अद्य जातस्य ते ऽङ्गानि अभिषेक्ष्यामहे वयम् ।
दिव्येनानेन वपुषा चिरं जीव सुखी भव ॥ [म्प् २७५.२२–२३, हेम् २२२]
४.२.२५ ततो हिरण्यगर्भं तं तेभ्यो दद्याद् विचक्षणः ।
ते पूज्याः सर्वभावेन बहवो वा तदाज्ञया ॥ [म्प् २७५.२३–२४, हेम् २२२]
४.२.२६ तत्रोपकरणं सर्वं गुरवे विनिवेदयेत् ।
पादुकोपानहच्छत्त्रचामरासनभाजनम् ।
ग्रामं च विषयं वापि यद् अन्यद् अपि तद् भवेत् ॥ [म्प् २७५.२४–२५, हेम् २२२]
विषयो ग्रामसमूहः । अन्यद् रत्नादि ।
४.२.२७ अनेन विधिना यस् तु पुण्ये ऽह्नि विनिवेदयेत् ।
हिरण्यगर्भदानं स ब्रह्मलोके महीयते ॥ [म्प् २७५.२६, हेम् २२५]
४.२.२८ पुरेषु लोकपालानां प्रतिमन्वन्तरं वसेत् ।
कल्पकोटिशतं यावद् ब्रह्मलोके महीयते ॥ [म्प् २७५.२७, हेम् २२५]
४.२.२९ कलिकलुषविमुक्तः पूजितः सिद्धसाध्यैर्
अमरचमरमालावीज्यमानो ऽप्सरोभिः ।
पितृशतम् अथ बन्धून् पुत्रपौत्रप्रपौत्रान्
अपि नरकनिमग्नांस् तारयेद् एक एव ॥ [म्प् २७५.२८, हेम् २२५]
४.२.३० इति पठति य इत्थं यः शृणोतीह सम्यक्
मधुपुररिपुलोके पूज्यते सो ऽपि सिद्धैः ।
मतिम् अपि च जनानां यो ददाति प्रियार्थं
विबुधपतिजनानां नायकः स्याद् अमोघम् ॥ [म्प् २७५.२९, हेम् २२५]
इति हिरण्यगर्भदानम् ॥