०३ पात्रापात्रलक्षणम्

अथ पात्रापात्रलक्षणम्

तत्र यमः

३.१ शीलं संवसता ज्ञेयं शौचं संव्यवहारतः ।
प्रज्ञा संकथनात् ज्ञेया त्रिभिः पात्रं परीक्ष्यते ॥ [हेम् २४]

संकथनं सुहृद्भावेन विद्याकथा ।

याज्ञवल्क्यः

३.२ तपस् तप्त्वासृजद् ब्रह्मा ब्राह्मणान् वेदगुप्तये ।
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ [य्ध् १.१९८, हेम् २२]

३.३ सर्वस्य प्रभवो विप्राः श्रुताध्ययनशालिनः ।
तेभ्यः क्रियापराः श्रेष्ठास् तेभ्यो ऽप्य् अध्यात्मवित्तमाः ॥ [य्ध् १.१९९, हेम् २४]

३.४ न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तम् इमे चोभे तद् धि पात्रं प्रकीर्तितम् ॥ [य्ध् १.२००, हेम् २६]

वसिष्ठः

३.५ स्वाध्यायाढ्यं योनिमन्तं प्रशान्तं वैतानस्थं पापभीरुं बहुज्ञम् ।
स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं व्रतैः क्लान्तं तादृशं पात्रम् आहुः ॥ [वध् ६.३०, हेम् २५]

योनिमान् प्रशस्तकुलोद्भवः । वैतानस्थो ऽग्निहोत्रादिकर्मपरः । स्त्रीषु क्षान्तं स्त्रीविषये संयतम् । गोशरण्यः गोशुश्रूषारतः ।

तथा

३.६ ये क्षान्तदान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः ।
प्रतिग्रहे संकुचिता गृहस्थास् ते ब्राह्मणास् तारयितुं समर्थाः ॥

[वध् ६.२५, हेम् २३]

यमः

३.७ विद्यायुक्तो धर्मशीलः प्रशान्तः क्षान्तो दान्तः सत्यवादी कृतज्ञः ।
वृत्तिग्लानो गोहितो गोशरण्यो दाता यज्वा ब्राह्मणः पात्रम् आहुः ॥ [हेम् २५]

३.८ स्वाध्यायवान् नियमवांस् तपस्वी ध्यानविच् च यः ।
क्षान्तो दान्तः सत्यवादी विप्रः पात्रम् इहोच्यते ॥ [हेम् २५]

३.९ विद्यावन्तश् च ये विप्राः सुव्रताश् च तपस्विनः ।
सत्यसंयमसंयुक्ताः ध्यानयुक्ता जितेन्द्रियाः ॥ [हेम् २४]

३.१० पुनन्ति दर्शनं प्राप्ताः किं पुनः संगतिं गताः ।
तेषां दत्त्वा च भुक्त्वा च प्राप्नुयुः परमां गतिम् ॥ [हेम् २४]

३.११ दत्त्वा द्विजाय शुद्धाय दाता याति शुभां गतिम् ।
विद्यातपःशीलवांश् च संतारयति नेतरः ॥ [हेम् २४]

३.१२ वेदेन्धनसमृद्धेषु हुतं विप्रमुखाग्निषु ।
संतारयति दातारं महतः किल्बिषाद् अपि ॥ [हेम् ३१]

महाभारते

३.१३ साङ्गांस् तु चतुरो वेदान् यो ऽधीते वै द्विजर्षभः ।
षड्भ्यो ऽनिवृत्तः कर्मभ्यस् तं पात्रम् ऋषयो विदुः ॥ [म्भ् १३.२३.३६, हेम् २५]

षड्भ्यो ऽनिवृट्तः अध्ययनादिषट्कर्मनिरतः ।

वसिष्ठः

३.१४ किंचिद् वेदमयं पात्रं किंचित् पात्रं तपोमयम् ।
पात्राणाम् अपि तत् पात्रं शूद्रान्नं यस्य नोदरे ॥ [वध् ६.२६, हेम् २५]

संवर्त्तः

३.१५ श्रोत्रियाय दरिद्राय अर्थिने च विशेषतः ।
यद् दानं दीयते तस्मै तद् दानं शुभकारकम् ॥ [हेम् २४]

व्यासः

३.१६ किंचिद् वेदमयं पात्रं किंचित् पात्रं तपोमयम् ।
असंकीर्णं च यत् पात्रं तत् पात्रं तारयिष्यति ॥ [हेम् २५]

असंकीर्णं योन्यादिसंकररहितम् ।

शातातपो दानव्यासश् च प्रथमे

३.१७ वेदपूर्णमुखं विप्रं सुभुक्तम् अपि भोजयेत् ।
न तु मूर्खं निराहारं षड्रात्रम् उपवासिनम् ॥ [हेम् ३१]

३.१८ दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणाश् च विशेषतः ।
अयातयामान्य् एतानि नियोज्यानि पुनः पुनः ॥

दानव्यासः

३.१९ यत् सिक्थं वेदविद् भुङ्क्ते षट्कर्मनिरतः शुचिः ।
दातुः फलम् असंख्येयं जन्म जन्म तद् अक्षयम् ॥ [हेम् ३१]

शातातपव्यासौ

३.२० वेदविद्याव्रतस्नाते श्रोत्रिये गृहम् आगते ।
क्रीडन्त्य् ओषधयः सर्वा यास्यामः परमां गतिम् ॥ [हेम् ३१]

ओषधयो ऽत्रान्नानि ।

यमः

३.२१ अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ।
स्वदारनिरतो दाता स वै ब्राह्मण उच्यते ॥ [हेम् २३]

३.२२ श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।
असंभिन्नार्यमर्यादः स वै ब्राह्मण उच्यते ॥ [हेम् २३]

३.२३ ॐकारपूर्विकास् तिस्रः सावित्रीं यश् च विन्दति ।
चरितब्रह्मचर्यश् च स वै श्रोत्रिय उच्यते ॥ [हेम् २४]

३.२४ आशिषो ऽर्थार्थं पूजां च प्रसङ्गं न करोति यः ।
निवृत्तो लोभमोहाभ्यां तं देवा ब्राह्मणं विदुः ॥ [हेम् २३]

३.२५ सत्यं दानं क्षमा शीलम् आनृशंस्यं दया घृणा ।
दृश्यन्ते यत्र लोके ऽस्मिंस् तं देवा ब्राह्मणं विदुः ॥ [हेम् २३]

तिस्रो महाव्याहृतीर् इति शेषः । आशिषः आशीर्वादान् । अर्थार्थं धनलाभाय । पूजां फलपुष्पादिदानेन । प्रसङ्गः अत्यासक्तिः ।

देवलः

३.२६ मात्रश् च ब्राह्मणश् चैव श्रोत्रियश् च ततः परम् ।
अनूचानस् तथा भ्रूण ऋषिकल्प ऋषिर् मुनिः ॥ [हेम् २६]

३.२७ इत्य् एते ऽष्टौ समुद्दिष्टा ब्राह्मणाः प्रथमं श्रुतौ ।
तेषां परः परः श्रेष्ठो विद्यावृत्तविशेषतः ॥ [हेम् २६]

३.२८ ब्राह्मणानां कुले जातो जातिमात्रो यदा भवेत् ।
अनुपेतः क्रियाहीनो मात्र इत्य् अभिधीयते ॥ [हेम् २६]

३.२९ एकदेशम् अतिक्रम्य वेदस्याचारवान् ऋजुः ।
स ब्राह्मण इति प्रोक्तो निभृतः सत्यवाग् घृणी ॥ [हेम् २६]

३.३० एकां शाखां सकल्पां वा षड्भिर् अङ्गैर् अधीत्य यः ।
षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् ॥ [हेम् २६]

३.३१ वेदवेदाङ्गतत्त्वज्ञः शुद्धात्मा पापवर्जितः ।
शेषं श्रोत्रियवत् प्राप्तः सो ऽनूचान इति स्मृतः ॥ [हेम् २६]

३.३२ अनूचानगुणोपेतो यज्ञस्वाध्याययन्त्रितः ।
भ्रूण इत्य् उच्यते शिष्टैः शेषभोजी जितेन्द्रियः ॥ [हेम् २६]

३.३३ वैदिकं लौकिकं चैव सर्वं ज्ञानम् अवाप्य यः ।
आश्रमस्थो वशी नित्यम् ऋषिकल्प इति स्मृतः ॥ [हेम् २६]

३.३४ ऊर्ध्वरेतास् तपस्य् उग्रो नियताशी न संशयी ।
शापानुग्रहयोः शक्तः सत्यसंधो भवेद् ऋषिः ॥ [हेम् २६–२७]

३.३५ निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः ।
ध्यानस्थो निष्क्रियो दान्तस् तुल्यमृत्काञ्चनो मुनिः ॥ [हेम् २७]

३.३६ एवम् अन्वयविद्याभ्यां वृत्तेन च समुच्छ्रिताः ।
त्रिशुक्ला नाम विप्रेन्द्राः पूज्यन्ते सवनादिषु ॥ [हेम् २७]

३.३७ प्रतिग्रहसमर्थो ऽपि कृत्वा विप्रो यथाविधि ।
निस्तारयति दातारम् आत्मानं च स्वतेजसा ॥ [हेम् २७]

३.३८ न लोके ब्राह्मणेभ्यो ऽन्यत् पवित्रं पुण्यम् एव च ।
अशक्यं च द्विजेन्द्राणां नास्ति वृत्तवताम् इति ॥ [हेम् २७]

३.३९ योक्तव्यो हव्यकव्येषु त्रिशुक्लो ब्राह्मणो द्विजैः ।
अभिभूतश् च पूर्वोक्तैर् दोषैः स्पृष्टश् च नेष्यते ॥ [हेम् २७]

एकदेशातिक्रमो वेदस्य किंचिन्न्यूनस्याध्ययनम् । निभृतः शान्तः । लौकिकम् अर्थार्जनादिज्ञानम् । निवृत्तः निषिद्धकाम्यकर्मभ्यः । निष्क्रियः अर्थार्जनादि-क्रियारहितः । सवनादिषु यज्ञादिषु । अभिभूतो ऽपकृष्टः । पूर्वोक्तैः कुलविद्या-चारैः । दोषैर् उपपातकादिभिः ।

वसिष्ठः

३.४० यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् ।
न सुवृत्तं न दुर्वृत्तं वेद कश्चित् स ब्राह्मणः ॥ [वध् ६.४४, हेम् २३]

सन् विशिष्टाभिजनः । असन् तद्विपरीतः । अत्र चात्मोत्कर्षप्रकाशं यो न करोति स पात्रम् इति तात्पर्यम् ।

यमशातातपौ

३.४१ तपो धर्मो दया दानं सत्यं ज्ञानं श्रुतिर् घृणा ।
विद्या विनयम् अस्तेयम् एतद् ब्राह्मणलक्षणम् ॥ [हेम् २३]

वसिष्ठः

३.४२ योगस् तपो दया दानं सत्यं शौचं श्रुतं घृणा ।
विद्या विज्ञानम् आस्तिक्यम् एतद् ब्राह्मणलक्षणम् ॥ [वध् ६.२३]

पैठीनसिः

३.४३ क्षमा दमो दया दानं धर्मः सत्यं श्रुतं घृणा ।
विद्या विज्ञानम् आस्तिक्यम् एतद् ब्राह्मणलक्षणम् ॥

केचित् तु ब्रुवते

३.४४ विद्या तपो योनिश् चैवम् एतद् ब्राह्मणलक्षणम् ।
विद्यातपोभ्यां यो हीनो जातिब्राह्मण एव सः ॥ [हेम् २३]

३.४५ केचित् विद्वान् अविद्वांश् च ब्राह्मणो मेध्य इति । मानवाः परं दैवतम् अग्निवत् ।
इवसिष्ठो यमश् च द्वितीयश्लोके

३.४६ अश्रोत्रिया अननुवाक्या अनग्नयश् च शूद्रसधर्माणो भवन्ति ।
३.४७ मानवं चात्र श्लोकम् उदाहरन्ति । [वध् ३.१–२]
३.४८ नानृग् ब्राह्मणो भवति न वणिङ् न कुशीलवः ।
न शूद्रप्रेषणं कुर्वन् न स्तेनो न चिकित्सकः ॥ [वध् ३.३, हेम् ३५]

३.४९ अव्रता ह्य् अनधीयाना यत्र भैक्ष्यचरा द्विजाः ।
तं ग्रामं दण्डयेद् राजा चौरभक्तप्रदो हि सः ॥ [वध् ३.४, हेम् ३५]

शातातपः

३.५० अब्राह्मणास् तु षट् प्रोक्ता ऋषिः शातातपो ऽब्रवीत् ।
आद्यो राजभृतस् तेषां द्वितीयः क्रयविक्रयी ॥ [हेम् २८]

३.५१ तृतीयो बहुयाज्यः स्याच् चतुर्थो ग्रामयाजकः ।
पञ्चमस् तु भृतस् तेषां ग्रामस्य नगरस्य वा ॥ [हेम् २८]

३.५२ अनागतां तु यः पूर्वां सादित्यां चैव पश्चिमाम् ।
नोपासीत द्विजः संध्यां स षष्ठो ऽब्राह्मणः स्मृतः ॥ [हेम् २८]

बहुयाज्यो बहवो याज्या यस्य । भृतो ग्रामस्य नगरस्य वेत्य् अन्वयः ।

वसिष्ठः

३.५३ उदक्यान्वासते येषां ये च केचिद् अनग्नयः ।
कुलं वाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः ॥ [वध् ५.१०, हेम् ३५]

अन्वासते कर्मकाले समीप एव तिष्ठति ।

मनुः

३.५४ गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् ।
प्रेष्यान् वार्धुषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥ [म्ध् ८.१०२, हेम् ३५]

३.५५ ये व्यपेताः स्वकर्मभ्यः परपिण्डोपजीविनः ।
द्विजत्वम् अभिकाङ्क्षन्ति तांश् च शूद्रवद् आचरेत् ॥ [म्ध् ८.१०२*, हेम् ३५]

अथ मनुः

३.५६ पात्रस्य हि विशेषेण श्रद्दधानतयैव च ।
अल्पं वा बहु वा प्रेत्य दानस्य प्राप्यते फलम् ॥ [म्ध् ७.८६, हेम् २७]

दक्षः

३.५७ समं द्विगुणसाहस्रम् अनन्तं च यथाक्रमम् ।
दाने फलविशेषः स्याद् धिंसायाम् एवम् एव हि ॥ [हेम् २७]

मनुदक्षव्यासाः

३.५८ समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
सहस्रगुणम् आचार्ये अनन्तं वेदपारगे ॥ [म्ध् ७.८५, हेम् २७]

अब्राह्मणो ऽत्र राजभृतादिः षड्विधः शातातपोक्तः ।

यमः

३.५९ समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
प्राधीते शतसाहस्रम् अनन्तं वेदपारगे ॥ [हेम् २९]

प्राधीतः प्रारब्धाध्ययनः ।

बृहस्पतिः

३.६० शूद्रे समगुणं दानं वैश्ये तद् द्विगुणं स्मृतम् ।
क्षत्रिये त्रिगुणं प्राहुः षड्गुणं ब्राह्मणे स्मृतम् ॥ [ब्स्म् १४.१०, हेम् २९]

३.६१ श्रोत्रिये चैव साहस्रम् आचार्ये द्विगुणं ततः ।
आत्मज्ञे शतसाहस्रम् अनन्तं त्व् अग्निहोत्रिणि ॥ [ब्स्म् १४.११–१२, हेम् २९]

यमः

३.६२ शूद्रे समगुणं दानं वैश्ये त्रिगुणम् उच्यते ।
षड्गुणं क्षत्रिये प्राहुर् विप्रे दशगुणं स्मृतम् ॥

दक्षः

३.६३ व्यसनापादृणार्थं च कुटुम्बार्थं च याचते ।
एवम् अन्विष्य दातव्यं सर्वदानेष्व् अयं विधिः ॥ [हेम् ३०]

३.६४ मातापितृविहीनं तु संस्कारोद्वहनादिभिः ।
यः स्थापयति तस्येह पुण्यसंख्या न विद्यते ॥

३.६५ न तच् छ्रेयो ऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते ।
यच् छ्रेयः प्राप्यते पुंसा विप्रेण स्थापितेन वै ॥

व्यसनं राजचौराद्युपद्रवः । आपद् दुर्भिक्षाद्युपद्रवः । आद्यो ऽर्थशब्दो ऽत्र निवृत्तिवचनः ।

मनुः

३.६६ सांतानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् ।
गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः ॥ [म्ध् ११.१, हेम् ३०]

३.६७ नवैतान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् ।
निःस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः ॥ [म्ध् ११.२, हेम् ३०]

३.६८ एतेभ्यो हि द्विजाग्र्येभ्यो देयम् अन्नं सदक्षिणम् ।
इतरेभ्यो बहिर्वेदि कृतान्नं तु विधीयते ॥ [म्ध् ११.३, हेम् ३०]

सांतानिकं संतानप्रयोजनं विवाहार्थम् । अध्वगो ऽत्र क्षीणपाथेयः । सार्व-वेदसः सर्वस्वदक्षिणयज्ञकृत् । उपतापी व्याधिपीडितः । विद्याविशेषत इति अल्प-विद्यायाल्पं बहुविद्याय बह्व् इत्य् अर्थः ।

गौतमः

३.६९ गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोगवैश्व-जितेषु द्रव्यसंविभागो बहिर्वेदि ।
३.७० भिक्षमाणेभ्यः कृतान्नम् इतरेभ्यः । [ग्ध् ५.२१–२२]
निवेशो विवाहः । वैश्वजितः सर्वस्वदक्षिणया कृतविश्वजिद्यागः । बहिर्वेदि-ग्रहणाद् एतेभ्यो बहिर्वेद्य् अपि धनम् अवश्यं देयम् । अन्येभ्यस् त्व् अन्तर्वेद्य् एव धनदाननियमः । बहिर्वेदि तु कृतान्नस्यैव ।

बौधायनः

३.७१ सुब्राह्मणश्रोत्रियवेदपारगेभ्यो गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्य-माणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो यथाशक्ति कार्यो बहिर्-वेदि ।
३.७२ भिक्षमाणेषु कृतान्नम् इतरेषु । [ब्ध् २.५.१९–२०, हेम् ३०]
आपस्तम्बः

३.७३ भिक्षणे निमित्तम् आचार्यो विवाहो यज्ञो मातापित्रोर् बुभूर्षार्हतश् च नियम-विलोपः ।
३.७४ तत्र गुणान् समीक्ष्य यथाशक्ति देयम् ।
३.७५ इन्द्रियप्रीत्यर्थस्य तु भिक्षणम् अनिमित्तं न तद् आद्रियेत । [आप्ध् २.१०.१–३, हेम् ३१]
इबुभूर्षा भरणेच्छा । अर्हतश् च नियमविलोपः अधिकारिण आवश्यककर्मविलोप-प्रसङ्गः ।

विष्णुः

३.७६ पुरोहितस् त्व् आत्मन एव पात्रम् ।
३.७७ स्वसृदुहितृपितृजामातरश् च । [विध् ९३.५–६, हेम् ३३]
पुरोहितस् त्व् आत्मन एव पात्रं यस्य ते पुरोहितादयः तस्यैव ते ऽन्यगुणरहिता अपि पुरोहितादित्वेनैव पात्राणि ।

दानव्यासः

३.७८ मातापितृषु यद् दत्तं भ्रातृषु स्वसुतासु च ।
जायात्मजेषु यद् दत्तं सो ऽनिन्द्यः स्वर्गसंक्रमः ॥ [हेम् ३३]

३.७९ पितुः शतगुणं दानं सहस्रं मातुर् उच्यते ।
अनन्तं दुहितुर् दानं सोदर्ये दत्तम् अक्षयम् ॥ [हेम् ३३]

मातापितृषु यद् दत्तम् इत्य् आदेर् अयम् अर्थः यत् प्रातिस्विकं विद्याधनादि तद् दत्तं विशिष्टफलम् इति ।

दक्षः

३.८० मातापित्रोर् गुरौ मित्रे विनीते चोपकारिणि ।
दीनानाथविशिष्टेभ्यो दत्तं तु सफलं भवेत् ॥ [हेम् ३४]

३.८१ दीनानाथविशिष्टेभ्यो दातव्यं भूतिम् इच्छता ।
अदत्तदाना जायन्ते परभाग्योपजीविनः ॥ [हेम् ३४]

उपकारिणि परोपकारपरे । विनीतः सुशिक्षितः । विशिष्टा गुणातिशयशालिनः ।

संवर्त्तः

३.८२ दानान्य् एतानि देयानि तथान्यानि च सर्वशः ।
दीनान्धकृपणार्थिभ्यः श्रेयःकामेन धीमता ॥ [हेम् ३५]

विष्णुः

३.८३ न दानं यशसे दद्यान् न भयान् नोपकारिणे ।
न नृत्यगीतशीलेभ्यो धर्मार्थम् इति निश्चयः ॥ [विध् ९३.१४, हेम् ३५–३६]

उपकारिणे आत्मोपकारकाय प्रत्युपकारसमीहयेत्य् अर्थः ।

महाभारते

३.८४ तद्भक्तास् तद्धना राजंस् तद्गृहास् तद्व्यपाश्रयाः ।
अर्थिनश् च भवन्त्य् एते तेषु दत्तं महाफलम् ॥ [म्भ् १३.२४.५१, हेम् ३१]

३.८५ कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः ।
स्पृहयन्ति सुभक्तानां तेषु दत्तं महाफलम् ॥ [म्भ् १३.२४.५७, हेम् ३२]

३.८६ हृतस्वा हृतदाराश् च ये विप्रा देशसंप्लवे ।
अर्थार्थम् अभिगच्छन्ति तेभ्यो दत्तं महत् फलम् ॥ [म्भ् १३.२४.५४, हेम् ३२]

३.८७ तपस्विनस् तपोनिष्ठास् तथा भैक्षचराश् च ये ।
अर्थिनः किंचिद् इच्छन्ति तेषां दत्तं महाफलम् ॥ [म्भ् १३.२४.५८, हेम् ३२]

तद्भक्ताः तद् एव दीयमानं भक्तम् अदनीयं येषां ते तथा । एवं तद्धना-दिशब्दा अपि । सुभक्तानां सदन्नानाम् ।

अथ शातातपपराशरौ

३.८८ संनिकृष्टम् अधीयानं ब्राह्मणं यो व्यतिक्रमेत् ।
भोजने चैव दाने च दहत्य् आसप्तमं कुलम् ॥ [हेम् ३२]

वसिष्ठव्यासशातातपपराशराः बौधायनश् च द्वितीये

३.८९ यस्य चैकगृहे मूर्खो दूरे चापि बहुश्रुतः ।
बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥ [वध् ३.९, हेम् ३३]

३.९० ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते ।
ज्वलन्तम् अग्निम् उत्सृज्य न हि भस्मनि हूयते ॥ [ब्ध् १.१०.२७, वध् ३.१०, हेम् ३३]

वसिष्ठः

३.९१ यश् च काष्ठमयो हस्ती यश् च चर्ममयो मृगः ।
यश् च विप्रो ऽनधीयानस् त्रयस् ते नामधारकाः ॥ [वध् ३.११, हेम् ३६]

३.९२ विद्वद्भोज्यान्य् अविद्वांसो येषु राज्येषु भुञ्जते ।
तान्य् अनावृष्टिम् इच्छन्ति महद् वा जायते भयम् ॥ [वध् ३.१२, हेम् ३६]

यमः

३.९३ राजधानी यथा शून्या यथा कूपश् च निर्जलः ।
यथा हुतम् अनग्नौ च तथा दत्तं द्विजे ऽनृचे ॥ [हेम् ३६]

भविष्यपुराणे

३.९४ यस् त्व् आसन्नम् अतिक्रम्य ब्राह्मणं पतिताद् ऋते ।
दूरस्थं भोजयेन् मूढो गुणाढ्यं नरकं व्रजेत् ॥ [भ्प् १८४.४०, हेम् ३२]

३.९५ तस्मान् नातिक्रमेत् प्राज्ञो ब्राह्मणान् प्रातिवेशिकान् ।
संबन्धिनस् तथा सर्वान् दौहित्रं विट्पतिं तथा ॥ [भ्प् १८४.३५, हेम् ३२]

३.९६ भागिनेयं विशेषेण तथा बन्धून् गृहाधिपः ।
नातिक्रामेन् नरस् त्व् एतान् सुमूर्खान् अपि गोपते ॥ [भ्प् १८४.३६, हेम् ३२]

३.९७ अतिक्रम्य महारौद्रं रौरवं नरकं व्रजेत् ॥ [भ्प् १८४.३६, हेम् ३३]
ब्राह्मणो ऽत्राल्पविद्यः । मूर्खातिक्रमे दोषाभावस्य नास्ति मूर्खे व्यतिक्रम इति व्यासादिभिर् अभिधानात् । सुमूर्खान् इति संबन्धिदौहित्रादीनाम् एव विशेषणम् ।

मनुः

३.९८ पात्रभूतो हि यो विप्रः प्रतिगृह्य प्रतिग्रहम् ।
असत्सु विनियुञ्जीत तस्मै देयं न किंचन ॥ [म्ध् ३.९८*।४.२२७*, हेम् ३७]

३.९९ संचयं कुरुते यश् च प्रतिगृह्य समन्ततः ।
धर्मार्थं नोपयुङ्क्ते यो न तं तस्करम् अर्चयेत् ॥ [म्ध् ३.९८*।४.२२७*, हेम् ३७]

असत्सु निषिद्धेषु द्यूतादिषु ।

दक्षः

३.१०० विधिहीने तथापात्रे यो ददाति प्रतिग्रहम् ।
न केवलं हि तद् याति शेषम् अप्य् अत्र नश्यति ॥ [हेम् ३७]

यमः

३.१०१ अव्रतानाम् अमन्त्राणां जातिमात्रोपजीविनाम् ।
नैषां प्रतिग्रहो देयो न शिला तारयेच् छिलाम् ॥ [हेम् ३६]

३.१०२ अपविद्धाग्निहोत्रस्य गुरोर् विप्रियकारिणः ।
द्रविणं नैव दातव्यं सततं पापकर्मणः ॥ [हेम् ३६]

३.१०३ न प्रतिग्रहम् अर्हन्ति वृषलाध्यापका द्विजाः ।
शूद्रस्याध्यापनाद् विप्रः पतत्य् अत्र न संशयः ॥ [हेम् ३६]

अत्र च व्रतमन्त्ररहितानां दाननिषेधो मन्त्रवद्गवादिदानविशेषविषयः ।

३.१०४ मन्त्रपूर्वं च यद् दानम् अपात्राय प्रदीयते ।
दातुर् निकृत्य हस्तं तद् भोक्तुर् जिह्वां निकृन्तति ॥ [हेम् २९]

इति शातातपवचनात् ।

३.१०५ उपरुन्धन्ति दातारं गौर् अश्वः काञ्चनं क्षितिः ।
अश्रोत्रियस्य विप्रस्य हस्तं दृष्ट्वा निराकृतेः ॥ [वध् २८.१७, हेम् २९]

इति वसिष्ठवचनाच् च । न पुनर् दानमात्रविषयः । अब्राह्मणब्राह्मण-ब्रुवादीनां दानमात्रस्य समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुव इत्य् आदिवाक्यैर् दर्शितत्वात् ।

व्यासः शातातपश् च प्रथमे

३.१०६ नष्टशौचे व्रतभ्रष्टे विप्रे वेदविवर्जिते ।
रोदित्य् अन्नं दीयमानं किं मया दुष्कृतं कृतम् ॥ [हेम् ३६]

३.१०७ शौचहीनास् तु ये विप्रा न च यज्ञोपवीतिनः ।
हुतं दत्तं तपस् तेषां नश्यत्य् अत्र न संशयः ॥ [हेम् ३६]

३.१०८ ऊषरे वापितं बीजं यच् च भस्मनि हूयते ।
क्रियाहीनेषु यद् दत्तं त्रिषु नाशो विधीयते ॥ [हेम् ३७]

३.१०९ प्रस्तरे पतितं बीजं भिन्नभाण्डे च दोहनम् ।
भस्मन्य् अपि हुतं हव्यं तद्वद् दानम् असाधुषु ॥ [हेम् ३७]

यमः

३.११० यस् तु लिङ्ग्युचितां वृत्तिम् अलिङ्गेभ्यः प्रयच्छति ।
घोरायां ब्रह्महत्यायां पच्यते नात्र संशयः ॥ [हेम् ३७]

मनुर् विष्णुश् च प्रथमे

३.१११ न वार्य् अपि प्रयच्छेत बैडालव्रतिके द्विजे ।
न बकव्रतिके पापे नावेदविदि धर्मवित् ॥ [म्ध् ४.१९२, विध् ९३.७, हेम् ३८]

३.११२ त्रिष्व् अप्य् एतेषु दत्तं हि विधिनोपार्जितं धनम् ।
दातुर् भवत्य् अनर्थाय परत्रादातुर् एव च ॥ [म्ध् ४.१९३, हेम् ३८]

३.११३ यथा प्लवेनौपलेन निमज्जत्य् उदके तरन् ।
दातृप्रतिग्रहीतारौ तथैवाज्ञौ निमज्जतः ॥ [म्ध् ४.१९४, हेम् ३८]

इमनुर् विष्णुश् च द्वितीयवर्जम्

३.११४ धर्मध्वजी सदा लुब्धः छाद्मिको लोकदाम्भिकः ।
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥ [म्ध् ४.१९५, विध् ९३.८, हेम् ३८]

३.११५ यस्य धर्मध्वजो नित्यं सुराध्वज इवोच्छ्रितः ।
प्रछन्नानि च पापानि बैडालं नाम तद्व्रतम् ॥ [म्ध् ४.१९५*, हेम् ३९]

३.११६ अधोदृष्टिर् नैकृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश् च बकव्रतचरो द्विजः ॥ [म्ध् ४.१९६, विध् ९३.९, , हेम् ३९]

३.११७ ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः ।
ते पतन्त्य् अन्धतामिस्रे तेन पापेन कर्मणा ॥ [म्ध् ४.१९७, विध् ९३.१०, , हेम् ३९]

यमः

३.११८ यः कारणं पुरस्कृत्य व्रतचर्यां निषेवते ।
पापं व्रतेन प्रछाद्य बैडालं नाम तद्व्रतम् ॥ [हेम् ३८]

३.११९ अर्थं च विपुलं गृह्य धृत्वा लिङ्गं विवर्जयेत् ।
आश्रमान्तरितं रक्षेद् बैडालं नाम तद्व्रतम् ॥ [हेम् ३८]

३.१२० प्रतिगृह्याश्रमं यस् तु स्थित्वा तत्र न तिष्ठति ।
आश्रमस्य विलोपेन बैडालं नाम तद्व्रतम् ॥

३.१२१ दत्त्वोदकेन कन्यां तु कृत्वा चैव प्रतिग्रहम् ।
कृतार्थो नार्थवान् यश् च बैडालं नाम तद्व्रतम् ॥

३.१२२ यतीनाम् आश्रमं गत्वा प्रत्यवस्येत् तु यः पुनः ।
यतिधर्मविलोपेन बैडालं नाम तद्व्रतम् ॥ [हेम् ३८]

दानव्यासः

३.१२३ ब्रह्मबीजसमुत्पन्नो मन्त्रसंस्कारवर्जितः ।
जातिमात्रोपजीवी च भवेद् अब्राह्मणः स तु ॥ [हेम् ३७]

३.१२४ गर्भाधानादिभिर् युक्तस् तथोपनयनेन च ।
न कर्मकृन् न चाधीते स भवेद् ब्राह्मणब्रुवः ॥ [हेम् ३७]

स्मृतिः

३.१२५ अव्रतौ वैश्यराजन्यौ शूद्रश् चाब्राह्मणास् त्रयः ।
वेदव्रतविहीनश् च ब्राह्मणो ब्राह्मणब्रुवः ॥ [हेम् ३८]

यमः

३.१२६ यस्य वेदश् च वेदी च व्युच्छिद्येते त्रिपौरुषम् ।
स वै दुर्ब्राह्मणो नाम यश् चैव वृषलीपतिः ॥ [हेम् ३८]

दक्षः

३.१२७ धूर्ते बन्दिनि मल्ले च कुवैद्ये कितवे शठे ।
चाटचारणचौरेभ्यो दत्तं भवति निष्फलम् ॥ [हेम् ३९]

महाभारते

३.१२८ पङ्ग्वन्धबधिरा मूका व्याधिनोपहताश् च ये ।
भर्तव्यास् ते महाराज न तु देयः प्रतिग्रहः ॥ [हेम् ४०]

इति श्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ दानकाण्डे पात्रनिरूपणपर्व ॥