अथ महादानानि
तत्र मत्स्यपुराणे
४.१.१ अथातः संप्रवक्ष्यामि महादानानुकीर्तनम् ।
दानधर्मे ऽपि यन् नोक्तं विष्णुना प्रभविष्णुना ॥ [म्प् २७४.३, हेम् १६६]
४.१.२ सर्वपापक्षयकरं नृणां दुःस्वप्ननाशनम् ।
यत् तत् षोडशधा प्रोक्तं वासुदेवेन भूतले ॥ [म्प् २७४.४–५, हेम् १६६]
४.१.३ पुण्यं पवित्रम् आयुष्यं सर्वपापहरं शुभं ।
पूजितं देवताभिश् च ब्रह्मविष्णुशिवादिभिः ॥ [म्प् २७४.५–६, हेम् १६६]
४.१.४ आद्यं तु सर्वदानानां तुलापुरुषसंज्ञकम् ।
हिरण्यगर्भदानं च ब्रह्माण्डं तदनन्तरम् ॥ [म्प् २७४.६–७, हेम् १६६–६७]
४.१.५ कल्पपादपदानं च गोसहस्रं तु पञ्चमम् ।
हिरण्यकामधेनुश् च हिरण्याश्वस् तथैव च ।
हिरण्याश्वरथस् तद्वद् धेमहस्तिरथस् तथा ॥ [म्प् २७४.७–८, हेम् १६७]
४.१.६ पञ्चलाङ्गलकं तद्वद् धरादानं तथैव च ।
द्वादशं विश्वचक्रं च ततः कल्पलतात्मकम् ॥ [म्प् २७४.९, हेम् १६७]
४.१.७ सप्तसागरदानं च रत्नधेनुस् तथैव च ।
महाभूतघटस् तद्वत् षोडशः परिकीर्तितः ॥ [म्प् २७४.१०, हेम् १६७]
४.१.८ सर्वाण्य् एतानि कृतवान् पुरा शम्बरसूदनः ।
वासुदेवश् च भगवान् अम्बरीषश् च पार्थिवः ॥ [म्प् २७४.११, हेम् १६७]
४.१.९ कार्तवीर्यार्जुनो नाम प्रह्रादः पृथुर् एव च ।
कुर्युर् अन्ये महीपालाः केचिच् च भरतादयः ॥ [म्प् २७४.१२, हेम् १६७]
तथा
४.१.१०ब्यस्माद् विघ्नसहस्रेण महादानानि सर्वदा ।
रक्षन्ति देवताः सर्वा एकैकम् अपि भूतले ॥ [म्प् २७४.१३, हेम् १६७]
४.१.११ एषाम् अन्यतमं कुर्याद् वासुदेवप्रसादतः ।
न शक्यम् अन्यथा कर्तुम् अपि शक्रेण भूतले ॥ [म्प् २७४.१४, हेम् १६७]
४.१.१२ तस्माद् आराध्य गोविन्दम् उमापतिविनायकौ ।
महादानमखं कुर्याद् विप्रैश् चैवानुमोदितः ॥ [म्प् २७४.१५, हेम् १६७]
तथा
४.१.१३ अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।
युगादिषूपरागेषु तथा मन्वन्तरादिषु ॥ [म्प् २७४.१९–२०, हेम् १६८]
४.१.१४ संक्रान्तौ वैधृतिदिने चतुर्दश्यष्टमीषु च ।
सितपञ्चदशीपर्वद्वादशीष्व् अष्टकासु च ॥ [म्प् २७४.२०–२१, हेम् १६८]
४.१.१५ यज्ञोत्सवविवाहेषु दुःस्वप्नाद्भुतदर्शने ।
द्रव्यब्राह्मणलाभे च श्रद्धा वा यत्र जायते ॥ [म्प् २७४.२१–२२, हेम् १६८]
४.१.१६ तीर्थे चायतने गोष्ठे कूपारामसरित्सु वा ।
गृहे वाथ वने वापि तडागे रुचिरे तथा ।
महादानानि देयानि संसारभयभीरुणा ॥ [म्प् २७४.२२–२३, हेम् १६८]
४.१.१७ अनित्यं जीवितं यस्माद् वसु चातीव चञ्चलम् ।
केशेष्व् इव गृहीतस् तु मृत्युना धर्मम् आचरेत् ॥ [म्प् २७४.२४, हेम् १६८]
[४.१ अथ तुलापुरुषदानम्]
४.१.१८ पुण्यां तिथिम् अथासाद्य कृत्वा ब्राह्मणवाचनम् ।
षोडशारत्निमात्रं तु दश द्वादश वा करान् ।
मण्डपं कारयेद् विद्वांश् चतुर्भद्राननं बुधः ॥ [म्प् २७४.२५–२६, हेम् १६८–६९]
कृत्वा ब्राह्मणवाचनं ब्राह्मणान् पुण्याहस्वस्तिऋद्धिशब्दान् ॐकारपूर्वकान् त्रिर् वाचयित्वा । क्षत्रियादिस् तु यजमानो निरोङ्कारान् स्वस्त्यादिशब्दान् वाचयेत् ।
४.१.१९ पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते ।
एतद् एव निर्ॐकारं ब्रूयात् क्षत्रियवैश्ययोः ॥ [हेम् १४६]
इति यमवचनात् । इकरश् चात्र कफोण्युपक्रमो मध्याङ्गुल्यग्रपर्यन्तः मध्याङ्गुलीकूर्परयोर् मध्यप्रामाणिकः कर इत्य् अभियुक्तस्मरणात् । चतुर्-भद्राननं चत्वारि भद्राणि शोभनानि आननानि द्वाराणि यस्य स तथा ।
४.१.२० सप्तहस्ता भवेद् वेदी मध्ये पञ्चकराथ वा ।
तन्मध्ये तोरणं कुर्यात् सारदारुमयं शुभम् ॥ [म्प् २७४.२६–२७, हेम् १६९]
४.१.२१ कुर्यात् कुण्डानि चत्वारि चतुर्दिक्षु विचक्षणः ॥ [म्प् २७४.२७, हेम् १६९]
४.१.२२ सुमेखलायोनियुतानि तानि संपूर्णकुम्भानि सहासनानि ।
सुताम्रपात्रद्वयसंयुतानि सयज्ञपात्राणि सविष्टराणि ॥ [म्प् २७४.२८, हेम् १७०]
४.१.२३ हस्तप्रमाणानि तिलाज्यधूपपुष्पोपहाराणि सुशोभनानि ।
पूर्वोत्तरे हस्तमिताथ वेदी ग्रहादिदेवेश्वरपूजनाय ॥ [म्प् २७४.२९, हेम् १७०]
इग्रहादीत्य् अत्रादिशब्दोपात्ताश् च एते अधिदेवता ईश्वरादयः प्रत्यधिदेवता अग्न्यादयो विनायकदुर्गावाय्वाकाशा अश्विनौ च मत्स्यपुराण एव ग्रहयज्ञोक्ता बोद्धव्याः ।
४.१.२४ अर्चार्चनं ब्रह्मशिवाच्युतानां तत्रैव कार्यं फलमाल्यवस्त्रैः ।
[म्प् २७४.३०, हेम् १७०]
अर्चार्चनं प्रतिमापूजनम् । तत्रैव ग्रहवेद्याम् ।
४.१.२५ लोकेशवर्णाः परितः पताका मध्ये ध्वजः किङ्किणिकायुतः स्यात् ॥
[म्प् २७४.३०, हेम् १७२]
लोकेशवर्णा लोकपालसमानवर्णाः पीतकृष्णरक्तनीलाञ्जननिभशितकृष्णहरितसर्व-वर्णाः । पताकाः पूर्वादिदिक्षु ऐशान्यन्तासु यथासंख्यं कार्या इत्य् अर्थः । किङ्किणिका क्षुद्रघण्टिका ।
४.१.२६ द्वारेषु कार्याणि च तोरणानि चत्वार्य् अपि क्षीरवनस्पतीनाम् । [म्प् २७४.३१, हेम् १७२]
क्षीरवनस्पतीनाम् अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां पूर्वपश्चिमदक्षिणोत्तर-द्वारेषु यथाक्रमं तोरणानि कुर्यात् ।
४.१.२७ द्वारेषु कुम्भद्वयम् अत्र कार्यं सुगन्धधूपाम्बररत्नयुक्तम् ॥
[म्प् २७४.३१, हेम् १७२]
४.१.२८ शालेङ्गुदीचन्दनदेवदारुश्रीपर्णिबिल्वप्रियकाञ्जनानाम् ।
स्तम्भद्वयं हस्तयुगावखातं कृत्वा ऋजुं पञ्चकरोच्छ्रितं च ।
तदन्तरं हस्तचतुष्टयं स्याद् यथोत्तरङ्गं च तदङ्गम् एव ॥
[म्प् २७४.३२–३३, हेम् १७३]
श्रीपर्णिः गम्भारी । प्रियको बीजपूरकः । उत्तरङ्गं स्तम्भद्वयोपरि काष्ठम् । तदङ्गं स्तम्भसजातीयकाष्ठमयम् ।
४.१.२९ समानजातिश् च तुलावलम्ब्या हैमेन मध्ये पुरुषेण युक्ता ।
दैर्घ्येण सा हस्तचतुष्टयं स्यात् पृथुत्वम् अस्यास् तु दशाङ्गुलानि ॥
[म्प् २७४.३३–३४, हेम् १७३]
पुरुषेण विष्णुना तत्प्रतिमयेत्य् अर्थः । दशाङ्गुलानीत्य् अत्राङ्गुलमानं छन्दोग-परिशिष्टोक्तम्—
४.१.३० अङ्गुष्ठाङ्गुलिमानं तु यत्र यत्रोपदिश्यते ।
तत्र तत्र बृहत्पर्वग्रन्थिभिर् मिनुयात् सदेति ॥ [हेम् १२२]
४.१.३१ सुवर्णपट्टाभरणा च कार्या सलोहपाशद्वयशृङ्खलाभिः ।
युता सुवर्णेन च रत्नमाला विभूषिता माल्यविलेपनाभ्याम् ॥ [म्प् २७४.३४–३५, हेम् १७३]
सलोहपाशद्वयशृङ्खलाभिर् युतेति सुवर्णधारणार्थं पुरुषधारणार्थं च फलकधारिणीभिर् लोहपाशद्वयावलम्बितशृङ्खलाभिर् युक्ता कार्येत्य् अर्थः ।
४.१.३२ चक्रं लिखेद् वारिजगर्भयुक्तं नानारजोभिर् भुवि पुष्पकीर्णम् ।
वितानकं चोपरि पञ्चवर्णं संस्थापयेत् पुष्पफलोपशोभम् ॥
[म्प् २७४.३५–३६, हेम् १७७]
४.१.३३ अथर्त्विजो वेदविदश् च कार्याः स्वरूपवेषान्वयशीलयुक्ताः ।
विधानदक्षाः पटवो ऽनुकूला ये चार्यदेशप्रभवा द्विजेन्द्राः ॥
[म्प् २७४.३६–३७, हेम् १७७]
४.१.३४ गुरुश् च वेदान्तविद् आर्यदेशसमुद्भवः शीलकुलाभिरूपः ।
कार्यः पुराणाभिरतो ऽतिदक्षः प्रसन्नगम्भीरसरस्वतीकः ॥
[म्प् २७४.३७–३८, हेम् १७७–७८]
४.१.३५ सिताम्बरः कुण्डलहेमसूत्रः केयूरकण्ठाभरणाभिरामः ॥
[म्प् २७४.३८, हेम् १७८]
४.१.३६ पूर्वेण ऋग्वेदविदौ भवेतां यजुर्विदौ दक्षिणतश् च कार्यौ ।
स्थाप्यौ द्विजौ सामविदौ च पश्चाद् आथर्वणाव् उत्तरतश् च कार्यौ ॥
[म्प् २७४.३९, हेम् १७८–७९]
४.१.३७ विनायकादिग्रहलोकपालवस्वष्टकादित्यमरुद्गणानाम् ।
ब्रह्माच्युतेशार्कवनस्पतीनां स्वमन्त्रतो होमचतुष्टयं स्यात् ॥
[म्प् २७४.४०, हेम् १७९]
४.१.३८ जप्यानि सूक्तानि तथैव चैषाम् अनुक्रमेणैव यथास्वरूपम् ॥
[म्प् २७४.४१, हेम् १७९]
वस्वष्टकेति वस्वष्टकशब्देनैव वसूनां मिलितानां देवतात्वम् । स्वमन्त्रतः स्वस्ववेदमन्त्रैः । होमचतुष्टयम् इति वेदचतुष्टयसंबन्धाद् धोमानां चतुष्ट्वम् । जप्यानि ऋत्विग्भिर् इति शेषः । एषां होमदेवानाम् ।
३९होमावसाने कृततूर्यनादो गुरुर् गृहीत्वा बलिपुष्पधूपम् ।
आवाहयेल् लोकपतीन् क्रमेण मन्त्रैर् अमीभिर् यजमानयुक्तः ॥
[म्प् २७४.४१, हेम् १७९]
४.१.४० एह्य् एहि सर्वामरसिद्धसाध्यैर् अभिष्टुतो वज्रधरामरेश ।
संवीज्यमानो ऽप्सरसां गणेन रक्षाध्वरं नो भगवन् नमस् ते ॥
ॐ इन्द्राय नमः [म्प् २७४.४२, हेम् १७९]
४.१.४१ एह्य् एहि सर्वामरहव्यवाह मुनिप्रवीरैर् अभितो ऽभिजुष्ट ।
तेजोवता लोकगणेन सार्धं ममाध्वरं रक्ष कवे नमस् ते ॥
ॐ अग्नये नमः [म्प् २७४.४३, हेम् १७९–८०]
४.१.४२ एह्य् एहि वैवस्वत धर्मराज सर्वामरैर् अर्चित धर्ममूर्ते ।
शुभाशुभानन्दशुचाम् अधीश शिवाय नः पाहि मखं नमस् ते ॥
ॐ यमाय नमः [म्प् २७४.४४, हेम् १८०]
४.१.४३ एह्य् एहि रक्षोगणनायक त्वं विशालवेतालपिशाचसङ्घैः ।
ममाध्वरं पाहि शुभाधिनाथ लोकेश्वर त्वं भगवन् नमस् ते ॥
ॐ निरृतये नमः [म्प् २७४.४५, हेम् १८०]
४.१.४४ एह्य् एहि यादोगणवारिधीनां गणेन पर्जन्य सहाप्सरोभिः ।
विद्याधरेन्द्रामरगीयमान पाहि त्वम् अस्मान् भगवन् नमस् ते ॥
ॐ वरुणाय नमः [म्प् २७४.४६, हेम् १८०]
४.१.४५ एह्य् एहि यज्ञे मम रक्षणाय मृगाधिरूढः सह सिद्धसङ्घैः ।
प्राणाधिपः कालकवेः सहाय गृहाण पूजां भगवन् नमस् ते ॥
ॐ वायवे नमः [म्प् २७४.४७, हेम् १८०]
४.१.४६ एह्य् एहि यज्ञेश्वर यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्धम् ।
सर्वौषधीभिः पितृभिः सहैव गृहाण पूजां भगवन् नमस् ते ॥
ॐ सोमाय नमः [म्प् २७४.४८, हेम् १८०]
४.१.४७ एह्य् एहि विश्वेश्वर नस् त्रिशूलकपालखट्वाङ्गधरेण सार्धम् ।
लोकेन भूतेश्वर यज्ञसिद्ध्यै गृहाण पूजां भगवन् नमस् ते ॥
ॐ ईशानाय नमः [म्प् २७४.४९, हेम् १८०]
४.१.४८ एह्य् एहि पातालधरामरेन्द्र नागाङ्गनाकिंनरगीयमान ।
यक्षोरगेन्द्रामरलोकसार्धम् अनन्त रक्षाध्वरम् अस्मदीयम् ॥
ॐ अनन्ताय नमः [म्प् २७४.५०, हेम् १८०]
४.१.४९ एह्य् एहि विश्वाधिपते मुनीन्द्र लोकेन सार्धं पितृदेवताभिः ।
सर्वस्य धातास्य् अमितप्रभावो विशाध्वरं नः सततं शिवाय ॥
ॐ ब्रह्मणे नमः [म्प् २७४.५१, हेम् १८०–८१]
४.१.५० त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।
ब्रह्मविष्णुशिवैः सार्धं रक्षां कुर्वन्तु तानि मे ॥ [म्प् २७४.५२, हेम् १८१]
४.१.५१ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
ऋषयो मनवो गावो देवमातर एव च ॥ [म्प् २७४.५३, हेम् १८१]
४.१.५२ एते ममाध्वरे रक्षां प्रकुर्वन्तु मुदान्विताः ।
इत्य् आवाह्य सुरान् दद्याद् ऋत्विग्भ्यो हेमभूषणम् ॥ [म्प् २७४.५४, हेम् १८१]
४.१.५३ कुण्डलानि च सूत्राणि हैमानि कटकानि च ।
तथाङ्गुलीपवित्राणि वासांसि शयनानि च ॥ [म्प् २७४.५५, हेम् १८१]
४.१.५४ द्विगुणं गुरवे दद्याद् भूषणाछादनादिकम् ।
जपेयुः शान्तिकाध्यायं जापकाः सर्वतो दिशम् ॥ [म्प् २७४.५६, हेम् १८१]
शान्तिकाध्यायः शं न इन्द्राग्नी भवताम् इत्य् आदिकः । जापकाश् चाष्टौ कर्तव्याः । मत्स्यपुराण एव तडागाद्युत्सर्गे ऽष्टौ तु जापकाः कार्या वेदवेदाङ्गपारगा इति वचनात् ।
४.१.५५ तत्रोषितास् तु ते सर्वे कृत्वैवम् अधिवासनम् ।
आदाव् अन्ते च मध्ये च कुर्याद् ब्राह्मणवाचनम् ॥ [म्प् २७४.५७, हेम् १८१]
४.१.५६ ततो मङ्गलशब्देन स्नापितो वेदपुंगवैः ।
त्रिः प्रदक्षिणम् आवृत्य गृहीतकुसुमाञ्जलिः ।
शुक्लमाल्याम्बरो भूत्वा तां तुलाम् अनुमन्त्रयेत् ॥ [म्प् २७४.५८–५९, हेम् १८२]
४.१.५७ नमस् ते सर्वदेवानां शक्तिस् त्वं सत्यम् आश्रिता ।
साक्षीभूता जगद्धात्री निर्मिता विश्वयोनिना ॥ [म्प् २७४.५९–६०, हेम् १८२]
४.१.५८ एकतः सर्वसत्यानि तथानृतशतानि च ।
धर्माधर्मकृतां मध्ये स्थापितासि जगद्धिते ॥ [म्प् २७४.६०–६१, हेम् १८२]
४.१.५९ त्वं तुले सर्वभूतानां प्रमाणम् इह कीर्तिता ।
मां तोलयन्ती संसाराद् उद्धरस्व नमो ऽस्तु ते ॥ [म्प् २७४.६१–६२, हेम् १८२]
४.१.६० यो ऽसौ तत्त्वाधिपो देवः पुरुषः पञ्चविंशकः ।
स एषो ऽधिष्ठितो देवि त्वयि तस्मान् नमो नमः ॥ [म्प् २७४.६२–६३, हेम् १८२]
४.१.६१ नमो नमस् ते गोविन्द तुलापुरुषसंज्ञक ।
त्वं हरे तारयस्वास्मान् अस्मात् संसारसागरात् ॥ [म्प् २७४.६३–६४, हेम् १८२–८३]
४.१.६२ पुण्यं कालं समासाद्य कृत्वैवम् अधिवासनम् ।
पुनः प्रदक्षिणं कृत्वा तुलां ताम् आरुहेद् बुधः ।
सखड्गचर्मकवचः सर्वाभरणभूषितः ॥ [म्प् २७४.६४–६५, हेम् १८३]
४.१.६३ धर्मराजम् अथादाय हैमं सूर्येण संयुतम् । [म्प् २७४.६६, हेम् १८३]
सूर्येण हैमेनैव ।
४.१.६४ कराभ्यां बद्धमुष्टिभ्याम् आस्ते पश्यन् हरेर् मुखम् ॥ । [म्प् २७४.६६, हेम् १८३]
४.१.६५ ततो ऽपरे तुलाभागे न्यसेयुर् द्विजपुंगवाः ।
समाद् अभ्यधिकं यावत् काञ्चनं चातिनिर्मलम् ॥ । [म्प् २७४.६७, हेम् १८३]
४.१.६६ पुष्टिकामस् तु कुर्वीत भूमिसंस्थं नरेश्वरः ।
क्षणमात्रं ततः स्थित्वा पुनर् एवम् उदीरयेत् ॥ । [म्प् २७४.६८, हेम् १८३–८४]
४.१.६७ नमस् ते सर्वभूतानां साक्षिभूते सनातनि ।
पितामहेन देवि त्वं निर्मिता परमेष्ठिना ॥ । [म्प् २७४.६९, हेम् १८४]
४.१.६८ त्वया धृतं जगत् सर्वं बहिः स्थावरजङ्गमम् ।
सर्वभूतात्मभूतस्थे नमस् ते विश्वधारिणि ॥ । [म्प् २७४.७०, हेम् १८४]
४.१.६९ ततो ऽवतीर्य गुरवे पूर्वम् अर्धं निवेदयेत् ।
ऋत्विग्भ्यो ऽपरम् अर्धं तु दद्याद् उदकपूर्वकम् ।
गुरवे ग्रामरत्नानि ऋत्विग्भ्यश् च निवेदयेत् ॥ । [म्प् २७४.७१–७२, हेम् १८५]
४.१.७० प्राप्य तेषाम् अनुज्ञानं तथान्येभ्यो ऽपि दापयेत् ।
दीनानाथविशिष्टादीन् पूजयेद् ब्राह्मणैः सह ॥ । [म्प् २७४.७२–७३, हेम् १८६]
अर्धं गुरवे अर्धम् ऋत्विग्भ्यो देयम् इति समस्ततुलापुरुषद्रव्यदानम् इत्य् एकः पक्षः । तेभ्यो ग्रामरत्नानि दत्त्वा तदनुज्ञयान्येभ्यो ऽपि दद्याद् इत्य् अपरः पक्षः । दीनानाथविशिष्टेभ्यो ऽपि देयम् इत्य् अपरः पक्षः । विशिष्टा अब्राह्मणा अपि पितृशुश्रूषादिगुणयुक्ताः ।
४.१.७१ न चिरं धारयेद् गेहे सुवर्णं प्रोक्षितं बुधः ।
तिष्ठद् भयावहं यस्माच् छोकव्याधिकरं नृणाम् ॥ [म्प् २७४.७३–७४, हेम् १८७]
४.१.७२ शीघ्रं परस्वीकरणाच् छ्रेयः प्राप्नोति पुष्कलम् ॥ [म्प् २७४.७४, हेम् १८७]
४.१.७३ अनेन विधिना यस् तु तुलापुरुषम् आचरेत् ।
प्रतिलोकाधिपस्थाने प्रतिमन्वन्तरं वसेत् ॥ [म्प् २७४.७५, हेम् १८७]
४.१.७४ विमानेनार्कवर्णेन किङ्किणीजालमालिना ।
पूज्यमानो ऽप्सरोभिश् च ततो विष्णुपुरं व्रजेत् ॥ [म्प् २७४.७६, हेम् १८७]
४.१.७५ कल्पकोटिशतं यावत् तस्मिंल् लोके महीयते ॥ [म्प् २७४.७६, हेम् १८७]
४.१.७६ कर्मक्षयाद् इह पुनर् भुवि राजराजो
भूपालमौलिमणिरञ्जितपादपीठः ।
श्रद्धान्वितो भवति यज्ञसहस्रयाजी
दीप्तप्रतापजितसर्वमहीपलोकः ॥ [म्प् २७४.७७, हेम् १८७]
४.१.७७ यो दीयमानम् अपि पश्यति भक्तियुक्तः
कालान्तरे स्मरति वाचयतीह लोके ।
यो वा शृणोति पठतीन्द्रसमानरूपः
प्राप्नोति धाम स पुरंदरदेवजुष्टम् ॥ [म्प् २७४.७८]
इति तुलापुरुषदानविधानम् ।