०२ देयादेयानि

अथ देयादेयानि

तत्र बृहस्पतिः

२.१ कुटुम्बभक्तवसनाद् देयं यद् अतिरिच्यते ।
मध्वास्वादो विषं पश्चाद् दातुर् धर्मो ऽन्यथा भवेत् ॥ [ब्स्म् १४.३, हेम् ४४]

इमनुः

२.२ शक्तः परजने दाता स्वजने दुःखजीविनि ।
मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥ [म्ध् ११.९, हेम् ४४]

२.३ भृत्यानाम् उपरोधेन यः करोत्य् और्ध्वदेहिकम् ।
तद् भवत्य् असुखोदर्कं जीवतो ऽस्य मृतस्य च ॥ [म्ध् ११.१०]

इकात्यायनः

२.४ सर्वस्य गृहवर्जं तु कुटुम्बभरणाधिकम् ।
यद् द्रव्यं तत् स्वकं देयम् अदेयं स्याद् अतो ऽन्यथा ॥ [क्स्म् ६४०, हेम् ४४]

इयाज्ञवल्क्यः

२.५ स्वकुटुम्बाविरोधेन देयं दारसुताद् ऋते ।
नान्वये सति सर्वस्वं यच् चान्यस्मै प्रतिश्रुतम् ॥ [य्ध् २.१७५, हेम् ४४]

अन्वये संताने ।

दक्षः

२.६ सामान्यं याचितं न्यास आधिर् दाराश् च तद्धनम् ।
अन्वाहितं च निक्षेपः सर्वस्वं चान्वये सति ॥ [हेम् ५०]

२.७ आपत्स्व् अपि न देयानि नव वस्तूनि पण्डितैः ।
यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः ॥ [हेम् ५०]

इसामान्यम् अनेकस्वामिकम् । याचितं संव्यवहारार्थं याचित्वा आनीतं वस्त्रा-लंकारादि । न्यासो गृहस्वामिनो ऽदर्शयित्वा तत्परोक्षम् एव गृहजनहस्ते गृह-स्वामिने समर्पणीयम् इति द्रव्यस्थापनम् । तद्धनं दारधनम् । अन्वाहितं यद् एकस्य हस्ते निहितं द्रव्यं तेनाप्य् अनु पश्चाद् अन्यस्य हस्ते स्वामिने देहीति निहितम् । निक्षेपो गृहस्वामिसमक्षं द्रव्यस्थापनम् ।

कात्यायनः

२.८ विक्रयं चैव दानं च न नेयाः स्युर् अनिच्छवः ।
दाराः पुत्राश् च सर्वस्वम् आत्मनैव तु योजयेत् ॥ [क्स्म् ६३८, हेम् ५१]

२.९ आपत्काले तु कर्तव्यं दानं विक्रय एव च ।
अन्यथा न प्रवर्तेत इति शास्त्रस्य निश्चयः ॥ [क्स्म् ६३९, हेम् ५१]

आपत्काले तु कर्तव्यं दानं विक्रय एव चेति स्वकीयदानविक्रयेच्छुदारादि-विषयम् । यत् तु दाराणाम् आपत्स्व् अपि न देयानीति दक्षेणादेयत्वम् उक्तं तत् स्वदान-विक्रयानिच्छुदारविषयम् ।

वसिष्ठः

२.१० शुक्रशोणितसंभवः पुरुषो मातापितृनिमित्तकः ।
२.११ तस्य प्रदानविक्रय-परित्यागेषु मातापितरौ प्रभवतः ।
२.१२ न त्व् एकं पुत्रं दद्यात् प्रतिगृह्णीयाद् वा ।
२.१३ स हि संतानाय पूर्वेषाम् ।
२.१४ न तु स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद् वान्यत्रा-नुज्ञानाद् भर्तुः । [वध् १५.१–५, हेम् ५२]
इयमः

२.१५ परिभुक्तम् अवज्ञातम् अपर्याप्तम् असंस्कृतम् ।
यः प्रयच्छति विप्रेभ्यस् तद् भस्मन्य् अवतिष्ठते ॥ [हेम् ५०]

परिभुक्तं गृहीतोपभोगं वस्त्रादि । अपर्याप्तं स्वकार्याक्षमं जरद्गवादि ।

रामायणे

२.१६ नावज्ञया प्रदातव्यं किंचिद् वा केनचित् क्वचित् ।
अवज्ञया हि यद् दत्तं दातुस् तद् दोषम् आवहेत् ॥ [राम् १.१२.२८–३७६*, हेम् ८९]

शातातपः

२.१७ वेदविक्रयनिर्दिष्टं स्त्रीषु यच् चार्जितं धनम् ।
अदेयं पितृदेवेभ्यो यच् च क्लीबाद् उपागतम् ॥ [हेम् ५०]

इवेदविक्रयनिर्दिष्टं वेदविक्रयलब्धम् एतद् इति यन् निर्दिश्यते व्यपदिश्यते तत् तथा । स्त्रीषु यच् चार्जितं धनं स्त्रीव्यापारोपजीवनेन लब्धम् ।

वृद्धशातातपः

२.१८ द्रव्येणान्यायलब्धेन यः करोत्य् और्ध्वदेहिकम् ।
न स तत्फलम् आप्नोति तस्यार्थस्य दुरागमात् ॥ [हेम् ५०]

यमः

२.१९ सुवर्णं रजतं ताम्रं यतिभ्यो यः प्रयच्छति ।
न तत्फलम् अवाप्नोति तत्रैव परिवर्तते ॥ [हेम् ५३]

तत्रैव परिवर्तते पारलौकिकं न भवतीत्य् अर्थः ।

देवलः

२.२० पक्वम् अन्नं गृहस्थस्य वानप्रस्थस्य गोरसः ।
वृत्तिश् च भैक्षवृत्तिभ्यो न देयं पुण्यम् इच्च्छता ॥ [हेम् ५३]

वृत्तिर् भिक्षातिरिक्तं वर्तनम् ।

तथा

२.२१ न शूद्राय हविर् दद्यात् स्वस्ति क्षीरं तिलान् मधु ।
न शूद्रात् प्रतिगृह्णीयात् तेषाम् अन्यन् निवेदयेत् ॥ [हेम् ५३]

२.२२ गोरसं काञ्चनं क्षेत्रं गास् तिलान् मधुसर्पिषी ।
तथा सर्वान् रसांश् चापि चाण्डालेभ्यो न दापयेत् ॥ [हेम् ५३]

तेषां हविरादीनाम् ।

शङ्खलिखितौ

२.२३ कृसरपायसापूपदधिमधुघृतकृष्णाजिनानि शूद्रेभ्यो न दद्यात् । २४नोपाकृतं किंचित् । [हेम् ५४]
अङ्गिराः

२.२५ बहुभ्यो न प्रदेयानि गौर् गृहं शयनं स्त्रियः ।
विभक्तदक्षिणा ह्य् एता दातारं तारयन्ति हि ॥ [हेम् ५२]

२.२६ एका एकस्य दातव्या न बहुभ्यः कथंचन ।
सा तु विक्रयम् आपन्ना दहत्य् आसप्तमं कुलम् ॥ [हेम् ५२]

२.२७ देवतानां गुरूणां च मातापित्रोस् तथैव च ।
पुण्यं देयं प्रयत्नेन नापुण्यं चोदितं क्वचित् ॥

यमः

२.२८ कल्मषं ब्राह्मणे दत्त्वा दाता यात्य् अशुभां गतिम् ।
जीर्णनिर्मोकनिर्मुक्तः पन्नगेन्द्रः क्षितौ यथा ॥

नन्दिपुराणे

२.२९ पापदः पापम् आप्नोति नरो लक्षगुणं सदा ।
पुण्यदः पुण्यम् आप्नोति शतशो ऽथ सहस्रशः ॥ [हेम् ४९]

२.३० तथा पात्रविशेषेण दानं स्याद् उत्तरोत्तरम् ।
गुरुमातृपितृब्रह्मवादिनां दीयते तु यत् ।

तल्लक्षगुणितं विद्यात् पुण्यं वा पापम् एव वा ॥ [हेम् ४९]

यमः

२.३१ देवमाल्यापनयनं देवागारसमूहनम् ।
स्नापनं सर्वदेवानां गोप्रदानसमं स्मृतम् ॥ [हेम् १५३]

२.३२ अर्चनं चैव विप्राणां द्विजोच्छिष्टापकर्षणम् ।
पादशौचप्रदानं च अकल्यपरिचारणम् ॥ [हेम् १५३]

२.३३ पादाभ्यङ्गप्रदानं च गात्रसंवाहनं तथा ।
गवां कण्डूयनं चैव ग्रासदानाभिनन्दने ॥ [हेम् १५३]

२.३४ भिक्षादीपप्रदानं च तथैवातिथिपूजनम् ।
एकैकस्य फलं प्राह गोप्रदानसमं यमः ॥ [हेम् १५३]

अकल्यपरिचारणं रोगिचिकित्सा । गात्रसंवाहनम् अङ्गमर्दनम् ।

हारीतः

२.३५ असद्द्रव्यप्रदानम् अस्वर्ग्यम् ।
२.३६ यच् च दत्त्वा परितप्यते तर्ह्य् अदानम् अफलम् ।
२.३७ यच् चोपकारिणे ददाति तन्मात्रं परिशिष्टम् ।
२.३८ यच् च सोपधं ददाति अभ्याश्रावितम् अल्पफलम् ।
२.३९ यच् चापात्राय ददाति अनिष्टदानं स्रवति ।
२.४० यच् च दत्त्वा परिकीर्त्यते स्मयदानम् आसुरं ।
२.४१ यच् चाश्रद्धया ददाति क्रोधाद् राक्षसं ।
२.४२ यच् चाक्रुश्य ददाति दत्त्वा चाक्रोशति असत्कृतं पैशाचम् ।
२.४३ यच् चावज्ञातं ददाति दत्त्वा यच् चावजानीते मुमूर्षुस् तामसम् ।
२.४४ यच् चाप्रकृतो ददाति ।
२.४५ एते दानोपसर्गाः यैर् उपसृष्टं दानम् असिद्धम् असंबद्धम् अस्वर्ग्यम् अयशस्यम् अध्रुवम् अफलं भवत्य् अल्पफलं वा । [हेम् १८–१९]
तर्ह्य् अदानं तस्मिन्न् एव संकल्पकाले दीयमानद्रव्यासमर्पणम् । उपकारिणे प्रत्युपकारसमीहयेत्य् अर्थः । तन्मात्रं यावद् दत्तं तावन्मात्रम् । सोपधं स्नेहाद्युपाधिसहितम् । अभ्याश्रावितं लोकप्रतीत्यर्थं प्रख्यापितम् । अनिष्ट-दानं शत्रवे दानम् । स्मयदानं स्मयो न मादृशो ऽन्यो दातास्तीत्य् एवंविधो भावविशेषः । तेन भावविशेषेण यद् दानम् । अप्रकृतो मत्तादिः ।

शातातपः

२.४६ प्रश्नपूर्वं तु यो दद्याद् ब्राह्मणाय प्रतिग्रहम् ।
स पूर्वं नरकं याति ब्राह्मणस् तदनन्तरम् ॥ [हेम् १०१]

प्रश्नपूर्वम् अमुं खण्डं बहु वा अस्खलितं यदि पठसि तदा तव एतावद् ददामीति प्रश्नपूर्वम् ।

यमः

२.४७ अवमानेन यो दद्याद् गृह्णीयाद् यः प्रतिग्रहम् ।
ताव् उभौ नरके मग्नौ वसेतां शरदां शतम् ॥ [हेम् १०१]

मनुः

२.४८ यज्ञो ऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
आयुर् विप्रापवादेन दानं च परिकीर्तनात् ॥ [म्ध् ४.२३७, हेम् ९०]

शातातपः

२.४९ मा ददस्वेति यो ब्रूयाद् गव्य् अग्नौ ब्राह्मणेषु च ।
तिर्यग्योनिशतं गत्वा चाण्डालेष्व् अभिजायते ॥ [हेम् १०]

यमः

२.५० कन्याप्रदाने यज्ञे वा अन्यस्मिन् धर्मसंकटे ।
विघ्नम् आचरते यस् तु तम् आहुर् ब्रह्मघातकम् ॥ [हेम् १०]

२.५१ स्नातानाम् अनुलिप्तानां लालसानां मनीषिणाम् ।
नरस् तु मूढभावेन विघ्नकृद् ब्रह्मघातकः ॥

२.५२ ब्राह्मणानां समेतानां सर्वेषां पठताम् अपि ।
विघ्नम् आचरते यस् तु तम् आहुर् ब्रह्मघातकम् ॥

महाभारते

२.५३ मध्यस्थस्येह विप्रस्य यो ऽनूचानस्य भारत ।
वित्तं हरति दुर्बुद्धिस् तं विद्याद् ब्रह्मघातकम् ॥ [म्भ् १३.२५.६]

२.५४ चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य च ।
हरेत यो वै सर्वस्वं तं विद्याद् ब्रह्मघातकम् ॥ [म्भ् १३.२५.११]

२.५५ आश्रमे वा पुरे वापि ग्रामे वा यदि वा वने ।
अग्निं समुत्सृजेत् कोपात् तं विद्याद् ब्रह्मघातकम् ॥ [म्भ् १३.२५.१२]

तथा

२.५६ अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परेषाम् ।
ब्रह्ममतेनाचरते ब्रह्महत्यां लोकास् तस्य ह्य् अन्तवन्तो भवन्ति ॥ [म्भ् १३.२३.१३]