अथ दानस्वरूपम्
तत्र देवलः
अथातो दानविधिं व्याख्यास्यामः ।
१.१ अर्थानाम् उदिते पात्रे श्रद्धया प्रतिपादनम् ।
दानम् इत्य् अभिनिर्दिष्टं व्याख्यानं तस्य वक्ष्यते ॥ [हेम् १३]
उदिते शास्त्रप्रतिपादिते ।
१.२ द्विहेतु षडधिष्ठानं षडङ्गं षड्विपाकयुक् ।
चतुःप्रकारं त्रिविधं त्रिनाशं दानम् उच्यते ॥ [हेम् १३]
१.३ नाल्पत्वं वा बहुत्वं वा दानस्याभ्युदयावहम् ।
श्रद्धा शक्तिश् च दानानां वृद्धिक्षयकरे हि ते ॥ [हेम् १३]
१.४ धर्मम् अर्थं च कामं च व्रीडाहर्षभयानि च ।
अधिष्ठानानि दानानां षड् एतानि प्रचक्षते ॥ [हेम् १३]
१.५ पात्रेभ्यो दीयते नित्यम् अनपेक्ष्य प्रयोजनम् ।
केवलं त्यागबुद्ध्या यद् धर्मदानं तद् उच्यते ॥ [हेम् १४]
१.६ प्रयोजनम् अपेक्ष्यैव प्रसङ्गाद् यत् प्रदीयते ।
तद् अर्थदानम् इत्य् आहुर् ऐहिकं फलहेतुकम् ॥ [हेम् १४]
१.७ स्त्रीपानमृगयाक्षाणां प्रसङ्गाद् यत् प्रदीयते ।
अनर्हेषु च रागेण कामदानं तद् उच्यते ॥ [हेम् १४]
१.८ संसदि व्रीडयाश्रुत्य चार्थो ऽर्थिभ्यः प्रयाचितः ।
प्रदीयते चेत् तद् दानं व्रीडादानम् इति स्मृतम् ॥ [हेम् १४]
१.९ दृष्ट्वा प्रियाणि श्रुत्वा वा हर्षवद् यत् प्रदीयते ।
हर्षदानम् इति प्राहुर् दानं तद् धर्मचिन्तकाः ॥ [हेम् १४]
१.१० आक्रोशानर्थहिंस्राणां प्रतीकाराय यद् भयात् ।
दीयते अपकर्तृभ्यो भयदानं तद् उच्यते ॥ [हेम् १४]
१.११ दाता प्रतिग्रहीता च श्रद्धा देयं च धर्मयुक् ।
देशकालौ च दानानाम् अङ्गान्य् एतानि षड् विदुः ॥ [हेम् १४]
१.१२ अपापरोगी धर्मात्मा दित्सुर् अव्यसनः शुचिः ।
अनिन्द्याजीवकर्मा च षड्भिर् दाता प्रशस्यते ॥ [हेम् १४]
१.१३ त्रिशुक्लः कृशवृत्तिश् च घृणालुः सकलेन्द्रियः ।
विमुक्तो योनिदोषेभ्यो ब्राह्मणः पात्रम् उच्यते ॥ [हेम् १४]
१.१४ सौमुख्याद्यभिसंप्रीतिर् अर्थिनां दर्शने सदा ।
सत्कृतिश् चानसूया च तदा श्रद्धेति कीर्त्यते ॥ [हेम् १५]
१.१५ अपराबाधम् अक्लेशं स्वयत्नेनार्जितं धनम् ।
स्वल्पं वा विपुलं वापि देयम् इत्य् अभिधीयते ॥ [हेम् १५]
१.१६ यत्र यद् दुर्लभं द्रव्यं यस्मिन् काले ऽपि वा पुनः ।
दानार्हौ देशकालौ तौ स्यातां श्रेष्ठौ न चान्यथा ॥ [हेम् १५]
१.१७ अवस्थादेशकालानां पात्रदात्रोश् च संपदाम् ।
हीनं चापि भवेच् छ्रेष्ठं श्रेष्ठं वाप्य् अन्यथा भवेत् ॥ [हेम् १५]
१.१८ दुष्फलं निष्फलं हीनं तुल्यं विपुलम् अक्षयम् ।
षड्विपाकयुग् उद्दिष्टं षड् एतानि विपाकतः ॥ [हेम् १५]
१.१९ नास्तिकस्तेनहिंस्रेभ्यो जाराय पतिताय च ।
पिशुनभ्रूणहन्तृभ्यां प्रदत्तं दुष्फलं भवेत् ॥ [हेम् १५]
१.२० महद् अप्य् अफलं दानं श्रद्धया परिवर्जितम् ।
परबाधाकरं दानं परम् अप्य् ऊनतां व्रजेत् ॥ [हेम् १५]
१.२१ यथोक्तम् अपि यद् दत्तं चित्तेन कलुषेण तु ।
तत् तु संकल्पदोषेण दानं तुल्यफलं भवेत् ॥ [हेम् १५]
१.२२ युक्ताङ्गैः सकलैः षड्भिर् दानं स्याद् विपुलोदयम् ।
अनुक्रोशवशाद् दत्तं दानम् अक्षयतां व्रजेत् ॥ [हेम् १५–१६]
१.२३ ध्रुवम् आजस्रिकं काम्यं नैमित्तिकम् इति क्रमात् ।
वैदिको दानमार्गो ऽयं चतुर्धा वर्ण्यते द्विजैः ॥ [हेम् १६]
१.२४ प्रपारामतडागादि सर्वकालफलं ध्रुवम् ।
तद् आजस्रिकम् इत्य् आहुर् दीयते यद् दिने दिने ॥ [हेम् १६]
१.२५ अपत्यविजयैश्वर्यस्त्रीबालार्थं यद् इज्यते ।
इज्यासंज्ञं तु तद् दानं काम्यम् इत्य् अभिधीयते ॥ [हेम् १६]
१.२६ कालापेक्षं क्रियापेक्षम् अर्थापेक्षम् इति स्मृतौ ।
त्रिधा नैमित्तिकं प्रोक्तं सहोमं होमवर्जितम् ॥ [हेम् १६]
१.२७ नवोत्तमानि चत्वारि मध्यमानि विधानतः ।
अधमानि तु शेषाणि त्रिविधत्वम् इदं विदुः ॥ [हेम् १६]
१.२८ अन्नं दधि मधु त्राणं गोभूरुक्माश्वहस्तिनः ।
दानान्य् उत्तमदानानि उत्तमद्रव्यदानतः ॥ [हेम् १६]
१.२९ विद्याद् आछादनावासपरिभोगौषधानि च ।
दानानि मध्यमानीति मध्यमद्रव्यदानतः ॥ [हेम् १६]
१.३० उपानत्प्रेङ्खयानानि छत्त्रपात्रासनानि च ।
दीपकाष्ठफलादीनि चरमं बहुवार्षिकम् ॥ [हेम् १६]
१.३१ बहुत्वाद् अर्थजातीनां संख्या शेषेषु नेष्यते ।
अधमान्य् अवशिष्टानि सर्वदानान्य् अतो विदुः ॥ [हेम् १६]
१.३२ इष्टं दत्तम् अधीतं वा विनश्यत्य् अनुकीर्तनात् ।
श्लाघानुशोचनाभ्यां च भग्नतेजो विपद्यते ॥ [हेम् १७]
१.३३ तस्माद् आत्मकृतं पुण्यं न वृथा परिकीर्तयेत् ।
भुक्तवान् इति तं प्राहुस् तम् एव कृतवादिनः ॥ [हेम् १७]
१.३४ एवं सर्वगुणोपेतम् उक्तदोषैर् विवर्जितम् ।
कामधुग्धेनुवद् दानं फलत्य् आत्मेप्सितं फलम् ॥
१.३५ इह कीर्तिं वदान्याख्यां स्फीतान् भोगान् त्रिपिष्टपे ।
दानं श्रद्धां तृतीये ऽपि जन्मनि प्रसवोत्तमे ॥ [हेम् ८]
१.३६ सर्वेषाम् अपि दानानाम् अन्नदानम् अनुत्तमम् ।
को ऽन्यो ऽस्ति प्राणदाद् अस्माद् विशिष्टो ह्य् अन्नदात् परः ॥
१.३७ अन्यायाधिगतां दत्त्वा सकलां पृथिवीम् अपि ।
श्रद्धावर्जम् अपात्राय न कांचिद् भूतिम् आप्नुयात् ॥ [हेम् ४९]
१.३८ प्रदाय शाकमुष्टिं वा श्रद्धाशक्तिसमुद्यताम् ।
महते पात्रभूताय सर्वाभ्युदयम् आप्नुयात् ॥ [हेम् ८५]
द्विहेतु वक्ष्यमाणश्रद्धाशक्तिरूपहेतुभेदेन । अधिष्ठानानि आश्रया निमित्तत्वेन । देयं द्रव्यम् । धर्मयुग् धर्मयुक्तं न्यायार्जितम् इत्य् अर्थः । पापरोगाः राजयक्ष्मादयः । विसकलेन्द्रियः अविकलेन्द्रियः । दुष्फलं विपरीत-फलम् । परं श्रेष्ठम् । अनुक्रोशो दया । परिभोगः परिभोगसाधनं खट्वासनादि । बहुवार्षिकं बहूनि वर्षाणि प्राप्तं पुरातनम् इति यावत् । एतेनोत्तमम् अपि हस्त्यश्वादि जीर्णतां प्राप्तम् अधमं भवति । श्लाघा प्रशंसा । व्वृथा रक्षादिप्रयोजनव्यतिरेकेण । प्रसवोत्तमे प्रसूयते ऽस्मिन्न् इति प्रसवः कुलं तस्मिन्न् उत्तमे ।
मनुः
१.३९ श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यात् प्रयत्नतः ।
श्रद्धाकृते ह्य् अक्षये ते भवतः स्वागतैर् धनैः ॥ [म्ध् ४.२२६, हेम् ८६]
१.४० दानधर्मं निषेवेत नित्यम् ऐष्टिकपौर्तिकम् ।
परितुष्टेन भावेन पात्रम् आसाद्य शक्तितः ॥ [म्ध् ४.२२७, हेम् ७]
१.४१ यत् किंचिद् अपि दातव्यं याचितेनानसूयया ।
उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ॥ [म्ध् ४.२२८, हेम् ७]
स्वागतैः न्यायार्जितैः । ऐष्टिकम् इष्टौ यज्ञे यद् दीयते दक्षिणादि तद् ऐष्टिकम् । बहिर्वेदि यद् दानं तत् पौर्तिकम् इति मेधातिथिः ।
याज्ञवल्क्यः
१.४२ गोभूतिलहिरण्यादि पात्रे दातव्यम् अर्चितम् ।
नापात्रे विदुषा किंचिद् आत्मनः श्रेय इच्छता ॥ [य्ध् १.२०१]
१.४३ दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं तु शक्तितः ॥ [य्ध् १.२०३, हेम् ८]
मनुः
१.४४ येन येन हि भावेन यद् यद् दानं प्रयच्छति ।
तेन तेन हि भावेन प्राप्नोति प्रतिपूजितः ॥ [म्ध् ४.२३४, हेम् १७]
येन येन हि भावेन राजसतामसादिना ।
महाभारते
१.४५ दातव्यम् इति यद् दानं दीयते ऽनुपकारिणे ।
देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम् ॥ [म्भ् ६.३९.२०, हेम् १७]
१.४६ यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥ [म्भ् ६.३९.२१, हेम् १७]
१.४७ अदेशकाले यद् दानम् अपात्रेभ्यश् च दीयते ।
असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥ [म्भ् ६.३९.२२, हेम् १८]
याज्ञवल्क्यः
१.४८ देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत् पुनः । [य्ध् २.१७६, हेम् ४६]
यमः
१.४९ यच् च वाचा प्रतिश्रुत्य कर्मणा नोपपादितम् ।
तद् धनम् ऋणसंयुक्तम् इह लोके परत्र च ॥ [हेम् ४६]
१.५० सप्त जातान् नरो हन्याद् वर्तमानांस् तु सप्त च ।
अतिक्रान्तान् सप्त हन्याद् अप्रयच्छन् प्रतिश्रुतम् ॥ [हेम् ४६]
१.५१ प्रतिश्रुताप्रदानेन दत्तस्य हरणेन च ।
जन्मप्रभृति यत् पुण्यं तत् पुण्यं विप्रणश्यति ॥ [हेम् ४६]
तथा
१.५२ आशां कृत्वा ह्य् अदातारं दानकाले निषेधकम् ।
दत्त्वा संतापको यस् तु तम् आहुर् ब्रह्मघातकम् ॥ [हेम् ९०]
महाभरते
१.५३ ब्राह्मणं स्वयम् आहूय भिक्षार्थे कृशवृत्तिनम् ।
ब्रूयान् नास्तीति यः पश्चात् तं विद्याद् ब्रह्मघातकम् ॥ [म्भ् १३.२५.५, हेम् ४६]
तथा
१.५४ संश्रुत्य यो न दित्सेत याचित्वा यश् च नेच्छति ।
उभाव् अनृतिकाव् एतौ मृषा पापम् अवाप्नुतः ॥ [म्भ् १२.१९२.७२, हेम् ४६]
गौतमः
१.५५ प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात् । [ग्ध् ५.२३, हेम् ४७]
नारदः
१.५६ ब्राह्मणस्य च यद् देयं सान्वयस्य च नास्ति सः ।
सकुल्ये तस्य निनयेत् तदभावे ऽस्य बन्धुषु ॥ [न्स्म् १.९९, हेम् ४६]
१.५७ यदा तु न सकुल्यः स्यान् न च संबन्धिबान्धवाः ।
दद्यात् सजातिशिष्येभ्यस् तदभावे ऽप्सु निक्षिपेत् ॥ [न्स्म् १.१००, हेम् ४७]
यमः
१.५८ यो ऽर्चितं प्रतिगृह्णाति यो ऽर्चयित्वा प्रयच्छति ।
ताव् उभौ वसतः स्वर्गे विपरीते विपर्ययः ॥ [हेम् १०१]
१.५९ दानं हि बहुमानाद् यो गुणवद्भ्यः प्रयच्छति ।
स तु प्रेत्य धनं लब्ध्वा पुत्रपौत्रैः सहाश्नुते ॥ [हेम् ८८]
१.६० परं चानुपहत्येह दानं दत्त्वा विचक्षणः ।
सुखोदयं सुखोदर्कं प्रेत्य वै लभते धनम् ॥ [हेम् ८८–८९]
१.६१ यो ऽसद्भ्यः प्रतिगृह्यापि पुनः सद्भ्यः प्रयच्छति ।
आत्मानं संक्रमं कृत्वा परांस् तारयते हि सः ॥
१.६२ तस्मात् तुल्यविशिष्टेभ्यो दानं दद्यात् प्रयत्नतः ।
विद्यातपःसमृद्धा हि तारयन्ति द्विजोत्तमाः ॥
अनुपहत्य पीडाम् अनुत्पाद्य । असद्भ्यो निन्दितेभ्यः । तुल्यो ऽनिन्दितः ।
बृहस्पतिः
१.६३ कृते प्रदीयते गत्वा त्रेतायां दीयते गृहे ।
द्वापरे प्रार्थयति च कलौ चानुगमान्विते ॥ [हेम् ८९]
१.६४ सर्वत्र गुणवद् दानं श्वपाकादिष्व् अपि स्मृतम् ।
देशे काले विधानेन पात्रे दत्तं विशेषतः ॥ [हेम् ८८]
१.६५ मन्त्रादिदोषाद् धोमे तु तपसीन्द्रियदोषतः ।
न्यूनता स्यान् न दाने तु श्रद्धायुक्ते भवेत् क्वचित् ॥ [हेम् ८६]
गुणवत् उत्तमफलम् ।
आपस्तम्बः
१.६६ देशतः कालतः शौचतः संयक् प्रतिग्रहीतृत इति दानानि प्रतिपादयति ।
[आप्ध् २.१५.१२]
देशतः वाराणस्यादौ । कालतः ग्रहणादौ । शौचतः स्नानादिना ।
दक्षः
१.६७ दानं च विधिवद् देयं काले पात्रे गुणान्विते । [हेम् ८८]
उदकस्तुतिम् अभिधाय हारीतः
१.६८ तस्माद् अद्भिर् अवोक्ष्य दद्याद् आलभ्य वा । [हेम् ९२]
अवोक्ष्य प्रोक्षणं कृत्वा । आलभ्य सोदकेन पाणिना स्पृष्ट्वा ।
आपस्तम्बः
१.६९ सर्वाण्य् उदकपूर्वाणि दानानि ।
१.७० यथाश्रुति विहारे । [आप्ध् २.९.८–९, हेम् ९२]
विहारे यज्ञे ऽन्वाहार्यदानादौ । यथाश्रुति यावद् एव श्रुतं तावद् एव कुर्यान् नोदकपूर्वकतादिनियम इत्य् अर्थः ।
गौतमः
१.७१ स्वस्तिवाच्य भिक्षादानम् अप्पूर्वं दद्यात् ।
१.७२ त्रिषु चैवंधर्मेषु । [ग्ध् ५.१८–१९]
शातातपः
१.७३ अभिगम्य तु यद् दानं यच् च दानम् अयाचितम् ।
विद्यते सागरस्यान्तस् तस्यान्तो नैव विद्यते ॥ [हेम् ८९]
१.७४ प्रच्छन्नानि च दानानि ज्ञानं च निरहंकृतम् ।
तपांसि च सुगुप्तानि तेषां फलम् अनन्तकम् ॥ [हेम् ८९]
यमः
१.७५ यतीनां परमो धर्मस् त्व् अनाहारो वनौकसाम् ।
दानम् एव गृहस्थानां शुश्रूषा ब्रह्मचारिणाम् ।
यतीनां परमो धर्मो यद्योगेनात्मदर्शनम् ॥ [हेम् ६]