०३ नियतकालकाण्डम्

श्रीलक्ष्मीधरविरचितः

कृत्यकल्पतरुः

नियतकालकाण्डम्

मङ्गलाचरणम्

येन प्रत्यहम् अभ्रसिन्धुपयसि स्नानादिभिः कर्मभिर्

	यज्ञैः कर्मभिर् अप्य् अपास्तकलिभिर् नीतः पराम् उन्नतिम् ।

धर्मो विस्मृतवान् कृतस्य विरहक्लेशं स **लक्ष्मीधरः**

	काण्डं **नैयतकालिकं** कलयति प्रीत्यै तृतीयं सताम् ॥

प्रतिज्ञा

दन्तानां धावनं प्रातःस्नानं स्नानविधिर् जपः ।

[२] तर्पणं वैश्वदेवादिपञ्चयज्ञविस्हिस् ततः ॥

भोजनं पल्लवोपेतं कृत्यं यद् भोजनोत्तरम् ।

सपल्लवं रात्रिकृत्यं पर्वकृत्यम् अनन्तरम् ॥

तिथिकृत्यं च कान्तारदीपदानविधिस् तथा ।

गोशुश्रूषा वृषोत्सर्गः पुराणश्रवणे विधिः ॥

इति **लक्ष्मीधरा**ख्येन वर्ण्यते शुद्धबुद्धिना ।

चतुर्दश च पर्वाणि काण्डे **नैयतकालिके **॥

[३]

अथ नियतकालकृत्यानि

तत्र दक्षः

उक्तं कर्म क्रमो नोक्तो न कालस् त्व् अत एव हि ।

द्विजानां तु हितार्थाय **दक्षस्** तु स्वयम् अब्रवीत् ॥

प्रातर् उत्थाय कर्तव्यं यद् द्विजेन दिने दिने ।

तत् सर्वं सम्प्रवक्ष्यामि द्विजानाम् उपकारकम् ॥

उदयास्तमनं यावन् न विप्रः क्षणिको भवेत् ।

नित्यनैमित्तकैर् युक्तः काम्यैश् चान्यैर् अगर्हितैः ॥

स्वकं कर्म परित्यज्य यद् अन्यत् कुरुते द्विजः ।

अज्ञानाद् अथ वा लोभात् त्यक्तेन पतितो भवेत् ॥

दिवसस्याद्यभागे तु कृत्यं तस्योपदिश्यते ।

द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा ॥

षष्ठे च सप्तमे चैव त्व् अष्टमे च पृथक् पृथक् ।

विभागेष्व् एषु यत् कर्म तत् प्रवक्ष्याम्य् अशेषतः ॥

[४] “उक्तं कर्म” मन्वादिभिः । क्रमकालौ तु नोक्तौ । “अत एव” तस्मात् कारणात्, “द्विजानां हितार्थाय” “दक्षस्” तद् उभयम् उक्तवान् । “क्षणिको” ऽत्र शास्त्रानुमतव्यापाररहितः । “अन्यैर् अगर्हितैः” अनिषिद्धैः दृष्टार्थैः । “स्वकं कर्म” स्ववर्णाश्रमविहितम् । “परित्यज्य” चिरकालं त्यक्त्वेत्य् अर्थः । दिवसशब्दो ऽत्र उषःकालादिप्रदोषपर्यन्तकालपरः, अजहत्स्वार्थलक्षणया । दक्षेणैव “दिवसस्य” इत्य् अभिधाय उषःकालोपक्रमं प्रदोषपर्यन्तं कृत्याभिधानात् ।

मनुः [४.९३] ।

उत्थायावश्यकं कृत्वा कृतशौचः समाहितः ।

पूर्वां सन्ध्यां जपंस् तिष्ठेत् स्वकाले चापरां चिरम् ॥

[५] “आवश्यकं” मूत्रपुरीषोत्सर्गः । “समाहितः” नियतचित्तः । “अपरां” पश्चिमां सन्ध्याम् । “चिरं” नक्षत्रोदयाद् ऊर्ध्वम् अपि । एतच् च निरग्निविषयम् । साग्नेर् नक्षत्रोदयाद् अर्वाग् एव होमविधिनात् सन्ध्याकर्मसमाप्तेः ।

[६]

दन्तधावनम्

याज्ञवल्क्यः [१.९८] ।

शरीरचिन्तां निर्वर्त्य कृतशौचविधिर् द्विजः ।

प्रातःसन्ध्याम् उपासीत दन्तधावनपूर्विकाम् ॥

दक्षः

उषःकाले तु सम्प्राप्ते शौचं कृत्वा यथार्थवत् ।

ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ॥

“उषःकालश्” च लोहितदिगुपलक्षितकालात् प्राग् ईषद्दिक्प्रकाशवान् कालः । “यथार्थवत्” यथविहितपादशौचकं मृज्जलादिसङ्ख्यावद् इत्य् अर्थः ।

वृद्धशातातपः

मुखे पर्युषिते नित्यं भवत्य् अप्रयतो नरः ।

तस्मात् सर्वप्रयत्नेन भक्षयेद् दन्तधावनम् ॥

[७] “अप्रयतः” अशुचिः । “भकषयेद्” इति दन्तसम्बन्धाद् गौणम् अभिधानं पूर्वोत्तरकालाचमनरूपभक्षणधर्मप्राप्त्यर्थम् ।

अत्र यमः

आम्रपौना[ला]शबिल्वानाम् अपामार्गशिरीषयोः ।

भक्षयेत् प्रातर् उत्थाय वाग्यतो दन्तधावनम् ॥

“पौना[ला]शः” आम्रातकवृक्षः ।

**हारीतः **।

    काले पलाशकोविदारश्लेष्मातकतिल्वकशाकवृक्षनिर्गुण्डीशिखण्डीवेणुवर्जम् । प्लक्षमाषकबदरीकरञ्जशमीशाका नित्येत्य् <span style="text-decoration:underline;">एके</span> । दधित्थहरीतक्यश् च कर्णशालामलकान् इत्य् <span style="text-decoration:underline;">अपरे</span> । बिल्वखादिराम्रपौना[ला]शशिरीषापामार्गाणाम् एकतमम् अनार्द्रं नातिशुष्कं नातिस्थूलम् आपोथिताग्रम् अनौष्ठग्रन्थ्य् उदङ्मुखो वाग्यत आसीनो दन्तधावनं भक्षयेत् । 

[८] “काले” उषःकाले । “कोविदारः” श्वेतपुष्पः काञ्चनाल[र]सदृशः । “श्लेष्मातकः” बहुवारः । “तिल्वकः” चिल्लकः । “शाकवृक्षः” शाकवण इति लोके प्रसिद्धः । “निर्गुण्डी” मयूरशिखा सिन्दुवारः । “शिखण्डी” शिखण्डिसञ्ज्ञः । कण्टकिगुल्म इत्य् अपरे । “दधित्थः” कपित्थः । “शालः” शङ्कुवृक्षः । “एके” “अपरे” इत्य् उभयत्र वर्जयित्वेति शेषः । आर्द्रम् अत्र सद्यश्छिन्नम्, ततो ऽन्यद् अनार्द्रम् । “नातिशुष्कम्” इत्य् अभिधानात् प्रक्षालनस्य विहितत्वाच् च आर्द्रत्वमात्रस्यावशम्भावात् । “आपोथिताग्रम्” ईषच्चूर्णिताग्रम् । “अनौष्ठग्रन्थि” ओष्ठसमीपे ग्रन्थिर् यस्मिन् नास्ति तद् अनौष्ठग्रन्थि ।

विष्णुः [६१.१–१६] ।

    न पालाशं दन्तधावनं स्यात् । न श्लेष्मान्तकारिष्टकविभीतकधव-धन्वनजम् । न च कोविदारशमीपीलुपिप्पलेङ्गुद**[९]**गुग्गुलुजम् । न च बन्धूकनिर्गुण्डीशिग्रुतिल्वकतिन्दुकजम् । न पारिभद्राम्लिकामोचक्याशाल्मली-शणजम् । न मधुरम् । नाम्लम् । नोर्ध्वशुष्कम् । न सुसुषिरम् । न पूतिगन्धि । न पिच्छिलम् । न दक्षिणापराशाभिमुखः । अद्याद् उदङ्मुखः प्राङ्मुखो वा । वटासनार्कखदिरकरञ्जकरवीरसर्जारिमेदापामार्गमालतीककुम्भबिल्वानाम् अन्यतमम् । काषायं कटुकं तिक्तं वा ।


    	कनीन्यग्रसमस्थौल्यं सकूर्चं द्वादशाङ्गुलम् ।


    	प्रातर् भुक्त्वा च यतवाग् भक्षयेद् दन्तधावनम् ॥

“अरिष्टको” ऽत्र रीठीवृक्षः । “धन्वनः” धामिण इति प्रसिद्धः । “पीलुः” गुडफलः, यश् च पीलुर् इति पश्चिम**[१०]**देशे प्रसिद्धः । “इङ्गुदः” इङ्गुवाकः कण्टकिवृक्षः । “पारिभद्रः” फलहट्ट इति प्रसिद्धः । “अम्लीका” तिन्तिली । “ऊर्ध्वशुष्कम्” शुष्कम् एव वृक्षे । “ससुषिरम्” छिद्रयुक्तम् । “असनः” आसन इत्य् प्रसिद्धः । “अरिमेदः” विट्खादिरः । “मालती” जाती । “काषायं” तिक्तं कटुकं वा । अविहिताप्रतिषिद्धम् अन्यद् अपि बोद्धव्यम् । “सकूर्चं” चूर्णताग्रम् । “प्रातर् भुक्त्वा च” इत्य् अनेनोक्तस्य दन्तधावनस्य कालद्वयए करणम् इत्य् उक्तम् ।

छन्दोगपरिशिष्टे कात्यायनः [१.७.१३८–१४०] ।

नारदाद्युक्तवार्क्षेयम् अष्टाङ्गुलम् अपाटितम् ।

सत्वचं दन्तकाष्ठं स्यात् तद् अग्रेण प्रधावयेत् ॥

उत्थाय नेत्रे प्रक्षाल्य शुचिर् भूत्वा समाहितः ।

परिजप्य च मन्त्रेण भक्षयेद् दन्तधावनम् ॥

[११] आयुर् बलं यशो वर्चः प्रजाः पशु वसूनि च ।

ब्रह्म प्रज्ञां च मेधां च त्व् अन्नो धेहि वनस्पते ॥

“नारदाद्युक्तवार्क्षेयम्” नारदादिशिक्षाभिहितवृक्षसम्भवम् । तथा च नारदशिक्षा

आम्रपौनाशबिल्वानाम् अपामार्गशिरीषयोः ।

वाग्यतः प्रातर् उत्थाय भक्षयेद् दन्तधावनम् ॥

खदिरश् च करञ्जश् च करवीरकदम्बयोः ।

सर्वे कण्टकिनः पुण्याः क्षीरिणश् च यशस्विनः ॥ इति ।

“परिजप्य मन्त्रेण” इति, मन्त्रेणाभिमन्त्र्य दन्तधावनं भक्षयेद् इत्य् अर्थः ।

यमः

आसनं शयनं यानं पादुके दन्तधावनम् ।

वर्जयेद् भूतिकामस् तु पालाशं नित्यम् आत्मवान् ॥

न पालाशे “पादुके- पादपीठे, आस्न्ं, शयनं, यानं दन्तधावनं, वा कुर्यात् । “यानं” शकटादि ।

[१२] उशना

नाङ्गुलिभिर् दन्तान् प्रक्षालयेत् ।

विष्णुः [६१.१७] ।

    प्रक्षाल्य भङ्क्त्वा तज् जह्याच् छुचौ देशे प्रयत्नतः । 


    अमावास्यां च नाश्नीयाद् दन्तकाष्ठं कथञ्चन ॥

नरसिंहपुराणे [५८.४६–५१] ।

मुखे पर्युषिते नित्यं भवत्य् अप्रयतो नरः ।

तस्माच् छुष्कम् अथार्द्रं वा भक्षयेद् दन्तधावनम् ॥

खदिरश् च कदम्बश् च करञ्जश् च वटस् तथा ।

तिन्तिली वेणुपृष्ठं च आम्रनिबौ तथैव च ॥

अपामार्गश् च बिल्वश् च अर्कश् चोदुम्बरस् तथा ।

एते प्रशस्ताः कथिता दन्तधावनकर्मणि ॥

दन्तकाष्ठस्य वक्ष्यामि समासेन प्रशस्तताम् ।

सर्वे कण्टकिनः पुण्याः क्षीरिणश् च यशस्विनः ॥

अष्टाङ्गुलेन मानेन तत् प्रमाणम् इहोच्यते ।

प्रादेशमात्रम् अथ वा तेन दन्तान् विशोधयेत् ॥

[१३] प्रातिपद्दर्शषष्टीषु नवम्यां चैव सत्तमाः ।

दन्तानां काष्ठसंयोगो दहत्य् आसप्तमं कुलम् ॥

अलाभे दन्तकाष्ठानां प्रतिषिद्धे तथा दिने ।

अपां द्वादशगण्डूषैर् मुखशुद्धिर् विधीयते ॥

“वेणुपृष्ठं” वंशस्य त्वग्भागः । एतेन् “वेणुवर्जम्” इति हारीतोक्तम् इतरवंशावयवविषयं बोद्धव्यम् । “तस्माच् छुष्कम् अथार्द्रं वा” इत्य् अभिधानात् शुष्कप्रतिषेधः “नोर्ध्वशुष्कम्” इति विष्णुवचनाद् ऊर्ध्वशुष्कविषयो बोद्धव्यः ।

महाभारते

वर्जयेद् दन्तकाष्ठानि वर्जनीयानि नित्यशः ।

भक्षयेच् छास्त्रदृष्टानि पर्वस्व् अपि च वर्जयेत् ॥

“पर्वसु” इति । पर्वाण्य् अत्र —

चतुर्दश्य् अष्टमी चैव त्व् अमावास्याथ पूर्णिमा ।

पर्वाण्य् एतानि राजेन्द्र रविसङ्क्रान्तिर् एव च ॥

इति विष्णुपुराणे [३.११.११८] प्रोक्तानि ।

[१४] तथा

प्रक्षाल्य हस्तौ पादौ च मुखं च सुसमाहितः ।

दक्षिणं बाहुम् उद्धृत्य कृत्वा जान्वन्तरा ततः ॥

तिक्तं कषायं कटुकं सुगन्धि कण्टकान्वितम् ।

क्षीरिणो वृक्षगुल्माद् वा भक्षयेद् दन्तधावनम् ॥

त्याज्यं सपत्रम् अज्ञातम् ऊर्ध्वशुष्कं च पाटितम् ।

त्वग्विहीनं ग्रन्थिमुखं तथा पालाशशांशपम् ॥

ऋजुं वितस्तिमात्रं तु कीटाग्निभिर् अदूषितम् ।

प्राङ्मुखश् चोपविष्टस् तु भक्षयेद् वाग्यतो नरः ॥

प्रक्षाल्य च शुचौ देशे दन्तधावनम् उत्सृजेत् ।

पतिते ऽभिमुखे सम्यक् भोज्यम् आप्नोत्य् अभीप्सितम् ॥

“दक्षिणं बाहुम् उद्धृत्य” इति, उपवीतं क्र्त्वेत्य् अर्थः । “गुल्माः” अस्कन्धा मल्लिकादयः । “शांशपम्” शिंशपा**[१५]**वृक्षोद्भवम् । अत्र च शुचित्वापादके दन्तधावने दन्तकाष्ठविशेषनियमविधिनार्थान् निरस्ते ऽपि काष्ठान्त्रे, पुनर् निषेधो मुख्यालाभे प्रतिनिधित्वेनापि तदुपादाननिरासार्थम् । यत् तु विहितप्रतिषिद्धं तस्य निषेधसम्बन्धेन केवलविहितापेक्षया किञ्चिन्न्यूनत्वात्, केवलविहितालाभ उपादानम् । एतस्याप्य् असम्भवे ऽविहिताप्रतिषिद्धम् उपादेयम् । केवलनिषिद्धं तु सर्वथा नोपादेयम् । द्वादशगण्डूषैर् एव तत्र मुखशुद्धिर् आपादनीयेति ।

**हारीतः **।

    दन्तधावनं भक्षयेद् अविरक्तं सोदकम् एकान्तम् उत्सृज्य स्नातो वाग्यत्ः शुचिर् अहतशुक्लवासा अग्निहोत्रादिदेवतार्थान् कुर्यात् ।

[१६] “अविरक्तम्” सरसम् । “सोदकम्” प्रक्षालितम् । “अग्निहोत्रादिदेवतार्थम्” अग्निहोत्रादीन्, देवतार्थांश् च देवपूजादीन् ।

इति भट्टहृदयधरात्मजभट्टश्रीलक्ष्मीधरविरचिते

कृत्यकल्पतरौ दन्तधावनपर्व ।

[१७]

**अथ प्रातःस्नानम् **

तत्र छन्दोगपरिशिष्टे कात्यायनः [१.७.१३७] ।

यथाहनि तथा प्रातर् नित्यं स्नायाद् अनातुरः ।

दन्तान् प्रक्षाल्य नद्यादौ गेहे चेत् तद् अमन्त्रवत् ॥

तथा

अल्पत्वाद् धोमकालस्य बहुत्वात् स्नानकर्मणः ।

प्रातर् न तनुयात् स्नानं होमलोपो विगर्हितः ॥

“यथाहनि” इति, यथेति कर्तव्यतया मृदालम्भादिकया मध्याह्ने स्नानं कुर्यात् तथैव प्रातर् अपीत्य् अर्थः । “अनातुरः” इत्य् अभिधानाच् चातुरः स्नाननिमित्ताप्रायत्यरहितः, सम्मार्जनादिना शौचम् आपाद्य सन्ध्यां कुर्यात् । दन्तधावनम् अधिकं [१८] प्रातः । “गेहे चेद्” इति, तत् प्रातःस्नानं यदि गृहे केनचिन् निमित्तेन करोति, तदा स्नानाङ्गमन्त्ररहितं तनुयात्, सङ्क्षेपेण कुर्याद् इत्य् अर्थः । सङ्क्षेपश् च योगियाज्ञवल्क्योक्तः “तीर्थपरिकल्पनजलाभिमन्त्रणाचमनमार्जनान्तर्जलस्नानाद्यघमर्षणसूक्तेन त्रिर् आवृत्तेन” इत्य् एवंरूपः ।

दक्षः

अत्यन्तमलिनः कायो नवछिद्रसमन्वितः ।

स्रवत्य् एष दिवा रात्रौ प्रातःस्नानं विशोधनम् ॥

क्लिद्यन्ति च सुषुप्तस्य इन्द्रियाणि स्रवन्ति च ।

अङ्गानि समतां यान्ति उत्तमान्य् अधमानि च ॥

[१९] तथा

अस्नात्वा नाचरेत् कर्म जपहोमादि किञ्चन ।

लालास्वेदसमाकीर्णः शयनाद् उत्थितः पुमान् ॥

प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् ।

सर्वम् अर्हति शुद्धात्मा प्रातःस्नायी जपादिकम् ॥

“समतां यान्ति” इति, उत्तमान्य् अप्य् अङ्गानि चक्षुरादीनि क्लेदसम्पर्काद् अधमाङ्गतुल्यानि भवन्ति । “अस्नात्वा नाचरेद्” इत्य् अत्र हेतुः — “लालास्वेदसमाकीर्णः” इति । यत इति शेषः । “दृष्टादृष्टकरम्” दृष्टं मलापनयनाद् अङ्गशुद्धिः । अदृष्टं नित्यत्वेन पापक्षयः ।

विष्णुः [६४.४०–४२] ।

स्नातो ऽधिकारी भवति दैवे पित्र्ये च कर्मणि ।

[२०] पवित्राणां तथा जप्ये दाने च विधिचोदिते ॥

अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।

अम्मात्रेणाभिषिक्तस्य नश्यन्त इति धारणा ॥

याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति ।

नित्यस्नानेन पूयन्ते ये ऽपि पापकृतो जनाः ॥

“कालकर्णी” दुःसहस्य रक्षसो दुहिता । “दुर्विचिन्तितम्” अशुभचिन्तितम् । “अम्मात्रेण” उद्धृतेनानुद्धृतेन वेत्य् अर्थः । “धारणा” निश्चयः । “याम्यं” यमलोकभवम् ।

दक्षः

सन्ध्यास्नानम् ऋगन्तेन मध्याह्ने च ततः पुनः ।

उपास्ते यस् तु नो सन्ध्यां ब्राह्मणो हि विशेषतः ।

स जीवन्न् एव शूद्रः स्यान् मृतः श्वा चैव जायते ॥

[२१] विष्णुः [९०.२९] ।

य इच्छेद् विपुलान् भोगांश् चन्द्रसूर्यग्रहोपमान् ।

प्रातःस्नायी भवेन् नित्यं मासौ द्वौ माघफाल्गुनौ ॥

यमः

प्रातःस्नायी च सततं मासौद्वौ माघफाल्गुनौ ।

देवान् पितॄन् समभ्यर्च्य सर्वपापैः प्रमुच्यते ॥

देवपितृसमभ्यर्चनं तर्पणादिना

विष्णुः [८९.१–४] ।

    मासः कार्तिको ऽग्निदैवत्यः । अग्निश् च सर्वदेवानां मुखम् । तस्मात् कार्तिके बहिःस्नायी गायत्रीजपनिरतः सकृद् एव हविष्याशी वत्सरकृतात् पापात् पूतो भवति ।


    	कार्तिकं सकलं मासं नित्यस्नायी जितेन्द्रियः ।


    	जपन् हविष्यभुक् शान्तः सर्वपापैः प्रमुच्यते ॥

“जपन्” आवशयककृत्यान्तरवर्जिते काले । “हविष्यं” — “हविष्येषु यवा मुख्या” इत्यादिवचनबोधितम् । [२२] विष्णुस्मृतौ स्नानप्रकरणात् प्रकरणान्तराधिकरणन्यायेन काम्यस्नानान्तरम् इदम् । प्रातःशब्दश् चात्रोदयपूर्वकालवचनः, “प्रातःस्नाय्य् अरुणकरग्रस्तां प्राचीम् अवलोक्य स्नायात्” इति विष्णुवचनेन [६४.९] सर्वत्र प्रातःस्नाने तस्यैव कालस्य प्रापितत्वात् । यत् तु “प्रातःकालो मुहूर्तांस् त्रीन्” इति मत्स्यपुराणाद्युक्तम्, तच् छ्राद्धविषयम् । एवं कार्तिके बहिःस्नानम् अपि काम्यम् । एतेन स्त्रीशूद्राणाम् अप्य् अधिकारो ऽस्तीति । एवं कार्तिके बहिःस्नानं प्रातःकालेतरकाले ऽपि तेनैव न्यायेन काम्यं स्नानान्तरम् ।

आपस्तम्बः [१.३०.६–९] ।

    अथ स्नातकव्रतानि । पूर्वेण ग्रामान् निष्क्रमणप्रवेशनानि शीलयेद् उत्तरेण वा । सन्ध्ययोर् बहिर्ग्रामाद् आसनं वाग्यतश् च । विप्रतिषेधे श्रुतिलक्षणं बलीयः ।

“शीलयेत्” यथा तच्छीलता निष्पद्यते तथा [२३] कुर्यात् । “विप्रतिषेधे” श्रौतेन होमादिना सह विरोधे । श्रुतिलक्षणं श्रौतम् एवानुष्ठेयत्वेन बलीयः, न स्मार्तम् ।

दक्षः

सन्ध्याकर्मावसाने तु स्वयंहोमो विधीयते ।

स्वयंहोमे फलं यत् तु तद् अन्येन न जायते ॥

ऋत्विक् पुत्रो गुरुर् भ्राता भागिनेयो ऽथ विट्पतिः ।

एतैर् एव हुतं यत् तु तद् धुतं स्वयम् एव तु ॥

“गुरुः” पित्रादिः । “विट्पतिः” जामाता ।

याज्ञवल्क्यः [१.९९] ।

हुत्वाग्नीन् सूर्यदैवत्यान् जपेन् मन्त्रान् समाहितः ।

नरसिंहपुराणे [५८.५८–५९] ।

पूर्वां सन्ध्यां सनक्षत्राम् उपक्रम्य यथाविधि ।

गायत्रीम् अभ्यसेत् तावद् यावद् आदित्यदर्शनम् ॥

[२४] ततश् चावसथं प्राप्य होमं कुर्याद् विचक्षणः ।

देवकार्यं ततः कृत्वा गुरुमङ्गलवीक्षणम् ॥

देवकार्यस्य सर्वस्य पूर्वाह्णस् तु विधीयते ।

देवकार्याणि पूर्वाह्णे मनुष्याणां तु मध्यमे ॥

पितॄणाम् अपराह्णे तु कार्याण्य् एतानि यत्नतः ।

दिवसस्याद्यभागे तु सर्वम् एतत् समाचरेत् ॥

“मङ्गलम्” ब्राह्मणादि वक्ष्यमाणं नारदोक्तम् । यद् एतद् देवकार्याद्युक्तं तत् सर्वं दिवसस्याद्यभागेषु पूर्वाह्णस्य प्रथमभागे समाचरेद् इत्य् अर्थः ।

वराहपुराणे [२११.१४–१५] ।

उदयान् निःसृतं सूर्यं यस् तु भक्त्या नरो द्विज ।

[२५] दध्यक्षताञ्जलिभिस् तु तिसृभिः पूजयेच् छुचिः ॥

तस्य भावप्रपन्नस्य चाशुभं यत् समर्जितम् ।

तत्क्षणाद् एव निर्दग्धं भस्मीभवति काष्ठवत् ॥

“भावप्रपन्नस्य” भक्त्या शरणं गतस्य ।

मनुः [४.१५२] ।

मैत्रं प्रसाधनं स्नानं दन्तधावनम् अञ्जनम् ।

पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥

“मैत्रम्” पुरीषोत्सर्गम्, मित्रदेवताकत्वात् पायोस् तत्सम्बन्धात् सोऽपि तथोक्तः । “प्रसाधनम्” केशरचनानुलेपनादि ।

विष्णुपुराणे [३.११.२२] ।

स्वाचान्तश् च ततः कुर्यात् पुमान् केशप्रसाधनम् ।

आदर्शाञ्जनमाङ्गल्यदूर्वाद्यालम्भनानि च ॥

“अञ्जनम्” सौवीराञ्जनादि । आदिशब्देन दध्यादीनाम् उपादानम् ।

[२६] ब्रह्मपुराणे

स्वम् आत्मानं घृते पश्येद् यदीच्छेच् चिरजीवितम् ।

अथ दक्षः

द्वितीये च तथा भागे देवाभ्यासो विधीयते ।

वेदस्वीकरणं पूर्वं विचारो ऽब्यसनं जपः ॥

तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ।

समित्पुष्पकुशादीनां स कालः समुदाहृतः ॥

उपादनस्येति शेषः ।

आपस्तम्बः [१.१३.१९–२२; १.१४.१] ।

    निवेशे निर्वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद् भूयः श्रुतम् इच्छन्न् इति श्वेतकेतुः । एतेन ह्य् अहं योगेन भूयः पूर्वस्मात् कालाच् छ्रुतम् अकुर्वीति । तच् छास्त्रैर् विप्रतिषिद्धम् । निवेशे निर्वृत्ते नैयमिकानि श्रूयन्ते । अग्निहोत्रम् अतिथयो यच् चान्यद् एवंयुक्तम् ।

[२७] “निवेशो” विवाहः । “समाहितो” ऽअनन्यमनाः । “एतेन” अनन्तरोक्तेन “द्वौ द्वौ मासौ” इत्यादिना । “योगेन” मासद्वयपर्यन्तोपाध्यायसम्बन्धेन । “पूर्वस्मात् कालात्” विवाहप्राग्भाविनः कालात् । “भूयो” बहुकालम् । “श्रुतम्” मीमांसाभ्यसनम् । “अकुर्वि” कृतवान् अस्मि । “विप्रतिषिद्धं शास्त्रैः” अग्निहोत्रादीनां यावज्जीवम् आवश्यकत्वप्रतिपादकैर् विरुद्धम् ।

आपस्तम्बः [२.५.१४] ।

यया विद्यया न विरोचेत पुनर् आचार्यम् उपेत्य साधयेत् ।

“न विरोचेत” नोज्ज्वलकज्ञानो भवेत् ।

याज्ञवल्क्यः [१.९९] ।

वेदार्थान् अधिगच्छेच् च शास्त्राणि विविधानि च ।

मनुः [४.१९–२०] ।

बुद्धिवृद्धिकराण्य् आशु धन्यानि च हितानि च ।

[२८] नित्यं शास्त्राण्य् अवेक्षेत निगमांश् चैव वैदिकान् ॥

यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।

तथा तथा विजानाति विज्ञानं चास्य रोचते ॥

“बुद्धिवृद्धिकराणि” तर्कमीमांसादीनि । “धन्यानि” धनाय हितान्य् अर्थशास्त्राणि। “हितानि” आयुर्वेदादीनि । “नियमाः” पदार्थनिर्णयहेतवो निघण्टुप्रभृतयः । “रोचते” उज्ज्वलं भवति ।

यमः

शास्त्रार्थमार्गम् आश्रित्य ये गता ये च संस्थिताः ।

ये बुध्यन्ति महात्मानस् ते यान्ति परमां गतिम् ॥

दानेन तपसा यज्ञैर् उपवासव्रतैस् तथा ।

न तां गतिम् अवाप्नोति विद्यया याम् अवाप्नुयात् ॥

“गताः” शास्त्रार्थमार्गेण प्रवृत्ताः । “संस्थिताः” सम्प्राप्ताः, लोकान्तरं गता इति यावत् । “बुध्यन्ति” अनुतिष्ठन्त आसते ।

[२९] दक्षः

तृतीय च तथा भागे पोष्यवर्गार्थसाधनम् ।

पोष्यवर्गश् च –

माता पिता गुरुर् भार्या प्रजा दीनः समाश्रितः ।

अभ्यागतो ऽतिथिश् चाग्निः पोष्यवर्ग उदाहृतः ॥

गौतमः [९.६३–६४] ।

    योगक्षेमार्थम् ईश्वरम् अधिगच्छेत् । नान्यम् अन्यत्र देवगुरुधार्मिकेभ्यः ।

अलब्धलाभो “योगः” । लब्धरक्षणं “क्षेमः” । “अन्यम्” अनीश्वरम् ।

मनुः [४.१५३–१५४] ।

दैवतान्य् अभिगच्छेत् तु धार्मिकांश् च द्विजोत्तमान् ।

ईश्वरं चैव रक्षार्थं गुरून् एव च पर्वसु ॥

[३०] अभिवादयेत् ततो वृद्धान् दद्याच् चैवासनं स्वकम् ।

कृताञ्जलिर् उपासीत गच्छतः पृष्ठतो ऽन्वियात् ॥

“अभिगच्छेत्” आभिमुख्येन पूजाद्यर्थं गच्छत् । “गुरून् एव” इत्य् एवकारो भिन्नक्रमो “गच्छेद्” इत्यनन्तरं बोद्धव्यः ।

छागलेयो यमश् च द्वितीय ।

यतीनां दर्शनं चैव स्पर्शनं भाषणं तथा ।

कुर्वाणः पूयते नित्यं तस्मात् पश्येत् तु नित्यशः ॥

अग्निचित् कपिला सत्री राजा भुक्षुर् महोदधिः ।

दृष्टमात्राः पुनन्त्य् एते तस्मात् पश्येत् तु नित्यशः ॥

“पश्येद्” इत्य् अनेन स्पर्शनभाषणे अप्य् उपादीयेते ऽजहत्स्वार्थलक्षणया । “अग्निचित्” कृताग्निचयनः । “कपिला” कपिलवर्णा गौः । “सत्री” कृतसत्रयागः । “भिक्षुः” यतिः ।

[३१] वराहपुराणे [२९०.६४–६५] ।

वामनं ब्राह्मणं दृष्ट्वा वराहं च जलोत्थितम् ।

नमस्येच् चैव यो भक्त्या स पापेभ्यः प्रमुच्यते ॥

यज्वा मिष्टान्नदः सत्री शतायुर् धार्मिकः शुचिः ।

ज्ञाननिष्ठाआंस् तपःसिद्धान् दृष्ट्वा पापात् प्रमुच्यते ॥

“शुचिस्” तीर्थादिपूतः । “ज्ञाननिष्टो” ऽध्यात्मरतिः ।

**नारदः **[१७.५४–५५] ।

लोके ऽस्मिन् मङ्गलान्य् अष्टौ ब्राह्मणो गौर् हुताशनः ।

हिरण्यं सर्पिर् आदित्य आपो राजा तथाष्टमः ॥

एतानि सततं पश्येन् नमस्येद् अर्चयेच् च यः ।

प्रदक्षिणं च कुर्वीत ततास्यायुर् न हीयते ॥

एतानि च ब्राह्मणादीनाम् अष्टानां मङ्गलानां दर्शननमस्कारार्चनप्रदक्षिणीकरणानि समुदितान्य् आयुःकामस्य तृतीयभाग एव कर्तव्यत्वेन विहितानि । दिवसस्याद्यभागे तु मङ्गलाद्यालम्भनं केवलम् ।

[३२] वामपुराणे

कृत्वा शिरःस्नानम् अथाह्निकं च

	सम्पूज्य तोयेन पितॄन् सदेवान् ।

होमं च कृत्वालभनं शुभानां

	ततो बहिर् निर्गमनं प्रशस्तम् ॥

दूर्वां दधि सर्पिर् अथोदकुम्भं

	धेनुं सवत्सां वृषभं सुवर्णम् ।

मृद् गोमयं स्वस्तिकम् अक्षतानि

	लाजा मधु ब्राह्मणकन्यकाश् च ॥

श्वेतानि पुष्पाणि तथा शमीं च

	हुतासनं चन्दनम् अर्कबिम्बम् ।

अश्वत्थवृक्षं च समालभेत

	ततश् च कुर्यान् निजजातिधर्मम् ॥

देशानुशिष्टं कुलधर्मम् अग्र्यं

	सगोत्रधर्मं न हि सन्त्यजेत ।

“सम्पूज्य तोयेन पितृन्” इति, अनेन प्रातःस्नाने [३३] पितृतर्पणं कर्तव्यम् इत्य् उक्तम् । अत्र च शिरःस्नानादि सर्वं यथाकालप्राप्तम् अनूद्य “ततस् तु कुर्यान् निजजातिधर्मम्” इत्यादि तृतीयभागे विधीयते । निजजातिधर्मश् च स्वस्वजातिविहितो ऽर्थार्जनादिरूपः । तत्रापि यस्मिन् देशे यस्यां जातौ यस्मिन् कुले यो ऽर्जनोपाया विहितो न निन्दितः, स एवानुष्ठेय इत्य् अर्थः ।

अथ दक्षः

चतुर्थे तु तथा भागे स्नानार्थं मृदम् आहरेत् ।

तिलपुष्पकुशादीनि स्नानं चाकृत्रिमे जले ॥

आदिशब्देन गोमयदूर्वाद्युपादानम् । “स्नानं” कुर्याद् इति शेषः । “अकृत्रिमे” नद्यादौ ।

शातातपः

वल्मीकाखूत्कराल् लेपाज् जलाच् च पतिवृक्षयोः ।

कृतशौचावशिष्टाच् च न ग्राह्याः सप्तमृत्तिकाः ॥

“आखूत्करो” मूषिकोत्करः । “लेपात्” कुड्यादीनाम् इति [३४] शेषः । “जलात्” अन्तर्जलात् । “पथिवृक्षयोः” सम्बन्धिनीति सेषः ।

शुचौ देशे तु सङ्ग्राह्या शर्कराश्मादिवर्जिता ।

रक्ता गौरी तथा श्वेता मृत्तिका त्रिविधा स्मृता ॥

“शुचौ देशे” स्थितेति शेषः । आदिशब्देन केशकीटाद्युपादानम् । रक्तत्वादिनियमात् कृष्णवर्णा मृत्तिका स्नानानङ्गम् इत्य् उक्तम् ।

न मृदं नोदकं वापि न निशायां तु गोमयम् ।

न गोमूत्रं प्रदोषे तु गृह्णीयाद् बुद्धिमान् नरः ॥

“निशायाम्” इति मृदुदकगोमयैः प्रत्येकं सम्बध्यते । एतच् च मृदाद्यदृष्टकर्मार्थत्वेन निशायां न ग्राह्यम् ।

मनुः [४.१२९] ।

न स्नानम् आचरेद् भुक्त्वा नातुरो न महानिशि ।

[३५] न वासोभिर् न चाजस्रं नाविज्ञाने जलाशये ॥

“न स्नानम् आचरेद् भुक्त्वा” इति, कृतभोजनस्य यदृच्छास्नाननिषेधो नित्यस्य स्नानस्य भोजनोत्तरप्राप्त्यभावात् । चाण्डालादिस्पर्शनिमित्तस्य तु “नाशुचिः क्षणम् अप् तिष्ठेद्” इति विरोधेन प्रतिषेद्धुम् अशक्यत्वाद् इति **मेधातिथिः **। “आतुरस्य” व्याधितस्य तु सर्वथा वारुणस्नाननिषेधः । “महानिशा” रात्रेर् मध्यमं प्रहरद्वयम् । “अजस्रं” अनवरतं श्रद्धाजाड्यादिना । “अविज्ञाते” गाधागाधतयानिन्दितकर्तृकत्वादिना वा ।

जाबालिः

न पारक्ये सदा स्नायान् न भुक्त्वा न महानिशि ।

[३६] नार्द्रम् एकं च वसनं परिदध्यात् कदाचन ॥

“पारक्ये” परकीये कूपादौ सदा न स्नायात् । अकृत्रिमासम्भवे तु तत्रापि स्नायात्, “परकीये ऽपि कदाचन” इति वचनात् । सर्वदा पुरुषस्यैकम् आर्द्रं च वासो निषिद्धम् । एवं च पुरुषस्य सर्वदा वस्त्रद्वयधारणनियमात् स्नानकाले ऽपि तत्परित्यागो प्रमाणं नास्तीति ।

तथा

त्रयोदश्यां तृतीयायां दशम्यां तु विशेषतः ।

शूद्रविट्क्षत्रियाः स्नानं नाचरेयुः कथञ्चन ॥

“अम्भोऽवगाहनं स्नानं विहितं सार्ववर्णिकम्” इति यत् सामान्येन प्रसक्तं स्नानं तद् अनेन त्रयोदश्यादिषु शूद्रादीनां यथाक्रमं निषिध्यते ।

[३७] बौधायनः [२.६.२४–२५] ।

न नग्नः स्नायात् । न नक्तं स्नायात् ।

आपस्तम्बः [१.३२.७–८] ।

सशिरो ऽवमज्जनम् अप्सु वर्जयेत् । अस्तमिते च स्नानम् ।

उदकं प्रविश्य सशिरस्कं रागतो निमज्जनं न कुर्यात् । “अस्तमिते च स्नानम्” वर्जयेद् इत्य् अनुषङ्गः । एतद् अपि रागप्राप्तस्नानमात्रविषयम् ।

पराशरः [१२.२२] ।

दिवाकरकरैः पूतं दिवा स्नानं प्रशस्यते ।

अप्रशस्तं निशि स्नानं रहोर् अन्यत्र दर्शनात् ॥

यथा स्नानं च दानं च सूर्यस्य ग्रहणे दिवा ।

सोमस्यापि तथा रात्रौ स्नानं दानं विधीयते ॥

योगियाज्ञवल्क्यः ।

उभे सन्ध्ये तु स्नातव्यं ब्राह्मणैश् च गृहाश्रितैः ।

[३८] तिसृष्व् अपि च सन्ध्यासु स्नातव्यं तु तपस्विभिः ॥

“तपस्वी” वानप्रस्थादिः ।

शङ्खलिकितौ

    अनश्नन्न् अनग्नः स्नायात् । नाप्सु मेहेत । नोद्घर्षणं कुर्यात् । न पादेन पाणिना वा जलम् अभिहन्यात् । यस्माद् आपो वै सर्वा देवताः । न स्रवन्तीं वृथातिक्रामेद् अनवसिच्य । अमेध्योदकं परिहरेत् । नाल्पोदके स्नायात् । न समुद्रोदकम् अवगाहेत् ।

“अनश्नन्” ताम्बूलादिभक्षणम् अकुर्वाणः । “मेहनं” मूत्रोत्सर्गः । “उद्घर्षणं” अक्गमलापकर्षणम् । “अप्सु न कुर्याद्” इत्य् अन्वयः । “अतिक्रामेत्” लङ्घयेत् । “वृथ” निष्प्रयोजनम् । “अनवसिच्य” तर्पणम् अकृत्वा । “अमेध्यं” अशुचि । “परिहरेत्” न किञ्चित् तत्र कुर्यात् । “अल्पोदके न स्नायाद्” इति, प्रभूतसुमनोहरोदकसम्भवे । “प्रभूते विद्यमाने” [३९] इत्यादि वचनात् । “नावगाहेत्” अन्तः प्रविश्य न स्नायात् ।

देवलः ।

न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतम् ।

नान्यत् प्रशंसेत् तत्रस्थस् तीर्थेष्व् आयतनेषु च ॥

हारीतः

न चत्वरोपद्वारयोः स्नायात् ।

“चत्वरं” यक्षादिबलिदानस्थानम् । “उपद्वारं” द्वारसमीपम् ।

पुनर् हारीतः

न स्नानवर्णकयोर् अग्रं प्रयच्छेत् । अन्यत्र देवगुरुब्राह्मणेभ्यः ।

स्नात्य् अनेनेति “स्नानं” कुशादि । “वर्णकं” सुगन्धिद्रव्यम्, उद्वर्तनादिवर्णकरत्वात् ।

[४०] विष्णुः [६४.१–९] ।

    परनिपानेषु न स्नानम् आचरेत् । आचरेद् वा पञ्चपिण्डान् उद्धृत्यापदि । नाजीर्णी । न चातुरः । न नग्नः । न राहुदर्शनवर्जं रात्रौ । न सन्ध्यायाम् । प्रातःस्नाय्य् अरुणकरग्रस्तां प्राचीम् अवलोक्य स्नायत् ।

“आपदि” अकृत्रिमे जले स्नानासम्भवे । “सन्ध्यायां” सायंसन्ध्यायाम् ।

**पैठीनसिः **।

    अथ स्नानविधिः । परकृतान् सेतून् कूपांश् च वर्जयेत् । अंशभाक् तत्र सेतुकृत् त्रीन् पिण्डान् उद्धृत्य स्नायात् ।

मनुः [४.२०९] ।

परकीयनिपानेषु स्नायान् नैव कदाचन ।

[४१] निपानकर्तुः स्नाता हि दुष्कृतांशेन लिपयते ॥

“परकीयं” परकृतमात्रम् । तत् तु प्रतिष्ठितम् अप्रतिष्ठितं वा, अविशेषेण “परकृतान्” इति पैठीनसि-बौधायनवचनानुसारात् । स्वकारिते तु न विरोधः । “निपानं” जलाधारः ।

बौधायनः [२.५.१–५] ।

    तपस्यम् अपाम् अवगाहनम् । देवतास् तर्पयित्वा पितृतर्पणम् । अनुतीर्थम् अप उत्सिञ्चेद् “ऊर्जं वहन्तीर्” इति । अथाप्य् उदाहरन्ति ।


    	स्रवन्तीष्व् अनिरुद्धासु त्रयो वर्णा द्विजातयः ।


    	प्रातर् उत्थाय कुर्वीरन् देवर्षिपितृतर्पणम् ॥


    	निरुद्धासु न कुर्वीरन्न् अंशभाक् तत्र सेतुकृत् ।


    	तस्मात् परकृतान् सेतून् कूपांश् च परिवर्जयेत् ॥


    	उद्धृत्य वापि त्रीन् पिण्डान् कुर्याद् आपत्सु नो सदा ।

[४२] निरुद्धासु तु मृत्पिण्डान् कूपात् त्रीन् त्रीन् घटांस् तथा ॥

तपसे हितं “तपस्यम्” अवगाहनम् । तपश् चात्र नित्यनैमित्तिकादिकर्माणुष्ठानम् अभिमतम् । स्नातस्य तत्राधिकारात् । “अनुतीर्थं” तीर्थं लक्ष्मीकृत्य, देवपित्रादितीर्थेनेत्य् अर्थः । “ऊर्जं वहन्तीर्” इति तर्पणान्तिमपदार्थोपादानम् एतावान् एकः प्रयोग इति ज्ञापनार्थम् । “निरुद्धासु” निरुद्धप्रवाहासु ।

शङ्खलिखितौ

    नेष्टकाचिते पितॄंस् तर्पयेत् । वापीतडगोदपानेषु सप्त पञ्च त्रीन् वा पिण्डान् उद्धृत्य देवपितॄंस् तर्पयेत् ।

याज्ञवल्क्यः [१.१५९] ।

पञ्च पिण्डान् अनुद्धृत्य न स्नायात् परवारिषु ।

स्नायान् नदीदेवखातह्रदेषु च सरःसु च ॥

पैठीनसि-बौधायनवचनात् स्नानकर्तुर् मृत्पिण्डाम्बुघट**[४३]**त्रयोद्धरणं सेतुकूपविषयम् । पञ्चपिण्डोद्धरणं तु विष्णूक्तम् एतदतिरिक्तकृत्रिमजलविषयम् । यत् तु शङ्खलिखितोक्तं सप्तपञ्चत्रयमृत्पिण्डोद्धरणं तत् तर्पणार्थं यथासङ्ख्यं वापीकूपतडागविषयम् ।

मनुः [४.२०३] ।

नदीषु देवखातेषु तडागेषु सरःसु च ।

स्नानं समाचरेन् नित्यं गर्तप्रस्रवणेषु च ॥

“देवखातेषु तडागेषु” देवसम्बन्धित्वेन प्रसिद्धेषु सरःसु । “गर्तः” –

“धनुःसहस्राण्य् अष्टौ तु गतिर् यासां न दिव्यते- ।

इति वक्ष्यमाणः । “प्रस्रवणं” निर्झरः ।

विष्णुपुराणे [३.११.२६] ।

कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि ।

स्नायीतोद्धृततोयेन यदि वा भुव्य् असम्भवे ॥

[४४] “कूपेषु” तत् तोयं तेनोद्धृतेन भुवि स्थितः स्नायात् । “असम्भवे” अन्यत्रापि तडागादाव् अवगाह्य स्नानसम्भव इत्य् अर्थः ।

**विष्णुः **[६४.१६–१७] ।

    स्नायात् प्रस्रवणदेवखातसरोवरेषु । उद्धृताद् भूमिष्ठम् उदकं पुण्यं स्थावरात् प्रस्रवणं तस्मान् नादेयं तस्माद् अपि साधुपरिगृहीतं सर्वत एव गार्ह्यम् ।

ऽसाधुपरिगृहीतं” यथा रामपरिगृहीतं चित्रकूटादौ मन्दाकिन्यादि ।

शङ्खः

सर्वतीर्थानि पुण्यानि पापघ्नानि सदा नृणाम् ।

परस्परानपेक्षाणि कथितानि मनीषिभिः ॥

सर्वे प्रस्रवणाः पुण्याः सर्वे पुण्याः शिलोच्चयाः ।

नद्यः पुण्याः सदा सर्वा जाह्नवी च विशेषतः ॥

यस्य हस्तौ च पादौ च मनश् चैव सुसंयतः ।

[४५] विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते ॥

नृणां पापकृतां तीर्थे पापस्य शमनं भवेत् ।

यथोक्तफलदं तीर्थं भवेच् छ्रद्धात्मनां नृणाम् ॥

“हस्तसंयमः” निन्दितप्रतिग्रहादिनिवृत्तिः । “पादसंयमः” अगम्यदेशगमननिवृत्तिः । “मनःसंयमः” कामक्रोधादिनिवृत्तिः । “विद्या” सच्छास्त्रवेदरूपा । “तपः” चान्द्रायणादिः । “कीर्तिः” धार्मिकत्वादिना प्रसिद्धिः । न नरस्य पापकृतः सर्वथा तीर्थं निष्फलम् इत्य् उक्तम् — “नृणाम्” इति ।

**योगियाज्ञवल्क्यः **।

प्रभूते विद्यमाने तु उदके सुमनोहरे ।

नाल्पोदके द्विजः स्नायान् नदीं चोत्सृज्य कृत्रिमे ॥

त्रिरात्रफलदा नद्यो याः काश्चिद् असमुद्रगाः ।

समुद्रगास् तु पक्षस्य मासस्य सरितां पतिः ॥

वृथा तूष्णोदकस्नानं वृथा जप्यम् अवैदिकम् ।

[४६] वृथा त्व् अश्रोत्रिये दानं वृथा भुक्तम् असाक्षिकम् ॥

“त्रिरात्रफलदाः” नदीव्यतिरिक्ते जले यत् त्रिरात्रस्नाने फलं तत्फलदाः । एवं “पक्षस्य मासस्य” इत्य् अपि बोद्धव्यम् । “वृथा” शरीरशुद्धिव्यतिरिक्तस्नानफलशून्यम् ।

भविष्यपुराणे

शिवलिङ्गसमीपस्थं यत् तोयं पुरतः स्थितम् ।

शिवलिङ्गेति तज् ज्ञेयं तत्र स्नात्वा दिवं व्रजेत् ॥

छन्दोगपरिशिष्टे कात्यायनः [१.७.१४०–१५१] ।

यव्यद्वयं श्रावणादि सर्वा नद्यो रजस्वलाः ।

तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः ॥

नभोनभस्ययोर् मध्ये सर्वा नद्यो रजस्वलाः ।

तासु स्नानं न कुर्वीत देवर्षिपितृतर्पणम् ॥

धनुःसहस्राण्य् अष्टौ तु गतिर् यासां न विद्यते ।

न ता नदीशब्दवहा गर्तास् ते परिकीर्तिताः ॥

उपाकर्मणि चोत्सर्गे प्रेतस्नाने तथैव च ।

[४७] चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते ॥

वेदाश् छन्दांशि सर्वाणि ब्रह्माद्याश् च दिवौकसः ।

जलार्थिनो हि पितरो मरीच्याद्यास् तथर्षयः ॥

उपाकर्मणि चोत्सर्गे स्नानार्थं ब्रह्मवादिनः ।

यियासून् अनुगच्छन्ति संहृष्टा ह्य् अशरीरिणः ॥

समागमश् च यत्रैषां तत्रान्ये भवो मलाः ।

नूनं सर्वे क्षयं यान्ति कुम् उतैकं नदीरजः ॥

ऋषीणां सिच्यमानानाम् अन्तरालं समाश्रितः ।

सम्पिबेद् यः शरीरेण पर्षन्मुक्तजलच्छटाः ॥

विद्यादीन् ब्राह्मणः कामान् पुत्रादीन् नार्य् अपि ध्रुवान् ।

आमुष्मिकान्य् अपि सुखान्य् आप्नुयान् नात्र संशयः ॥

अशुच्य् अशुचिना दत्तम् आममृच्छकलादिना ।

अनिर्गतदशाहास् तु प्रेता रक्षांसि भुञ्जते ॥

स्वर्धुन्य् अम्भःसमानि स्युः सर्वाण्य् अम्भांसि भूतले ।

कूपस्थान्य् अपि सोमार्कग्रहणे नात्र संशयः ॥

[४८] “यव्यो” मासः, “यव्या मासाः सुमेकः संवत्सरः” इति शतफथश्रुतेः । “रजस्वलाः” अविशुद्धाः । “समुद्रगाः” साक्षात्प्रत्यभिज्ञायमानसमुद्रगमनाः । “धनुः” हस्तचतुष्टयपरिमाणम् । ऋषीणां तर्पणे क्रियमाणे ऽन्तरालसाम्बन्धी यो जलबिन्दुसमुहस् तं “पिबेत्” शरीरेण सम्प्रतीच्छेद् इत्य् अर्थः । “अशुचि” द्रव्यम् । “अशुचिना” पुरुषेण । “आममृच्छकलादिना” अपक्वमृत्कपालादिना । “अनिर्गतदशाहाः” जन्मप्रभृति दशाहाभ्यन्तरे ये मृतास् ते प्रेताः । “रक्षांसि भुञ्जते” तद् दत्तं तद्गामि भवति । “समागमश् च यत्रैषाम्” इत्यादिना यो रजःप्रभृति सर्वप्रकारोदकदोषाभाव उक्तस् तदनुवादो ऽयं “अशुच्य् अशुचिना” इत्यादि । “स्वर्धुनी” गङ्गा ।

[४९] ब्रह्मपुराणे

नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानम् आचरेत् ।

तर्पणं तु भवेत् तस्य चाङ्गत्वेन प्रकीर्तितम् ॥

दक्षः [२.४८–४९] ।

नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानम् उच्यते ।

तेषां मध्ये तु यन् नित्यं तत् पुनर् भिद्यते त्रिधा ॥

मलापकर्षणं पार्श्वे मन्त्रवत् तु जले स्मृतम् ।

सन्ध्यास्नानम् उभाभ्यां तु स्नानभेदाः प्रकीर्तिताः ॥

“पार्श्वे” न जलमध्य इति तात्पर्यम् । “सन्ध्यास्नानं” प्रातःस्नानम् । “उभाभ्याम्” इति, जले स्थले च ।

शङ्खः [८.१–११] ।

नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ।

क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम् ॥

अस्नातस् तु पुमान् नार्हो जप्याग्निहवनादिषु ।

प्रातःस्नानं तदर्थं तु नित्यस्नानं प्रकीर्तितम् ।

[५०] चाण्डालशवपूयादि स्पृष्ट्वास्नातां रजस्वलाः ।

स्नानार्हस् तु यतः स्नाति स्नानं नैमित्तिकं हि तत् ॥

पुष्यस्नानादिकं यत् तु दैवज्ञविधिचोदितम् ।

तद् धि काम्यं समुद्दिष्टं नाकामस् तत् प्रयोजयेत् ॥

जप्तुकामः पवित्राणि चार्चिष्यन् देवताः पितॄन् ।

स्नानं समाचरेद् यस् तु क्रियाङ्गं तत् प्रकीर्तितम् ॥

मलापकर्षणं नाम स्नानम् अभ्यङ्गपूर्वकम् ।

मलापकर्षणार्थं तु प्रवृत्तिस् तस्य नान्यथा ॥

सरःसु देवखातेषु तीर्थेषु च नदीषु च ।

क्रियास्नानं समुद्दिष्टं स्नानं तत्र मता क्रिया ॥

तत्र काम्यं च कर्तव्यं यथावद् विधिचोदितम् ।

नित्यं नैमित्तिकं चैव क्रियाङ्गं मलकर्षणम् ॥

तीर्थाभावे तु कर्तव्यम् उष्णोदकपरोदकैः ।

स्नातस्य वह्नितप्तेन तथैव परवारिणा ॥

शरीरशुद्धिर् विज्ञेया न तु स्नानफलं लबेत् ।

अद्भिर् गात्राणि शुध्यन्ति तीर्थस्नानाद् भवेत् फलम् ॥

[५१] सरःसु देवखातेषु तीर्थेषु च नदीषु च ।

स्नानम् एव क्रिया यस्मात् स्नानात् पुण्यफलं मतम् ॥

“अभ्यङ्गपूर्वकम्” इति मलापकर्षणस्नानोपलक्षणम् । तीर्थशब्दो ऽत्र तीर्थभूतवापीकूपतडागादिपरः । “मता” अभिमता । “यथावत्” पुष्यस्नानाद्युक्तेतिकर्तव्यता । “नित्यं नैमित्तिकम्” इत्य् एतेनार्थाद् इदम् उक्तम् – काम्यस्नानक्रियास्नाने उष्णोदकपरोदकाभ्यां न कर्तव्ये इति । “परवारि” परकृत्रिमजलम्, अकृत्रिमं च परेणोपार्जितम् । “स्नानफलं” स्वर्गादि ।

**हारीतः **।

पञ्च स्नानानि विप्राणां कीर्तितानि मनीषिभिः ।

आग्नेयं वारुणं ब्राह्मम् वायव्यं दिव्यम् एव च ॥

आग्नेयं भस्मना स्नानम् अद्भिर् वारुणम् उच्यते ।

आपो हि ष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ॥

अभिर् आतपवर्षाभिर् दिव्यं स्नानम् इहोच्यते ।

एतैस् तु मन्त्रतः स्नात्वा तीर्थानां फलम् आप्नुयात् ॥

[५२] “आग्नेयम्” अग्निशब्दो ऽत्राग्निकार्ये भस्मनि वर्तते लक्षणया । “सर्वत्राग्निकलिभ्यां ढग्वक्तव्य” इति ढक् । “आपो हि ष्ठा” इति मन्त्रचतुष्टयोपलक्षणम् । “एतैः” आग्नेयादिभिः । “मन्त्रतो” मृदाल्म्भादिसाधनमन्त्रोच्चारणेन ।

योगियाज्ञवल्क्यः

कालदोषाद् असामर्थान् न शक्नोति यदा ह्य् असौ ।

तदा ज्ञात्वा ऋषिभ्यस् तु मन्त्रैर् दृष्टं तु मार्जनम् ॥

शन् न आपस् तु द्रुपदा आपो हि ष्टाघमर्षणम् ।

एतैश् चतुर्भिर् ऋङ्मन्त्रैर् मन्त्रस्नानम् उदाहृतम् ॥

स्नानम् अब्दैवतैर् मन्त्रैर् मार्जनं प्राणसंयमः ।

अघमर्षणसूक्तेन अश्वमेधावभृत्समम् ॥

अप्रायत्ये समुत्पन्ने स्नानम् एव तु कारयेत् ।

पूर्वोद्दिष्टैस् तथा मन्त्रैर् अन्यथा मार्जनं भवेत् ॥

“कालदोषः” अतिवृष्ट्यादिः “असामर्थ्यं” शरीरापाटवहेतुः । कालस्याल्पत्वेन सम्पूर्णवारुणस्नानविधिकरणायोग्यत्वं [५३] वा । “स्नानम् अब्दैवतैर् मन्तैर्” इति, अब्दैवतैर् मार्जनम्, “अघमर्षण्सूक्तेन प्राणसंयम” इत्य् अन्वयः । ईदृशमन्त्रस्नानं पूर्वोक्तमन्त्रस्नानाद् उत्कृष्टम् । “अप्रायत्यम्” अशुद्धिः । “स्नानम्” अत्राप्लवनम् । “अन्यथा” अशुद्ध्यभावे ।

पुनर् योगियाज्ञवल्क्यः

असामर्थाच् छरीरस्य कालशक्त्याद्यपेक्षया ।

मन्त्रस्नानादितः सप्त केचिद् इच्छन्ति सूरयः ॥

मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यम् एव च ।

वारुणं मानसं चैव सप्तस्नानं प्रकीर्तितम् ॥

अपो हि ष्ठेति वै मान्त्रं मृदालम्भस् तु पार्थिवम् ।

आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ॥

यत् तु सातपवर्षेण स्नानं तद् दिव्यम् उच्यते ।

वारुणं चावगाहात् तु मानसं विष्णुचिन्तनम् ॥

शस्तं स्नानं यथोद्दिष्टं मन्त्रस्नानक्रमेण तु ।

[५४] कालाद् देशाद् असामर्थात् सर्वं तुल्यफलं स्मृतम् ॥

मानसं प्रवरं स्नानं केचिद् इच्छन्ति सूरयः ।

आत्मतीर्थप्रशंसायां व्यासेन पठितं यतः ॥

मन्त्रस्नानक्रमेण यथोद्दिष्टं सर्वम् एव स्नानं प्रशस्तम् । अत्रैव हेतुः – “कालाद् देशाद्” इति । यत इति शेषः । वारुणं मुख्यं स्नानम् । कालदोषादौ त्व् अन्यद् अपि मान्त्रादि तत्तुल्यफलम् ।

स्कन्दपुराणे

पुण्यं कनखले यच् च प्रयागे यच् च सुन्दरि ।

तत् फलं सकलं देवि भूतिस्नाने दिने दिने ॥

तथा

उच्छिष्टं वा प्रमत्तं वा नरवाहननन्दिते ।

भूतिस्पृष्टं हि न नरं धर्षयन्ति विनायकाः ॥

“प्रमत्तः” अनवहितः । “धर्षयन्ति” अभिभवन्ति ।

[५५] विष्णुपुराणे [२.९.१२–१३, १५–१६] ।

आकाशगङ्गासलिलं समादाय गभास्तिमान् ।

अनभ्रगतम् एवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥

तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तमः ।

न याति नरकं मर्त्यो दिव्यं स्नानं हि तत् स्मृतम् ॥

कृत्तिकादिषु ऋक्षेषु विषमेष्व् अम्बु यद् दिवः ।

दृष्टार्कं पतति ज्ञेयं तद् गाङ्गं दिग्गजोज्झितम् ॥

युग्मर्क्षेषु च यत् तोयं पतत्य् अर्कोज्झितं दिवः ।

तत् सूर्यरश्मिभिः सद्यः समादाय निरस्यते ॥

“विषमेषु” प्रथमतृतीयपञ्चमसप्तमनवमादिषु कृत्तिकाXXगशिरःपुनर्वसुप्रभृतिषु । “युग्मर्क्षेषु” समेषु रोहिण्यार्द्राप्रभृतिषु ।

तथा [२.९.१७] ।

उभयं पुण्यम् अत्यर्थं नृणां पापहरं द्विज ।

आकाशगङ्गासलिलं दिव्यं स्नानं महामुने ॥

[५६] वाराहपुराणे

दक्षिणावर्तशङ्खेन तिलमिश्रोदकेन तु ।

उदके नाभिमात्रे तु यः कुर्याद् अभिषेचनम् ॥

प्राक्स्रोतसि तु वै नद्यां नरस् व् एकाग्रमानसः ।

यावज्जीवकृतं पापं तत्क्षणाद् एव नश्यति ॥

“प्राक्स्रोतसि” पूर्वदिक्प्रवाहायाम् ।

अच्छिन्नपद्मपत्रेण सर्वरत्नोदकेन च ।

स्रोतसो वै नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥

दक्षिणावर्तशङ्खेन पात्र औदुम्बरे स्थितम् ।

उदकं यः प्रतीच्छेत शिरसा हृष्टमानसः ॥

तस्य जन्मकृतं पापं तत्क्षणाद् एव नश्यति ।

[५७] “औदुम्बरे” ताम्रे । “शिरसा” इति सप्तम्यर्थे तृतीया ।

जाबालिः

अशिरस्कं भवेत् स्नानं स्नानाशक्तौ तु कर्मिणाम् ।

आर्द्रेण वाससा वापि मार्जनं दैहिकं विदुः ॥

शिर इत्य् अनुवृत्तौ मनुः [४.८२] ।

न च स्नायाद् विना ततः ॥

अनेन स्नानशक्तौ सत्यां विहितं स्नानं सशिरस्कम् एव कर्तव्यम् इत्य् उक्तम् ।

मार्कण्डेयपुराणे [३४.३५] ।

शिरःस्नातस् तु कुर्वीत दैवं पित्र्यम् अथापि वा ।

अथ स्नानविधिः ।

तत्र शङ्खः [९.१–१५] ।

क्रियास्नानं तु वक्ष्यामि यथावद् अनुपूर्वशः ।

मृद्भिर् अद्भिश् च कर्तव्यं शौचम् आदौ यथाविधि ।

[५८] जले ऽभिमग्नस् तून्मज्य उपस्पृश्य यथाविधि ॥

तीर्थस्यावाहनं कुर्यात् तत् प्रवक्ष्याम्य् अतः परम् ।

“प्रपद्ये वरुणं देवम् अम्भसां पतिम् ऊर्जितम् ॥

याचितं देहि मे तीर्थ सर्वपापापनुत्तये ।

तीर्थम् आवाहयिष्यामि सर्वाघविनिषूदनम् ॥

सान्निध्यम् अस्मिन् स्वे तोये भजतां मदनुग्रहात् ।

रुद्रान् प्रपद्ये वरदान् सर्वान् अप्सुषद्ः स्वयम् ॥

सर्वान् अप्सुषदश् चैव प्रपद्ये प्रणतह् स्थितः ।

देवम् अप्सुषदं वह्निं प्रपद्ये ऽघनिषूदनम् ॥

आपः पुण्याः पवित्राश् च प्रपद्ये शरणं तथा ।

रुद्राश् चाग्निश् च सर्पाश् च वरुणस् त्व् आप एव च ॥

शमयन्त्व् आशु मे पापं पुनन्तु च सदा मम” ।

इत्य् एवम् उक्त्वा कर्तव्यं तत्र सम्मार्जनं जले ॥

आपो हि ष्ठेति तिसृभिर् यथावद् अनुपूर्वशः ।

हिरण्यवर्णेति च वै ऋग्भिश् चतसृभिस् तथा ॥

शन् नो देवीर् इति तथा शन् न आपस् तथैव च ।

[५९] इदम् आपः प्रवहत तथा मन्त्रम् उदीरयेत् ॥

एवं सम्मार्जनं कृत्वा छन्द आर्षं च दैवतम् ।

अघमर्षणसूक्तस्य संस्मरेत् प्रयतः सदा ॥

छन्द आनुष्टुभं तस्य ऋषिश् चैवाघमर्षणः ।

देवता भाववृत्तश् च पापघ्नस्य प्रकीर्तितः ॥

ततो ऽम्भसि निमज्जेत् तु त्रिः पठेद् अघमर्षणम् ।

यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः ॥

तथाघमर्षणं सूक्तं सर्वपापापनोदनम् ।

अनेन विधिना स्नात्वा अब्मध्ये स्नानवाससा ॥

परिवर्तितवासाश् चेत् तीर्थतीर उपस्पृशेत् ।

उदकस्याप्रदानाद् धि स्नानशाटीं न पीडयेत् ॥

अनेन विधिना स्नातः पुण्यं फलम् उपाश्नुते ।

“भजताम्” इत्य् अस्य “वरुण” इति विपरिणतेनान्वयः । “हिरण्यवरेति”, “हिरण्यवर्णा शुचयः पावकाः” इत्याद्याश् चतस्रस् तैत्तिरीय-मैत्रायणीययोः । “शन् न आप” इति, “शन् न आपो धन्वन्या” इति कठशाखायाम् । “पापघ्नस्य” अघमर्षणसूक्तस्येत्य् अन्वयः ।

**योगियाज्ञवल्क्यः **।

एतच् छ्रुत्वाथ वचनं **याज्ञवल्क्यस्य** वै तदा ।

[६०] ऋषयः संशितात्मानः पृच्छन्ति स्नाननिश्चयम् ॥

स्नानम् अब्दैवतैर् मन्त्रैर् यत् त्वयोक्तं पुरानघ ।

तदाचक्ष्व विशेषेण स्नानस्य तु विधिं प्रभो ॥

तान् प्रत्युवाच प्रीतात्मा **याज्ञवल्क्यो **"मितद्युतिः ।

शृणुध्वं वक्ष्यते स्नानं सर्वपापप्रणाशनम् ॥

मृत्तिलान् गोमयं दर्भान् पुष्पाणि सुरभीणि च ।

आहरेत् स्नानकाले तु स्नानार्थं प्रयतः शुचिः ॥

गत्वोदकान्तं विविक्तम् आस्थाप्यैतत् पृथक् क्षितौ ।

त्रिधा कृत्वा मृदं तां तु गोमयं तु विचक्षणः ॥

अधमोत्तममध्यानाम् अङ्गानां क्षालनं तु वै ।

भागैः पृथक् पृथक् कुर्यात् क्षालने मृदसङ्करः ॥

तथा

अद्भिर् मृद्भिश् च चरणौ प्रक्षाल्याचम्य वै शुचिः ।

उरुं हीति ऋचा तोयम् उपस्थाय प्रदक्षिणम् ॥

आवर्तयेत् तद् उदकं ये ते शतम् इति ऋचा ।

[६१] सुमित्रिया इत्य् अञ्जलिम् उद्धरेद् दैवतं स्मरन् ॥

दुर्मित्रिया इति द्वेष्यं ध्यायांश् चापः प्रसेचयेत् ॥

अद्भिर् मृद्भिश् च गात्राणि क्रमशस् त्व् अवनेजयेत् ।

एकया तु शिरः क्षाल्य द्वाभ्यां नाभेस् तथोपरि ॥

कटिवस्त्यूरु जङ्घे च चरणौ च त्रिभिस् त्रिभिः ।

प्रक्षाल्य हस्तौ चाचम्य नमस्कृत्य जलं तु तत् ॥

यत् किं चेति च मन्त्रेण नमस्येत् प्रयताञ्जलिः ।

यत्र स्थाने तु यत् तीर्थं नदी पुण्यतमा च या ॥

तां ध्यायेन् मनसावाह्य चान्यत्रेष्टं विचिन्तयेत् ।

गङ्गादिपुण्यतीर्थानि कृत्रिमादिषु संस्मरेत् ॥

उद् उत्तमम् इति विशेत् तज् जलं प्राङ्मुखः शुचिः ।

येन देवाः पवित्रेति कुर्याद् आलम्भनं त्रिभिः ॥

सव्याहृतिभिः पश्चाद् आचामेत् प्रयतो ऽपि सन् ।

आलभेत मृदाङ्गानि इदं विष्णुर् इति ऋचा ॥

भास्कराभिमुखो मज्जेद् आपो अस्मान् इति ऋचा ।

[६२] ततो ऽवमृष्य गात्राणि निमज्योन्मज्य वै पुनः ॥

आचम्य गोमयेनापि मानस्तोक्या समालभेत् ।

ततो ऽभिषिच्य मन्त्रैस् तु वारुणैश् च यथाक्रमम् ॥

इमं मे वरुणेत्य् ऋग्भ्यां त्वन् नः स त्वन् न इत्य् अपि ।

माप उद् उत्तमम् इति मुञ्चत्व् अवभृथेति च ॥

अभिषिच्य तद् आत्मानं निमज्याचम्य वै पुनः ।

दर्भैस् तु पावयेन् मन्त्रैर् अब्लिङ्गैः पावनैः शुभैः ॥

आपो हि ष्ठेति तिसृभिर् इदम् आपो हविष्मतीः ।

देवीर् आप इति द्वाभ्याम् अपो देवा इति ऋचा ॥

द्रुपदाद् इव इत्य् ऋचा शन्नो देवीर् अपां रसम् ।

[६३] अपो देवीः पावमान्यः पुनन्त्व् आद्या ऋचो नव ॥

चित्पतिर् मेति च शनैः पाव्यात्मानं समाहितः ।

हिरण्यवर्णा इति च पावमान्यस् तथापराः ॥

तरत्समाः शुद्धवतीः पवित्राण्य् अपि शक्तितः ।

वारुणीश् च ऋचः सूक्तं शक्तितः सम्प्रयोजयेत् ॥

जलमध्ये स्थितो विप्रः शुद्धभावो हरिं स्मरेत् ।

ओङ्कारेण व्याहृतिभिर् गायत्र्या तु समाहितः ॥

आदाव् अन्ते च कुर्वीत ह्य् अभिषेकं यथाक्रमम् ।

अपां मध्ये स्थितस्यैवं मार्जनं तु विधीयते ॥

अन्तर्जले जपेन् मन्त्रं त्रिःकृत्वस् त्व् अघमर्षणम् ।

द्रुपदां वा त्रिर् अभ्यस्येद् आयं गौर् इति वा त्र्यृचम् ॥

हंसः शुचिषद् इत्य् ऋचं त्रिर् आवर्त्य जपेद् अथ ।

अन्यानि चैव सूक्तानि स्मार्तदृष्टान्य् अनुस्मरेत् ॥

सव्याहृतिं सप्रणवां गायत्रीं त्रिर् जपेद् अथ ।

[६४] आवर्तयेद् वा प्रणवं स्मरेद् वा विष्णुम् अव्ययम् ॥

विष्णोर् आयतनं ह्य् आपः स ह्य् अपां पतिर् उच्यते ।

तस्यैव सूनवस् त्व् एतास् तस्मात् तं ह्य् अप्सु संस्मरेत् ॥

नराद् आपः प्रसूता वै तेन नारा इति स्मृताः ।

ता एवास्यायनं ह्य् आपस् तस्मान् नारायणः स्मृतः ॥

यं हि व्रतानां वेदानां यमस्य नियमस्य च ।

भोक्तारं यज्ञतपसां ध्यायिनां ध्येयम् एव च ॥

ध्यायन् नारायणं नित्यं स्नानादिषु च कर्मसु ।

प्रायश्चित्तेषु सर्वेषु दुष्कृतान् मुच्यते पुमान् ॥

प्रमादात् कुर्वतां कर्म प्रच्यवत्य् अध्वरेषु यत् ।

स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्यादि इति स्मृतिः ॥

तद् विष्णोर् इति मन्त्रेण मज्जेद् अप्सु पुनः पुनः ।

गायत्री वैष्णवी ह्य् एषा विष्णोः संस्मरणय वै ॥

पादेन पाणिना वापि यष्टव्या वस्त्रेण चोदकम् ।

न हन्यान् नैव वादेच् च न च पक्षोभयेद् बुधः ॥

न कुर्यात् कस्यचित् पीडां कर्मणा मनसा गिरा ।

आचरन्न् अभिषेकं तु कर्माण्य् अन्यानि नाचरेत् ॥

यो ऽसौ विस्तरशः प्रोक्तः स्नानस्य विधिर् उत्तमः ।

असामर्थ्यान् न कुर्याच् चेत् तत्रायं विधिर् उच्यते ॥

स्नानम् अन्तर्जलं चैवं मार्जनाचमने तथा ।

[६५] जलाभिमन्त्रणं चैव तीर्थस्य परिकल्पनम् ॥

अघमर्षणसूक्तेन त्रिरावृत्तेन नित्यशः ।

स्नानाचरणम् इत्य् एतत् समुद्दिष्टं महात्मभिः ॥

अन्यान् वा वारुणान् मन्त्रान् कामतः सम्प्रयोजयेत् ।

यथाकालं यथादेशं ज्ञात्वा कुर्याद् विचक्षणः ॥

“एतत्” मृत्तिकादि । “गोमयं च” “त्रिधा कृत्वा” इत्य् अनुषङ्गः । “अधमम् अङ्गम्” नाभेर् अधः । “उत्तमम् अङ्गम्” शिरः । “मध्यमम् अङ्गम्” नाभेर् उपरि कण्ठपर्यन्तम् । “मृदसङ्करः” पृथक्कृतमृद्भागामेलनम् । “उरुं हीति” “उरुं हि राजा वरुण” इत्यादिका । “ये ते शतम् इति” “ये ते शतं वरुणम्” इत्यादिका । “सुमित्रिया” इति, “सुमित्रिया न आप” इति यजुः । “दुर्मित्रिया” इति, “दुर्मित्रियास् तस्मै सन्तु” इति यजुः । “यत् किं च” इति, “यत् किं चेदं वरुण” इत्यादिका ऋक् । “अन्यत्र” उद्धृतजले । “इष्टं तीर्थम्” प्रयागादि । “कृत्रिमं” पुष्करिण्यादि । कृत्रिमादिष्व् [६६] इत्यादिशब्देनाकृत्रिमतीर्थभूतह्रदादिग्रहणम् । “उद् उत्तमम्” इति, “उद् उत्तमं वरुण पाशम्” इत्यादिका ऋक् । “प्राङ्मुखः कुर्याद्” इति, “आलम्भनम्” इत्य् अन्वयः । “आलम्भनम्” हस्तेन नद्यादिजलस्पर्शनम् । “इदं विष्णुर्” इति, “इदं विष्णुर् विचक्रमे” इति ऋक् । मृदालम्भनं चार्थाद् अङ्गप्रक्षालनार्थं त्रिधाकृतमृद्व्यतिरिक्तमृद, त्रिधाकृताया अङ्गप्रक्षालने विनियुक्तत्वात् । “आपो अस्मान्” इति “आपो अस्मान् मातर” इति ऋक् । “भाकराभिमुखो मज्जेद्” इत्य् एतत् तडागादौ बोद्धव्यम् । तद् उक्तं नृसिंहपुराणे

नद्याम् स्रवत्सु च स्नायात् प्रतिस्रोतः स्थितो द्विजः ।

तडागादिषु तोयेषु प्रत्यर्कं स्नानम् आचरेत् ॥ इति ।

“मानस्तोक्या”, “मानस्तोके तनये मान” इत्य् अनया ऋचा । “इमं म” इति, “इमं मे वरुण श्रुधी हवम्” इति, “तत् त्वा यामि” इति ऋचौ । “त्वन् न” इति, “त्वन् नो अग्ने वरुणस्य” इत्यादिका ऋक् । “स त्वन् न” इति, स त्वन् नो [६७] अग्ने ऽवमो भवोति” इत्यादिका ऋक् । “माप” इति, “मापो मौषधीः” इत्यादिका ऋक् । “उद् उत्तमम्” इति, “उद् उत्तमं वरुण पाशम्” इत्यादिका। “मुञ्चतु” इति, “मुञ्चन्तु मा शपथाद्” इत्यादिका । “अवभृथ” इति, “अवभृथनिचुम्पुण” इत्यादि यजुः । “इदम् आप” इति, “इदम् आपः प्रवहत” इति । “हविष्मतीर्” इति, “हविष्मतीर् इमा आप” इति । “देवीर् आप इति द्वाभ्याम्” इति, “देवीर् आपो अपान्नपाद्” इति । “कार्षिर् असि” “समुद्रस्य त्वा” इति द्वे । “अपो देवा” इति, “अपो देवा मधुमतीः” इति । “द्रुपदाद् इव” इति, “द्रुपदाद् इव मुमुचान” इति । “शन् नो देवीर्” इति, “शन् नो देवीर् अभिष्टये” इति । “अपां रसम्” इति, “अपां रसम् उद्वयसम्” इति । “आपो देवीर्” इति, “आपो देवीर् उपसृज” इति । “पावमान्यः” “पुनन्तु मा पितर” इत्याद्या नव [६८] ऋचः । “चित्पतिर् मा” इति, “चित्पतिर् मा पुनातु” इति, “वाक्पतिर् मा पुनातु” अन्ये च “अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः” इत्य् अनुषङ्गेण मन्त्रद्वयम् । “देवो मा सविता पुनात्व् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः” इति च तृतीयो मन्त्रः । एतैर् मन्त्रैः “पाव्य” पावयित्वेत्य् अर्थः । “हिरण्यवर्णा” उक्ताः । अपराः “पावमान्यः” “पावमानीः स्वस्त्ययनीः” इत्य् आदिकाः । “तरत्समाः” “तरत्समन्दी धावति” इत्यादिकाः । “शुद्धवतीः” “एतोन्विन्द्रस् त्वाम” इत्यादिका । “पवित्राणि” पुरुषसूक्तादीनि । “वारुण ऋचः” अपरा अपि । “सूक्तं” च वारुणम् एव । “आदाव् अन्ते च” इति, आदौ पावनस्य पावनस्यान्ते चेत्य् अर्थः । “अभिषेकः” शिरसि हस्तेन जलक्षेपः । एवम् अभिषेकवत् प्रणवव्याहृतिगायत्रीभिर् मार्जनम् अपि जलस्थेन कर्तव्यम् इत्य् अर्थः । “आयं गौर्” इति, “आयं गौः पृश्नि अक्रमीत्” इति । “हंसः शुचिषद्” इति, “हंसः शुचिषद् वसु” इत्यादिका । स्मार्त**[६९]**दृष्टान्” स्मार्तैर् मन्वादिभिर् दृष्टानि । यथा “युञ्जते मन” इत्य् अनुवाकः । “विष्णुम् अव्ययम्” व्यापिनं कारणपुरुषम् इत्य् अर्थः । “प्रायश्चित्तेषु” पापक्षयहेतुषु सर्वेषु कर्मसु नारायणं ध्यायन् दुष्कृतान् मुच्यते । यदि तु प्रमादाद् अङ्गवैकल्यम् अपि स्यात् तदापि सम्पूर्णफलत्वम् एवेत्य् अर्थः । “तद् विष्णोः” इति, “तद् विष्णोः परमं पदं सदा पश्यन्ति” इति । “अन्यानि” इति, आचरन्न् अभिषेकं पादाभिघातपरपीडापर्यन्तानि नाचरेत् । एतेन स्नानम् एवाङ्गहीनं भवतीति दर्शितम् । “यो ऽसौ” इति, यदि तु कालदेशासामर्थ्यादिवशाद् विस्तरेण स्नानविधिं कर्तुम् असमर्थस् तदाघमर्षणसूक्तेन त्रिर् आवृत्तेन तीर्थपरिकल्पन-जलाभिमन्त्रणाचमनमार्जनान्तर्जलज्पस्नानि कुर्याद् इत्य् अर्थः । पूर्वप्रतिपन्नक्रमवत् तीर्थपरिकल्पनादिपदार्थानुवादेन मन्त्रमात्रविपरीतक्रमाभिधाने ऽपि स एव क्रमो बोद्धव्यः । यदि तु कालदेशवशात् शक्नोति, तदापरान् अपि वारुणान् मन्त्रान् प्रयोजयेद् इत्य् अर्थः।

[७०] बौधायनः [२.८.१–१२] ।

    अथ हस्तौ प्रक्षाल्य कमण्डलुं मृत्पिण्डं च परिगृह्य तीर्थं गत्वा त्रिः पादौ प्रक्षालयते त्रिर् आत्मानम् । अथ हैके ब्रुवते – श्मशानम् आपो देवगृहं गोष्ठं यत्र च ब्राह्मणा अप्रक्षाल्य तु पादौ नान्तः प्रवेष्टव्यम् । अथापो ऽभिप्रपद्यते – 


    	हिरण्यशृङ्गं वरुणं पपद्ये तीर्थं मे दहि याचितः । 


    	यन् मया भुक्तम् असाधूनां पापेभ्यश् च प्रतिग्रहः ॥


    	यन् मे वाचा मनसा कर्मणा वा दुष्कृतं कृतम् । 


    	तन् म इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः ॥ इति ।


    अथाञ्जलिनाप उपहन्ति “सुमित्रिया न आप ओषधयः सन्त्व्” इति । तां दिशं निरुक्षति यस्याम् अस्य दिशि द्वेष्यो भवति “दुर्मित्रियास् तस्मै भूयासुर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म” इति । अथाप उपस्पृश्य त्रिः प्रदक्षिणम् उदकम् आवर्तयति “यद् अपां क्रूरं यद् अमेध्यं यद् अशाण्तं तद् अपगच्छताद्” इति । **[७१]** अप्सु निमज्योन्मज्य । नाप्सु सतः प्रयमणं विद्यते न वासःपल्पूलनं नोपस्पर्शनम् । यद्य् अपरुद्धाः स्युर् एतेनोपतिष्ठते “नमो ऽग्नये ऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमो ऽद्भ्यः” इति । उत्तीर्याचम्याचान्तः पुनर् आचामेत् । 


    	आपो वा इदं सर्वं विश्वा भूतान्य् आपः प्राणा वा आपः ॥


    	आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।


    	पुनन्तु ब्रह्मणस्पतिर् ब्रह्मपूता पुनातु माम् ॥


    	यद् उच्छिष्टम् अभोज्यं च यद्वा दुश्चरितं मम ।


    	सर्वं पुनन्तु माम् आपो ऽसतां च प्रतिग्रहं स्वाहा ॥ इति ।


    पवित्रे कृत्वाद्भिर् मार्जयति “आपो हि ष्ठा मयोभुवः” इति तिसृभिः, “हिरण्यवर्णाः शुचयः पावका” इति चतसृभिः । “पवमानः सुवर्जन” इत्य् एतेनानुवाकेन मार्जयित्वान्तर्जलगतो ऽघमर्षणेन त्रीन् प्राणायामान् धारयित्वोत्तीर्य वासः पीषयित्वा प्रक्षालितोपवातान्य् अक्लिष्टानि वासांसि परिधायाप आचम्य दर्भेष्व् आसीनो दर्भान् धारयमाणः प्राङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेत् ।

[७२] “तीर्थं गत्वा” तीर्थम् अत्र जलाशयमात्रं विवक्षितम् । “आत्मानं” स्वशरीरम् । “त्रिः प्रक्षालयत” इत्य् अन्वयः । “अपो ऽभिप्रपद्यते” “हिरण्यशृङ्ग” इत्यादि मन्त्रैः । “अप उपहन्ति” इति, उपहन्तिर् अत्र ग्रहणे वर्तते । “यस्यां दिशि” “अस्य” स्नानकर्तुः “द्वेष्यो भवति” इत्य् अन्वयः । “निरुक्षति” सिञ्चति । “प्रयमणं” इतस् ततो गमनं प्रतरणं वा । “पल्पूलनं” मलनिर्णेजनम् । अयं च “प्ल्पूल लवनपवनयोर्” इत्य् अस्य चौरादिकस्य ल्युटि प्रयोगः । “उपसप्रास्नम्” अत्र गात्रमलोद्घर्षणम् । एतत् सर्वं “अप्सु सतो न विद्यत” इत्य् अन्वयः । “यद्य् उपरुद्धाः स्युः” आप इति शेषः । उपरोधो ऽत्र प्रयणादिर् एव । स यदि प्रमादतः कृतस् तदा “नमो ऽग्नये” इत्य् आदिना मन्त्रेणापाम् उपस्थानं कुर्यात् । “पवित्रे” अविच्छिन्नाग्रे द्विदलमात्रे प्रादेशसम्मिते । “उपवातानि” शुष्काणि । “अक्लिष्टानि” अजीर्णानि ।

**कात्यायनः **[स्नानसूत्रम्, १–२०] ।

    अथातो नित्यस्नानम् । नद्यादौ । मृद्गोमयकुशतिलसुमनस आहृत्य । उदकान्तं गत्वा शुचौ देशे स्नाप्य । प्रक्षाल्य पाणिपादम् । कुशोपग्रहो बद्धशिखी यज्ञोपवीती **[७३]** चाचम्य । उरुं हीति योगम् आमन्त्र्यावर्तयेद् ये ते शतम् इति । “सुमित्रिया न” इत्य् अपोञ्जलिनादाय “दुर्मित्रिया” इति द्वेष्यं प्रति निषिञ्चेत् । कटिं वस्त्यूरु जङ्घे चरणौ मृदा त्रिस् त्रिः प्रक्षाल्य हस्तौ च । आचम्य नमस्योदकम् आलभेद् अङ्गानि मृदेदं विष्णुर् इति । सूर्याभिमुखो निमज्जेत् । आपो अस्मान् इति स्नात्वोदिदाभ्य इत्य् उन्मज्य निमज्योन्मज्याचम्य । गोमयेन विलिम्पेन् मानस्तोक इति । ततो ऽभिषिञ्चेद् इमं मे वरुणेति चतसृभिर् माप उदुत्तमं मुञ्चन्त्व् अवभृथेति । अन्ते चैतन् निमज्याचम्य दर्भैः पावयेद् आपो हि ष्ठेति तिसृभिर् इदम् आपो हविष्मतीर् देवीर् आप इति द्वाभ्याम् आपो देवा द्रुपदाद् इव शन् नो देवीर् अपां रसम् अपो **[७४]** देवीः पुनन्तु मेति नवभिश् चित्पतिर् मेति । ओङ्कारेण व्याहृतिभिर् गायत्र्या चादाव् अन्ते च । अन्तर्जले चाघमर्षणं त्रिर् आवर्तयेत् । द्रुपदाद् इवायं गौर् इति वा तृचं प्राणायामं वा सशिरसम् ॐ इति वा । विष्णोर् वा स्मरणम् ।

वसिष्ठः

अथ स्नानविधिं कृत्स्नं प्रवक्ष्याम्य् अनुपूर्वशः ।

येन स्नात्वा दिवं यान्ति श्रद्दधाना द्विजोत्तमाः ॥

नदीषु देवखातेषु तडागेषु सरःसु च ।

स्नानं समाचरेन् नित्यं गर्तप्रस्रवणेषु च ॥

पारक्येषु निपानेषु न स्नायाद् धि कदाचन ।

निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥

अलाभे देवखातानां सरसां सरितां तथा ।

उद्धृत्य चतुरः पिण्डान् परक्ये स्नानम् आचरेत् ॥

अरुग्दिवाचरेत् स्नानं मध्याह्नात् प्राग् विशेषतः ।

प्रयतो मृदं आदाय पूर्वाम् आर्द्रं च गोमयम् ॥

स्थापयित्वा तथाचम्य ततः स्नानं समाचरेत् ।

प्रक्षाल्य हस्तौ पादौ च शिखाबन्धं समाचरेत् ॥

मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस् तथोपरि ।

अधश् चतसृभिः कार्यं षड्भिः पादौ तथैव च ॥

[७५] प्रक्षाल्य सर्वकायं च द्विर् आचम्य यथाविधि ।

ततः सम्मार्जनं कुर्यान् मृदा पूर्वं तु मन्त्रवत् ॥

“अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ।

उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥

मृत्तिके त्वां च गृह्णामि प्रजया च धनेन च ।

मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता ॥

मृत्तिके जहि मे सर्वं यन् मया दुष्कृतं कृतम् ।

मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ॥”

पुनश् च गोमयेनैवम् अग्रम् अग्रम् इति ब्रुवन् ।

“अग्रम् अग्रं चरन्तीनाम् ओषधीनां रसं वने ॥

तासाम् ऋषभपत्नीनां पवित्रं कायशोधनम् ।

त्वं मे रोगांश् च शोकांश् च पापं च नुद गोमय ॥”

काण्डात् काण्डाद् इति द्वाभ्याम् अङ्गम् अङ्गम् उपस्पृशेत् ।

“काण्डात् काण्डात् प्ररोहन्ती परुषः परुषस्परि ॥

एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ।

या शतेन प्रतनोषि सहस्रेण विरोहसि ॥

तस्यास्ते देवीष्टके विधेम हविषा वयम् ।”

कृत्वैवं मार्जनं मन्त्रैर् अश्वक्रान्तादिभिस् ततः ॥

[७६] ईहेत देवीर् अमृतं पारावतस्य रातिषु ।

ये ते शतम् इति द्वाभ्यां तीर्थान्य् आवाहयेत् ततः ॥

कुरुक्षेत्रं गयां गङ्गां प्रभासं पुष्कराणि च ।

ततो महाव्याहृतिभिर् गायत्र्या चाभिमन्त्रयेत् ॥

आपो हि ष्ठेदम् आपश् च द्रुपदादिव इत्य् अपि ।

तथा हिरण्यवर्णाभिः पावमानीभिर् अन्ततः ॥

ततो ऽर्कम् इक्ष्य सोङ्कारं निमज्यान्तर्जले बुधः ।

प्राणायामांश् च कुर्वीत गायत्रीं चाघमर्षणम् ॥

यथोक्तैः क्षोभितस् तैस् तु मज्जेत् त्रिर् दण्डावत् ततः ।

पद्मपुराणे [सृष्टिखण्डम्, २०.१४५–१५७] ।

नैर्मल्यं भावशुद्धिश् च विना स्नानं न विद्यते ।

तस्मान् मनोविशुद्ध्यर्थं स्नानम् आदौ विधीयते ॥

अनुद्धृतैर् उद्धृतैर् वा जलैः स्नानं समाचरेत् ।

तीर्थं प्रकल्पयेद् विद्वान् मूलमन्त्रेण मन्त्रवित् ॥

[७७] ॐ नमो नारायणायेति मूलमन्त्र उदाहृतः ।

दर्भपाणिस् तु विधिना ह्य् आचान्तः प्रयतः शुचिः ॥

चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः ।

प्रकल्प्यावाहयेद् गङ्गाम् एभिर् मन्त्रैर् विचक्षणः ॥

“ॐ विष्णोः पादप्रसूतासि वैष्णवी विष्णुपूजिता ।

पाहि नस् त्व् एनसस् त्व् अस्माद् आजन्ममरणान्तिकात् ॥

तिस्रः कोट्यो ऽर्धकोटी च तीर्थानां वायुर् अब्रवीत् ।

दिवि भुव्य् अन्तरिक्षे च तानि ते सन्ति जाह्नवि ॥

नन्दिनीत्य् एव ते नाम देवेषु नलिनीति च ।

नन्दा पृथ्वी च सुभगा विश्वकाया शिवा सिता ॥

विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी ।

क्षेमा च जाह्नवी चैव शान्ता शान्तिप्रदायिनी॥”

एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् ।

भवेत् सन्निहिता तत्र गङ्गा त्रिपथगामिनी ॥

सप्तवाराभिजप्तेन करसम्पुटयोजितम् ।

मूर्ध्नि कुर्याज् जलं भूयस् त्रिश् चतुः पञ्च सप्त वा ॥

स्नानं कुर्यान् मृदा तद्वद् आमन्त्र्य तु विधानतः ।

“अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ॥

मृत्तिके हर मे पापं यन् मया दुष्कृतं कृतम् ।

उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥

[७८] नमस् ते सर्वलोकानां भव वारिणि सुव्रते ।

आरुह्य मम गात्राणि सर्वपापं प्रमोचय ॥”

नरसिंहपुराणे [५७.६५–७०] ।

नद्यां स्रवत्सु च स्नायात् प्रतिस्रोतः स्थितो द्विजः ।

तडागादिषु तोयेषु प्रत्यर्कं स्नानम् आचरेत् ॥

शुचौ देशे समभ्युक्ष्य स्थापयेत् कुशमृत्तिलान् ।

मृत्तोयेन स्वकं देहं बहिः संशोध्य यत्नतः ॥

स्नानशाटीं च संशोध्य कुर्याद् आचमनं बुधः ।

शनैर् जलं प्रविश्याथ नमेद् वरुणम् अप्पतिम् ॥

हरिं ह्य् एवं स्मरन् बुध्या निमज्जेच् छरवज् जले ।

ततस् तीरं समासाद्य अप आचम्य मन्त्रतः ॥

प्रोक्षयेद् वरुणं देवं मन्त्रैर् वा पावमानिभिः ।

कुशाग्रस्थेन तोयेन प्रोक्ष्यात्मानं प्रयत्नतः ॥

आलभेन् मृत्तिकां गात्रे इदं विष्णुर् इति द्विजः ।

ततो नारायणं देवं संस्मरन् प्रविशेज् जलम् ॥

[७९] निमज्यान्तर्जले सम्यक् प्रपठेद् अघमर्षणम् ।

“प्रत्यर्कम्” आदित्याभिमुखो भूत्वा ।

विष्णुः [६४.१८–२३] ।

    मृत्तोयैः कृतमलापकर्षो ऽप्सु निमज्याप उपस्पृश्यापो हि ष्ठेति तिसृभिर् हिरण्यवर्णेति चतसृभिर् इदम् आपः प्रवहत इति च तीर्थम् अभिमन्त्रयेत् । ततो ऽप्सु निमग्नस् त्रिर् अघमर्षणम् जपेत् । तद् विष्णोः परमं पदम् इति वा । द्रुपदां सावित्रीं वा । युञ्जते मन इत्य् अनुवाकं वा । पुरुषसूक्तं वा ।

“इदम् आपः प्रवहत” इति, “इदम् आपः प्रवहत यत् किञ्चिद् दुरितं मयि” इत्यादिका ।

पैठीनसिः

    हिरण्यवर्णा इति सूक्तेन स्नात्वा शौचं कृत्वापां मध्ये त्रीन् प्राणायामान् कुर्यात् ।

बृहस्पतिः [आचार, २२.३१२] ।

द्रुपदादिवेति यो मन्त्रो वेदे वाजसनेयके ।

[८०] अन्तर्जले त्रिर् आवर्त्य सर्वपापैः प्रमुच्यते ॥

दक्षः

मार्जनं जलमध्ये तु प्राणायामो यतस् ततः ।

उपस्थानं ततः पश्चात् सावित्रीजप उच्यते ॥

“यतस् ततः” जले स्थले च ।

आपस्तम्बः [२.२२.१३] ।

    शनैर् अपो ऽभ्युपेयाद् अभिघ्नन्न् अभिमुख आदित्यम् उदकम् उपस्पृशेद् इति सर्वत्रोदकस्पर्शनविधिः ।

“अभिघ्नन्” पाणिनोदकं ताडयन्, जलचरप्राण्यपसारणाय इति सेषः । “सर्वत्र” स्रवत्स्व् अस्रवत्सु च । एतच् च आपस्तम्बस्मृतौ वानप्रस्थप्रकरणे समाम्नातत्वाद् वानप्रस्थस्यैवेदृशं स्नानम् ।

शाङ्खायनगृह्यम्

सवस्त्रो ऽहर् अहर् आप्लुत्याध्यनुदको ऽन्यद् वस्त्रम् आच्छादयेत् ।

“सवस्त्रः” इति द्वितीयवस्त्रप्राप्त्यर्थम्, एकवस्त्रस्य नग्नत्वप्रतिषेधेन प्राप्तत्वाद् इति ब्रह्मदत्तभाषयम् । “अध्यनुदकः” शिरोव्यतिरिक्तगात्रेष्व् अनुद्धृतोदकः ।

अङ्गिराः

विना दर्भेण यत् स्नानं यच् च दानं विनोदकम् ।

[८१] असङ्ख्यातं च यज् जप्तं तत् सर्वं निष्प्रयोजनम् ॥

योगियाज्ञवल्क्यः

तूष्णीम् एवावगाहेत यदा स्याद् अशुचिर् नरः ।

आचम्य प्रयतः पश्चात् स्नानं विधिवद् आचरेत् ॥

स्पर्शेनाद्भिर् दूषिताभिर् उद्धृताभिस् तु मानवः ।

स्नानं समाचरेद् यस् तु न स शुध्यति कर्हिचित् ॥

अग्राह्यास् त्व् आगता ह्य् आपो नाद्याः प्रथमवेगिकाः ।

प्रक्षोभितास् तु केनापि याश् च तीर्थाद् विनिःसृताः ॥

उपस्थानादिर् यस् तासां मन्त्रवान् कीर्तितो विधिः ।

निवेदनान्तस् तत् स्नानम् इत्य् आहुर् ब्रह्मवादिनः ॥

निषेकात् प्रभृतिर् यावच् छ्मशानं श्रुतिदर्शनात् ।

नामन्त्रवद् द्विजातीनां कर्म किञ्चित् प्रवर्तते ॥

तथा

मत्स्यकच्छपमण्डूकास् तोये मग्ना दिवानिशम् ।

वसन्तो ऽपि च ते स्नाता फलं नार्हन्ति कर्हिचित् ॥

श्रद्धाविधिसमायुक्तं कर्म यत् क्रियते नृभिः ।

सुविशुद्धेन भावेन तद् आनन्त्याय कल्पते ॥

विधिहीनं भावदुष्टं कृतम् अश्रद्धया च यत् ।

तद् धरन्त्य् असुरास् तस्य मूढस्य त्व् अकृतात्मनः ॥

ब्रह्मक्षत्रविशां चैव मन्त्रवत् स्नानम् इष्यते ।

[८२] तूष्णीम् एव हि शूद्रस्य सनमस्कारकं स्मृतम् ॥

अगम्यागमनात् स्त्रेयात् पापेभ्यश् च प्रतिग्रहात् ।

रहस्य् आचरितात् पापान् मुच्यते स्नानम् आचरन् ॥

प्रकर्तुम् असमर्थश् चेज् जुहोतियजतिक्रियाः ।

स्नानध्यानजपैर् दानैर् आत्मानं शोधयेद् बुधः ॥

यद् एव स्नानं कुरुते विशुद्धेनान्तरात्मना ।

तेनैव सर्वम् आप्नोति विधियज्ञक्रियाफलम् ॥

गृहीत्वा यमधनुर् वै नियमज्याततं दृढम् ।

सम्दधीत दमशरं स्वर्गलक्ष्ये प्रयत्नतः ॥

यस्येदम् आयुधं नास्ति स्वर्गसाधनम् उत्तमम् ।

अपि जन्मसहस्रेषु न साधयति तत् परम्॥

“अशुचिः” स्नाननिमित्तेन चाण्डालस्पर्शादिना । “नद्याम्” इति प्राक् शुष्कनदीविषयम् । “प्रक्षोभिताः” महिषादिनात्यन्तकलुषीकृताः । “तीर्थाद् विनिःसृताः” तीर्थं परित्यज्य गतास्ततत्तीर्थत्वेनाप्रत्यभिज्ञायमानाः (?) । “उपस्थानम्” “उरुं हि राजा” इत्यादिमन्त्रेण । “तासाम्” अपाम् । “निवेदनान्तः” “देवा गातुविद” इति जप्यनिवेदनान्तः । “निषेकः” गर्भाधानम् । “विधिहीनम्” यथोकविधिहीनम् । “शूद्रस्य सनमस्कारकम्” इति, शूद्र आप्लवनमात्रम् उदकनमस्कारमातेण [८३] कुर्याद् इत्य् अर्थः** **। “तत् परम्” तत् स्वर्गादि परं श्रेष्ठम् ।

पुनर् योगियाज्ञवल्क्यः

एष वो ऽभिहितः कृत्स्नः स्नानस्य परमो विधिः ।

गुणाश् च तस्याचरणे दोषाश् चैवानिषेवणे ॥

तथा

स्नात्वैवं वाससी धौते त्व् अक्लिष्टे परिधाय च ।

प्रक्षाल्योरू मृदङ्घ्री च हस्तौ प्रक्षाल्य वै तथा ॥

अभावे धौतवस्त्रस्य शाणक्षौमाजिनानि च ।

कुतपं योगपट्टं वा द्विवासा येन वै भवेत् ॥

यावद् देवान् ऋषींश् चैव पितॄंश् चैव न तर्पयेत् ।

तावन् न पीडयेद् वस्त्रं येन स्नातो न चोदके ॥

निष्पीडय्ति यः पूर्वं स्नानवस्त्रं तु तर्पणात् ।

निराशाः पितरस् तस्य यान्ति देवा समहर्षिभिः ॥

“कुतपो” नेपालकम्बलः । “द्विवासा येन” इति, अनन्तरोक्तैः कुतपादिभिर् अपि द्विवस्त्रत्वं विधातव्यम् । “येन स्नातः” येन वस्त्रेण स्नातः । “न चोदके” “वस्त्रं पीडयेद्” इति सम्बन्धः ।

नरसिंहपुराणे [५८.७२–७३] ।

न रक्तम् उल्बणं वासो न जीर्णं तु प्रशस्यते ।

[८४] मलाक्तं च दशाहीनं वर्जयेद् अम्बरं बुधः ॥

ततः प्रक्षालयेत् पादौ मृत्तोयेन विचक्षणः ।

पराशरः [१२.१२–१३] ।

ब्राह्मणं स्नातुम् आयान्तम् अनुगच्छन्ति देवताः ।

पितरश् च महाभागा वायुभूता जलार्थिनः ॥

स्नात्वा निरस्य वासो ऽन्यज् जङ्घे प्रक्षाल्य चाम्भसि ।

अपवित्रीकृते ते तु कौपीनश् च्योतवारिणा ॥

न्राशाः पितरो यान्ति वस्त्रनिष्पीडने कृते ।

तस्मान् निष्पीडयेद् वस्त्रं नाकृत्वा पितृतर्पणम् ॥

जलमध्ये तु यः कश्चिद् द्विजातिर् ज्ञानदुर्बलः ।

निष्पीडयति तद् वस्त्रं स्नानं तस्य वृथा भवेत् ॥

“कौपीनश् च्योतवारिणा” कौपीनं जघनप्रदेशः, ततश् च्युतेन जलेन ।

स्नानविध्यनन्तरं शङ्खः

उदकस्याप्रदानाद् धि स्नानशाटीं न पीडयेत् ।

अनेन विधिना स्नातः पुण्यं फलम् उपाश्नुते ॥

**हारीतः **।

    स्नात्वा न गात्रम् अवमृज्यान् न शिरो विधुनुयान् नोत्तरीयविपर्यासं कुर्यात् ।

[८५] विष्णुः [६४.१०–१५] ।

    स्नातः शिरो नावधुनेत् । नाङ्गेभ्यस् तोयम् उद्धरेत् । न तैलवसे संस्पृशेत् । नाप्रक्षालितं पूर्वधृतं वासो बिभृयात् । स्नात एव सोष्णीषो धौते वाससी बिभृयात् । न म्लेच्छान्त्यजपतितैः सह सम्भाषणं कुर्यात् ।

तैलं च वसा च “तैलवसे” । “पूर्वधृतम्” अङ्गेष्व् इति शेषः । “उष्णीषं” च केशश्मश्रुजलापकर्षणार्थं शिरोवेष्टनं तावन्मात्रकालम् एव यावता जलापकर्षणं भवति ।

तथा च महाभारते

आप्लुतः साधिवासेन जलेन च सुगन्धिना ।

राजहंसनिभं प्राप्य चोष्णीषं शिथिलार्पितम् ॥

जलक्षयनिमित्तं वै वेष्टयामास मूर्ध्जे ॥

“शिथिलार्पितम्” अगाढबद्धः ।

मनुः [४.८३] ।

शिरःस्नातस् तु तैलेन नाङ्गे किञ्चिद् अपि स्पृशेत् ।

यदा शिरःस्नानं कृतं भवति, तदा किञ्चिद् अप्य् अङ्गं तैलसम्बन्धि न कार्यम् । तैलशब्दश् च योगरूढ्या तिलतैले वर्तते । [८६] सार्षपतैलादिषु “स्नेहे तैलच्” [वार्तिकम् ३११८] इति तैलच्प्रत्यतात् तत्र प्रयोगः ।

इति स्नानविधिः ।

मध्याह्ने स्नात्वा ततः सन्ध्योपासनं पूर्वोक्तविधिना कर्तव्यम्,

सन्ध्यात्रयं तु कर्तव्यं द्विजेनात्मविदा सदा ।

इति योगियाज्ञवल्क्यवचनात्, शङ्खेन च मध्याह्नसन्ध्याम् अभिधाय,

एष एव विधिः प्रोक्तः सन्ध्ययोश् च द्विजातिषु ।

इत्य् अभिधानात् ।

तद् उक्तं **शङ्खेन **[९.१६–२०] ।

आचम्यैवं पुरा प्रोक्तास् तीर्थसम्मार्जने तु ये ।

मन्त्रास् तैर् मन्त्रितं तोयं मूर्ध्नि भूमौ तथा क्षिपेत् ॥

क्षिप्तेन मूर्ध्नि तोयेन पापम् अस्य प्रणश्यति ।

भूमौ क्षिप्तेन हन्यन्ते असुरा देवशत्रवः ॥

[८७] व्याहृतीः कीर्तयेच् चैव तथैवाव्ययम् अक्षरम् ।

उपस्पृशेत् ततः पश्चान् मन्त्रेणानेन धर्मतः ॥

“अन्तश् चरसि भूतेषु गुहायां विश्वतोमुखः ।

त्वं यज्ञस् त्वं वषट्कार आपो ज्योती रसो ऽमृतम् ॥”

आचम्य तु ततः पश्चाद् आदित्याभिमुखो जलम् ।

उद् उ त्यं जातवेदसम् इति मन्त्रेण निक्षिपेत् ॥

एष एव विधिः प्रोक्तः सन्ध्ययोश् च द्विजातिषु ।

पूर्वां सन्ध्यां जपंस् तिष्ठेद् आसीनः पश्चिमां तथा ॥

ततो जपेत् पवित्राणि पवित्रं वा स्वशक्तितः ।

ऋषयो दीर्घसन्ध्यत्वा दीर्घम् आयुर् अवाप्नुयुः ॥

“पुरा प्रोक्ताः” “आपो हि ष्ठा” इत्यादयः “इदम् आपः प्रवहत” इत्यन्ताः शङ्खोक्ता एव । “पवित्राणि” शङ्खोक्तान्य् एवाघमर्षणादीनि ।

इति भट्टहृदयधरात्मजमहासान्धिविग्रहिक-

श्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

नियतकालकल्पकाण्डे स्नानपर्व ॥

[८८]

अथ जपविधिः

तत्र बौधायनः [२.८.१२–१४] ।

    अप आचम्य दर्भेष्व् आसीनो दर्भान् धारयमाणः प्राङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेच् छतकृत्वो ऽपरिमितकृत्वो वा दशावरम् । अथादित्यम् उपतिष्ठते उद् वयं तमसस् परि, उद् उ त्यम्, चित्रम्, तच् चक्षुर् देवहितम्, य उदगाद् इति । अथाप्य् उदाहरन्ति प्रणवो व्याहृतयः सावित्री चेत्य् एते पञ्च ब्रह्मयज्ञा अहर् अहर् ब्राःमणं किल्बिषात् पावयन्ति ।

“अपरिमितकृत्वः” इति, दशभ्य ऊर्ध्वं शताद् अर्वाग् उक्तशतादिसङ्ख्याव्यतिरेकेणपि बोद्धय्वम्, “दशवराम्” इत्य् अभिधानात् । “उद् वयं तमसस् परि” इति, “उद् वयं तमसस् परि पश्यन्तो ज्योतिर् उत्तरम्” इत्यादिका ऋक् । “उद् उ त्यम्” इति, “उद् उ त्यं जातवेदसम्” इत्यादिका । “चित्रम्” [८९] इति, “चित्रं देवानाम्” इत्यादिका । “य उदगात्”, “य उदगान् महतोर्णवाद्” इत्यादिका ।

योगियाज्ञवल्क्यः

आचान्तः पुनर् आचामेन् मन्त्रवत् स्नानभोजने । 

द्रुपदां च त्रिर् आवर्त्य तथा चैवाघमर्षणम् ॥

गायत्रीं वा त्रिर् आवर्त्य महाव्याहृतिभिस् तथा ।

सोपांशुप्रणवेनापि आपः पीता अघापहाः ॥

आचम्य पाव्य चात्मानं त्रिर् आचम्य शनैर् असून् ।

अथोपतिष्ठेद् आदित्यम् ऊर्ध्वं पुष्पान्वितं जलम् ॥

प्रक्षिप्योद् वयम् उद् उ त्यं चित्रं तच् चक्षुर् इत्य् आपि ।

हंसः शुचिषद् एतानि शुभानि पावनानि च ॥

एतज् जपेद् ऊर्ध्वबाहुः सूर्यं वीक्ष्य समाहितः ।

गायत्र्या तु यथाशक्ति चोपस्थाय दिवाकरम् ॥

विभ्राड् इत्य् अनुवाकेन सूक्तेन पुरुषस्य च ।

शिवसङ्कल्पेन तथा मण्डलब्राह्मणेन च ॥

[९०] दिवाकीर्त्यैश् च सौरैश् च मन्त्रैर् अन्यैश् च शक्तितः ।

जपयज्ञो हि कर्तव्यः सर्वदेवप्रणीतकैः ॥

पवित्रैर् विविधैश् चन्यैर् गुह्योपनिषदा तथा ।

अध्यात्मविद्या विविधा जप्तव्या जपसिद्धये ॥

पदक्षिणं समावृत्य नमस्कृत्योपविश्य च ।

दर्भेषु दर्भपाणिः स्यात् प्राङ्मुखस् तु कृताञ्जलिः ॥

स्वाध्यायं तु यथाशक्ति ब्रह्मयज्ञार्थम् आचरेत् ।

आकेशाद् आनखाग्राच् च परमं तप्यते तपः ॥

यः स्रग्व्य् अपि द्विजो ऽधीते स्वाध्यायं शक्तितो ऽन्वहम् ।

आदाव् आरभ्य वेदं तु स्नात्वोपर्य् उपरि क्रमात् ॥

यद् अधीते ऽन्वहं शक्त्या सः स्वाध्याय इति स्मृतः ।

“मन्त्रवत्” “द्रुपदाव् इव” इत्यादिमन्त्राभिमन्त्रितम् । अयं चाचमने मन्त्रविकल्पः फलविशेषापेक्षया व्यवस्थितः । “पाव्य” मार्जनं कृत्वा । “विभ्राड्” इत्य् अनुवाकः “विभाड् बृहत् पिबतु सोम्यं मधु” इत्यादिः । “शिवसङ्कल्पः” “यज् जाग्रतो दूरम्” इत्यादिः । “दिवाकीर्त्यैः" [९१] अध्येतृसम्प्रदायेन दिवा पठनीयैः शतरुद्रियादिभिः । “सर्ववेदप्रणीतकैः” सर्ववेदपठितैः । “पवित्रैः” पावनैः । “गुह्योपनिषदा” साक्षात् परमात्मप्रतिपादकोपनिषद्भागेन । “अध्यात्मविद्या” उपनिषद्भ्यो ऽन्यापि । “स्रग्वी” इति समावृत्तोपलक्षणम् ।

नरसिंहपुराणे [५८.७७, ८५, ८७, ८८] ।

दर्भेषु दर्भपाणिः सन् प्राङ्मुखः सुसमाहितः ।

प्राणायामांस् तु कुर्वीत यथाशास्त्रम् अतन्द्रितः ॥

जपेद् अहर् अहः स्नात्वा सावित्रीं जपविद् द्विजः ।

अथ पुष्पाञ्जलिं गत्वा भानवे चोर्ध्वबाहुकः ॥

उद् उ त्यं च जपेन् मन्त्रं चित्रं तच् चक्षुर् इत्य् अपि ।

प्रदक्षिणम् उपावृत्य नमस्कृत्य ततः प्रभुम् ॥

वसिष्ठः शङ्खलिखितौ च ।

सर्ववेदपवित्राणि वक्ष्याम्य् अहम् अतः परम् ।

येषां जपैश् च होमैश् च पूयन्ते नात्र संशयः ॥

[९२] अघमर्षणं देवकृतं शुद्धवत्यस् तरत्समाः ।

कूष्माण्ड्यः पावमान्यो ऽथ दुर्गा सावित्र्य् अथैव च ॥

अभीषङ्गाः पदस्तोभाः सामानि व्याहृतीस् तथा ।

भारुण्डानि च सामानि गायत्रं रैवतं तथा ॥

पुरुषव्रतं च भासं च तथा देवव्रतानि च ।

अब्लिङ्गा बार्हस्पत्यं च वाक्सूक्तं मध्वृचस् तथा ॥

शतरुद्रियम् अथर्वशिरस् त्रिसुपर्णं महाव्रतम् ।

गोसूक्तं चाश्वसूक्तं च इन्द्रशुद्धे च सामनी ॥

त्रीण्य् आज्यदोहानि रथन्तरं च

	अग्निव्रतं वामदेव्यं बृहच् च ।

एतानि गीतानि पुनन्ति जन्तून्

	जातिस्मरत्वं लभते य इच्छेत् ॥

“देवकृतम्” “देवकृतस्यैनस” इत्यादयो मन्त्राः । “दुर्गा” “जातवेदस” इत्यादि दुर्गाप्रकाशिका ऋक् । [९३] “सावित्री” “तत् सवितुः” इत्यादिका । “अभीषङ्गाः” “पुरोजिती वो अन्धस” इत्यादिसामत्रयम् । “पदस्तोभाः” अष्टेडादिसामचतुष्टयम् । “सामानि व्याहृतीस् तथा” इति व्याहृतिसामानीत्य् अर्थः । “भारुण्डानि” “यत् ते कृष्णः शकुन आ तुतोद पिपीलः सर्प” इत्यादीन्य् एकविंशतिसङ्ख्याकानि सामानि राणायनीयानां प्रसिद्धानि । “अब्लिङ्गाः” “आपो हि ष्ठा” इत्यादयः । “बार्हपत्यं” “गणानां त्वा गणपतिम्” इत्यादिका ऋक् । “वाक्सूक्तं” “बृहस्पते प्रथमं वाचो अग्रम्” इत्यादि । “मध्वृचः” “मधु वाता ऋतापते” इत्यादिकास् तिस्रः । “शतरुद्रियम्” “नमस् ते रुद्र मन्यवे” इत्याद्येकादशानुवाकाः । “अथर्वशिरः” “ब्रह्मा देवानां प्रथमः” इत्यादि । “त्रिसुपर्णं” “ब्रह्म मेतु [९४] माम्” इत्याद्यनुवाकत्रयं तैत्तिरीयाणां प्रसिद्धम् । “महाव्रतम्” “सोमं राजानां” साम । “गोसुक्ताश्वसूक्ते” सामनी । “यद् इन्द्राहं यथा त्वम्” इत्य् अस्याम् ऋचि प्रसिद्धे । “इन्द्रशुद्धे सामनी” “एतोन्विन्द्रं स्तवाम” इत्य् अस्याम् ऋचि प्रसिद्धे । अत्रिस्मृतौ चैतान्य् अधिकानि । **अत्रिः **।

विमलं शिवसङ्कल्पं विवर्णं रोहितं ततः ।

“विमलं” “हंसः शुचिषद्” इत्यादि । विष्णुस्मृतौ नारायणीयम् अधिकम् । “नारायणीयं” तैत्तिरीयाणाम् उपनिषत् ।

मनुः

वेदम् एव जपेन् नित्यं यथाकालम् अतन्द्रितः ।

तं ह्य् आहुः परमं धर्मम् उपधर्मो ऽन्य उच्यते ॥

वेदाभ्यासेन सततं शौचेन तपसैव च ।

अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥

संस्मृत्य पौर्विकीं जातिं ब्रह्मैवाभ्यसते द्विजः ।

ब्रह्माभ्यासेन वाजस्रम् अनन्तं सुखम् अश्नुते ॥

[९५] “उपधर्मः” अल्पफलो धर्मः । “तपः” कृच्छ्रादि । “ब्र्ह्म” वेदः । “अनन्तं” चिरकालोपभोग्यम् ।

हारीतः

    प्रणवो व्याहृतिः गायत्री चेति सावित्रं येन पापेभ्यो मुच्यते । शतं जप्त्वा मानसात् पूतो भवति । सहस्रं जप्त्वा वाक्कृतात् पूतो भवति । दशसहस्राणि जप्त्वा सर्वतः पूतात्मा भवति । आयुः प्राणं मा निर्माजीर् इति मार्जनं पवित्रं येन सर्वपापेभ्यो मुच्यते । देवीर् आपः शुद्धा वयं हिरण्यवर्णाः शुचय आपो अस्मान् मातर इति शुद्धवतीर् अप्सु जपेद् अपामार्गं वा जुहुयात् पूतो भवतीति । इमां धियं शतं ते राजन् तरत्समन्द्यस् तरन् जपेत् पूतो भवति । त्वं सोम तनूकृद्भ्य इति तनुकृतं पवित्रं येन तनुकृताद् अन्यकृताच् च मुच्यते । अप्सु जपेद् घृतं तिलान् समिधो जुहुयाद् आदित्यं चोपतिष्ठेत् पूतो भवति । अग्न आयूंषि पवस इति सप्त शुचिमत् पवित्रं येन सर्वपापेभ्यो मुच्यते । अप्सु जपेद् घृतं तिलान् समिधो वा जुहुयाद् आदित्यं **[९६]** चोपतिष्ठेत् पूतो भवति । अग्नेः समिदस्यभिशस्त्या मा पाहीति पञ्चदशकेनाभिशंसनान् मुच्यते । समुद्राद् ऊर्मिर् इति तिस्र ऋषभं पवित्रं येनेन्द्रियकृतान् मुच्यते । मातापितराव् अतिक्रम्य यद् अन्तरिक्षम् इत्य् आदित्यम् उपतिष्टेत् पूतो भवति । अयं वां मित्रावरुणा इति पञ्च नमस् ते राजन् वरुणेति चत्वारो धाम्नो धाम्न उद् उत्तमम् अव ते हेड इति निर्वरुणं पवित्रं येन सर्वपापेभ्यो मुच्यते । अप्सु जपेद् घृतं तिलान् समिधो वा जुहुयाद् आदित्यं चोपतिष्ठेत् पूतो भवति । देवीर् आप् इत्य् अनुवाकम् अप्सु जपेत् पूतो भवति । इमं स्तोमम् अर्हत इति रोचनं पवित्रं येन सर्वपापेभ्यो मुच्यते । अप्सु जपेद् घृतं तिलान् समिधो वा जुहुयाद् आदित्यं चोपतिष्ठेत् पूतो भवति । सुपर्णो ऽसि गरुत्मान् इति सौपर्णं पवित्रं प्राग् विष्णुक्रमेभ्यो विषगरदष्टोपघातेषूपदिश्यते । कया निश्चित्र **[९७]** इति तिस्रो वामदेव्यं पवित्रं येन सर्वपापेभ्यो मुच्यते । अप्सु जपेद् घृतं तिलान् समिधो वा जुहुयाद् आदित्यं चोपतिष्ठेत् पूतो भवति । रुचं नो धेहीति सुरुचं पवित्रं येन सर्वपापेभ्यो मुच्यते । अप्सु जपेद् घृतं तिलान् समिधो वा जुहुयाद् आदित्यं चोपतिष्ठेत् पूतो भवति । न तम् अह्न इति सूक्तं पवित्रं येन सर्वपापेभ्यो मुच्यते । अप्सु जपेद् घृतं तिलान् समिधो वा जुहुयाद् आदित्यं चोपतिष्ठेत् पूतो भवति । तत् त्वायामीति वारुणं पवित्रं येन सर्वपापेभ्यो मुच्यते । अप्सु जपेद् घृतं तिलान् समिधो वा जुहुयाद् आदित्यं चोपतिष्ठेत् पूतो भवति । पुनन्तु मा पितर इति षोडश पावमानीर् अप्सु जपेत् पूतो भवति । यद् देवा देवहेडनम् इति कूष्माण्ड्यस् ताभिर् आज्यं जुहुयात् पूतो भवति । पवित्रम् असि द्रुपदाद् इवेति चाघमर्षणम् अन्तर्जले त्रिर् आवर्तयित्वा मुच्यते ब्रह्महत्यायाः । सर्वार्तिष्व् आपत्सु वासमाप्तिकं जपेद् आपदो मुच्यते । अद् इति चेत् तयेति च सावित्रं यत् किं चेदं वरुणम् अन्तर्जले त्रिर् आवर्त्य जपेत् सर्वपापेभ्यः प्रमुच्यते । आ कृष्णेनेत्य् आदित्यम् उपतिष्ठेत् सर्वपूतात्मा भवति । **[९८]** न षडर्चजापी योनिं विन्दति जातिस्मरश् च भवति । एवं प्रतिदिशम् ऐन्द्रयाम्यसौम्यवारुणवायव्याग्नेयसौरैर् उपतिष्ठेत् सर्वपूतात्मा भवत्रीति ।

“मानसात्” मानसात् पापात् । “वाक्कृतात्” वाक्कृतपापात्॥ “सर्वतो” वाङ्मनःकायकृतेभ्यः पापेभ्यः । “मार्जनम्” इति समाख्यानाद् एतन्मन्त्रमार्जनाद् एव फलम् । “अपामार्गम्” अपामार्गसमिधः, हारीतेन्ऐव समिद्रूपत्वेन होमाभिधानात् । “तरन्” नौकादिना, “सुतर्माणम् अधिनावं रुहेम” इति मन्त्रवर्णात् । “तनुकृतात्” कायिकात् । “अन्यकृतात्” मानसाद् वाचिकाच् च पुत्रशिष्यादिकृताद् वा पापाद् इति शेषः । “शुचिमत्” शुचित्वप्रतिपादकं “पवस” इत्यादिषूक्तम् । “अभिशंसनम्” अभिशापः । अभिशापकर्तुर् एतद् इति **जयस्वामी ** । “निर्वरुणम्” इत्य् अस्य नाम । “विष्णुक्रमेभ्यः” “विष्णोः क्रमो ऽसि” इत्यादिमन्त्रेभ्यः । “गरः” मन्त्रौषध्यादिना प्रतिबद्धवीर्यं विषम् । “दष्टः” श्वादिना । “वामदेव्यं” वामदेवऋषिदृष्टम् । “आर्तिः” व्याध्यादिकृता । “समाप्तिकं” “अग्नेर् मन्वे प्रथम” इत्यादिर् अनुवाकः ।

याज्ञवल्क्यः [१.१०१] ।

वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।

जपयज्ञार्थसिध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥

[९९] विष्णुः [६४.३६–३९] ।

    स्नातश् च पवित्राणि यथाशक्ति जपेत् । विशेषतः सावित्रीम् । पुरुषसूक्तं वा । नैताभ्याम् अधिकम् अस्ति ।

मनुर् यमश् च प्रथमे [मनु २.८१–८४] ।

ओङ्कारपूर्विकास् तिस्रो महाव्याहृतयो ऽव्ययाः ।

त्रिपदा चैव गायत्री विज्ञेयं ब्रह्मणो मुखम् ॥

यो ऽधीते ऽहन्य् अहन्य् एतां त्रीणि वर्षाण्य् अतन्द्रितः ।

स ब्रह्म परम् अभ्येति वायुभूतः खमूर्तिमान् ॥

एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ।

सावित्र्यास् तु परं नास्ति मौनात् सत्यं विशिष्यते ॥

क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः ।

अक्षरं त्व् अक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥

“एतां” गायत्रीम् । “वायुभूतः” वायुवच् छीघ्रगतिः, लिङ्गशरीरनिष्ठो वा । “खमूर्तिमान्” आकाशवद् व्याय्पी सन् परमात्मा भवति । “क्षरन्ति” विनाशिन्यो भवन्ति । “अक्षरं” ओङ्कारः, तस्य मोक्षरूपं फलम् । न क्षरतीत्य् अक्षरम् । “प्रजापतित्वं” च तत्प्रतिपादकत्वेनोङ्कारस्य मन्तव्यम् । “अक्षरत्वं” ब्रह्मत्वम् ।

	यमं ऋषय ऊचुः ।

किं वै परमकं ब्रह्म किं वै परमकं तपः ।

[१००] उपवासात् परं किं वै किं च मौनाद् विशिष्यते ॥

	यम उवाच ।

ओङ्कारः परमं ब्रह्म प्राणायामः परं तपः ।

सावित्र्याः परमं नास्ति मौनात् सत्यं विशिष्यते ॥

क्षरन्तीह क्रियाः सर्वाः प्रयुक्ता वैदिकीर् भुवि ।

अक्षरं त्व् अक्षरं विद्याद् ब्रह्म चैव प्रजापतिः ॥

एकाक्षरं परं ब्रह्म पावनं परमं स्मृतम् ।

गायत्र्यास् तु परं नास्ति मौनात् सत्यं विशिष्यते ॥

सहस्रपरमां देवीं शतमध्यां दशावराम् ।

गायत्रीं तु जपेन् नित्यं सर्वपापप्रणाशिनीम् ॥

गायत्रीं चैव वेदाश् च तुलयातोलयत् प्रभुः ।

एकतश् चतुरो वेदान् साङ्गान् स सपदक्रमान् ॥

एकतश् चैव गायत्रीं तुल्यरूपा तु सा स्मृता ।

“सः” प्रजापतिः । “सपदक्रमान्” पदक्रमसहितान् ।

अङ्गिराः

प्रणवाद्यास् तथा वेदाः प्रणवे पर्युपस्थिताः ।

वाङ्मयं प्रणवः सर्वम् अभ्यसेत् प्रणवं ततः ॥

प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।

त्रिपदायां च गायत्र्यां न भयं विद्यते क्वचित् ॥

[१०१] दक्षः

सविता देवता यस्या मुखम् अग्निस् त्रिपात् स्थिता ।

विश्वामित्र ऋषिश् छन्दो गायत्री सा विशिष्यते ॥

“त्रिपात्” त्रिपदा गायत्री या स्थितेति योज्यम् ।

यमः

न तथा वेदजापेन पापं निर्दहति द्विजः ।

यथा सावित्रिजापेन सर्वपापैः प्रमुच्यते ॥

शङ्खः [१२.१–३१] ।

    इति वेदपवित्राण्य् अभिहितानि । एतेभ्यः सावित्री विशिष्यते । नाघमर्षणात् परम् अन्तर्जले । न व्याहृतिभ्यः परं होमे । न सावित्र्याः परं जप्ये । कुशवृष्याम् आसीनः कुशोत्तरायां वा कुशपवित्रपाणिर् उदङ्मुखः सूर्याभिमुखो वाक्षमालाम् आदाय देवतां ध्यायन् जपं कुर्यात् । सुवर्णमणिमुक्ताफल-स्फटिकपद्माक्षेन्द्राक्षपुत्रजीवकानाम् अन्यतमाद् अक्षमालां कुर्यात् । कुशग्रन्थिकृतां वा हस्तोपयामैर् वा गणयेत् । आदौ देवताम् आर्षं छन्दश् च संस्मरेत् । ततः सप्रणवा व्याहृतीर् आदाव् आवर्त्य गायत्रीम् आवर्तयेत् । अथास्याः सविता देवता ऋषिर् विश्वामित्रो गायत्री छन्दः । ओङ्कारस्य प्रणवाख्या । ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं इति महाव्याहृतयः । आपो ज्योती **[१०२]** रतो ऽमृतं ब्रह्म भूर् भुवः स्वर् ॐ इति शीर्षम् । अत्र च भवन्ति श्लोकाः ।


    	सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।


    	ये जपन्ति सदा तेषां न भयं विद्यते क्वचित् ॥


    	शतजप्ता तु सा देवी दिनपापप्रणाशनी ।


    	सहस्रजप्ता तु तथा पातकेभ्यः प्रमोचिनी ॥


    	दशसाहस्रजापेन सर्वपापप्रणाशिनी ।


    	लक्षजप्ता तु सा देवी महापातकनाशिनी ॥


    	सुवर्णस्तेयकृद् विप्रो ब्रह्महा गुरुतल्पगः ।


    	सुरापश् च विशुध्यन्ति लक्षजापान् न संशयः ॥


    	प्राणायामत्रयं कृत्वा कल्यं कल्यं समाहितः ।


    	अहोरात्रकृतात् पापात् तत्क्षणाद् एव मुच्यते ॥


    	सव्याहृतीः सप्रणवाः प्राणायामास् तु षोडश ।


    	अपि भ्रूणहनं मासात् पुनन्त्य् अहर् अहः कृताः ॥


    	गायत्री वेदजननी गायत्री पापनाशिनी ।


    	गायत्र्यास् तु परं नास्ति दिवि चेह च पावनम् ॥


    	हस्तत्राणपदा देवी पततां नरकार्णवे ।


    	तस्मात् ताम् अभ्यसेन् नित्यं ब्राह्मणो हृदये शुचिः ॥


    	गायत्रीजापनिरतं हव्यकव्येषु योजयेत् ।


    	तस्मिन् न तिष्ठते पापम् अब्बिन्दुर् इव पुष्करे ॥

[१०३] जप्येनैव तु संसिध्येद् ब्रह्मणो नात्र संशयः ।

	कुर्याद् अन्यं न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥

	उपांशु स्याच् छतगुणः साहस्रो मानसः स्मृतः ।

	नोच्चैर् जप्यं बुधः कुर्यात् सावित्र्यास् तु विशेषतः ॥

	सावित्रीजप्यनिरतः स्वर्गम् आप्नोति मानवः ।

	सावित्रीजप्यनिरतो मोक्षोपायं च विन्दति ॥

	तस्मात् सर्वप्रयत्नेन स्नातः प्रयतमानसः ।

	गायत्रीं तु जपेद् भक्त्या सर्वकल्मषनाशिनीम् ॥

“वृषी” स्वल्पमासनम् । “इन्द्राक्षः” आरुकम् । “हस्तोपयामः” अङ्गुलीनमनम् । “आदौ” जपारम्भे । “हृदये शुचिः” शुद्धमनाः । “मोक्षोपायं” तत्त्वज्ञानम् ।

योगियाज्ञवल्क्यो मनु-यम-वसिष्ठ-हारीताश् चाद्यश्लोकद्वये ।

ये पाकयज्ञाश् चत्वारो विधियज्ञसमन्विताः ।

सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥

जप्येनैव तु संसिद्धो ब्राह्मणो नात्र संशयः ।

कुर्याद् अन्यं न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥

न चङ्क्रमन् न च हसन् न पार्श्वम् अवलोकयन् ।

नापाश्रितो न जल्पंश् च चावृत्तशिरास् तथा ॥

न पदा पदम् आक्रम्य न चैव हि तथा करौ ।

[१०४] न चासमाहितमना न च संश्रावयन् जपेत् ॥

प्रच्छन्नानि च दानानि ज्ञानं च निरहङ्कृतम् ।

जप्यानि च सुगुप्तानि तेषां फलम् अनन्तकम् ॥

उपांशुजपयुक्तस्य शंस्याच् छतगुणो भवेत् ।

साहस्रो मानसः प्रोक्तो यस्माद् ध्यानसमो हि सः ॥

ओष्ठस्पन्दनमात्रेण यतोपांशु तद् अध्वनि ।

कृत्वा जिह्वां निर्विकल्पां चिन्तयेत् तद् धि मानसम् ॥

तिष्ठंश् चेद् वीक्षमाणो ऽर्कं जपं कुर्यात् समाहितः ।

अन्यथा प्राङ्मुखः कुर्याद् वक्ष्यमाणक्रमेण तु ॥

प्राक्कूलेषु कुशेष्व् एवम् आसीनश् चासने शुभे ।

नात्युच्छ्रिते नातिनीचे दर्भपाणिः सुसंयुतः ॥

स्फटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ।

अक्षमाला तु कर्तव्या उत्तमा ह्य् उत्तरोत्तरा ॥

कोट्यादिका भवेद् वृद्धिर् अक्षमाला विशेषतः ।

जपस्य क्रियमाणस्य तस्माच् छ्रेष्टा परा परा ॥

अभावे त्व् अक्षमालायाः कुशग्रन्थ्याग्रपाणिना ।

जप एव हि कर्तव्य एकाग्रमनसैव तु ॥

द्यायेत मनसा मन्त्रं जिह्वौष्ठौ न तु चालयेत् ।

न कम्पयेच् छिरो ग्रीवां दन्तान् नैव प्रकाशयेत् ॥

[१०५] यक्षराक्षसभूतानि सिद्धविद्याधरोरगाः ।

हरन्ति प्रसभं यस्मात् तस्माद् गुप्तं समाचरेत् ॥

जलान्ते चाग्न्यगारे वा जले देवालये ऽपि वा ।

गवां गोष्ठे पुण्यतीर्थे सिद्धक्षेत्रे ऽथ वा गृहे ॥

गृहे ह्य् एकगुणं जप्यं नद्यां तु द्विगुणं स्मृतम् ।

गवां गोष्ठे दशगुणम् अग्न्यागारे दशाधिकम् ॥

सिद्धक्षेत्रेषु तीर्थेषु देवतायाश् च सन्निधौ ।

सहस्रं शतकोटीनाम् अनन्तं विष्णुसन्निधौ ॥

शाकयावकभैक्ष्याणि पयो मूलफलानि च ।

दधि सर्पिस् तथा ह्य् आपः प्रशस्ता ह्य् उत्तरोत्तरम् ॥

चरवो ह्य् उपवासश् च भैक्ष्यं नक्तम् अयाचितम् ।

बिसशृङ्गाटशालूकहविष्यान्नानि यानि तु ॥

एतान्य् अनुव्रतान्य् आहुः शस्तानि जपकर्मणि ।

जपकाले न भाषेत व्रतहोमादिकेषु च ॥

एतेष्व् एवावसक्तं तु यद्य् आगच्छेद् द्विजोत्तमः ।

अभिवाद्य ततो विप्रं योगक्षेमं तु कीर्तयेत् ॥

स्त्रीशूद्रपतितांश् चैव रासभं च रजस्वलाम् ।

जपकाले न भाषेत व्रतहोमादिकेषु च ॥

तूष्णीम् आसीत तु जपंश् चण्डालपतिरादिकान् ।

दृष्ट्वा तान् वार्य् उपस्पृश्याभाष्य स्नात्वा पुनर् जपेत् ॥

[१०६] आचम्य प्रयतो नित्यं जपेद् अशुचिदर्शने ।

सौरान् मन्त्रान् यथोत्साहं पावमानीश् च शक्तितः ॥

रौद्रमैत्रासुरान् मन्त्रान् राक्षसान् आभिचारिकान् ।

व्याहृत्यालभ्य चात्मानम् अपः स्पृष्ट्वान्यद् आचरेत् ॥

एतान् व्याहृत्य रौद्रादीन् अस्पृष्ट्वाथ जलं द्विजः ।

ऊर्ध्वं यत् कुरुते कर्म तद् भवत्य् अयथायथम् ॥

यदि वाग्यमलोपः स्याज् जपादिषु कथञ्चन ।

व्याहरेद् वैष्णवं मन्त्रं स्मरेद् वा विष्णुम् अव्ययम् ॥

“पाकयज्ञाः” ब्रह्मयज्ञव्यतिरिक्ता देवयज्ञादयः । “विधियज्ञाः” ज्योतिष्टोमादयः । मित्रम् एव “मित्रः”, सर्वेषां भूतानाम् अपि शेषः । सर्वभूतमित्रत्वं च हिंसाङ्गक्रतु-व्यतिरिक्ताहिंसाङ्गकजपयज्ञानुष्ठानेन । “चङ्क्रमन्” इतस् ततस् चलन् । “अपाश्रितः” कुड्यादाव् इति शेषः । “करौ” पदाक्रम्येति शेषः । “शंस्यात्” उच्चैः पठनीयाद् “उपांशुजपयुक्तस्य” यो जपः सः “शतगुणो भवेद्” इत्य् अर्थः । कोट्यादिशब्देनार्बुदादिसङ्ख्यापरिग्रहः । “प्रसभं” हठात् । “चरवो” अन्नस्हालीपाकविशेषाः । “बिसः” मृणालः । “हविष्यान्नानि” यवषाष्टिकादीनि । “अनुव्रतानि” जपयज्ञव्रतस्याङ्गभूतानि । “एतेषु” जपहोमादिषु । “अवसक्तं” [१०७] व्यापृतम् । “तान् आभाष्य” इति सम्बन्धः । “अयथायथम्” निष्फलम् ।

नरसिंहपुराणे [५८.७८–८२] ।

त्रिविधो जपयज्ञः स्यात् तस्य भेदं निबोधत ।

वाचिकश् च उपांशुश् च मानसश् च त्रिधा स्मृतः ॥

त्रयाणां जपयज्ञानां श्रेयान् स्याद् उत्तरोत्तरः ।

यद् उच्चनीचस्वरितैः स्पष्टशब्दवद् अक्षरैः ॥

मन्त्रम् उच्चारयेद् व्यक्तं जपयज्ञः स वाचिकः ।

शनैर् उच्चारयेन् मन्त्रम् ईषद् ओष्ठौ प्रचालयेत् ॥

किञ्चिच् छब्दं स्वयं विद्याद् उपांशु स जपः स्मृतः ।

धिया यद् अक्षरश्रेण्यो वर्णाद् वर्णं पदात् पदम् ॥

शब्दार्थचिन्तनाभ्यासः स उक्तो मानसो जपः ।

“किञ्चिच् छब्दं स्वयं विद्याद्” इति, यथा तं ध्वनिम् अन्यो न जानीयाद् इत्य् अर्थः ।

पैठीनसिः

    सावित्र्या मानसेन च स्वाध्यायेन जपो व्याख्यातो ब्रह्मयज्ञश् च ।

“जपः” इतरमन्त्रजपः । यथा गायत्र्याः स्वाध्याये मानसे इतिकर्तव्यताफलत्वम्, तथा जपे ब्रह्मयज्ञे चेत्य् अर्थः ।

[१०८] ब्रह्मयज्ञाधिकारे आपस्तम्बः [१.११.१८–२०] ।

    तस्य विधिः । अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशे ऽधीयीत यथास्वाध्यायम् उत्सृजन् वाचा । मनसा चानध्याये ।

“यथास्वाध्यायम् उत्सृजन्न्” इति, यद् अधीतं तत् त्यजन् वाचाधीयीत । अनध्याये पुनर् मनसाधीयीत ।

वसिष्ठः [२६.१४] ।

यथाग्निर् वायुना धूतो हविषा चैव दीप्यते ।

एवं जप्यपरो नित्यं मन्त्रयुक्तः सदा द्विजः ॥

यमः

यमयित्वेन्द्रियग्रामं कामक्रोधाव् उभाव् अपि ।

ब्रह्मचारी च जापी च ब्रह्मलोकम् अवाप्नुयात् ॥

लघुहारीतः

जपे होमे तथा दाने स्वाध्याये पितृतर्पणे ।

अशून्यौ तु करौ कुर्यात् सुवर्णरजतैः कुशैः ॥

योगियाज्ञवल्क्यः

न क्लिन्नवासाः स्थलगो जपादीन् आचरेद् बुधः ।

[१०९] वस्त्रनिश्च्योतनं प्रेताः परिवार्य पिबन्ति हि ॥

व्रताद् ऋते नार्द्रवासा नैकवासाः समाचरेत् ।

न जीर्णेन न नीलेन परिक्लिष्टेन वा जपेत् ।

“परिवार्य” वेष्टयित्वा । “परिक्लिष्टेन” मलिनेन ।

नरसिंहपुराणे [५८.७७, ८५, ८७–९०] ।

दर्भेषु दर्भपाणिः सन् प्राङ्मुखः सुसमाहितः । 

प्राणायामांस् तु कुर्वीत यथाशास्त्रम् अतन्द्रितः ॥

जपेद् अहर् अहः स्नात्वा सावित्रीं जपविद् द्विजः ।

अथ पुष्पाञ्जलिं दत्वा भानवे चोर्ध्वबाहुकः ॥

उद् उ त्यं च जपेन् मन्त्रं चित्रं तच् चक्षुर् इत्य् अपि ।

प्रदक्षिणम् उपावृत्य नमस्कृत्य ततः प्रभुम् ॥

पित्रर्षिगणदेवादीन् अद्भिः सन्तर्पयेत् ततः ।

देवान् देवगणांश् चैव मुनीन् मुनिगणान् अपि ॥

पितॄन् पितृगणांश् चैव नित्यं सन्तर्पयेत् ततः ।

स्नातवस्त्रं ततः पीड्य पुनर् आचमनं वरेत् ॥

इति भट्टहृदयधरात्मजमहासान्धिविग्रहिक-

श्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

नियतकालकल्पकाण्डे जपविधिः ॥

[११०]

अथ तर्पणविधिः

तत्र विष्णुः [६४.२४–२५] ।

    स्नातश् चार्द्रवासा देवपितृतर्पणम् अम्भःस्थ एव कुर्यात् । परिवर्तितवासाश् चेत् तीर्थतीरम् उत्तीर्य ।

याज्ञवल्क्यः [१.१००] ।

स्नात्वा देवान् पितॄंश् चैव तर्पयेद् अर्चयेत् तथा ।

“देवान्” ब्रह्मादीन् । “अर्चयेत्” तल्लिङ्गैर् मन्त्रैः पुष्पाक्षतादिभिः । “पितॄंश् च” श्राद्धेन ।

शातातपः

तर्पणं च शुचिः कुर्यात् प्रत्यहं स्नातको द्विजः ।

देवेभ्यश् च ऋषिभ्यश् च पितृभ्यश् च यथाक्रमम् ॥

“शुचिः” मन्त्रस्नानादिनापि । अनेन च प्रधानतया नित्यतर्पणं विधीयते, प्रत्यहम् इत्य् अभिधानात्, तर्पणम् उपक्रम्य

तस्मात् सदैव कर्तव्यम् अकुर्वन् सहसैनसा ।

[१११] युज्यते ब्राह्मणः कुर्वन् विश्वम् एतद् बिभर्ति हि ॥

इत्यादिछन्दोगपरिशिष्टवचनाच् च [२.२३] ।

विष्णुः [६४.२७–३५] ।

    स्नात्वा च विधिवद् उपस्पृशेत् । पुरुषसूक्तेन प्रत्यृचं पुरुषाय पुष्पाञ्जलिं दद्यात् । उदकाञ्जलिं चादाव् एव । दिव्येन तीर्थेन देवानां तर्पणं कुर्यात् । पित्र्येण पितृतर्पणम् । आदौ स्ववंश्यानां तर्पणं कुर्यात् । ततः सम्बन्धिबान्धवानाम् । ततः सुहृदाम् । एवं नित्यस्नायी स्यात् ।

“स्ववंश्याः- मातापितृवंशजाः पित्रादयो मातामहाश् च ।

जपान्तरं छन्दोगपरिशिष्टे कात्यायनः [२.१८–२३] ।

	यवाद्भिस् तर्पयेद् देवान् सतिलाद्भिः पितॄन् अपि ।

	नामान्ते तर्पयामीति आदाव् ॐ इति हि ब्रुवन् ॥


    ब्रह्माणं विष्णुं रुद्रं प्रजापतिं देवांश् छन्दांसि वेदान् ऋषीन् पुराणान् आचार्यान् गन्धर्वान् इतराचार्यान् । संवत्सरं सावयवं देवीर् अप्सरसो देवानुगान् नागान् सागरान् पर्वतान् सरितो दिव्यान् मनुष्यान् यक्षान् रक्षांसि सुपर्णान् पिशाचान् पृथिवीम् ओषधीः पशून् वनस्पतीन् भूतग्रामं चतुर्विधम् इत्य् उपवीती । अथ प्राचीनावीती यमं यमपुरुषं कव्यवाहमनलं सोमम् अर्यमणम् अग्निष्वात्तान् सोमपान् बर्हिषदो ऽथ स्वान् **[११२]** पितॄन् मातामहान् इति प्रतिपुरुषम् अभ्यसेत् । ज्येष्ठभ्रातृश्वशुरपितृव्यमातुलांश् च मातापितृवंश्या ये चान्ये मत्त उदकम् अर्हन्ति तांस् तर्पयामीत्य् अयम् अवसानाञ्जलिः । अथ श्लोकः-


    	छायां येथेच्छेच् छरदातपार्तः


    		पयः पिपासुः क्षुधितो ऽत्तुम् अन्नम् ।


    	बालो जनित्रीं जननी च बालं


    		योषित्पुमांसं पुरुषश् च योषाम् ॥


    	तथा भूतानि सर्वाणि स्थावराणि चराणि च ।


    	विप्राद् उदकम् इच्छन्ति सर्वे ह्य् उदककाङ्क्षिणः ॥


    	तस्मात् सदैव कर्तव्यम् अकुर्वन् महतैनसा ।


    	युज्यते ब्राह्मणः कुर्वन् विश्वम् एतद् बिभर्ति हि ॥

“पुराणान्” इत्य् आचार्यविशेषणम् । “प्रतिपुरुषम् अभ्यसेद्” इत्य् अनेन पित्रादीनां त्रयाणां मातामहानां च त्रयाणाम् उदकाञ्जलिर् आवर्तत इत्य् उक्तम् ।

जपानन्तरं योगियाज्ञवल्क्यः

ततः सन्तर्पयेद् देवान् ऋषीन् देवगणांस् तथा ।

ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतिम् ॥

देवांश् छन्दांसि वेदांश् च ऋषींश् चैव तपोधनान् ।

आचार्यांश् चैव गन्धर्वान् आचार्यान् इतरांस् तथा ॥

संवत्सरं सावयवं देवीश् चाप्सरसस् तथा ।

[११३] तथा देवानुगान् नागान् सागरान् पर्वतांस् तथा ॥

सरितो ऽथ मनुष्यांश् च यक्षरक्षांसि चैव हि ।

पिशाचांश् च सुपर्णांश् च भूतान्य् अथ पशूंस् तथा ॥

वनस्पतींश् चौषधीश् च भूतग्रामं चतुर्विधम् ।

अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ॥

तृप्यताम् इति सेक्तव्यं नाम्ना तु प्रणवादिना ।

आवाह्य पूर्ववन् मन्त्रैर् आस्तीर्य च कुशान् शुभान् ॥

प्रागग्रेषु सुरान् सम्यग् दक्षिणाग्रेषु वै पितॄन् ।

सव्यं जानुं ततो ऽन्वाच्य पाणिभ्यां दक्षिणामुखः ॥

तल्लिङ्गैस् तर्पयेन् मन्त्रैः सर्वान् पितृगणांस् तथा ।

मातामहांश् च सततं श्रद्धया तर्पयेद् बुधः ॥

प्राचीनावीत्य् उदकं तु प्रसिञ्चेद् वै तिलान्वितम् ।

यद्य् उद्धृतं प्रसिञ्चेत् तु तिलान् सम्मिश्रयेज् जले ॥

अतो ऽन्यथा तु सव्येन तिला ग्राह्या विचक्षणैः ।

दक्षिणे पितृतीर्थेन जलं सिञ्चेद् यथाविधि ॥

दक्षिणेनैव गृह्णीयात् पितृतीर्थसमीपतः ।

तिलानाम् अप्य् अलाभे तु सुवर्णरजतान्वितम् ॥

तदभावे निषिञ्चेत् तु दर्भैर् मन्त्रेण वाप्य् अथ ।

कव्यवाड् अनलं सोमं यमम् अर्यमणं तथा ॥

अग्निष्वात्तान् सोमपांश् च तथा बर्हिषदः पितॄन् ।

[११४] यदि स्याज् जीवपितृक एतान् दिव्यान् पितॄंस् तथा ॥

येभ्यो वापि पिता दद्यात् तेभ्यो वापि प्रदापयेत् ।

एतांश् च वक्ष्यमाणांश् च प्रमीतपिऋको द्विजः ॥

वसून् रुद्रांस् तथादित्यान् नमस्कारस्वधान्वितान् ।

एते सर्वस्य पितर एष्व् आयत्ताश् च मानवाः ॥

आचार्यांश् च पितॄण् स्वांश्च पितृप्रभृति नामतः ।

मन्त्रैश् च देयम् उदकं पितॄणां प्रीतिवर्धनैः ॥

उदीरताम् अङ्गिरस आयन्त्व् इत्य् ऊर्जम् इत्य् अपि ।

पितृभ्य इति ये चेह मधुवाता इति त्र्यृचम् ॥

पितॄन् ध्यायन् प्रसिञ्चन् वै जपेन् मन्त्रान् यथाक्रमम् ।

तृप्यध्वम् इति च त्रिर् वै ततः पाञ्जलिर् आनतः ॥

नमो व इति जप्त्वा वै ततो मातामहान् सखीन् ।

तर्पयेद् आनृशंस्यार्थं धर्मं परमम् आस्थितः ॥

माता मातृष्वसा चैव मातुलानी पितृष्वसा ।

दुहिता च स्वसा चैव शिष्यर्त्विग्ज्ञातिबान्धवाः ॥

नामतस् तु स्वधाकारैस् तर्प्याः स्युर् अनुपूर्वशः ।

[११५] सवर्णेभ्यो जलं दद्यान् नान्यवर्णे कदाचन ॥

पूर्वं स्वपितरस् तर्प्याः पश्चाद् अन्यांश् च तर्पयेत् ।

नास्तिक्यभावाद् यश् चापि न तर्पयति वै सुतः ॥

पिबन्ति देहनिःस्रावं पितरो ऽस्य जलार्थिनः ।

“पूर्ववन् मन्त्रैः” पूर्वं याज्ञवल्क्यसंहितायां श्राद्धप्रकरणे उक्तैः “विश्वेदेवास आगत” “उशन्तस् त्वा” इत्यादिमन्त्रैः । “कव्यवाद् अनलः” एका देवता । “येभ्यो वापि” इति, पितुः पित्रादिभ्यः । “एतान् दिव्यपितृण्” कव्यवाद् अनलादीन् वक्ष्यमाणान् वस्वादीन् पितॄंश् च । “नमस्कारस्वधान्वितान्” तर्पयेद् इति शेषः । अत्र च

देवान् ब्रह्मऋषीन् सर्वान् तर्पयेताक्षतोदकैः ।

इति पद्मपुराणे [सृष्ट्तिखण्डम् २०.१६५] अभिदानाद् देवर्षिमनुष्यतर्पणे यवा नियताः । पितृतर्पणे तु योगियाज्ञवल्क्येन स्नानप्रकरणे “मृत्तिकान् गोमयम्” इति तिलानां नित्यवद् अङ्गत्वाभिधानात् “तिलोदकम्” इति च तत्राभिधानात् तिला नियताः,

तिलानाम् अप्य् अभावे तु सुवर्णरजतान्वितम् ।

[११६] इत्य् अभिधानात् । तिलाभावे ऽपि पितृतर्पणं भवत्य् एव । पित्रादिदेवतोद्देशेन जलत्यागरूपं चेदं तर्पणाख्यं कर्म न प्रसेकमात्रम्, दद्याद् इत्य् अभिधानात्, पित्रादीनां तत्र तत्र तृप्तिश्रवणात् । अत्र च देवतर्पणे ईद्र्शं वाक्यम् — “ॐ ब्रह्मा तृप्यताम् । ॐ विष्णुस् तृप्यताम्” इत्य् एवम्प्रकारं प्रतिदैवतं कर्तव्यम् । मनुष्यतर्पणे तु — “ॐ वसवस् तृप्यताम् इदं जलं तेभ्यः स्वधा नमः” इत्य् एवंरूपं वाक्यम् । पितृतर्पणे तु आ– “ॐ अमुकगोत्रो ऽस्मत्पितामुकशर्मा तृप्यताम् इदं जलं तस्मै स्वधा नमः” इत्य् एवंरूपं वक्यं कर्तव्यम् ।

पद्मपुराणे [सृष्टिखण्डम्, २०.१५१–१७०] ।

ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतिम् ।

देवा यक्षास् तथा नागा गन्धर्वाप्सरसो ऽसुराः ॥

क्रूराः सर्पाः सुपर्णाश् च तरवो जम्भकाः खगाः ।

विद्याधरा जलधरास् तथैवाकाशगामिनः ॥

निराधाराश् च ये जीवाः पापे धर्मे रताश् च ये ।

तेषाम् आप्यायनायैतद् दीयते सलिलं मया ॥

कृतोपवीती देवेभ्यो निवीती च भवेत् ततः ।

[११७] मनुष्यांस् तर्पयेद् भक्त्या ऋषिपुत्रान् ऋषींस् तथा ॥

सनकश् च सनन्दश् च तृतीयश् च सनातनः ।

कपिलश् चासुरिश् चैव वोढुः पञ्चशिखस् तथा ॥

सर्वे ते तृप्तिम् आयान्तु मद्दत्तेनाम्बुना सदा ।

मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥

प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च ।

देवान् ब्रह्मऋषीन् सर्वांस् तर्पयेद् अक्षतोदकैः ॥

अपसव्यं ततः कृत्वा सव्यं जान्व् आच्य भूतले ।

अग्निष्वात्तांस् तथा सौम्यान् हविष्मन्तस् तथोष्मपान् ॥

सुकालिनो बर्हिषदस् तथा चैवाज्यपान् पुनः ।

तर्पयेच् च पितॄन् भक्त्या सतिलोदकचन्दनैः ॥

दर्भपाणिस् तु विधिना प्रेतांस् तांस् तर्पयेत् ततः ।

पित्रादीन् नामगोत्रेण तथा मातामहान् अपि ॥

सन्तर्प्य भक्त्या विधिवद् इमं मन्त्रम् उदीरयेत् ।

“ये ऽबान्धवा बान्धवा वा ये ऽन्यजन्मनि बान्धवाः ॥

ते तृप्तिम् अतुलां यान्तु यश् चास्मत्तो ऽभिवाञ्छति” ।

विष्णुपुराणे [३.११.२७–३६] ।

शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् ।

[११८] तेषाम् एव हि तीर्थेन कुर्वीत सुसमाहितः ॥

त्रिर् अपः प्रीणनार्थाय देवानाम् अपवर्जयेत् ।

ऋषीणां च यथान्यायंसकृच्चापि प्रजापतेः ॥

पितॄणां प्रीणनार्थाय त्रिर् अपः पृथिवीपते ।

पितामहेभ्यश् च तथा प्रीणयेत् प्रपितामहान् ॥

मातामहाय तत्पित्रे तत्पित्रे च समाहितः ।

दद्यात् पित्र्येण तीर्थेन काम्यं चान्यच् छृणुष्व मे ॥

मात्रे प्रमात्रे तत्मात्रे गुरुपत्न्यै तथैव च ।

गुरवे मातुलादीनां स्निग्धमित्राय भूभुजे ॥

इदं चापि जपेद् अम्बु दद्याद् आत्मेच्छया नृप ।

उपकाराय भूतानां कृतदेवादितर्पणः ॥

देवासुरास् तथा यक्षा नागा गन्धर्वराक्षसाः ।

पिशाचा गुह्यकाः सिद्धाः कूष्माण्डास् तरवः खगाः ॥

जलेचरा भूनिलया वाय्वादाराश् च जन्तवः ।

प्रीतिम् एते प्रयान्त्व् आशु मद्दत्तेनाम्बुनाखिलाः ॥

नरकेषु समस्तेषु यातनासु च ये स्थिताः ।

तेषाम् आप्यायनायैतद् दीयते सलिलं मया ॥

ये ऽबान्धवा बान्धवा वा य ऽन्यजन्मनि बान्धवाः ।

ते तृप्तिम् अखिला यान्तु यश् चास्मत्तो ऽभिवाञ्छति ॥

“त्रिर् अपः प्रीणनार्थाय” इति, एतस्माद् वचनाद् देवानाम् ऋषीणां प्रत्येकम् अञ्जलित्रयदानम् । प्रजापतेश् च तन्मध्य एक एवाञ्जलिः । पित्रादीनां तु वृद्धप्रमातामहान्तानाम् अञ्जलित्रयं [११९] प्रत्येकम् । मात्रादितर्पणे काम्यत्वाभिधानं फलविशेषकथनार्थम्, नित्यता तु स्मृत्यन्तरानुसारात् ।

बौधायनः [२.८.१५–२.१०.४] ।

    पूतः पञ्चभिर् ब्रह्मयज्ञैर् अद्भिर् एवाप्सु यथोत्तरं देवतास् तर्पयति । अग्निः प्रजापतिः सोमो रुद्रो ऽदितिर् बृहस्पतिः सर्पा इत्य् एतानि प्राग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । वसूंश् च तर्पयामि । पितरो ऽर्यमा भगः सविता त्वष्टा वायुर् इन्द्राग्नी इत्य् एतानि दक्षिणद्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । रुद्रांश् च तर्पयामि । मित्र इन्द्रो महापितर आपो विश्वेदेवा ब्रह्मा विष्णुर् इत्येतानि प्रत्यग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । आदित्यांश् च तर्पयामि । वरुणो वसवो ऽज एकपाद् अहिबुध्न्यः पूषाश्विनौ यम इत्य् एतान्य् उदग्द्वाराणि दैवतानि सनक्षत्राणि सग्रहाणि साहोरात्राणि समुहूर्तानि तर्पयामि । विष्वान् देवांस् तर्पयामि । साध्यांश् च तर्पयामि । ब्रह्माणं तर्पयामि । प्रजापतिं तर्पयामि । [चतुर्मुखं तर्पयामि । परमेष्ठिनं तर्पयामि ।] हिरण्यगर्भं तर्पयामि । स्वयम्भुवं तर्पयामि । ब्रह्मपार्षदांस् तर्पयामि । ॐ भूः पुरुषं **[१२०]** तर्पयामि । ॐ भुवः पुरुषं तर्पयामि । ॐ सुवः पुरुषं तर्पयामि । ॐ भूर् भुवः स्वः पुरुषं तर्पयामि । ॐ भूस् तर्पयामि । ॐ भुवस् तर्पयामि । ॐ सुवस् तर्पयामि । ॐ महस् तर्पयामि । ॐ जनस् तर्पयामि । ॐ तपस् तर्पयामि । ॐ सत्यं तर्पयामि । ॐ भवं देवं तर्पयामि । ॐ शर्वं देवं तर्पयामि । ॐ ईशानं देवं तर्पयामि । ॐ पसुपतिं देवं तर्पयामि । ॐ रुद्रं देवं तर्पयामि । ॐ उग्रं देवं तर्पयामि । ॐ भीमं देवं तर्पयामि । ॐ महान्तं देवं तर्पयामि । ॐ भवस्य देवस्य पत्नीं तर्पयामि । ॐ शर्वस्य देवस्य पत्नीं तर्पयामि । ॐ ईशान्स्य देवस्य पत्नीं तर्पयामि । ॐ पशुपतेर् देवस्य पत्नीं तर्पयामि । ॐ रुद्र्स्य देवस्य पत्नीं तर्पयामि । ॐ उग्रस्य देवस्य पत्नीं तर्पयामि । ॐ भीमस्य देवस्य पत्नीं तर्पयामि । ॐ महतो देवस्य पत्नीं तर्पयामि । ॐ भवस्य देवस्य सुतं तर्पयामि । ॐ शर्वस्य देवस्य सुतं तर्पयामि । ॐ ईशानस्य देवस्य सुतं तर्पयामि । ॐ पशुपतेर् देवस्य सुतं तर्पयामि । ॐ रुद्रस्य्स् देवस्य सुतं तर्पयामि । ॐ उग्रस्य देवस्य सुतं तर्पयामि । ॐ भीमस्य देवस्य सुतं तर्पयामि । ॐ महतो देवस्य सुतं तर्पयामि । ॐ रुद्रांश् च तर्पयामि । रुद्रपार्षदांश् च तर्पयामि । ॐ विघ्नं तर्पयामि । विनायकं तर्पयामि । वीरं तर्पयामि । शूरं तर्पयामि । उग्रं तर्पयामि । वरदं तर्पयामि । हस्तिमुखं तर्पयामि । एकदंष्ट्रं **[१२१]** तर्पयामि । लम्बोदरं तर्पयामि । विघ्नपार्षदांश् च तर्पयामि । विघ्नपार्षदीश् च तर्पयामि । ॐ सनत्कुमारं तर्पयामि । स्कन्दं तर्पयामि । इन्द्रं तर्पयामि । षष्ठीं तर्पयामि । षण्मुखं तर्पयामि । विशाखं तर्पयामि । सुब्रह्मण्यं तर्पयामि । महासेनं तर्पयामि । स्कन्दपार्षदांश् च तर्पयामि । स्कन्दपार्षदीश् च तर्पयामि । ॐ केशवं तर्पयामि । नारायणं तर्पयामि । माधवं तर्पयामि । गोविन्दं तर्पयामि । विष्णुं तर्पयामि । मधुसूदनं तर्पयामि । त्रिविक्रमं तर्पयामि । वामनं तर्पयामि । श्रीधरं तर्पयामि । हृषीकेशं तर्पयामि । पद्मनाभं तर्पयामि । दामोदरं तर्पयामि । श्रियं देवीं तर्पयामि । सरस्वतीं देवीं तर्पयामि । पुष्टिं तर्पयामि । तुष्टिं तर्पयामि । गरुत्मन्तं तर्पयामि । विष्णुपार्षदांश् च तर्पयामि । विष्णुपार्षदीश् च तर्पयामि । ॐ यमं तर्पयामि । यमराजं तर्पयामि । धर्मं तर्पयामि । धर्मराजं तर्पयामि । कालं तर्पयामि । नीलं तर्पयामि । मृत्युं तर्पयामि । वैवस्वतं तर्पयामि । चित्रगुप्तं तर्पयामि । वैवस्वअतपार्षदांस् तर्पयामि । वैवस्वतपार्षदीश् च तर्पयामि । भूमिं देवीं तर्पयामि । कश्यपं तर्पयामि । अक्षरं तर्पयामि । विद्यां तर्पयामि । धवन्तरिं **[१२२]** तर्पयामि । धन्वन्तरिपार्षदांश् च तर्पयामि । धवन्तरिपार्षदीश् च तर्पयामि । अथ निवीती । ॐ ऋषींस् तर्पयामि । महर्षींस् तत्पर्यामि । परममहर्षींस् तर्पयामि । ब्रह्मर्षींस् तर्पयामि । देवर्षींस् तर्पयामि । राजर्षींस् तर्पयामि ॥ श्रुतर्षींस् तर्पयामि ॥ तपर्षींस् तर्पयामि । सत्यर्षींस् तर्पयामि । सप्तर्षींस् तर्पयामि । काण्डर्षींस् तर्पयामि । ऋषिकांस् तर्पयामि । ऋषिपत्नीस् तर्पयामि । ऋषिपुत्रकांस् तर्पयामि । काण्वं बौधायनं तर्पयामि । आपस्तम्बं सूत्रकारं तर्पयामि । सत्याषाढं हिरण्यकेशिनं तर्पयामि । व्यासं तर्पयामि । प्रणवं तर्पयामि । व्याहृतीस् तर्पयामि । सावित्रीं तर्पयामि । गायत्रीं तर्पयामि । छन्दांसि तर्पयामि । ऋग्वेदं तर्पयामि । यजुर्वेदं तर्पयामि । सामवेदं तर्पयामि । अथर्ववेदं तर्पयामि । अथर्वाङ्गिरसं तर्पयामि । इतिहासपुराणांस् तर्पयामि । सर्ववेदांस् तर्पयामि । सर्वदेवजनांस् तर्पयामि । सर्वभूतानि तर्पयामि । अथ दक्षिणतः प्राचीनावीति । ॐ पितॄन् स्वधा नमस् तर्पयामि । पितामहान् स्वधा नमस् तर्पयामि । प्रपितामहान् स्वधा नमस् तर्पयामि । मातॄः स्वधा नमस् तर्पयामि । पितामहीः स्वधा नमस् तर्पयामि । प्रपितामहीः स्वधा नमस् तर्पयामि । मातामहान् स्वधा नमस् तर्पयामि । मातुः पितामहान् स्वधा नमस् तर्पयामि । मातुः प्रपितामहान् स्वधा नमस् तर्पयामि । मातामहीः स्वधा नमस् **[१२३]** तर्पयामि । मातुः पितामहीः स्वधा नमस् तर्पयामि । मातुः प्रपितामहीः स्वधा नमस् तर्पयामि । आचार्यान् स्वधा नमस् तर्पयामि । आचार्यपत्नीः स्वधा नमस् तर्पयामि । गुरून् स्वधा नमस् तर्पयामि । गुरुपत्नीः स्वधा नमस् तर्पयामि । सखीन् स्वधा नमस् तर्पयामि । सखिपत्नीः स्वधा नमस् तर्पयामि । ज्ञातीन् स्वधा नमस् तर्पयामि । ज्ञातिपत्नीः स्वधा नमस् तर्पयामि । अमात्यान् स्वधा नमस् तर्पयामि । अमात्यपत्नीः स्वधा नमस् तर्पयामि । सर्वान् स्वधा नमस् तर्पयामि । सर्वपत्नीः स्वधा नमस् तर्पयामि । अनुतीर्थम् अप उत्सिञ्चति “ऊर्जं वहन्तीर् अमृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत् मे पितॄन् । तृप्यत तृप्यत तृप्यत” इति । नार्द्रवासा नैकवस्त्रो दैवानि कर्माण्य् अनुसञ्चरेत् । पितृकर्माणि चेत्य् एकेषाम् ।

“पञ्चभिर् ब्रह्मयज्ञैः” प्रणवव्याहृतित्रयगायत्रीजपात्मकैः, बौधायनेन्ऐव “प्रणवो व्याहृतयः सावित्री च” [२.७.१४] इति पूर्वम् अभिधानात् । “यथोत्तरं” या या देवता ब्रह्मादिका तां तां तेनैव क्रमेणेत्य् अर्थः । “अनुतीर्थं” पित्रादितीर्थं लक्ष्यीकृत्य । “एकेषाम्” इति वचनाज् जलस्थतर्पणे आर्द्रवस्त्रताप्य् अभिमता । तर्पणजलप्रक्षेपश् च जलस्थेन स्थलस्थेन च पुरुषेण तर्पणे क्रियमाणे जलमध्ये कर्तव्यः । न तु स्थलस्थेन [१२४] स्थल एवेति नियमः । स्थलस्थतर्पण एव **बौधायनेन **“पूतः पञ्चभिर् ब्रह्मयज्ञैर् अद्भिर् एवाप्सु यथोत्तरं देवतास् तर्पयति” [२.८.१५] इत्य् अपाम् एव तर्पणजलप्रक्षेपाधिकरणत्वेनाभि-धानात् । प्रणवव्याहृतित्रयसावित्रीगायत्रीरूपाणां पञ्चब्रह्मयज्ञानां वस्त्रपरिधानोत्तर-कालम् अभिधानात् । यत् तु “वासः पीडयित्वा” [२.८.१२] इत्य् उक्त्वा तदभिधानं तद् बौधायनीयानां तर्पणात् प्राव्यं स्नानाङ्गम् इति न ततो ऽप्स्व् इत्य् एतस्य जलस्थतर्पणविषयता । यत् तु “नार्द्रवासः” [२.१०.४] इत्यादि तर्पणान्ते बौधायनीयं वचनं तेन स्थलतर्पणम् एव द्रढीकृतम् ।

शङ्खः [१३.१–१५] ।

    स्नातः कृतजप्यो ऽन्तर्जानुर् उदङ्मुखश् च दिव्येन तीर्थेन देवान् उदकेन तर्पयेत् । अथ तर्पणविधिः । ॐ भगवन्तं शेषं तर्पयामि । कालाग्निरुद्रं सन्तानवराहम् अजिनं रुक्मभौमं शैलभौमं ललाटभौमं रक्तभौमं श्वेतभौमं कृष्णभौमम् इति पातालसप्तकम् । जम्बूद्वीपं शाकद्वीपं कुशद्वीपं क्रौञ्चद्वीपं शाल्मलिद्वीपं प्लक्षद्वीपं दुष्करद्वीपम् इति द्वीपसप्तकम् । लोकालोकाख्यं पर्वतं सुधानामानं शङ्खपदं **[१२५]** केतुमन्तं हिरण्यरोमाणाम् इति कल्पस्थायिनो लोकपालान् । लवणोदकं क्षीरोदकं घृतोदकं दध्युदकं सुरोदकम् इक्षुरसोदकं स्वादूदकम् इति समुद्रसप्तकं सागरचतुष्कम् । शृङ्गवन्तं श्वेतं नीलं मेरुं माल्यवन्तं गन्धमादनं निषधं हेमकूटं हिमवन्तम् इति महापर्वतान् । महेन्द्रं मलयं सह्यं शुक्तिमन्तम् ऋक्षवन्तं विन्ध्यं पारियात्रम् इति सप्त कुलवर्वतान् । कैलासमैनाकप्रमुखांश् च सप्तपर्वतान् । बिन्दुसरःप्रमुखानि सरांसि । सप्तप्रवाहाम् गङ्गाम् । त्रिलोकवाहिनीं गङ्गाम् । सिन्धुम् । सरस्वतीम् । यमुनाम् । प्रथमपुष्करम् । द्वितीयपुष्करम् । तृतीयपुष्करम् । प्रयागम् । नैमिषम् । गयाशीर्षम् । सर्वतीर्थानि । सर्वप्रस्रवणानि । सर्वाः सरितः । इन्द्रतीर्थम् । अश्वत्थप्रमुखान् वनस्पतीन् । यवप्रमुखा ओषधीः । मानसोत्तराख्यं पर्वतम् । लोकपालान् । इन्द्रम् । शचीम् । वज्रम् । ऐरावतम् । मालतिम् । चित्रसेनप्रमुखान् गन्धर्वाप्सरसः । मुदो नामाप्सरसः । पशुनो नामाप्सरसः । आयुषो नामाप्सरसः । सुधा नामाप्सरसः । पृष्टमो नामाप्सरसः । ऊर्जा नामाप्सरसः । अग्निसन्ताम् । स्वाहाम् । अग्नीधम् । यमम् । धर्मम् । श्रियम् । सत्यम् । तपः । संयज्ञम् । दक्षिणाम् । दीक्षाम् । ब्रह्मचर्यम् । व्यवसायम् । **[१२६]** धर्मराजानम् । दण्डम् । पिङ्गलम् । कालपाशौ । आयुधम् । स्वर्गम् । मृत्युम् । चित्रगुप्तम् । यमपुरुषान् । श्यावशबलौ । विरूपाक्षम् । नैरृतिम् । धर्मप्रधानान् । दैत्यान् । दानवान् । विद्याधरान् । यक्षान् । राक्षसान् । पिशाचान् । रोगान् । ज्वरम् । रोगाधिपम् । आरोग्यम् । वरुणम् । गौरीम् । नागान् । वासुकिम् । अनन्तम् । सर्पान् । वनस्पतीन् । वायुम् । शिराम् । प्राणापानसमानोदानव्यानान् । इन्द्रियाणि । इन्द्रियार्थान् । जीवम् । सोमम् । नक्षत्राणि । वर्तमानं नक्षत्रम् । पितॄन् । आभास्वरम् । बर्हिषदः । अग्निष्वात्तान् । क्रव्यादान् । तद्रूपान् । आज्यपान् । सुकालिनः । महादेवम् । पार्वतीम् । सेनानीम् । स्कन्दम् । विशाखम् । स्कन्दग्रहान् । बालग्रहान् । स्कन्दपार्षदान् । रुद्रपार्षदान् । भूतानि । भौमान् । रुद्रान् । अन्तरिक्षान् । रुद्रान् । विद्यारुद्रान् । सर्वगतान् रुद्रान् । मातॄः । योगेश्वरीम् । देवपत्नीः । देवमातृगणान् । धनाधिपान् । विनायकम् । मितम् । सम्मितम् । शालकटङ्कटौ । कूष्माण्डम् । राजपुत्रान् । धर्मम् । अर्थम् । कामम् । गतिम् । **[१२७]** निद्राम् । क्षुधम् । अदितिः । आयतिम् । नियतिम् । कीर्तिम् । प्रज्ञाम् । धृतिम् । मेधाम् । आकृतिम् । रुचिम् । श्रद्धाम् । वाणीम् । सरस्वतीम् । दक्षम् । दाक्षायणीम् । प्रजापतीन् । सनकम् । सनातनम् । सनन्दनम् । सनत्कुमारम् । क्रतुम् । पितॄन् । ब्रह्मर्षीन् । देवर्षीन् । महर्षीन् । रजर्षीन् । ऋषिकान् । ऋषिपत्नीः । ऋषिपुत्रान् । गायत्रीम् । उष्णिहम् । अनुष्टुभम् । बृहतीम् । त्रिष्टुभम् । पङ्क्तिम् । जगतीम् । सर्वछन्दांसि । गरुडम् । अरुणम् । हव्यजातम् । सुरभिम् । दिङ्नागान् । उच्चैःश्रवसम् । धन्वन्तरिम् । भुवननागान् । दिङ्नागान् । कुलनागान् । विश्वकर्माणम् । वैश्रवणम् । ऋद्धिम् । नलकूबरम् । रैवतम् । शङ्खपद्मौ । नहुषपुत्रं तत्पत्नीं तत्प्रजाम् । कश्यपं तत्पत्नीं तत्प्रजाम् । प्रजापतिं तत्पत्नीं तत्प्रजाम् । चन्द्रं तत्पत्नीं तत्प्रजाम् । अरिष्टनेमिं तत्पत्नीं तत्प्रजाम् । कृशानुम् । जायाम् । अजाम् । अस्त्राणि । शस्त्राणि । शास्त्राणि । ऋग्वेदम् । यजुर्वेदम् । सामवेदम् । अथर्ववेदम् । इतिहासम् । पुराणम् । धनुर्वेदम् । गान्धर्ववेदम् । आयुर्वेदम् । फलवेदम् । ज्योतिषम् । शिक्षाम् । कल्पम् । व्याकरणम् । निरुक्तम् । छन्दोविचितिम् । धर्मशास्त्राणि । भारतम् । मनुम् । विष्णुम् । **[१२८]** यमम् । अङ्गिरसम् । वसिष्ठम् । नारदम् । दक्षम् । संवर्तम् । शातातपम् । पराशरम् । आपस्तम्बम् । औशनसम् । कृष्णद्वैपायनम् । कात्यायनम् । बृहस्पतिम् । गौतमम् । शङ्खम् । लिखितम् । हारीतम् । अत्रिम् । याज्ञवल्क्यम् । अथ भगवन्तं धर्मम् । उत्तानपादम् । यज्ञम् । नारायणम् । नासत्यम् । वरुणार्यमणौ । संवत्सरम् । मित्रम् । इन्द्राग्नी । मरीचिकश्यपौ । ध्रुवम् । अगस्त्यम् । धातारम् । मार्तण्डम् । वर्तमानम् इन्द्रम् । ओजस्विनम् । स्वायम्भुवम् । स्वारोचिषम् । औत्तमम् । तामसम् । रैवतम् । चाक्षुषम् । महातेजसम् । वैवस्वतम् । अर्कसावर्णिम् । ब्रह्मसावर्णिम् । रुद्रसावर्णिम् । दक्षसावर्णिम् । धर्मसावर्णिम् । रौच्यम् । भौत्यम् । युगम् । वर्तमानं संवत्सरम् । वर्तमानम् अयनम् । वर्तमानम् ऋतुम् । वर्तमानं मासम् । वर्तमानं पक्षम् । वर्तमानम् आदित्यम् । सोमम् । कुजम् । बुधम् । जीवम् । शुक्रम् । शनैश्चरम् । राहुम् । केतुम् । ऋक्षाणि । वर्तमानं दिवसम् । रात्रिम् । सन्ध्ये । किम्पुरुषान् । सर्वाणि भूतानि । देवानुचरान् । देवानुगान् । ॐ एकज्योतिषम् । द्विज्योतिषम् । त्रिज्योतिषम् । चतुर्ज्योतिषम् । एकशक्रम् । द्विशक्रम् । त्रिशक्रम् । इन्द्रम् । आपोदृशम् । नभः । प्रविशक्यम् । सितम् । सम्मितम् । ऋतुजितम् । सत्यजितम् । सुषेणम् । सेनजितम् । अतिमित्रवन् मित्रम् । पुरुषमित्रम् । धृतम् । धर्तारम् । विधर्तारम् । **[१२९]** वरुणम् । ध्रुवम् । धातारम् । विधातारम् । ईदृक्षम् । एतादृक्षम् । सदृक्षं । प्रतिसदृक्षं । अमृताशिनम् । प्रीतिनम् । युगम् । वृक्षम् । सरसमतिम् । धन्वन्तरिम् । उग्रम् । धुनिम् । भीमम् । अतियुक्तम् । ऋक्षपादम् । सहम् । द्युतिम् । वायुम् । अधृष्यम् । वासम् । कासम् । जयम् । विजयम् । इत्य् एकोनपञ्चाशन्मरुतः । भुवनम् । भावनम् । पर्जन्यम् । स्वजन्यम् । क्रतुम् । वसुम् । मूर्धानम् । वाजम् । वाजस्तवम् । प्रसवम् । आप्यायनम् । ऋक्षं । इति द्वादश भृगून् । मनुम् । मन्वन्तरम् । प्राणम् । अपानम् । चितिम् । छयम् । मयम् । हंसम् । नरम् । नारायणम् । विभुम् । प्रभुम् । इति द्वादश साध्यान् ॥ सवितारम् । धातारम् । मित्रम् । अर्यमणम् । पूषणम् । अंशुम् । त्वष्टारम् । विवस्वन्तम् । इन्द्रम् । विष्णुम् । वरुणम् । भगम् । इति द्वादशासित्यान् ॥ पावकम् । [पिनाकिनम् । मृगव्याधम् । सर्पम् ।] सूर्यम् । निरृतिम् । हरम् । अजैकपादम् । अहिर्बुध्न्यम् । धूमकेतुम् । कपालिनम् । इत्य् एकादश रुद्रान् ॥ आत्मानम् । अजमनम् । ऋक्षं । दमम् । **[१३०]** सदम् । प्राणम् । हविष्मन्तम् । गरिष्ठम् । ऋतम् । सत्यम् । इति दशाङ्गिर्सः ॥ क्रतुम् । दक्षम् । वसुम् । सत्यम् । कालम् । कामम् । धुरिम् । रोचनम् । मार्द्रवम् । पुरूरवसम् । इति दश विश्वान् देवान् ॥ धरम् । ध्रुवम् । सोमम् । आपम् । अनलम् । अनिलम् । प्रत्यूषम् । प्रभासम् । इत्य् अष्टौ वसून् ॥ नासत्यं दस्रम् इत्य् अश्विनौ । एतान् देवगणान् सानुचरान् । स्वायम्भुवम् । सावित्रीम् । सर्वान् देवान् । सतीम् । देवीम् । लक्ष्मीम् । धराम् । अनिरुद्धम् । प्रदुम्नम् । सङ्कर्षणम् । वासुदेवम् । भूलोकम् । भुवर्लोकम् । स्वर्लोकम् । महर्लोकम् । जनलोकम् । तपोलोकम् । सत्यलोकम् । ब्रह्माण्डम् । पृथिवीम् । अपः । वह्निम् । वायुम् । आकाशम् । मनः । शुद्धिम् । आसनम् । अव्यक्तं पुरुषं तर्पयामीति । इदं चान्ते प्रत्यृचं पुरुषसूक्तेनाञ्जलीन् दद्यात् पुष्पाञ्जलिं च भक्त्या । अथ कृतापसव्यो दक्षिणाभिमुखो ऽन्तर्जानुः पित्र्येण तीर्थेन पितॄणां यथाश्रद्धं यथाप्रकाशम् उदकं दद्यात् । सौवर्णेन पात्रेण राजतेनौदुम्बरेण खड्गपात्रेण वा । शङ्कुनाप्य् उदकं पितृतीर्थं स्पृशन् दद्यात् । पित्रे पितामहाय प्रपितामहाय मात्रे पितामह्यै प्रपितामह्यै वा [मातामहाय प्रमातामहाय वृद्ध**[१३१]**प्रमातामहाय मातामह्यै प्रमातामह्यै वृद्धप्रमातामह्यै] च । आ सप्तमात् पुरुषात् पितृपक्षे यावतां नाम जानीयात् । पितृपक्षाणाम् उदकतर्पणं कृत्वा गुरूणां कुर्यात् । गुरूणां कृत्वा मातृपक्षाणां कुर्यात् । मातृपक्षाणां कृत्वा सम्बन्धिबान्धवानां कुर्यात् । तेषां कृत्वा सुहृदां कुर्यात् । भवति चात्र वचनम् ।


    	विना रूप्यसुवर्णेन विना ताम्रतिलेन च ।


    	विना दर्भैश् च मन्त्रैश् च पितॄणां नोपतिष्ठते ॥


    	सौवर्णराजताभ्यां तु खड्गेनौदुम्बरेण वा ।


    	दत्तम् अक्षयतां याति पितॄणां तु तिलोदकम् ॥


    	हिमेन सह यद् दत्तं क्षीरेण मधुनाथ वा ।


    	तद् अप्य् अक्षयतां याति पितॄणां च तिलोदकम् ॥

“अन्तर्जानुः” जानुनोर् अन्तःकृतहस्तः । अत्र च यद्य् अपि “ॐ भगवन्तं शेषं तर्पयामि” इति सर्वान्ते च “अव्यक्तं पुरुषं तर्पयामि” इत्य् उक्तम्, तथापि कालाग्निरुद्रादिष्व् अपि प्रत्येकं तर्पयामीति सम्बन्धनीयम् । कर्मत्वेन क्रियापेक्षत्वात् । क्रियायाश् च तर्पयामीत्य् एतस्यात्रैव विद्यमानत्वात् । इदं पुरुषसूक्तेन प्रत्यृचम् अञ्जलिदानं पुष्पदानं च “अव्यक्तं पुरुषं तर्पयामि” इति तर्पणान्ते तर्पणप्रयोगमध्य एव । “यथाश्रद्धम्” ज्ञायमानेष्व् [१३२] अपि येषु श्रद्धा भवति । “यथाप्रकाशम्” यथानामज्ञानम् । “शङ्कुना” कीलकेन प्रस्तुतद्रव्याणाम् एव । “गुरवः” अत्राचार्यादयः । सुवर्णरजतताम्रखड्गानां प्रत्येकशः सामस्त्येन वा यथासम्भवम् अङ्गत्वम् । क्षीरमधुहिमचन्दनानां गुणफलत्वम् ।

**मरीचिः **।

मुक्तहस्तं तु दातव्यं न मुद्रां तत्र दर्शयेत् ।

वामहस्ते तिला ग्राह्या मुक्त्वा हस्तं तु दक्षिणम् ॥

देवान् पितॄंस् तर्पयेत् तु तृप्तैस् तैर् मुदितो व्रजेत् ।

अनभ्यर्च्य यदा याति तदा भवति निष्फलः ॥

राजते मनसा यायात् सुवर्णे हस्तनिर्गतम् ।

तिलेषु च क्षणं गच्छेत् ताम्रे तु द्विमुहूर्ततः ॥

दर्भे सप्तमुहूर्तेन मन्त्रयुक्तं तद् अक्षयम् ।

यत्र यत्र हि यो यस्य तत्र तस्योपतिष्ठते ॥

बहुगोषु यथा नष्टां मातरं लभते सुतः ।

मनसा यस्य यद् दत्तं तद् धि तस्योपतिष्ठते ॥

“मुद्रा” तर्जन्यङ्गुष्ठसंयोगविशेषः । “भुक्त्वा हस्तं तु दक्षिणम्” इति, दक्षिणं हस्तं तिलरहितं कुर्यात् । “यत्र [१३३] तत्र” इति, “यत्र” देशादौ, “यः” पित्रादिः, “यस्य” पुत्रादेः । “तस्योपतिष्ठते” तद्गामी भवति । “मनसा दत्तम्” मनसा कॢप्तम् ।

पैठीनसिः

    पवित्रैर् अभ्युक्ष्य वसुभ्यो ब्रह्मणे वैश्रवणायेत्य् उदकं निनयेत् । उदीरताम् इति त्रिभिर् मन्त्रैस् त्रीन् उदकाञ्जलीन् निनयेत् । पितृबन्धुभ्यो नाम गृह्णन् । आचार्याय मात्रे मातामहाय मातुलेभ्यश् च ।

**यमः **।

सपिण्डानां च बन्धूनां कृत्वादाव् उदकक्रियाम् ।

सुहृत्सम्बन्धिवर्गाणां ततो दद्याज् जलाञ्जलिम् ॥

तथा

दत्वा जलाञ्जलीन् सप्त कृष्णपक्षे चतुर्दशीम् ।

धर्मराजं समुद्दिश्य सर्वपापैः प्रमुच्यते ॥

अनर्काभ्य्दिते काले कृष्णपक्षे चतुर्दशीम् ।

स्नातः सन्तर्प्य तु यमं सर्वपापैः प्रमुच्यते ॥

यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम् ।

सन्तर्प्य धर्मराजानं मुच्यते सर्वकिल्बिषैः ॥

**[१३४] मनु-शातातप-योगियाज्ञवल्क्याः **।

य एवं तर्पयत्य् अद्भिः पितॄन् स्नात्वा द्विजोत्तमः ।

तेनैव सर्वम् आप्नोति पितृयज्ञक्रियाफलम् ॥

शङ्खः

स्नातः सन्तर्पणं कृत्वा पितॄणां तु तिलाम्भसा ।

पितृयज्ञम् अवाप्नोति प्रीणाति च तथा पितॄन् ॥

हारीतः

न स्रवन्तीं वृथातिक्रामेत् । एवं ह्य् आह ।

	देवाश् च पितरश् चैव काङ्क्षन्ति सरितं प्रति ।

	अदत्ते तु निराशास्ते प्रतियान्ति यथागतम् ॥

अत्र पितृगाथासु **यमः **

** **अपि नः स कुले भूयाद् यो नो दद्याज् जलाञ्जलिम् ।

नदीषु बहुतोयासु शीतलासु विशेषतः ॥

तथैव विष्णुः

कुले ऽस्माकं स जन्तुः स्याद् यो नो दद्याज् जलाञ्जलिम् ।

नदीषु बहुतोयासु शीतलासु विशेषतः ॥

उशना

न वेष्टितशिराः कृष्णकाषायवाससा देवपितृकार्यं कुर्यात् ।

[१३५] योगियाज्ञवल्क्यः

वस्त्रनिष्पीडितं तोयं स्नातस्योच्छिष्टभागिनः ।

भागधेयं श्रुतिं प्राह तस्मान् निष्पीडयेत् स्थले ॥

पूर्वे निष्पीडनं केचित् प्राग् देवपितृतर्पणात् ।

स्नानवस्त्रस्य नेच्छन्ति तस्माद् ऊर्ध्वं निपीडयेत् ॥

अन्नप्रकरवत् तस्य चापसव्येन पीडनम् ।

पीडयित्वा ततः पश्चाज् जपं कुर्यात् सुविस्तरम् ॥

“उच्छिष्टभागिनः” –

असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।

उच्छिष्टं भागधेयं स्याद् दर्भेषु विकिरश् च यः ॥

उच्छेषणं भूमिगतम् अजिह्मस्याशठस्य च ।

दासवर्गस्य तत् पित्रे भागधेयं प्रचक्षते ॥

इति मनूक्ताः । तेनैतान् बुद्धिस्थीकृत्य वस्त्रनिष्पीडनोदकं दातव्यम् । “पूर्वे” आचार्याः । “अन्नप्रकरः” श्राद्धे विकिरदानम् । “सुविस्तरजपश्” च, “आचान्तः पुनर् आचामेद्” इत्यादियोगियाज्ञवल्क्याद्युक्तपवित्रवर्गस्य जपेति कर्तव्यतास्हितस्य बोद्धव्यः ।

तथा

निपीड्य स्नानवस्त्रं तु आचम्य प्रयतः शुचिः ।

[१३६] देवानाम् अर्चनं कुर्याद् ब्रह्मादीनाम् अमत्सरः ॥

ब्राह्मवैष्णवरौद्रैस् तु सावित्रैर् मैत्रवारुणैः ।

तल्लिङ्गैर् अर्चयेन् मन्त्रैः सर्वान् देवान् समाहितः ॥

ध्यात्वा प्रणवपूर्वं तु दैवतं तु समाहितः ।

नमस्कारेण पुष्पाणि विन्यसेत् तु पृथक् पृथक् ॥

आवाहनादिकं कर्म यत् तु नोक्तं मया त्व् इह ।

तत् सर्वं प्रणवेनैव कर्तव्यं चक्रपाणिनः ॥

दद्यात् पुरुषसूक्तेन यः पुष्पाण्य् अप एव वा ।

अर्चितं स्याज् जगद् इदं तेन सर्वं चराचरम् ॥

विष्णुर् ब्रह्मा च रुद्रश् च विष्णुर् देवो दिवाकरः ।

तस्मात् पूज्यतमं नान्यम् अहं मन्ये जनार्दनात् ॥

सावित्र्या दद्याद् धूपादि यथाशक्ति समाहितः ।

एवं सम्पूज्य देवेशं कृष्णं ध्यात्वा निरञ्जनम् ॥

ततो ऽवलोकयेद् अर्कं हंसः शुचिषद् इत्य् ऋचा ।

स याति ब्रह्मणः सद्म स्नात्वेक्षेतानया तु यः ॥

अदृश्रमस्येति मन्त्रैर् उपास्याथ दिवाकरम् ।

संवर्चसेति पाणिभ्यां तोयेन विमृजेन् मुखम् ॥

स्वयम्भूर् इत्य् उप्स्थाय सूर्यस्येति प्रदक्षिणम् ।

आवृत्य तु नमस्कुर्याद् दिशो दिग्देवता अपि ॥

ब्रह्मणे ऽग्नये पृथिव्यै चौषधिभ्यस् तथैव च ।

[१३७] वाचे च वाचस्पते विष्णवे महते तथा ॥

एताभ्यो देवताभ्यश् च नमस्कारादि वै जलम् ।

दत्वा नमस्येत् क्रमशस् त्व् अन्तै वै सर्वकर्मणाम् ॥

नमो ऽद्भ्यो नमो ऽप्पतये वरुणाय नमो नमः ।

इत्य् उक्त्वापो नमस्कृत्यावनौ देवांश् च नामवत् ॥

इदम् आपः प्रवहता घाम्नो धाम्नस् तथैव च ।

विमोचनं तु तीर्थस्य आप्यायस्वेति वै जपेत् ॥

देवा गातु विद इति कृत्वा जप्यनिवेदनम् ।

प्रक्षाल्य तीर्थदेशं तु गत्वा स्वं धर्मम् आचरेत् ॥

ब्रह्मविष्णुरुद्रा एकैकेन तल्लिङ्गेन मन्त्रेणार्चनीयाः । सविता तु त्रिभिः, “सावित्रैर्” इति चोपादेयगतबहुत्वसङ्ख्यानिर्देशात् । तस्य च त्रिष्व् एव चरितार्थत्वात् । मित्रावरुणस्य त्रिभिस् त्रिभिर् एव, अत्रापि बहुवचननिर्देशात् । “तल्लिङ्गैः” तद्ब्रह्मादिदेवताप्रकाशनसमर्थैः । “ध्यात्वा प्रणवम्” इत्यादिना तु तेषाम् एव पूजाप्रकारो ऽभिहितः । विष्णुपूजायाम् आवाहनादिः ओङ्कारेण, पुरुषसूक्तेन च पुष्पदानम् उदकदानं वा । “धूपादि” इत्य् आदिशब्देन दीपनैवेद्यवाद्यानाम् अभिधानम् । “निरञ्जनम्” निष्प्रपञ्चं परं ब्रह्म । “दिशः” प्राच्यादिकाः । “दिग्देवताः” इन्द्राद्याः । “अवनौ” भूमौ । “देवान्” [१३८] नमस्कृत्य । “जप्यनिवेदनम्” अनेन जप्येन परमात्मना प्रीयताम् इत्य् एवंरूपम् । “स्वं धर्मं” स्ववर्णाश्रमविहितम् ।

तथा

स्रवन्त्यादिष्व् अथाचम्य सोपानत्को ह्य् असंस्पृशन् ।

आगतः सोदपात्रस् तु यत्नेन शुचिर् एव सः ॥

तेनोदकेन द्रव्याणि प्रोक्ष्याचम्य पुनर् गृहम् ।

ततः कर्माणि कुर्वीत नित्यं वै यानि कानि च ॥

पात्रादिरहितं तोयम् उद्धृतं सव्यपाणिना ।

न तेन प्रोक्षणं कुर्याद् वस्त्रनिष्पीडनेन च ॥

सौवर्णं राजतं ताम्रं मुख्यं पात्रं प्रकीर्तितम् ।

तदलाभे स्मृतं पात्रं स्रवते यन् न धारितम् ॥

“असंस्पृशन्” अशुच्यादीन् इति शेषः । “प्रोक्षणम्” गृहस्थितपुष्पनैवेद्यादिद्रव्याणाम् । “यन् न धारितम्” इति नारिकेलादिपात्रम् उपात्तम् ।

शातातपः

बहिर् नद्यादिष्व् आचान्तः सोदकः किञ्चिद् अस्पृशन् ।

रथ्यागतो ऽपि यत्नेन शुचिर् एवेह मानवः ॥

यत् पात्ररहितं तोयं धृतं सव्येन पाणिना ।

न तेन प्रोक्षयेद् द्रव्यं वस्त्रनिष्पीडनेन वा ॥

[१३९] नाधोवस्त्रैकदेशेन शुध्यर्थम् अप आहरेत् ।

यद्य् आनीतं तु सव्येन प्रोक्षयेद् दक्षिणेन तु ॥

“अस्पृशन् यत्नेन” इति सम्बन्धः । “द्रव्यं” गृहस्थितं पुष्पोपहारादि । “माधोवस्त्रैकदेशेन" इतरजलपात्रस्यासम्भवे ऽपि नाधोवस्त्रानीतेन जलेन प्रोक्षयेद् इत्य् अर्थः ।

तर्पणानन्तरं विष्णुपुराणे [३.११.३९–४१] ।

आचम्य च ततो दद्यात् सूर्याय सलिलाञ्जलिम् ।

नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे ॥

जगत्सवित्रे शुचये सवित्रे कर्मदायिने ।

ततो गृहार्चनं कुर्याद् अभीष्टसुरपूजनम् ॥

जलाभिषेकपुष्पाणां धूपादीनां निवेदनैः ।

पद्मपुराणे [सृष्टिखण्डम्, २०.१७०–१७७] ।

आचम्य विधिवत् सम्यग् आलिखेत् पद्मम् अग्रतः ।

अक्षताभिः सपुष्पाभिः सतिलारुणचन्दनैः ॥

अर्घ्यपाद्ये प्रयत्नेन सूर्यनामानुकीर्तनैः ।

नमस् ते विष्णुरूपाय नमस् ते ब्रह्मरूपिणे ॥

सहस्ररश्मये नित्यं नमस् ते सर्वतेजसे ।

नमस् ते रुद्रवपुषे नमस् ते भक्तवत्सल ॥

पद्मनाभ नमस् ते ऽस्तु कुण्डलाङ्गदभूषित ।

नमस् ते सर्वलोकेश सुप्तानाम् अपि बुध्यसे ॥

[१४०] सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वदा ।

सत्यदेव नमस् ते ऽस्तु प्रसीद मम भास्कर ॥

दिवाकर नमस् ते ऽस्तु प्रभाकर नमो ऽस्तु ते ।

एवं सूर्यं नमस्कृत्य त्रिः कृत्वा च प्रदक्षिणम् ॥

द्विजं गां काञ्चनं स्पृष्ट्वा ततो विष्णुगृहं व्रजेत् ।

आश्रयस्थं ततः पूज्य प्रतिमां चापि पूजयेत् ॥

ब्रह्मयज्ञानन्तरम् नरसिंहपुराणे [५८.९१–९३] ।

ततो ऽर्घ्यं भानवे दद्यात् तिलपुष्पजलान्वितम् ।

उत्थाय मूर्धपर्यन्तं हंसः शुचिषद् इत्य् ऋचा ॥

जलदेवं नमस्कृत्य ततो गृहगतः पुनः ।

विधिना पुरुषसूक्तस्य तत्र विष्णुं समर्चयेत् ॥

वैश्वदेवं ततः कुर्याद् बलिकर्म यथाविधि ।

“पुरुषसूक्तविधिश्” च पुराणन्तराद् अवगन्तव्यः पूजाप्रकरणे ।

इति भट्टहृदयधरात्मजमहासान्धिविग्रहिक-

श्रीमल्लक्ष्मीधरेण विरचिते कृत्यकल्पतरौ

नियतकालकाण्डे तर्पणपर्व ॥

[१४१]

**५**


**वैश्वदेवादिपञ्चयज्ञविधिः**

अथ दक्षः [२.५६] ।

पञ्चमे च तथा भागे संविभागो यथार्हतः । 

देवपितृमनुष्याणां कीटानां चोपदिश्यते ॥

“यथार्हतः” यथायोग्यम् ।

व्यासः

वैवाहिके ऽग्नौ कुर्वीत पाकयज्ञान् अशेषतः ।

आपद्य् अपि हि कष्टायां पञ्चयज्ञान् न हापयेत् ॥

स्वर्गापवर्गयोः प्राप्तिं महायज्ञैः प्रचक्षते ।

“वैवाहिको ऽग्निः” आवसथ्यः ।

गौतमः [५.३–६] ।

    देवपितृमनुष्यभूतर्षिपूजकः । नित्यस्वाध्यायः । पितृभ्यश् चोदकदानम् । यथोत्साहम् अन्यत् ।

[१४२] मनुष्यपूजा अतिथिपूजा । “ऋषिपूजा” स्वाध्यायाध्ययनम् । ऋषियज्ञपितृयज्ञयोः पूर्वम् अभिहितयोर् अपि “नित्यस्वाध्यायः” इत्यादिना पुनर् अभिधानम् इतरयज्ञत्रयानुष्ठानासम्पत्ताव् अपि किञ्चिद् अङ्गवैकल्येनोदकद्रव्येणाप्य् आदरेणावश्यानुष्ठेयत्वार्थम् । एतद् एवोक्तं “यथोत्साहम् अन्यद्” इत्य् अनेन ।

शङ्खलिखितौ

शेषभुक् महापञ्चयज्ञान् अहर् अहर् निर्वपेद् आपन्नशाकोदकेभ्यः ।

उद्वाहानन्तरं संवर्तः

ततो पञ्चमाहायज्ञान् कुर्याद् अहर् अहर् द्विजः ।

न हापयेत् तु तान् प्राज्ञः श्रूयन्ते हि श्रुताव् अपि ॥

अथ तथैव देवलः

    तदनन्तरम् अग्नीन् आदधीत । गृहीताग्निहोत्रो देवपितृऋष्यतिथ्यभ्यागत-भृत्यात्मपूननं सुचरित्रानुष्ठानं च कुर्वीत । अत्र कव्यहव्यस्वाध्यायैर् देवपितृऋषीन् पृथक् पृथक् पूजयेत् । स्वाहेत्य् अग्निहोत्रप्रवृत्ति हव्यं तद् देवान् प्रसादयति । स्वधेति पैतृकप्रवृत्ति कव्यं तत्पितॄन् प्रीणयति । ॐ इत्य् अध्ययनप्रवृत्तिः स्वाध्यायः स मुनींस् तोषयति ।

[१४३] “अभ्यागतो” अतिथिर् अन्यो ऽपि प्राघुणकः । “सुचरित्रम्” सदाचारः । “अग्निहोत्रप्रवृत्ति” अग्निहोत्रे प्रवृत्तिर् यस्य । अग्नोहोत्रशब्दो ऽत्राग्निमात्रहोमपरः ।

जाबालिः

अहन्य् अहनि कर्तव्यं पितृदैवतपूजनम् ।

हन्तेति हन्तकारं च मनुष्येभ्यो हि पावनम् ॥

मनुः [३.६८–६९] ।

पञ्चसूना गृहस्थस्य चुल्ली पेष्णम् उपस्करः ।

कण्डनी चोदकुम्भश् च वध्यन्ते यास् तु वाहयन् ॥

आसां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः ।

पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥

“सूना” प्राणिवधस्थानम् । “उपस्करः” गृहोपकरणभाण्डकुण्डादिः ॥

हारीतः

    अथ सूना व्याख्यास्यामः । जङ्गमस्थावरादीन् प्राणिनः सूदयन्तीति सूनाः । एताः पञ्चविधा भवन्ति । द्रुतावतरणावगाहनविक्षोभणविक्षेपणापूतग्रहण-यानादिभिर् आद्यां कुर्वन्ति । अवेलाविस्पष्टद्रुतगमनाक्रमणादिभिर् द्वितीयाम् । **[१४४]** आहननग्रहणबन्धनच्छेदनभेदनकुट्टनोत्पाटनादिभिस् तृतीयाम् । आक्रमणघर्षणपेषणादिभिर् चतुर्थीम् । आदीपनतापनस्वेदनभर्जन-पचनादिभिः पञ्चमीम् । तद् एताः पञ्चभूता निरययोनीर् अहर् अहः प्रजाः कुर्वन्ति । अग्निगुरुशुश्रूषास्वाध्यायैर् आदितः सूनात्रयं ब्रह्मचारिणः पावयन्ति । पञ्च पञ्चभिः पाकयज्ञैर् गृहस्थवानप्रस्थाः पावयन्ति । पवित्रज्ञानध्यानैर् भिक्षवः सूनाद्वयं पावयन्ति । अनिष्क्रिया दन्तसूनायाम् ।

“सूदयन्ति” प्राणैर् वियोजयन्ति । “द्तुरावतरणम्” शीघ्रं जलप्रवेशनम् । “विक्षोभणम्” आलोडनम् । “विक्षेपणम्” इतस् ततो जलप्रक्षेपः । अपूतग्रहणं वस्त्रादिनां कृमिकीटादिनिवारणम् अकृत्वा जलग्रहणम् । “आद्याम्” प्रथमाम् । “अवेलागमनम्” अन्धकारादौ गमनम् । “अविस्पष्टः” उन्मार्गादिः । “द्रुतं” शीघ्रम् । “आक्रमणं” पादादिनाधिष्ठानम् । “आक्रमणं” सस्यादीनां बलिवर्दादिना । “आदीपनं” काष्ठादीनाम् । “तापनं” तोयादेः । “स्वेदनम्” उत्सेदनं धान्यादेः । “भर्जनं” यवादीनाम् । “पचनं” तण्डुलादीनाम् । भिक्षूणां सूनाद्वयम् आद्यम्, वृक्षादिच्छेदनादीनाम् असम्भवात् । “अनिष्क्रिया” इति, अनन्तरोक्तपञ्चयज्ञानुष्ठाने दन्तसूनाजनितदुरितस्य न निष्क्रिया इत्य् उक्तम् । “दन्तसूना” दन्तैश् चर्वणे क्रियमाणे या भवति ।

[१४५] छन्दोगपरिशिष्टे कात्यायनः [२.२५–२९] ।

पञ्चानाम् अथ सत्राणां महताम् उच्यते विधिः ।

यैर् इष्ट्वा सततं विप्रः प्राप्नुयात् सद्म शाश्वतम् ॥

देवभूतपितृब्रह्ममनुष्याणाम् अनुक्रमात् ।

महासत्राणि जानीयात् त एवेह महामखाः ॥

अध्यापनं ब्रह्मयज्ञः पितृयज्ञस् तु तर्पणम् ।

होमो दैवो बलिर् भौतो नृयज्ञो ऽतिथिपूजनम् ॥

श्राद्धं वा पितृयज्ञः स्यात् पित्र्यो बलिर् अथापि वा ।

यश् च श्रुतिजपः प्रोक्तो ब्रह्मयज्ञः स उच्यते ॥

स चार्वाक् तर्पणात् कार्यः पश्चाद् वा प्रातर् आहुतेः ।

वैश्वदेवावसाने वा नान्यत्र तु निमित्तकात् ॥

तर्पणश्राद्धपितृयज्ञबलिदानानां पितृयज्ञत्वं यथासम्भवम् अधिकारिभेदेन व्यवस्थितं न पुनस् तुल्यविकल्पः । निमित्तम् एव निमित्तकम् इति “निमित्तकाद्” अन्तरोक्ताद् ब्रह्मयज्ञकालत्रयाद् अन्यत्र ब्रह्मयज्ञं न कुर्याद् इत्य् अर्थः ।

**मनुर् यम-विणु-देवलाश् **च तृतीये ।

अध्यापनं ब्रह्मयज्ञः पितृयज्ञस् तु तर्पणम् ।

होमो दैवो बलिर् भौतो नृयज्ञो ऽतिथिपूजनम् ॥

पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः ।

स गृहे ऽपि वसन् नित्यं सूनादोषैर् न लिप्यते ॥

देवतातिथिभृत्यानां पितॄणाम् आत्मनश् च यः ।

[१४६] न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति ॥

अहुतं च हुतं चैव तथ प्रहुतम् एव च ।

ब्राह्मं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ॥

जपो ऽहुतो हुतो होमः प्रहुतो भौतिको बलिः ।

ब्राह्मं हुतं द्विजाग्रार्चा प्राशितं पितृतर्पणम् ॥

हारीतः

    हुतो निर्वापो ऽहुतः प्रहुतः प्राशित इति पञ्च पाकयज्ञाः । हुतं देवानाम् । पिण्डनिर्वापः पितॄणाम् । वास्तुपालभूतेभ्यो बलिहरणम् अहुतम् । यद् उद्धृत्यान्नं ब्राह्मणाय ददाति सः प्रहुतः । यच् छिष्टं प्राश्नाति स यजमानभागस् तस्यैतद् आहुः प्राशितम् इति । तद् एतद् ऋचोक्तम् ।


    	सायम्प्रातर् उपकॢप्तं प्रजानां


    		यो निर्यात्य् आमृतम् अनृणो ऽत्ति विद्वान् ।


    	भागं देवेभ्यो ऽप्रदायोपकॢप्तम्


    		अन्धः पापीयान् अश्नुते अप्रचेताः ॥ इति ।


    तस्माद् अहर् अहर् जुहुयात् । अन्नाभावे केनचिद् आ काष्ठात् । देवेभ्यश् चापो निसर्गात् । पितृभ्यश् चापो निवापात् । भूतेभ्यश् चापो निसर्गात् । मनुष्येभ्यश् चोदपात्राणि । प्रत्यहं देवताः । तिथिवेशेषाद् वा ।

निर्वापो ऽस्मिन्न् अस्तीति “निर्वापः” । “तद् एतद्” इति, तद् एतद् आवश्यकत्वम् ऋचा प्रतिपादितं “सायम्प्रातर्” इत्यादिकया । तस्याश् [१४७] चाप्य् अर्थः — “सायम्प्रातः” पाकाग्रेण पाकयज्ञं पञ्चलक्षणं यत् कर्म “प्रजानां निर्यात्व” देवादिऋणापाकरणार्थं प्रदाय यो भुङ्क्ते स देवादीनाम् अनृणः सन् अमृतम् इवात्ति । “विद्वान्” ज्ञानी । यस् तु “उपकॢप्तं भागं देवेभ्यो अप्रदाय भुङ्क्ते” “अप्रचेताः” अज्ञः सः “अन्धः” पाप एव । “निवापः” पितुर् उद्देशेन ब्राह्मणाय शुष्कान्नफलमूलानाम् उदकान्तानां दानम् । “प्रत्यहं देवताः” पूजनीया इति शेषः । पुनर्वचनाद् विश्वेदेवदेवताभ्य अन्या एता देवताः । यथा वक्ष्यति हारीतः “अग्न्यादयो देवा दिविष्ठा” इत्यादि । “तिथिविशेषाद् वा” पाराशराद्युक्तप्रतिपदादितिथिषु ब्रह्मादिदेवपूजा कर्तव्या ।

जाबालिः

स्नात्वा महामखानां तु प्रथमं तर्पणं स्मृतम् ।

द्वियो होमस् तु सावित्र्या भौतस् तु बलिकर्मणा ॥

ब्राह्मो वेदजपेनैव नृयज्ञो ऽतिथिपूजनम् ।

अयाचिताहृतैर् द्रव्यैर् आचान्ते पूर्णदक्षिणाम् ॥

“महामखानाम्” इति निर्धारणे षष्ठी । “सावित्र्या” यो “होम” स “दिव्यो” यज्ञः । अयं च सावित्र्या होमेन दिव्ययज्ञः शाखाविशेषे व्यवस्थितः । “अयाचिताहृतैः” इति विहितवृत्त्युपार्ज्तोपलक्षणम् । “पूर्णदक्षिणम्” पूर्णा दक्षिणा यत्र पूजने तत् तथा ।

मनुः [३.८०–८१] ।

ऋषयः पितरो देवा भूतान्य् अतिथयस् तथा ।

[१४८] आशासते कुटुम्बिभ्यस् तेभ्यः कार्यं विजानता ॥

स्वाध्यायेनार्चयेतर्षीन् होमैर् देवान् यथाविधि ।

पितॄन् श्राद्धेन नॄन् अन्नैर् भूतानि बलिकर्मणा ॥

हारीतः

    यद् देवेभ्यो जुहोति देवलोकं तेन जयति । यत् पितृभ्यः पितृलोकं तेन । यत् स्वाध्यायम् अधीते ऋषिलोकं तेन । यद् भूतेभ्यो बल्पुनिं हरति भूतलोकं तेन । तस्माद् देवपितृऋषिभूतेभ्यो हुत्वोदीक्षेतागोदोहनात् ।

पुनर् हारीतः

देवार्थे च पितॄणां च ब्राह्मणार्थे च नित्यशः ।

स्वं चिन्वतां स्ववृत्तेषु यो नः क्लेशः स नस् तपः ॥

देवान् पितॄन् ऋषींश् चैव भूतानि ब्राह्मणांस् तथा ।

तर्पयन् विधिना विप्रो ब्रह्मभूयाय कल्पते ॥

सो ऽयं ब्रह्मपथः श्रीमान् पुरा प्रोक्तः स्वयम्भुवा ।

वर्तयन् विधिना विप्रो ब्रह्मभूयाय कल्पते ॥

“स्वं” धनम् । “चिन्वतां” सञ्चयनं कुर्वताम् । “स्ववृत्तेषु” प्रतिग्रहादिषु ।

मनुः [३.७५–७६] ।

स्वाध्याये नित्ययुक्तः स्याद् दैवे पित्र्ये च कर्मणि ।

दैव कर्मणि युक्तो हि बिभर्तीदं चराचरैः ॥

[१४९] अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।

आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥

शातातपः

लौकिके वैदिके वापि हुतोत्सृष्टे जले क्षितौ ।

वैश्वदेवस् तु कर्तव्यः पञ्चभूतापनुत्तये ॥

वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः ।

सर्वे ते वृषलाः ज्ञेयाः प्राप्तवेदा अपि द्विजाः ॥

“लौकिके” पाकसाधने । “वैदिके” आवसथ्ये । “हुतोत्सृष्टे” अन्येन होमं कृत्वा त्यक्ते । “हृतोत्सृष्टे” इति पाठे त्व् आहृत्योन्मृज्येत्य् अर्थः । अनन्तरोक्ताग्नित्रयासम्भवे जलम् । तदसम्भवे भूः ।

छन्दोगपरिशिष्टे कात्यायनः [२.३४] ।

सायम्प्रातर् वैश्वदेवः कार्तव्यो बलिकर्म च ।

अनश्नतापि सततम् अन्यथा किल्बिषी भवेत् ॥

**तथा **[२.४७–४८]

** **अग्न्यादिर् गौतमेनोक्तो होमः शाकल एव वा ।

अनाहिताग्नेर् अप्य् एष युज्यते बलिभिः सह ॥

“अग्न्यादिः” “अग्निर् धन्वन्तरिर् विश्वेदेवाः प्रजापतिः [१५०] स्विष्टकृद्” इति गौतमोक्तः । “शाकलश्” च “देवकृतस्यैनसो ऽवयजनम् असि” इत्यादिः । अयं च ज्योतिष्टोमे । आहवनीये “षट् षट् शकलान्य् अभ्यादधीत” इत्यादिना विहितकाष्ठशकलसाध्यात्वाच् छाकलहोम इत्य् उच्यते । “अनाहिताग्नेः” श्रौतस्मार्ताग्निरहितस्य ।

अग्निराः

शालाग्नौ विपचेद् अन्नं लौकिके वापि नित्यशः ।

यस्मिन्न् एव पचेद् अन्नं तस्मिन् होमो विधीयते ॥

“शालाग्निः” आवसथ्यः ।

मनुः [४.२१] ।

ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।

नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥

“यथाशक्ति” पक्वान्नासम्भवे फलमूलादिनापि ।

पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनः ।

इत्य् अनेनावशकर्तव्यत्वेन पूर्वं प्रतिपन्नानां पुनर्वचनं स्नातकव्रतत्वज्ञापनार्थं वक्ष्यमाणोपयोगार्थं च ।

तथा [४.२२–२४] ।

एतान् एके महायज्ञान् यज्ञशास्त्रविदो जनाः ।

अनीहमानाः सततम् इन्द्रियेष्व् एव जुह्वति ॥

वाच्य् एके जुह्वति प्राणं प्राणे वाचं च सर्वदा ।

[१५१] वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिम् अक्षयाम् ॥

ज्ञानेनैवापरे विप्रा यजन्त्य् एतैर् मखैः सदा ।

ज्ञानमूलां क्रियां तेषां पश्यन्तो ज्ञानचक्षुषा ॥

“यज्ञशास्त्रविदः” सोपनिषत्कवेदार्थविधः । “अनीहमानाः” बाह्ययज्ञोपकरणार्थम् अचेष्टमानाः । “सततं जुह्वति” इत्य् अन्वयः । इन्द्रियाणां यज्ञानां च होम्यत्वानुपपत्तेः सामर्थ्याद् बुद्धीन्द्रियाणां रूपाद्यभिमुखाः पञ्च वृत्तयः प्रत्याहारद्वारेण होम्यास् तन्निरोधद्वारेण पञ्चनिर्वृत्तिं साधयन्तीत्य् अर्थः । “एके” स्वाध्यायपराः सन्तः वाग्वृत्त्यनुगुणां प्राणवृत्तिं कुर्वन्ति । “प्राणे वाचं” प्राणायामपराः प्राणवृत्त्यनुगुणां वाचं कुर्वन्ति । अथ वा सर्वदा शब्दोच्चारणे प्राणक्रियायां च यज्ञनिर्वृत्तिं कुर्वन्ति । “वाचि प्राणे च यज्ञनिर्वृत्तिं” शास्त्रतः पश्यन्तः । “अक्षयां” फलद्वारेण । तथा च श्रुतिः:

    यावद् वै पुरुषो भाषते न तावत् प्राणितुं शक्नोति प्राणं तदा वाचि जुहोति । एते अनन्ते अमृते आहुती जाग्रच् च स्वपंश् च सततं जुहोति । 

इति । “ज्ञानेन” परमात्मज्ञानेन वैश्वानराद्यालम्भनेन वा “यजन्ते” । “एतैः” उक्तलक्षणैः । “एषां” यज्ञानाम् । “ज्ञानमूलां” ज्ञानप्रधानाम् । “क्रियाम्” अनुष्ठानम् । “पश्यन्तः” उपनिषद्ज्ञानचक्षुषा । एतद् उक्तं भवति — अधिकृतैर् बाह्यसाधनपञ्चयज्ञानुष्ठानासं-भव एतैः प्राणायामादिभिर् अपि स्नातकव्रतलोपनिमित्तदोषनिवृत्त्यर्थं पञ्चयज्ञसम्पत्तिः कर्तव्या ।

[१५२] शङ्खलिखितौ

    अत ऊर्ध्वं देवयज्ञः सर्वेषाम् उपदिश्यन्ते ।


    आश्रमधर्माविरोधेन प्रतिनियतानाम् ओषधीनां कोद्रवचणक-माषमसूरोद्दालककुलत्थवर्ज्यं निर्वपणीयम् । तण्डुलान् वा प्रातः पत्न्यै दद्यात् स्वयं वाधिश्रयेत् । सुसम्मृष्टगृहद्वारोपलेपनधूपजप्यप्रयतो नियतः सायम्प्रातर् अन्नाद् आवश्यकानि कुर्यात् । अग्नये जातवेदसे स्वाहेत्य् अग्नौ । तूष्णीं द्वितीयाम् । उद् उ त्यं जातवेदसम् इत्य् आदित्यम् उपतिष्ठेत ।

“आश्रमधर्माविरोधेन” इति वानप्रस्थार्थम् । तेन वानप्रस्थेन स्वाश्रमविहिताफालकृष्ट-नीवाराद्यन्नेन देवयज्ञादि “निर्वपणीयम्” निर्वर्तनीयम् । “पत्न्यै दद्याद्” अधिश्रयणार्थम् इति शेषः । “स्वयं वा” इति पत्नीकर्तृकपाकासम्भवविषयम् । “सुसंसृष्टेति”, सुसंसृष्टयोर् गृहद्वारयोः “उपलेपने”, देवताद्यर्थं “धूपे”, पवित्राणां “जपे”, ऽप्रयतः” शुचिः
“नियतो” नियमवान् । “अन्नाद्” अदनीयात् । “आवश्यकानि” देवयज्ञादीनि । “अग्नौ” जुहुयाद् इति शेषः । “द्वितीयाम्” आहुतिम् इति शेषः ।

आपस्तम्बः [२.३.१–१७] ।

    आर्याः प्रयता वैश्वदेवे ऽन्नसंस्कर्तारः । भाषां कासं क्षवथुम् इत्य् अभिमुखो ऽन्नं वर्जयेत् । केशान् अङ्गं वासश् चालभ्याप **[१५३]** उपस्पृशेत् । आर्याधिष्ठिता वा शूद्रा अन्नसंस्कर्तारः स्युः । तेषां स एवाचमनकल्पः । अधिकम् अहर् अहः केशश्मश्रुनखलोमवापनम् । उदकोपस्पर्शनं च सह वाससा । अपि चाष्टमीष्व् एव पर्वसु वा वपेरन् । परोक्षं अन्नं संस्कृतम् अग्नाव् अधिश्रित्याद्भिः प्रोक्षेत् । तद् देवपवित्रम् इत्य् आचक्षते । सिद्धे ऽन्ने तिष्ठन् भूतम् इति स्वामिने प्रब्रूयात् । तत् सुभूतं विराड् अन्नं तन् मा क्षायीति प्रतिवचनः । गृहमेधिनो यद् अशनीयं तस्य होमा बलयश् च स्वर्गपुष्टिसंयुक्ताः । तेषां मन्त्राणाम् उपयोगे द्वादशाहम् अधशय्या ब्रह्मचर्यं क्षारलवणवर्जनं च । उत्तमस्यैकरात्रम् उपवासः । बलीनां तस्य देशस्य संस्कारो हस्तेन परिमृज्याभ्युक्ष्य न्युप्य पश्चात् परिषेचनम् । औपासने पचने वा षड्भिर् अद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् । उभयतः परिषेचनं यथा पुरस्तात् ।

“आर्याः” साधवो ऽत्र द्विजातयः । “प्रयताः” शुचयः । “वैश्वदेवे” वैश्वदेवकर्मणि । “क्षवथुः” हिक्का । “केशान्” इति, केशानां प्रयतानां स्पर्शे अप उपस्पृशेद् इति विधिः । “अधिष्ठिताः” अवेक्षिताः । “स एव” आर्याणाम् “आचमनकल्पः” । “अष्टमीषु” तिथिषु । “परोक्षम्” आर्यानधिष्ठितम् । “तद् देवपवित्रम्” तद् अन्नं देवसम्प्रदाने ऽपि पवित्रम्, किं पुनः स्वयं भोजने । “गृहमेधिनः” इति गृहस्थस्य । यदाप्य् अग्निपक्वेनापि प्राणवृत्तिस् तदा तेनैव होमा बलयश् चावश्यं [१५४] कर्तव्याः । “उपयोगे” आद्यप्रयोगकाले । अधःशय्यादि क्षारलवणवर्जनान्तं व्रतम् । “उत्तमस्य” तु बलिमन्त्रस्याद्ये प्रयोगकाले द्वादशरात्राद् अनन्तरम् “एक उपवासो” अधिकः । “तस्य” बलिदेशस्य सर्वस्य संस्कार आवृत्या न तु तन्त्रेण । “न्युप्य” निर्वापं कृत्वा । “उभयतः” आदाव् अन्ते च । “परिषेचनं” बलीनाम् उदकेन परिवेष्टनम् ।

चन्दोगपरिशिष्टे कात्यायनः [२.१५३–१५४] ।

भूतप्रवाचने पत्नी यद्य् असन्निहिता भवेत् ।

रजोरोगादिना तत्र कथं कुर्वन्ति याज्ञिकाः ॥

महानसे ऽन्नं या कुर्यात् सवर्णां तां प्रवाचयेत् ।

प्रणवाद्य् अपि वा कुर्यात् **कात्यायन**वचो यथा ॥

“भूतप्रवाचनम्” सिद्धे ऽन्ने स्वामिना भूतम् अन्नम् इति पत्न्या वाचनम् । तत्र पत्न्या असन्निधाने अन्या अपि या पाककर्त्री सवर्णा तां वाचयेद् इत्य् अर्थः । यदि तु भूतमिति वक्तुं सा न शक्नोति तदान्यद् अपि ओङ्कारादि सम्मतिप्रतिपादकं ब्रूयाड् इत्य् अभिप्रायः ।

मनुः [३.८४–८६]

वैश्वदेवस्य सिद्धस्य गृह्ये ऽग्नौ विधिपूर्वकम् ।

आभ्यः कुर्याद् देवताभ्यो ब्राह्मणो होमम् अन्वहम् ॥

अग्नेः सोमस्य चैवादौ तयोश् चैव समस्तयोः ।

[१५५] विश्वेषां चैव देवानां धन्वन्तरय एव च ॥

कुह्वै चैवानुमत्यै च प्रजापतय एव च ।

सह द्यावापृथिव्योश् च तथा स्विष्टकृते ऽन्ततः ॥

“समस्तयोः” अग्नीषोमाभ्याम् । “सह द्यावापृथिव्योः” द्यावापृथिवीभ्याम् इत्य् एवं कर्तवयम् ।

विष्णुः [६७.१–३] ।

    अथाग्निं परिसमूह्य पर्युक्ष्य परिस्तीर्य परिसमाधाय सर्वतः पाकाद् अग्रम् उद्धृत्य जुहुयात् । वासुदेवाय सङ्कर्षणाय प्रद्युम्नायानिरुद्धाय पुरुषाय सत्यायाच्युताय वासुदेवाय । अग्नये सोमाय मित्राय वरुणायेन्द्रायेन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो प्रजापतये ऽनुमत्यै धन्वन्तरये वस्तोष्पतये ऽग्नये स्विष्टकृते इति ।

गौतमः [५.११] ।

अग्नाव् अग्निर् धन्वन्तरित् विश्वेदेवाः प्रजापतिः स्विष्टकृद् इति होमाः ।

**छन्दोगपरिशिष्टे कात्यायनः **[१.१३१] ।

हविष्येषु यवा मुख्यास् तद् अनु व्रीहयः स्मृताः ।

माषकोद्रवगौरादीन् सर्वालाभेऽपि वर्जयेत् ॥

“गौरो” ऽस्य मितसर्षपः ।

[१५६] आपस्तम्बः [२.१५.१४–१८] ।

    न क्षारलवणहोमो विद्यते । तथावरान्नसंसृष्टस्य वा । अहविष्यस्य होम उदीचीनम् उष्णँ भस्मापोह्य तस्मिञ् जुहुयात् तद् धुतम् अहुतं चाग्नौ भवति । न स्त्री जुहुयात् । नानुपेतः ।

“क्षारलवणम्” ऊषरलवणः । “अपरान्नसंसृष्टम्” अन्नान्तरसम्बद्धम् । “”अहविष्यम्” माषादि । यदि तु क्षारलवणाद्यैव होम्यं भवति तदा “उदीचीनम्” उत्तरदिग्भागभवम् “उष्णं भस्मापोह्य” “तस्मिन्” अग्नौ “जुहुयाद्” इत्य् अर्थः।

वसिष्ठः [११.३–६] ।

    वैश्वदेवस्य सिद्धस्य सायम्प्रातर् गृह्ये ऽग्नौ जुहुयात् । गृहदेवताभ्यो बलिं हरेत् । श्रोत्रियाय दत्वा ब्रह्मचारिणे चानन्तरं पितृभ्यो दद्यात् । ततो ऽतिथीन् भोजयेत् ।

“वैश्वदेवस्य” विश्वेदेवदेवताकस्यान्नस्य ।

शातातपः ।

भूतयज्ञं तथा श्राद्धं नित्यं त्व् अतिथितर्पणम् ।

क्रमेनानेन कर्तव्यं स्वाध्यायाध्ययनं सदा ॥

अयं च शाखाविशेषव्यवस्थितो भूतयज्ञादिक्रमः ।

**[१५७] याज्ञवल्क्यः **[१.१०३–१०४] ।

देवेभ्यस् तु हुताद् अन्नाच् छेषाद् भूतबलिं हरेत् ।

अन्नं भूमौ श्वचाण्डालवायसेभ्यो विनिक्षिपेत् ॥

अथ मनुः [३.८७–९३] ।

एवं सम्यग् घविर् हुत्वा सर्वदिक्षु प्रदक्षिणम् ।

इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥

मरुद्भ्य इति तु द्वारि मुसलोलूखले हरेत् ।

उच्छीर्षके श्रियै कुर्याद् भद्रकाल्यै तु पादतः ॥

ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ।

विश्वेभ्यश् चैव देवेभ्यो बलिम् आकाश उत्क्षिपेत् ।

दिवाचरेभ्यो भूतेभ्यो नक्तञ्चरेभ्य एव च ॥

पृष्ठवास्तुनि कुर्वीत बलिं सर्वानुभूतये ।

पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥

शुनां च पतितानां च श्वपचां पापरोगिणाम् ।

वायसानां कृमीणां च शनकैर् निक्षिपेद् भुवि ॥

[१५८] एवं यः सर्वभुतानि ब्राह्मणो नित्यम् अर्चति ।

स गच्छति परं स्थानं तेजोमूर्ति पथर्जुना॥

तथा [३.१२१] ।

सायं त्व् अन्नस्य सिद्धस्य पत्न्य् अमन्त्रं बलिं हरेत् ।

वैश्वदेवं हि नामैतत् सायं प्रातर् विधीयते ॥

“एवम्” इति, देवयज्ञप्रकारेण । “उच्छीर्षके” गृहस्थशय्याशिरःप्रदेशे, वास्तुपुरुषशिरःप्रदेशे वा । “पादतः” गृहस्थस्यैव शय्यापादप्रदेशे । “ब्रह्मवास्तोष्पतिभ्याम्” इति, एवम् एव बलिदाने प्रयोगः । “पृष्टवास्तुनि” पश्चाद् गृहे मूत्रोच्चारकरणस्थान इत्य् अर्थः । “सर्वानुभूतये” सर्वानुभूतिदेवतायै । “शनकैः” यथान्नोपघातः कथम् अपि न भवति । वायसादीनां चोपकाराय बलिः क्रियमाणस् तत्र देशे दातव्यो यत्र तेषाम् उपयोगसम्भवः । “अर्चति” इत्य् अनेन श्वादीनाम् अपि बलिदाने ऽनादरो न कर्तव्य इत्य् उक्तम् । “पथर्जुना” ऋजुना पथा । “सायं तु” इति, इदं च सायं सिद्धेनान्नेन पत्न्या अमन्त्रकं यजमानतत्पुत्रादीनाम् असन्निधाने । “हरेत्” दद्यात् ।

श्वादिभ्यो भूतेभ्यो बलिदानम् उक्त्वा, – यमः

सर्वम् एव यथाशक्ति निर्वपेद् विधिपूर्वकम् ।

एवं युक्तो व्रजेत् स्वर्गं गृहस्थो नात्र सांशयः ॥

हस्तेन इत्य् अनुवृत्तौ **आपस्तम्बः **[२.३.१८–२३; २.४.१–५] ।

    एवं बलीनां देशे देशे समवेतानां सकृत् सकृद् अन्ते परिषेचनम् । सति सूपसंसृष्टेन कार्याः । अपरेणाग्निं सप्तमाष्टमाभ्याम् उदगपवर्गम् । उदधानसन्निधौ नवमेन । मध्ये ऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् । उत्तरपूर्वदेशे ऽगारस्योत्तरैश् चतुर्भिः । शय्यादेशे कामलिङ्गेन । देहल्याम् अन्तरिक्षलिङ्गेन । उत्तरेणापिधान्याम् । उत्तरैर् ब्रह्मसदने । दक्षिणतः पितृलिङ्गेन प्राचीनावीत्य् अवाचीनपाणिः कुर्यात् । रौद्र उत्तरो यथा देवताभ्यः । तयोर् नाना परिषेचनं धर्मभेदात् । नक्तम् एवोत्तमेन वैहायसम् । य एतान् अव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश् च ।

“एवं बलीनाम्” इति, यथा “अग्नये स्वाहा” इत्यादिषूक्तवैश्वदेवाहुतीनाम् आदाव् अन्ते च “अदिते अनुमन्यस्व” इत्यादिभिर् मन्त्रैः “परिषेचनम्”, एवं “बलीनां” “समवेतानां” मिलितानाम् । “सति” इति, सत्य् अवकाशे “सूपसंसृष्टे” परस्परसङ्कीर्णदेशे बलयो न कार्या इत्य् अर्थः । “स्पतमाष्टमाभ्यां” “धर्माय स्वाहा” “अधर्माय स्वाहा” इत्य् आभ्याम् । “उदगपवर्गम्” उदक्समाप्तिर् भवति । “उदधानसन्निधौ नवमेन” “अद्भ्यः स्वाहा” इति । “उदधानं” मणिकादि । “मध्य् ऽगारस्य” गृहस्य । “दशमैकादशाभ्याम्” “ओषधिवनस्पतिभ्यः [१६०] स्वाहा” “रक्षोदेवजनेभ्यः स्वाहा” इति । “प्रागपवर्गं” प्राक्संस्थम् । “उत्तरपूर्वदेशे” अपराजितायां दिशि । “अगारस्योत्तरैश् चतुर्भिः” “गृहेभ्यः स्वाहा” “अवसानेभ्यः स्वाहा” “अवसानपतिभ्यः स्वाहा” “सर्वभूतेभ्यः स्वाहा” इति । “कामलिङ्गेन” कामाय स्वाहा” इति । “अपिधान्यां” कपाटे । “उत्तरैः” मन्त्राः “पृथिव्यै स्वाहा” इत्यादयः “ब्रह्मणे” इत्य् अन्ताः । “पितृलिङ्गेन” “स्वधा पितृभ्यः” इति । “रौद्रो मन्त्रो” “नमो रुद्राय पशुपतये स्वाहा” इति । “धर्मभेदात्” यथोक्तम् — “पितरो वाक्यम् इच्छन्ति भावम् इच्छन्ति देवताः” इति, तस्मात् पितृकेषु समन्त्रकम् एवेति । “उत्तमेन” “ये भूताः प्रचरन्ति” इत्य् अनेन “वैहायसम्” एव बलिं कुर्यान् नान्यम् ।

गौतमः [५.१८] ।

    दिग्देवताभ्यश् च यथास्वम् । द्वार्षु मरुद्भ्यः । गृहदेवताभ्यः प्रविश्य । ब्रह्मणे मध्ये । अद्भ्य उदकुम्भे । आकाशायान्तरिक्षे । नक्तञ्चरेभ्यश् च सायम् ।

“यथास्वं” यस्या दिशो या देवता इन्द्रादिका तस्याः तस्यां दिशि बलिर् देया इत्य् अर्थः । “दिग्देवताभ्यश्” चेति, चकारात् तत्पुरुषेभ्यश् च । “प्रविश्य” गृहमिति शेषः । “सायं च” “नक्तञ्चरेभ्य” इत्य् अधिकम् ।

विष्णुः [६७.४–२६] ।

    ततो ऽन्नशेषेण बलिम् उपहरेत् । तक्षोपतक्षाभ्याम् । अभितः पूर्वेणाग्निम् । अम्बा नामासीति दुलानामासीति **[१६१]** नितत्नी नामासीति चुपुणीका नामासीति अम्रयन्ती नामासीति मेघयन्ती नामासीति वर्षन्ती नामासीति सर्वासाम् । नन्दिनि सुभगे सुमङ्गलि भद्रकालीति सक्तिष्व् अभिप्रदक्षिणम् । स्थूणायां ध्रुवायां श्रियै हिरण्यकेश्यै वनस्पतिभ्यश् च । धर्माधर्मयोर् द्वारे मृत्यवे च । उदधाने वरुणाय । विष्णव इत्य् उलूखले । मरुद्भ्य इति दृषदि । उपरि शरणे वैश्रवणाय राज्ञे भूतेभ्यश् च । इन्द्रायेन्द्रपुरुषेभ्य इति पूर्वार्धे । यमाय यमपुरुषेभ्य इति दक्षिणार्धे । वरुणाय वरुणपुरुषेभ्य इति पश्चिमार्धे । सोमाय सोमपुरुषेभ्य इत्य् उत्तरार्धे । ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये । ऊर्ध्वम् आकाशाय । दिवाचरेभ्यो भूतेभ्य इति स्थण्डिले । नक्तञ्चरेभ्यो भूतेभ्य इति नक्तम् । ततो दक्षिणाग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहाय मात्रे पितामह्यै प्रपितामह्यै स्वनामगोत्राभ्यां पिण्डनिर्वपणं कुर्यात् । पिण्डानां चानुलेपनपुष्पधूपदीपनैवेद्यानि दद्यात् । उदककलशम् उपनिधाय स्वस्त्ययनं वाचयेत् । श्वकाकश्वपचां भुवि निर्वपेत् ।

“अभितः” दक्षिणोत्तरयोः । “सक्तिषु” कोणेषु । “उपरि शरणे” उपरितने गृहे । इदं च कठानां व्यवस्थितम् ।

[१६२] शङ्खलिखितौ

    ब्रह्मणे नम इति ब्रह्मस्थले बलिं हरेत् । सोमायेत्य् उदकुम्भे । वायव इति वास्तुगृहे । गृहपतय इति गृहद्वारे । प्रजापतय इति गर्भगृहे । शन् नो देवीर् इत्य् अग्निकार्ये । दिक्पतिभ्यस् तत्पुरुषेभ्य इति पश्चिमार्धे । सोमाय सोमपुरुषेभ्य इत्य् उत्तरार्धे । ब्रह्मणे ब्रह्मपुरुषेभ्यः प्रतिदिशम् । नक्षत्रग्रहदेवताभ्यो ऽन्तरिक्षे । सर्वतः पशूनां पतये । नमो देवेभ्य इति प्रागुदीच्याम् । ब्रह्मस्थले स्वधा पितृभ्य इति दक्षिणेन निवाप्य गोदोहमात्रं कालम् अन्वाकाङ्क्षेद् अतिथिम् ।

“ब्रह्मस्थले” गृहमध्ये । “अन्वाकाङ्क्षेत्” प्रतीक्षेत ।

बलिदानविधौ छन्दोगपरिशिष्टे कात्यायनः [२.४४] ।

पिण्डवच् च पश्चिमा प्रतिपत्तिः ।

तथा [२.३५–३८] ।

अमुष्मै नम इत्य् एवं बलिदानं विधीयते ।

बलिदानप्रदानार्थं नमस्कारः कृतो यतः ॥

स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् ।

[१६३] स्वधाकारः पितॄणां च हन्तकारो नृणां यतः ॥

स्वधाकारेण निर्वपेत् पित्र्यं बलिम् अतः सदा ।

तम् अप्य् एके नमस्कारैः कुर्वते नेति **गौतमः** ।


    न चावरार्ध्या बलयो भवन्ति महामार्जारश्रवणप्रमाणात् । एकत्र चेत् कृत्स्ना भवन्तीतरेतरम् असंसक्ताश् च ।

“पिण्डवद्” इति, यथा पिण्डानां प्रतिपत्तिर् अग्निक्षेपादिका तथा बलीनाम् अपि । “न चावरार्ध्या” इति, बिडालकर्णप्रमाणाद् ऊना बलयो न भवन्ति ।

विष्णुपुराणे [३.११.४२–४९] ।

अपूर्वम् अग्निहोत्रं च कुर्यात् प्राग् ब्रह्मणे ततः ।

प्रजापतिं समुद्दिश्य दद्याद् आहुतिम् आदरात् ॥

गृह्याभ्यः काश्यपायाथ ततो ऽनुमतये क्रमात् ।

तच्छेषं मणिके पृथ्वीपर्जन्याद्भ्यः क्षिपेत् ततः ॥

द्वारे धातुर् विधातुश् च मध्ये च ब्रह्मणे क्षिपेत् ।

गृहस्य पुरुषव्याघ्र दिग्देवानां च मे शृणु ॥

इन्द्राय धर्मराजाय वरुणाय तथेन्दवे ।

प्राच्यादिषु बुधो दद्याद् धुतशेषात्मकं बलिम् ॥

[१६४] प्रागुत्तरे च दिग्भागे धन्वन्तरिबलिं बुधः ।

निर्वपेद् वैश्वदेवं च कर्म कुर्याद् अतः परम् ॥

वायव्ये वायवे दिक्षु समन्तासु ततो दिशाम् ।

ब्रह्मणे चान्तरिक्षाय मानवे च क्षीपेद् बलिम् ॥

विश्वेदेवान् विश्वभूतान् ततो विश्वपतीन् पितॄन् ।

यक्ष्माणं च समुद्दिश्य बलिं दद्यान् नरेश्वर ॥

मार्कण्डेयपुराणे [३४.९४–१०१] ।

सम्पूजयेत् ततो वह्निं देयाश् चाहुतयः क्रमात् ।

प्रथमां ब्रह्मणे कुर्यात् प्रजानां पतये ततः ॥

तृतीयां चैव गृह्याभ्यः काश्यपाय तथापराम् ।

ततो ऽनुमतये दद्याद् दद्याद् गृहबलिं तथा ॥

पूर्वाख्यातं मया यद् यन् नित्यकर्मक्रियाविधौ ।

वैश्वदेवं ततः कुर्याद् बलयस् तत्र मे शृणु ॥

यथास्थानविभागं तु देवान् उद्दिश्य वै पृथक् ।

पर्जन्याद्भ्यो धरित्रीणां दद्यात् तु मणिके त्रयम् ॥

धात्रे विधात्रे च द्वाभ्यां दद्याच् च द्वारयोः क्रमात् ।

वायवे प्रतिदिग्भ्यश् च दिग्भ्यः प्राच्यादितः क्रमात् ॥

ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमम् ।

विश्वेभ्यश् चैव देवेभ्यो विश्वभूतेभ्य एव च ॥

[१६५] उषसे भूतपतये दद्याच् चोत्तरतस् ततः ।

स्वधा नम इत्य् उक्त्वापि पितृभ्यश् चापि दक्षिणे ॥

कृत्वापसव्यं वायव्यां यक्ष्मैतत् ते ऽवनेजनम् ।

अन्नावशेषमिश्रं वै तोयं दद्याद् यथाविधि ॥

तथा [२९.२१] ।

ततस् तोयम् उपादाय तेषाम् आचमनाय वै ।

स्थानेषु निक्षिपेत् प्राज्ञो नाम्ना तूद्दिश्य देवताः ॥

विष्णुपुराणे [३.११.५०–५७] ।

ततो ऽन्यद् अन्नम् आदाय भूमिभागे शुचौ पुनः ।

दद्याद् अशेषभूतेभ्यः स्वेच्छया तत् समाहितः ॥

देवा मनुष्याः पशवो वयांसि

	सिद्धाः सयक्षोरगदैत्यसङ्घाः ।

प्रेताः पिशाचास् तरवः समस्ता

	ये चान्नम् इच्छन्ति मया प्रदत्तम् ॥

पिपीलिकाः कीटपतङ्गकाद्या

	बुभुक्षिताः कर्मनिबन्धबद्धाः ।

प्रयान्तु ते तृप्तिम् इदं मयान्नं

	तेभ्यो विसृष्टं सुखिनो भवन्तु ॥

येषां न माता न पिता न बन्धुर्

	नैवान्नसिद्धिर् न तथान्नम् अस्ति ।

तत्तृप्तये ऽन्नं भुवि दत्तम् एतत्

	ते यान्तु तृप्तिं मुदिता भवन्तु ॥

[१६६] भूतानि सर्वाणि तथान्नम् एतद्

	अहं च विष्णुर् न यतो ऽन्यद् अस्ति ।

तस्माद् अहं भूतनिकायभूतम्

	अन्नं प्रयच्छामि भवाय तेषाम् ॥

चतुर्दशो भूतगणो य एष

	तत्र स्थिता ये ऽखिलभूतसङ्घाः ।

तृप्त्यर्थम् अन्नं हि मया विसृष्टं

	तेषाम् इदं तु मुदिता भवन्तु ॥

इत्य् उच्चार्य नरो दद्याद् अन्नं श्रद्दासमन्वितम् ।

भुवि भूतोपकाराय गृही सर्वाश्रयो यतः ॥

श्वचण्डालविहङ्गानां भुवि दद्यात् ततो नरः ।

आपस्तम्बः [२.४.१०–११] ।

अग्रं च देयम् । अतिथीन् एवाग्रे भोजयेत् ।

“अग्रम्” ग्रासचतुष्टयं विष्णुपुराणोक्तम् ।

बौध्यनः [२.५.१५] ।

श्रोत्रियायाग्रं दद्यात् ।

मनुः [३.९४–९८] ।

कृत्वैतद् बलिकर्मैवम् अतिथिं पूर्वम् आशयेत् ।

भिक्षां च भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ॥

[१६७] यत् पुण्यफलम् आप्नोति गां दत्वा विधिवद् गुरोः ।

तत् पुण्यफलम् आप्नोति भिक्षां दत्वा तु भिक्षवे ॥

भिक्षाम् अप्य् उदपात्रं वा सत्कृत्य विधिपूर्वकम् ।

वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥

नश्यन्ति हव्यकव्यानि नराणाम् अविजानताम् ।

भस्मीभूतेषु विप्रेषु मोहाद् दत्तानि दातृभिः ॥

विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु ।

निस्तारयति दुर्गाच् च महतश् चापि किल्बिषात् ॥

विष्णुः [६७.२६–२८] ।

भिक्षां च दद्यात् । अतिथिपूजने च परं यत्नम् आतिष्ठेत् ।

यमः

सत्कृत्य भिक्षवे भिक्षां यः प्रयच्छति मानवः ।

गोप्रदानसमं पुण्यं तस्याह भगवान् **यमः** ॥

याज्ञवल्क्यः [१.१०८] ।

सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च ।

“सव्रतो” ब्रह्मचारी ।

शातातपः

ग्रासमात्रा भवेद् भिक्षा पुष्कलं तु चतुर्गुणम् ।

पुष्कलाणि च चत्वारि हन्तकारं विदुर् बुधाः ॥

[१६८] आपस्तम्बः [१.३.२६] ।

    स्त्रीणां च प्रत्याचक्षाणानां समाहितो ब्रह्मचाऋईष्टं दत्तं हुतं प्रजां पशून् ब्रह्मवर्चसम् अन्नाद्यं वृङ्क्ते । तस्माद् उ ह वै ब्रह्मचारिसङ्घं चरन्तं न प्रत्याचक्षीत । “अपि हैष्व् एवंविध एवंव्रतः स्याद्” इति हि **ब्राह्मणम् **।

“प्रत्याचक्षाणां” भिक्षार्थम् आगतानां प्रत्याख्यानं कुर्वन्तीनाम् । “एषु” ब्रह्मचारिषु । “एवंव्रतः” भिक्षादानव्रतः ।

यमः

हस्तदत्ता तु या भिक्षा सलिलं व्यञ्जनानि च ।

भुक्त्वा त्व् अशुचितां याति दत्वा स्वर्गं न गच्छति ॥

वसिष्ठः [११.५] ।

श्रोतियायाग्रं दत्वा ब्रह्मचारिणे चानन्तरं पितृभ्यो दद्यात् ।

“श्राद्धम्” इत्य् अनुवृत्तौ, शातातपः

यथाशक्ति अभिरूपाणां ब्राह्मणानां च भोजनम् ।

अपवर्गे तु सर्वत्र नित्यम् एव प्रकीर्तितम् ॥

“अभिरूपाणां” विदुषाम् । “अपवर्गः” पञ्चयज्ञसमाप्तिः ।

**[१६९] मनु-शातातपौ शङ्खश् **च प्रथमे ।

दद्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन च ।

पयोमूलफलैर् वापि पितृभ्यः प्रीतिम् आहरन् ॥

एकम् अप्य् आशयेद् विप्रं पित्रर्थे पाञ्चयज्ञिके ।

न चैवात्राशयेत् किञ्चिद् वैश्वदेवं प्रति द्विजम् ॥

योगियाज्ञवल्क्यः

कुर्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।

तृप्त्यर्थं वै पितॄणां तु स्वात्मनः श्रेय इच्छता ॥

छन्दोगपरिशिष्टे कात्यायनः [२.३०–३२] ।

अप्य् एकम् आशयेद् विप्रं पितृयज्ञार्थसिद्धये ।

अदैवं नाश्ति चेद् अन्यो भोक्ता भोज्यम् अथापि वा ॥

अप्य् उद्धृत्य यथाशक्ति किञ्चिद् अन्नं यथाविधि ।

पितृभ्यो ऽथ मनुष्येभ्यो दद्याद् अहर् अहर् द्विजः ॥

पितृभ्य इदम् इत्य् उक्त्वा स्वधाकारं च कारयेत् ।

“अदैवम्” विश्वेदेववर्जितम् ।

[१७०] आपस्तम्बः [२.१८.६–१९] ।

    नित्यश्राद्धम् । बहिर् ग्रामाच् छुचयः शुचौ देशे संस्कुर्वन्ति । तत्र नवानि द्रव्याणि । यैर् अन्नं संस्क्रियते येषु च भुज्यते । तानि च भुक्तवद्भ्यो दद्यात् । समुदेतांश् च भोजयेत् । न चातद्गुणायोच्छिष्टं प्रयच्छेत् । एवं संवत्सरम् । तेषाम् उत्तमं लोहेनाजेन कारयम् । मानं च कारयेत् प्रतिच्छन्नम् । तस्योत्तरार्धे ब्राह्मणान् भोजयेत् । उभयान् पश्यति ब्राह्मणांश् च भुञ्जानानान् माने च पितॄन् इत्य् उपदिशन्ति । कृताकृतम् अत ऊर्ध्वम् । श्राद्धेन तृप्तिं वेदयन्ते पितरः ।

“नित्यश्राद्धम्” इति, नित्यम् अहर् अहः क्रियमाणः । “शुचयः” इति पुनर्वचनम् आदरेण सर्वप्रकारेण शौचस्याङ्गत्वार्थम् । “समुदेताः” समुद्धृताः, जातिविद्यादिभिर् उत्कृष्टा इत्य् अर्थः । “न चातद्गुणाय” इति, अतद्गुणाय अनन्तरोक्तसमुदेतत्वगुणशून्याय । “उच्छिष्टं” चात्र श्राद्धपाकशेषः । “तेषाम्” इत्यादि, तेषाम् अहर् अहः क्रियमाणानां श्राद्धानां यद् “उत्तमं” श्राद्धं संवत्सरस्यान्ते, तल् लोहितछागमांसमिश्रेणान्नेन कर्तव्यम् । “मानं च” इति, मीयन्ते प्रक्षिप्यन्ते शयनासनादिसाधनानि द्रव्याणि यत्र तन् मानं गृहम् । “प्रतिच्छन्नं” सर्वतो वेष्टितम् । “तस्य” च गृहस्य “उत्तरार्धे” उत्तरभागे “ब्राःमणान् भोजयेत्” । तस्मिंश् च माने “ब्राह्मणान् भुञ्जानान्” “पितॄन्” पितृरूपेण “पश्यति” पश्येद् इत्य् अर्थः । “कृताकृतम्” इति, एवं संवत्सरे कृते अत ऊर्ध्वं नित्यश्राद्धं कृतं भवत्य् अकृतं भवतीत्य् अर्थः । अकरणे दोषो नास्ति करणे च [१७१] फलम् अस्तीत्य् उक्तं भवति । “श्राद्धेन” इति, अनेनैवं संवत्सरश्राद्धेन स्वकीयां यावज्जीवतृप्तिं “वेदयन्ते” कथयन्ति ।

मत्स्यपुराणे [१६.५–६] ।

नित्यं तावत् प्रवक्ष्यामि चार्घ्यावाहनवर्जितम् ।

अदैवं तद् विजानीयात् पार्वणं पर्वसु स्मृतम् ॥

विष्णुपुराणे [३.११.६४] ।

पित्रर्थं चापरं विप्रम् एकम् अप्य् आशयेन् नृप ।

तद् देश्यं विदिताचारसम्भूतिं पाञ्चयज्ञिकम् ॥

पद्मपुराणे [सृष्टिखण्डम्, १५.१३९–१४०] ।

एकं वेदान्तगं विप्रं भोजयेच् छ्रद्धयान्वितः ।

तस्य भुक्ता भवेत् कोटिर् विप्राणां नात्र संशयः ॥

विष्णुपुराणे [३.११.६६] ।

दद्याच् च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् ।

स्वेच्छया च बुधो दद्याद् विभवे सत्य् अवारितम् ॥

नरसिंहपुराणे [५८.९८–१०१] ।

भिक्षां च भिक्षवे दद्यात् परिव्राड्ब्रह्मचारिणे ।

कल्पितान्नात् सुमुद्धृत्य सर्वव्यञ्जनसंयुताम् ॥

अकृते वैश्वदेवे तु भिक्षार्थं गृहम् आगते ।

उद्धृत्य वैश्वदेवान्नं भिक्षां दत्वा विसर्जयेत् ॥

[१७२] वैश्वदेवकृतं दोषं सद्यो भिक्षुर् व्यपोहति ।

न तु भिक्षुकृतं दोषं वैश्वदेवो व्यपोहति ॥

पद्मपुराणे [सृष्टिखण्दम्, १५.१४०–१४१] ।

यः पात्रपूरणीं भिक्षां यतिभ्यः सम्प्रयच्छति ।

विमुक्तः सर्वपापेभ्यो नासौ दुर्गतिम् आप्नुयात् ॥

ब्रह्मपुराणे

पूर्वं दवैर् जिता दैत्याः सङ्ग्रामाच् च पराङ्मुखाः ।

कपालपाणयो जग्मुः केचिन् नग्नव्रतास् तथा ॥

केचिन् मुण्डा लोहिताक्षाः काषायवसनास् तथा ।

सात्वताश् च दुराचाराः शौचाचारविवर्जिताः ॥

नरास्थिकेशसञ्छन्नाः केचिद् व्याजेन दानवाः ।

यज्ञेषु रक्षसां भागो देव इत्य् एव संस्मरन् ॥

विप्रेभ्यो मूर्तिम् अद्भ्यश् च देवेभ्यश् च गृहाद् बहिः ।

नित्यं सत्पुरुषः कुर्याद् एतेष्व् अप्य् अधिकां दयाम् ॥

तथा

पाखण्डिनां चापि न यत्र भिक्षां

	कुर्वन्ति निन्दां च बहिर् गतानाम् ।

क्षमावतां संस्थितानां स्वशास्त्रे

	शून्याटव्यां भिक्षया वर्ततां च ॥

[१७३] वेदान् पठन् त्व् अग्निहोत्राणि सम्यग्

	व्रतोपवासांश् च चरन्तु किं तत् ।

स्पर्धां कृत्वा साधुजनेषु नित्यं

	घोराणि पापानि समाचरन्ति ॥

आस्तां किम् एभिर् बहुभिः प्रलापैः

	पाखण्डिनां रोगिणां चाथ मध्ये ।

विकर्मिणो दुष्टतरा भवन्ति

	दुष्टासु नारीषु यथा पतिघ्नी ॥

दुःखाकुलं जगद् एतद् विचार्य 

	नमो ऽस्तु धर्माय इति ब्रुवंश् च ।

दद्याद् अन्नं सर्वगतं च विष्णुं

	प्रणम्य वै द्वादशपर्वमात्रम् ॥

मार्कण्डेयपुराणे [२९.३५–३७] ।

ग्रासप्रमाणा भिक्षा स्याद् अग्रं ग्रासचतुष्टयम् ।

अग्रं चतुर्गुणं प्राहुर् हन्तकारं द्विजोत्तमाः ॥

भोजनं हन्तकारं वा अग्रं भिक्षाम् अथापि वा ।

अदत्वा न च भोक्तव्यं यथविभवम् आत्मनः ॥

महाभारते

घासमुष्टिं परगवे सान्नं दद्यात् तु यः सदा ।

अकृत्वा स्वयम् आहारं स्वर्गलोकं स गच्छति ॥

ब्रह्मपुराणे

सौरभेय्यः सर्वहिताः पवित्राः पुण्यराशयः ।

[१७४] प्रतिगृह्णन्तु मे ग्रासं गावस् त्रैलोक्यमातरः ॥

दद्याद् अनेन मन्त्रेण गवां ग्रासं सदैव हि ।

गवां कण्डूयनं घासं ग्रासम् आह्निकम् एव वा ।

दत्वा भवेन् महापुण्यं गोप्रदानसमं नृणाम् ॥

भविष्यपुराणे

तृणोदकादिसंयुक्तं यः प्रदद्याद् गवाह्निकम् ।

कपिलाशतदानस्य फलं विद्यान् न संशयः ॥

पञ्चभूते शिवे पुण्ये पवित्रे सूर्यसम्भवे ।

प्रतीच्छेमं मया दत्तं सौरभेयि नमो ऽस्तु ते ॥

बलिदानानन्तरं विष्णुपुराणे [३.११.५८, ५९, ६३] ।

ततो गोदोहमात्रं वै कालं तिष्ठेद् गृहाङ्गणे ।

अतिथिग्रहणार्थाय तदूर्ध्वं वा यथेच्छया ॥

अतिथिं तत्र सम्प्राप्तं पूजयेत् स्वागतादिना ।

हिरण्यगर्भबुध्या तं मन्येताभ्यागतं गृही ॥

इति भट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरेण विरचिते कृत्यकल्पतरौ

नियतकालकल्पकाण्डे वैश्वदेवादिपर्व ॥

[१७५]

अथातिथिपूजा

तत्र पितृदानानन्तरं वसिष्ठः [११.६] ।

ततो ऽतिथीन् भोजयेच् छ्रेयांसम् आनुपूर्व्येण ।

“श्रेयांसम्” जात्यादिभिर् उत्कृष्टम् । “आनुपूर्व्येण” क्रमेण । यो यो जात्यादिभिर् उत्कृष्टस् तं तं प्रथमं क्रमेण भोजयेद् इत्य् अर्थः ।

मनुर् विष्णुश् च प्रथमे ।

सम्प्राप्ताय त्व् अतिथये प्रदद्याद् आसनोदके ।

अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥

अग्नीन् हुत्वा विधानेन यत् पुण्यफलम् आप्यते ।

तेन तुल्यं विशिष्टं वा ब्राह्मणे तर्पिते फलम् ॥

मन्त्रकर्मविपर्यासाद् दुरिताद् दुर्गताद् अपि ।

तत्फलं नश्यते कर्तुर् इदम् अश्रद्धया कृतम् ॥

शिलान् अप्य् उञ्छतो नित्यं पञ्चाग्नीन् अपि जुह्वतः ।

[१७६] सर्वं सुकृतम् आदत्ते ब्राह्मणो ऽनर्चितो वसन् ॥

तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता ।

एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कथञ्चन ॥

“सम्प्राप्ताय” निमन्त्रणं विना स्वयम् आगताय । “उदकम्” पादधावनाद्युपयोगि । “विधिपूर्वकम्” अतिथिपूजोक्तप्रकारेण । “तत्फलम्” अग्निहोत्रफलम् । “इदम्” आसनादिदानम् । “शिलान्” लूनसस्यशेषान् । “उञ्छतः” उच्चिन्वतः । अनेन च दरिद्रेणाप्य् अतिथिपूजनं कर्तव्यम् इत्य् उक्तम् । “सूनृता” प्रिया सत्या ।

शङ्खलिखितौ

    गोदोहनमात्रं कालम् अन्वाकाङ्क्षेत् । अतिथिः श्रोत्रियो वेदव्रती यतिधर्मा नैष्ठिकः समानवृत्तिर् यो ऽन्यो वाभ्यागच्छेत् तस्मिन् काले तम् अर्चयित्वाश्नीयात् । कृशवृत्तेर् अपि ब्राह्मणो ह्य् अनश्नन् सुकृतम् आदत्ते । पर्यश्नतः प्रजाः कृन्तन्ति ।

“श्रोत्रियः” एकशाखाया अप्य् अध्येता । “वेदव्रती” उपकुर्वाणकः । “यतिधर्मा” यतिः । “नैष्ठिको” ब्रह्मचारी । [१७७] “समानवृत्तिः” तुल्यजीवनोपायः, यथा गृहस्थस्य गृहस्थः । “पर्यश्नतः” अतिथिं परित्यज्याश्नतः ।

तथा

प्रार्थयन्ते यथा सर्वे निपानं मृगपक्षिणः ।

एवं गृहस्थं सम्पन्नं प्रार्थयन्तीह साधवः ॥


नावमन्येत विद्वांसं ब्राह्मणम् । ब्राह्मणो ह्य् अग्निर् इवाप्रमेयः सर्व एव । यथा प्रणीतश् चाप्रणीतश् चाग्निर् हि दैवतम् एवं विद्वांश् चाविद्वांश् च ब्राह्मणः पूज्य एव सर्वेषाम् । यत्र हि ब्राह्मणो न भुङ्क्ते तद् धुतम् अप्य् अग्नाव् अहुतम् एवास्य तद् धविः । तत्र देवा अपि न गृह्णन्ति स्वं भागम् । अतिदेवा हि ब्राह्मणाः । ब्राह्मणानां प्रसादाद् देवा अपि स्वर्गम् अजयन् । 

“प्रणीतः” वैदिकसंस्कारसंस्कृताग्निः । “अतिदेवाः” देवेभ्यो ऽतिशयिताः ।

पुनः शङ्खलिखितौ

    वयोवर्णविद्यातपःसम्पन्नाय पाद्यम् अर्घ्यम् आचमनीयं अन्नविशेषान् तस्मै शक्तितो दद्यात् । [प्रियप्रश्नोत्तरेण] सहासीत । [यानवन्तम् आयानारोहणाद् अयानवन्तम् अनुज्ञापर्यन्तम् अननुज्ञान आसीमान्तम् अनुव्रज्य विसर्जयेत् । यदि तत्रैव वस्तुम् इच्छत् तदा शय्यादिना शयनोपकरणेन पूजयेत् ।] प्रदोषे ऽनुज्ञाप्य शयीत । पूर्वं प्रतिबुध्येत । प्रस्थितम् अनुव्रजेत् । **[१७८]** समेत्य न्यायतो निवर्तेत । वेद्युद्यानारामसभाप्रपातडागदेवगृहमहाद्रुमस्थान-नदीनाम् अन्यतरस्मिंस् तं प्रदक्षिण्ं कुर्याद् वाचम् उत्सृज्य पुनर् दर्शनायेति ।

वेद्यादीनाम् अन्यतरस्मिन् स्थाने “पुनर् दर्शनाय” इत्य् उक्त्वा तं प्रदक्षिणं कुर्यात् ।

हारीतः

    अतिथिश् च यदागच्छेद् यतिर् वैखानसः समानवृत्तिः स्नातको वा तस्य स्वागतम् अर्घ्यपाद्याचमनीयम् आसनं च प्रदाय याश् चौषधयः सन्निहितास् ताश् चोपहरेत् । तं प्रयान्तम् अनुव्रजन् विष्णुक्रमान् अनुक्रामति । मोदन्ते ऽस्य पितरः पितामहाः प्रपितामहाः । तेनानुज्ञातो निवर्तेत । वसेच् चेद् विधिवत् परिचरणम् ।

“स्नातकः” अत्रार्थाद् अकृतविवाहः, समानवृत्तिपदेन गृहस्थस्योपात्तत्वात् । “ओषधयो” व्रीह्यादयः । “विष्णुक्रमाः” इष्ट्यङ्गभूतानि मन्त्रवन् निगमानि ।

पुनर् हारीतः

    विश्वरूपं ब्रह्म द्विविधम् आहुः । परं शब्दब्रह्म च । ब्रह्म सर्वा देवताः । ब्रह्ममयत्वाद् ब्रह्मसम्भवाद् ब्रह्मण्य् अधिकाराच् च ब्राह्मणाः सर्वदेवत्या भवन्ति । यस्यै यस्यै देवतायै ब्राःमणस्** [१७९]** तर्पयति तां तां प्रीणाति । ब्राह्मणस्य वै तृप्तिं देवपितरो ऽनुतृप्यन्ते । न हि तत् स्कन्दते न च्यवते, न यातयामि भवति । ब्राह्मणाह् कारणम् । न हि ब्राह्मणाभिभाविनाम् अग्निर् हव्यं वहति । न चास्य देवाः पितरः प्रतिगृह्णन्ति । ब्राह्मणकारणाभि-भाविनां नायं लोको न पर् इत्य् आचार्याः** ।** यज्ञोपवीतिनो देवाः । प्राचीनावीतिनः पितरः । विद्यास्नाता आग्नेयाः । व्रतस्नाता ऐन्द्राः । उभयस्नाता वैश्वानराः । सर्वा अस्य देवता गृहम् आगच्छन्ति । यस्यैवं विद्वान् ब्राह्मणो गृहम् अभ्येति तम् अनभ्युत्तिष्ठतः प्राणदेवता अपक्रामन्ति । ततः प्राणैः पापीयान् यातयामत्वम् उपैति । यदैनम् अभ्युत्तिष्ठति नास्य ब्राह्मणदेवता अपक्रामति । अतो न प्राणैः पापीयान् यातयामत्वम् उपैति । तस्यैष यद् आह स्वागतम् इति गृहदेवतास् तेन प्रीणाति । यद् आसनादिभिर् अर्चयत्य् अग्निं यज्ञं च तेन प्रीणाति । यत् पादाभिषेचनं कुरुते पित्ड्ंस् तेन प्रीणाति । यद् अन्नेनाभिपूजयति प्रजापतिं तेन प्रीणाति । यद् एनं यान्तम् अनुयाति श्रेयस्यो ब्रह्मवर्चस्यस् तेन सर्वान् कामान् अवाप्नोति ।

“विश्वरूपं” जगत्प्रवृत्तित्वा । “ब्रह्मयत्वाद्” वेदमयत्वात् । “ब्रह्मसम्भवाद्” उपनयने ब्रह्मरूपाया गायत्र्या [१८०] मातुः सम्भवत्वा । “ब्रह्मणि” वेदे सति सर्वदेवतातृप्तिः परामृश्यते । “ब्राह्मणकारणाभिभाविनां” ब्राह्मणं जगत्कारणं ये ऽभिभवन्ति तेषां तथा ।

पुनर् हारीतः

" सर्वात्मना तु देवा वै ब्राह्मणेषु व्यवस्थिताः ।

अग्निवच् च द्विजं प्राहुस् तस्माद् विप्रो ऽधिदैवतम् ॥

यथाग्नौ संस्थिता देवास् तद्वद् विप्रेषु संस्थिताः ।

आपस्तम्बः [२.६.३—२.८.४] ।

    अग्निर् इव ज्वलन्न् अतिथिर् अभ्यागच्छति । धर्मेण वेदानाम् एकैकां शाखाम् अधीत्य श्रोत्रियो भवति । स्वधर्मयुक्तं कुटुम्बिनम् अभ्यागच्छति धर्मपुरस्कारो नान्यप्रयोजनः सो ऽतिथिर् भवति । तस्य पूजायां शान्तिः स्वर्गः पुष्टिश् च । तम् अभिमुखो ऽभ्यागम्य यथावयः समेत्य तस्यासनम् आहारयेत् । शक्तिविषये नाबहुपादम् आसनं भवतीत्य् <span style="text-decoration:underline;">एके</span> । तस्य पादौ प्रक्षालयेच् छूद्रमिथुनाव् इत्य् <span style="text-decoration:underline;">एके</span> । अन्यतरो ऽभिषेचने स्यात् । **[१८१]** तस्योदकम् आहारयेन् मृन्मयेनेत्य् <span style="text-decoration:underline;">एके</span> । नोदकम् आहारयेद् असमावृत्तः । अध्ययनसांवृत्तिश् चात्राधिका । सान्त्वयित्वा तर्पयेद् रसैर् भक्ष्यैर् अद्भिर् अवरार्ध्येनेव । आवसथं दद्याद् उपरिशय्याम् उपस्तरणम् उपधानं सावस्तरणम् अभ्यञ्जनं चेति । अन्नसंस्कारम् आहूय व्रीहीन् यवान् वा तदर्थान् निर्वपेत् । उद्धृतान्य् अन्नान्य् अवेक्षेतेदं भूयो नेदम् इति । भूय उद्धरेत्य् एव ब्रूयात् । द्विषन् द्विषतो वा नान्नम् अश्नीयाद् दोषेण वा मीमांसमानस्य मीमांसितस्य वा । पाप्मानं हि स तस्य भक्षयतीति विज्ञायते । स एष प्राजापत्यः कुटुम्बिनो यज्ञो नित्यप्रततः । यो ऽतिथीनाम् अग्निः स आहवनीयो यः कुटुम्बे स गार्हपत्यो यस्मिन् पच्यते सो ऽन्वाहार्यपचनः । ऊर्जं पुष्तिं प्रजां पशून् इष्टापूर्तम् इति गृहाणाम् अश्नाति यः पूर्वो ऽतिथेर् अश्नाति । पय उपसेचनम् अन्नम् अग्निष्टोमसम्मितं सर्पिषोक्थ्यसम्मितं **[१८२]** मधुनातिरात्रसम्मितम्, मांसेन द्वादशाहसम्मितम् उदकेन प्रजावृद्धिर् आयुषश् च । प्रिया अप्रियाश् चातिथयः स्वर्गं लोकं गमयन्तीति विज्ञायते । स यत् प्रातर् मध्यन्दिने सायम् इति ददाति सवनान्य् एव तानि भवन्ति । यद् अनुतिष्ठत्य् उदवस्यत्य् एव तत् । यत् सान्त्वयति सा दक्षिणा प्रशंसा । यत् संसाधयति ते विष्णुक्रमाः । यद् उपावर्तते सो ऽवभृथः । इति ब्राह्मणम् । राजानं चेद् अतिथिर् अभ्यागच्चेच् छ्रेयसीम् अस्मै पूजाम् आत्मनः कारयेत् । आहिताग्निं चेद् अतिथिर् अभ्यागच्छेत् स्वयम् एनम् अभ्युदेत्य ब्रूयात् । व्रात्य क्वावात्सीर् इति । व्रात्योदकम् **[१८३] **इति । व्रात्य तर्पयंस् त्व् इति । पुराग्निहोत्रस्य होमाद् उपांशु जपेत् । व्रात्य यथा ते मनस् तथास्त्व् इति । व्रात्य यथा ते वशस् तथास्त्व् इति । व्रात्य यथा ते प्रियं तथास्त्व् इति । व्रात्य यथा ते निकामस् तथास्त्व् इति । यस्योद्धृतेष्व् अहुतेष्व् अग्निष्व् अतिथिर् अभ्यागच्छेत् स्वयम् एनम् अभ्युदेत्य ब्रूयात् । व्रात्यातिसृज होष्यामीत्य् अतिसृष्टेन होतव्यम् अनतिसृष्टश् चेज् जुहुयाद् दोषं ब्राह्मणम् आह । एकरात्रं चेद् अतिथीन् वासयेत् पार्थिवांल् लोकान् अभिजयति द्वितीययान्तरिक्षांस् तृतीयया दिव्यांश् चतुर्थ्यां परावतो लोकान् अपरिमिताभिर् अपरिमितांल् लोकान् अभिजयतीति विज्ञायते । असमुदेतश् चेद् अतिथिर् ब्रुवाण आगच्छेद् आसनम् उदकम् अन्नं श्रोत्रियाय ददामीत्य् एव दद्याद् एवम् अस्य समृद्धं भवति । येन कृतावसथः स्याद् अतिथिर् न तं प्रत्युत्तिष्ठेत् प्रत्यवरोहेद् वा पुरस्ताच् चेद् अभिवादितः । शेषभोज्य् अतिथीनां स्यात् । न रसान् गृहे भुञ्जीतानवशेषम् अतिथिभ्यः । नात्मार्थम् अभिरूपम् अन्नं पाचयेत् ।

“स्वधर्मयुक्तः” स्ववर्णाश्रमाचारवान् । “धर्मपुरअस्कारः” तीर्थयात्रादिधर्म-कृत्यपरः, प्रकारान्तरेण प्राणधारणसमर्थो वा, न पुनर् अन्नलोलुपः । “यथावयः समेत्य” अन्यूनसमाधि**[१८४]**कवयो ऽनुसारेणातिथिं यथायोग्यम् उपसङ्ग्रहणादिना मिलित्वा । “अबहुपादम्” द्विपादपीठादिः । “शूद्रमिथुनौ” शूद्रद्वयम्, तयोर् मध्ये । एको “अभिषेचने” पादप्रक्षालणार्थम् उदकदाने व्याप्रियेत । “तस्य” अतिथेः “उदकम्” अर्घ्यार्थम् आहरेत् । “मृन्मयेन” पात्रेण । “नोदकम् आहारयेत्” मृन्मयेनेत्य् अनुषङ्गः । “असमावृत्तो” ब्रह्मचारी चेद् अतिथिर् अभ्यागच्छति तदा तस्यार्घ्यादिदानानन्तरम् “अध्ययनसंवृत्तिः” कर्तव्या, मिलित्वा तेन सह पठनीयं किञ्चित् । “सान्त्वयित्वा” पाठाद् अनन्तरम् अभिजनादिभिः स्तुतिं कृत्वा । “रसैर् भक्ष्यैर् अद्भिर् अवराध्येनेत्य् एव”, “अवरार्ध्येन” जघन्यकल्पेन । रसाद्यसम्भवे ऽद्भिर् अपि तर्पयेद् इत्य् अनुषङ्गः । “उपरिशय्या” खट्वादिका । “उपस्तरणम्” तूलिकादि । “उपधानम्” गेन्दुकादि । “अवस्तरणम्” तूलिकोपरिपटः । “अभ्यञ्जनम्” तैलादि । “व्रीहीन् यवान् वा” इति तृप्तिसाधनार्थोपलक्षणम् इदम् । “उद्धृतानि” भोजनपात्रे कृतानि । “ब्रूयात्” पत्नीम् इति शेषः । “दोषेण मीमांसमानस्य” दोषत्वेन विचार्यमाणस्य । “मीमांसितस्य” दोषत्वेनैव । “आत्मना स्रेयसीम्” आत्मनः उत्कृष्टाम् “पूजाम्” “व्रात्य [१८५] क्वात्सीर्” इति प्रश्नमन्त्रः । “व्रात्योदकम्” इत्य् उदकदानमन्त्रः । अग्निहोत्रहोमात् प्राग् आगते ऽतिथाव् एते “व्रात्य” इत्यादिमन्त्राः “उपांशु” उच्चायणीयाः । “उद्धृतेषु” कृतविहारेषु । “अतिसृष्टः” आदिष्टः । “ब्राह्मणं” विधायको वेदभागः । “असमुदेतः” अपकृष्टः । “ब्रुवाणः” अतिथिर् अस्मीति वदन् । “श्रोत्रियाय ददामि” इति बुद्धिं कृत्वेति शेषः । “येन” गृहेण । “कृतावसथः” दत्तवासः । “तम्” गृहिणं दृष्ट्वासौ नासनात् “प्रत्युत्तिष्ठेत्”, खट्वादिभ्यश् च “न प्रत्यवरोहेत्” । “अतिथिभ्यः” आगतेभ्यः लवणक्षीरादीन् रसान् अनवस्थाप्य न साकल्येन भुञ्जीत ।

पुनर् आपस्तम्बः [२.८.१४; २.९.१–४] ।

    अतिथिं निराकृत्य यत्र गते भोजने स्मरेत् ततो विरम्योपोष्य । श्वोभूते यथामनसं तर्पयित्वा संसाधयेत् । यानवन्तम् आ यानात् । यावन् नानुजानीयाद् इतरम् । अप्रतिभायां सीम्नो निवर्तेत ।

“अतिथिं निराकृत्य” अतिथिधर्मेण धृतं केनचिद् विस्मरणादिना भोजनाद्य् अकारयित्वा । “यत्र गते भोजने” यावत्पर्यन्तं गते भोजने, किञ्चित् कृते ऽर्धकृते वा “स्मरेत्”, “ततो” भोजनाद् “विरम्य” सायम्भोजनम् अकृत्वा संस्थातव्यम् । [१८६] “यथामनसम्” यत्र यत्रास्य रुचित् भवति तेन “तर्पयित्वा” । “संसाधनम्” अनुव्रजनम् । “यानवन्तम्” अश्वादियानयुक्तम् अतिथिम् अनुव्रजेत् । “इतरम्” अयानवन्तं यावद् अनुज्ञाम् अनुव्रजेत् । यदि त्व् अतिथेर् अनुज्ञातुं “प्रतिभा” न भवति तदा ग्रामसीमान्तं गत्वाननुज्ञातो ऽपि निवर्तेत ।

वसिष्ठः [११.१३–१५] ।

    ब्राह्मणायाभ्यागतायाप आनयन्ति । विज्ञायते हि । वैश्वानरः प्रविशत्य् अतिथिर् ब्राह्मणो गृहान् । तस्माद् अप आनयन्ति । अन्यत्र वर्षाभ्यः । तां च शान्तिं जना विदुर् इति । तं भोजयित्वोपासीत । ततो गच्छन्तम् आसीमान्तम् अनुव्रजेत् । अनुज्ञानाड् वा ।

“ब्राह्मणाय” अतिथिरूपायाभ्यागतायान्नदानात् प्रथमतः पानाद्यर्थम् उदकम् आनयन्ति । अत्रैव कारणाभिधानं “वैश्वानर” इत्यादिना । न चैतद् अर्थम् उदकानयनं सर्वदा । किं तु “अन्यत्र वर्षाभ्यः” वर्षासु नेत्य् अर्थः । यतः “तां हि शान्तिं जना विदुर्” इति, “ताम्” उदकाहरणलक्षणं “शान्तिं” शमनं प्रार्थनाजनितं ते “जनाः” सर्वे “विदुर्” इति । अनेन प्रसिद्धिः सूचितेति **भर्तृयज्ञः **।

गौतमः [५.३२–३८] ।

    श्रोत्रियस्य तु पाद्यम् अर्घ्यम् अन्नविशेषांश् च प्रकारयेत् । **[१८७]** नित्यं वा संस्कारविशिष्टम् । मध्यतो ऽन्नदानम् अवैद्ये साधुवृत्ते । विपरीते तु तृणोदकभूमि । स्वागतम् अन्ततः । पूजानभ्यासश् च ।

“अन्नविशेषाः” चोष्यपेयलेह्यादयः । “प्रकारयेत्” पाचयेत् । “नित्यं वा” यदि त्व् अन्नविशेषाणां दाने न समर्थस् तदा नित्यम् एव यद्गृहे पच्यते तद् एव विशेषपूजापूर्वकं दद्यात् । “मध्यतः” साधारणेन सत्कारेण । “अवैद्ये” विद्यासम्बन्धरहिते । “विपरीते” विद्याहीने । “अनभ्यासो” अनतिक्रमः ।

मनुः [३.१०५–१०७] ।

अप्रणोद्यो ऽतिथिः सायं सूर्योढो गृहमेधिना ।

काले प्राप्तस् त्व् अकाले वा नास्यानश्नन् गृहे वसेत् ॥

न वै स्वयं तद् अश्नीयाद् अतिथिं यन् न भोजयेत् ।

धन्यं यशस्यम् आयुष्यं स्वर्ग्यं चातिथिपूजनम् ॥

आसनावसथौ शय्याम् अनुव्रज्याम् उपासनम् ।

उत्तमेषूत्तमं कुर्याद् धीने हीनं समे समम् ॥

“अप्रणोद्यः” अनिराकार्यः । “सूर्योढः” सूर्येणास्तं गच्छता प्रापितः । उत्तमाधम-मध्यमेष्व् आगतेषु न समं [१८८] सर्वेषाम् आसनादि, किं तु “उत्तमेषूत्तमम्” इति । “काले” वैश्वदेवान्ते ।

अतिथिम् आशयेद् इत्य् अभिधाय, विष्णुः [६७.३१–३२] ।

    यथा वर्णानां ब्राह्मणः प्रभुर् यथा स्त्रीणां भर्ता तथा गृहस्थस्यातिथिः । तत्पूजायां स्वर्गम् आप्नोति ।

तथा [६७.४४] ।

स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा ।

न चाप्नोति गृही लोकान् यथा त्व् अतिथिपूजनात् ॥

तथा

ब्रह्मचारी यतिर् भिक्षुर् जीवन्त्य् एते गृहाश्रमात् ।

तस्माद् अभ्यागतम् अतिथिं गृहस्थो नावमानयेत् ॥

पैठीनसिः

    विशेषतो ऽन्नम् अतिथये दद्यात् । पुत्रं जातम् उदीक्षन्ते श्रोत्रियं भोजयिष्यतीति पितरः पितामहाः प्रपितामहाश् च । **[१८९]** स्वागतेनाग्निर् आसनेनेन्द्रः पितरः पाद्येनान्नाद्येन प्रजापतिः । यो वा एकं ब्रह्मेति व्याख्यातं जानाति । राजन्यो वातिथिर् भवति नेति विभाषा । भवतीत्य् एव । यस्यैवं विद्वान् गृहम् इतो भवति तस्य यथा प्रियं तथा कुर्वीत । व्रात्य या ते प्रियम् इति भवति तस्य प्रियांश् चाप्रियांश् च देवान् मनसा मत्वा तांस् तान् परिचरेत् । तस्य व्रात्यो व्रात्यब्रुव इति हविर् भवति । क्षीरप्रभृतयो यज्ञा व्याख्याताः । संवत्सरो वातिथिः । तस्याङ्गानि सर्वा देवताः । समानम् अर्थं परियन्ति देवा इति विज्ञायते । सर्वान् संवत्सरम् अवरुन्धीत । न त्व् एव भूतिं काङ्क्षेत् । यथाशक्ति तान् तान् परिचरेद् इत्य् आह । अम्बुशाकफलादीन् दद्यात् तान्य् अविचारयन् । अनिन्दितानि प्रतिपादयन् ऋषीणां याति सलोकताम् इति । तृणानि भूमिर् उदकं कल्याणी वाक् चेति सतां नगरे (?) न क्षीयन्ते । एवंवृत्ताव् अनन्तलोको भवति । दम्पती शयनीयाभ्यञ्जनस्नानेषु विशेषं कुर्याताम् । स्वर्गलोकं च गच्छतः । तदहर् गृहित्वं भवति । विशिष्टं हुतं चाग्निभ्यश् च ॥ 

“विशेषतो ऽन्नं” मृष्टम् अन्नम् । “यो वा एकं ब्रह्मेति” उपनिषत्सु “व्याख्यातं” ब्रह्म “जानाति” तं भोजयिष्यतीत्य् [१९०] अर्थः । “विभाषा” विकल्पः । स च नाव्यवस्थितः, किं तु गुण्वान् सो ऽपि भवत्य् एवातिथिः । “भूतिं” सम्पदम्, अतिथिपूजनार्थम् इति शेषः । “विशेषम्” उत्कर्षरूपम् । “स्वर्गलोकं गच्छतो” दम्पतीत्य् अन्वयः । “तदहः” यस्मिन्न् अहन्य् अतिथिः पूज्यते । “गृहित्वम्” अतिथिपूजनार्थम् इति शेषः । “विशिष्टं हुतं च” विशिष्टं भवति तद् अहर् इत्य् अर्थः ।

याज्ञवल्क्यः [१.१०९] ।

महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।

वसिष्ठः [४.८] ।

    अथापि ब्राह्मणाय वा राजन्याय वाभ्यागताय महोक्षाणं वा महाजं वा पचेद् एवम् अस्यातिथ्यं कुर्वन्तीति ।

अत्र यद्य् अपि गृहागतश्रोत्रियतृप्त्यर्थं गोवधः कर्तव्य इति प्रतीयते, तथापि कलियुगे नायं धर्मः । किं तु युगान्तरे ।

तद् उक्तं ब्रह्मपुराणे

दीर्घकालं ब्रह्मचर्यं धारणं च कमण्डलोः ।

गोत्रान् मातृसपिण्डाद् वा विवाहो गोवधस् तथा ॥

नराश्वमेधौ मद्यं च कलौ वर्ज्यं द्विजातिभिः ॥ इति ।

[१९१] बौधायनः [२.५.११–१३] ।

    सायं प्रातर् यदन्नः स्यात् तेनान्नेन वैस्वदेवं बलिम् उपहृत्य ब्राह्मणक्षत्रियविट्शूद्रान् अभ्यागतान् यथाशक्ति पूजयेत् । यदि बहूनां न शक्नुयाद् एकस्मै गुणवते दद्यात् । यो वा प्रथमम् आगतः स्यात् ।

“सायं प्रातर् यदन्नः” सायं प्रातर् यदन्नभुग् भवति तेनान्नेन । “वैश्वदेवं” विश्वे अनेके देवता यत्र तं “बलिम्” इत्य् अर्थः । “बहूनां न शक्नुयात्” यदा बहूनां ब्राह्मणादीनां दातुं न शक्नुयात् तदा “एकस्मै गुणवते दद्यात्” । युगपदागमने “गुणवते” दद्यात् । क्रमागमने तु “प्रथमम् आगताय” इति व्यवस्थितो विकल्पः ।

आपस्तम्बः [२.४.१६–२१] ।

    ब्राह्मणायानधीयानायासनम् अन्नम् उदकम् इति देयम् । न प्रत्युत्तिष्ठेत् । अभिवादनायैवोपतिष्ठेद् अभिवाद्यश् चेत् । राजन्यवैश्यौ च । शूद्रम् अभ्यगतं कर्मणि नियुञ्ज्यात् । अथास्मै **[१९२]** दद्यात् । दासा वा राजकुलाद् आहृत्यातिथिवच् (?) छूद्रं पूजयेयुः ।

“अभिवाद्यः” वयोऽधिकत्वादिना । “राजन्यवैश्यौ च” प्रति नोत्तिष्ठेद् इति सम्बन्धो योग्यत्वात् । यस्य हृहिणः शूद्रो ऽतिथिर् अभ्यागतस् तस्य दासास् तं शूद्रम् अतिथिधर्मेण् कुर्युर् इत्य् अन्वयः । “राजकुलात्” निजस्वामिकुलात् ।

शङ्खलिखितौ

    नाब्राह्मणो ऽतिथिर् ब्राह्मणस्य । श्रोत्रियाय गुणवत आतिथ्यम् । राजन्यवैश्याभ्यां मित्रवत् । शूद्रायानृशंस्यार्थम् ।

“आतिथ्यं” यथावत् कर्तव्यम् इति शेषः । अन्येषां तु “मित्रवद्” अन्नमात्रं देयम् इत्य् अर्थः । “आनृशंस्यार्थम्” अक्रूरत्वार्थम् ।

गौतमः [५.४२–४५] ।

    कुशलानामयारोग्याणाम् अनुप्रश्नो ऽन्त्यं शूद्रस्य । ब्राह्मणस्यानतिथिर् अब्राह्मणो ऽयज्ञे संवृतश् चेत् । भोजनं तु क्षत्रियस्योर्ध्वं ब्राह्मणेभ्यः । अन्यान् भृत्यैः सहानृशंस्यार्थम् ।

“अनुप्रश्नः” आनुपूर्व्येण वचनः । “अन्त्यम्” आरोग्यम् । “अब्राह्मणः” क्षत्रियादिः । “संवृतः” सङ्कुचितो [१९३] धनाद्यभावेन, दरिद्र इति यावत् । एतच् च विशेषणं गृहस्थस्य । “अन्यान्” वैश्यशूद्रान्, भोजयेद् इति शेषः ।

शातातपः

जन्मनैव महाभागो ब्राह्मणो नाम जायते ।

नमस्यः सर्वभूतानां जन्मश्रेष्ठः पिता गुरुः ॥

नास्त्य् एषां पूजनीयो ऽन्यस् त्रिषु लोकेषु कश्चन ।

तपोविद्याविशेषेण पूजयन्ति परस्परम् ॥

अन्योन्यं गुरवो विप्रा अन्योन्यातिथयः स्मृताः ।

अन्योन्यम् उपकुर्वन्तस् तारयन्ति तरन्ति च ॥

यो हि यां देवताम् इच्छेद् आराधयितुं कश्चन ।

सर्वोपायप्रयत्नेन सन्तोषयति ब्राह्मणान् ॥

देवता द्रव्यभूतेषु कश्चित् काश्चित् प्रतिष्ठिताः ।

ब्राह्मणा देवताः सर्वा अतस् तान् पूजयेत् सदा ॥

आसनाशनशय्याभिर् अद्भिर् मूलफलेन वा ।

नास्य कश्चिद् वसेद् गेहे शक्तितो नार्चितो ऽतिथिः ॥

पाखण्डिनो विकर्मस्थान् बैडालव्रतिकान् शठान् ।

हैतुकान् बकवृत्तींश् च वाङ्मात्रेणापि नार्चयेत् ॥

“पाखण्डिनः” वेदबाह्यागमानुष्ठातारः । “विकर्मस्थाः” आश्रमस्था एवानापदि स्वाश्रमधर्मानुष्ठानरहिताः । [१९४] “बैडालव्रतिकः” “धर्मध्वजी सदा लुब्धः” इत्यादिना मनुनोक्तः । “शठः” कर्मकरणसमर्थो ऽपि व्याजेन धर्माननुष्ठायी । “हैतुकाः” वेदविरुद्धतर्कव्यवहारिणः । “चक्रवृत्तयः” “अधोदृष्टिः” इत्यादिना कथिताः । “वाङ्मात्रेणापि नार्चयेद्” इति सर्वप्रकारम् अर्चनं निषिध्यते । अन्नदानमात्रं तु न निषिध्यते ।

**शातातपः पाराशरश् **च प्रथमे ।

प्रियो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा ।

वैश्वदेवे तु सम्प्राप्ते सो ऽतिथिः स्वर्गसङ्क्रमः ॥

भिक्षां वा पुष्कलं वापि हन्तकारम् अथापि वा ।

असम्भवे सदा दद्याद् उदपात्रम् अथापि वा ॥

ग्रासमात्रा भवेद् भिक्षा पुष्कलं तु चतुर्गुणम् ।

पुष्कलानि च चत्वारि हन्तकारं विदुर् बुधाः ॥

“प्रियः” जामातादिः । “द्वेष्यः” शत्रुः । “मूर्खः” अध्ययनरहितः । “पण्डितः” यथास्वरूपं प्रमाणतो ज्ञात्वा दृष्टादृष्टफलदातृकर्मानुष्ठाता (?) । “स्वर्गसङ्क्रमः” नदीसङ्क्रमवत् प्राप्तिहेतुः ।

[१९५] दक्षः [३.५–८] ।

सुधावस्तूनि वक्ष्यामि विशिष्टे गृहम् आगते ।

मनश् चक्षुर् मुखं वाचं सौम्यं दद्याच् चतुष्टयम् ॥

अभ्युत्थानम् इहागच्छ पूर्वालापः प्रियान्वितः ।

उपासनम् अनुव्रज्या कार्याण्य् एतानि यत्नतः ॥

ईषद्वस्तूनि चान्यानि भूमिर् आपस् तृणानि च ।

पादशौचं तथाभ्यङ्गम् आश्रयः शयनं तथा ॥

किञ्चिद् रात्रौ यथाशक्ति नास्यानश्नन् गृहे वसेत् ।

मृज्जलं चार्थिने देयम् एतान्य् अपि सदा गृहे ॥

“सुधावस्तूनि” अनायाससम्पाद्यानि । “उपासनं” समीपे स्थितिः । “ईशद्वस्तूनि कार्याणि” इति सम्बन्धः । ईषद्वस्तुत्वम् अल्पायाससाध्यत्वात् । “शयनं किञ्चिद्” इति सम्बन्धः ।

यत्यधिकारे पुनर् दक्षः [७.३९–४३] ।

तपोजपैः कृशीभूतो व्याधिनावसथार्हकः ।

वृद्धो ग्रहगृहीतश् च यश् चान्यो विकलेन्द्रियः ॥

नीरुजश् च युवा चैव भिक्षुर् नावसथार्हकः ।

[१९६] स दूषयति तत् स्थानं वृद्धः पीडयतीति च ॥

नीरुजश् च युवा चैव ब्रह्मचर्याद् विनश्यति ।

ब्रह्मचर्याद् विनष्टस् तु कुलं गोत्रं च नाशयेत् ॥

वसन्न् आवसथे भिक्षुर् मैथुनं यदि सेवते ।

तस्यावसथनाथस्य मूलान्य् अपि निकृन्तति ॥

आश्रमे तु यतिर् यस्य विश्राम्यति मुहूर्तकम् ।

किं तस्यान्येन धर्मेण कृतकृत्यो हि स स्मृतः ॥

जन्मप्रभृति यत् पापं गृहस्थेन तु सञ्चितम् ।

निर्मार्जयति तत् सर्वम् एकरात्रोषितो यतिः ॥

“आवसथार्हको” गृहे वासयितुं योग्यः । “वृद्ध” इत्य् असमर्थोपलक्षणम् । “ग्रहगृहीतः” भूताभिभूतः ।

यमः

नाग्निहोत्रेण दानेन नोपवासोपलेपनैः ।

देवताः परितुष्यन्ति यथा चातिथिपूजनैः ॥

अतिथिः पूजितो यत् तु ध्यायेत मनसा शुभम् ।

न तत् क्रतुशतैर् वापि तुल्यम् आहुर् मनीषिणः ॥

चक्षुर् दद्यान् मनो दद्याद् वाचं दद्यात् तु सूनृताम् ।

उत्थाय चासनं दद्यात् स धर्मः पञ्चलक्षणः ॥

आसनं पादशौचं च दीपम् अन्नं प्रतिश्रयम् ।

[१९७] दद्याद् एतानि यः पञ्च स यज्ञः सर्वदक्षिणः ॥

अन्नदः प्राणदो ज्ञेयो दीपदो वस्त्रदः स्मृतः ।

स हि सर्वप्रदो नाम यो ददाति प्रतिश्रयम् ॥

गृहस्थैर् अपि यद् भुक्तं स्नातकैर् वेदपारगैः ।

यतिना वापि यद् भुक्तं तच् छ्रेयो नेतरैस् तथा ॥

यत् किञ्चित् कुरुते ध्यायी दातुर् अर्धं प्रयच्छति ।

तस्मान् महत्फलं दानं ध्यायिने स्नातके तथा ॥

अश्वमेधसहस्रेण राजसूयशतेन च ।

पुण्डरीकसहस्रेण योगिष्व् आवसथो वरः ॥

श्रान्तायादृष्टपूर्वाय प्रियायाध्वनि वर्तिने ।

ददाति यो ऽन्नम् अक्लिष्टं स यज्ञः सर्वदक्षिणः ॥

“प्रतिश्रयः” वासार्थं गृहम् । “श्रेयः” अतिप्रशस्तम् । “इतरैः” यथोक्तगृहस्थाद् अन्यैः । “पुण्डरीको” यज्ञविशेषः । “अक्लिष्टं” सत्कृतम् ।

बृहस्पतिः

आगतस्यासनं दद्याच् छ्रान्तस्य शयनं तथा ॥

तृषार्तस्य तु पानीयं क्षुधितस्य तु भोजनम् ।

[१९८] चक्षुर् दद्यान् मनो दद्याद् वाचं दद्याच् च सूनृताम् ॥

एष साधारणो धर्मश् चातुर्वर्ण्यो ऽब्रवीन् **मनुः** ।

प्रीयते स्वागतेनाग्निर् आसनेन शतक्रतुः ॥

पितरः पादशौचेन भोजनेन प्रजापतिः ।

विप्रपादोदकक्लिन्ना यावत् तिष्ठति मेदिनी ॥

तावत् पुष्करपात्रेण पिबन्ति पितरो जलम् ।

यस्याध्वखिन्नाः पथिका गृहम् आयान्ति कर्षिताः ॥

पूज्यन्ते तृणभूम्याद्यैः पितरस् तेन पुत्रिणः ।

“कर्षिताः” पीडिताः ।

“अतिथये दद्याद्” इत्य् अनुवृत्तौ विष्णुः [६७.४६] ।

प्रतिश्रयं तथा शय्यां पादाभ्यङ्गं सदीपकम् ।

प्रत्येकदानेनाप्नोति गोप्रदानसमं फलम् ॥

यमः

येषाम् अनश्नन्न् अतिथिर् विप्राणां प्रव्रजेद् गृहात् ।

ते वै खरत्वम् उष्ट्रत्वम् अश्वत्वम् उपपेदिरे ॥

यस्य चैव वसेद् विप्रो गृहे कश्चिद् अभोजितः ।

न तस्य देवाः पितरो हव्यं कव्यं च भुञ्जते ॥

अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।

[१९९] सुकृतं तस्य यत् किञ्चित् सर्वम् आदाय गच्छति ॥

अतिथिर् यत्र वै ग्रामे भिक्षमाणः प्रयत्नतः ।

शेते निरशनस् तत्र ब्रह्महत्या विधीयते ॥

अपि शाकं पचानस्य शिलोञ्छेनापि जीवतः ।

स्वदेशे परदेशे वा नातिथिर् विमना भवेत् ॥

अग्नयो ऽतिथिम् इच्छन्ति सो ऽतिथिः स्वर्गम् इच्छति ।

स्वर्गो ऽपीच्छति दातारं सम्यक् सुकृतकारिणम् ॥

पराशरः [१.४५] ।

अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।

न तस्य पितरो ऽश्नन्ति दश वर्षाणि पञ्च च ॥

अग्निहोत्रं जरत्कन्या द्वारे च पशुबन्धनम् ।

अतिथिर् वैश्वदेवान्ते निर्दहन्त्य् अवमानिताः ॥

“जरत्” जरायुक्ता । “द्वारे पशुबन्धनम्” काले यवसोदकाद्यदाने सति ।

देवलः

न पृच्छेद् गोत्रचरणं स्वाधायं देशजन्मनी ।

भिक्षितो ब्राह्मणैर् अन्नं दद्याद् एवाविचारयन् ॥

अतिथिर् गृहम् अभ्येत्य यस्य प्रतिनिवर्तते ।

[२००] असंस्कृतो निराशश् च सद्यो हन्ति च तत्कुलम् ॥

यमः

अतिथिं पूजयेद् यस् तु श्रान्तं चादृष्टपूर्वकम् ।

सवृषं गोशतं तेन दत्तं स्याद् इति मे मतिः ॥

न पृच्छेद् गोत्रचरणं देशं नाम कुलं श्रुतम् ।

अध्वनो ऽभ्यागतं विप्रं भोजनार्थम् उपस्थितम् ॥

देशं नाम कुलं विद्यां पृष्ट्वा यो ऽन्नं प्रयच्छति ।

न स तत्फलम् आप्नोति दत्वा स्वर्गं न गच्छति ॥

पराशर-शातातपौ

न पृच्छेद् गोत्रचरणं स्वाध्यायं जन्म चैव हि ।

चित्तं हि भावयेत् तस्मिन् व्यासः स्वयम् उपागतः ॥

यमः

देशं गोत्रं कुलं विद्याम् अन्नार्थे यो निवेदयेत् ।

वैवस्वतेषु धर्मेषु वान्ताशी स निरुच्यते ॥

मनुः [३.१०८] ।

वैश्वदेवे तु निर्वृत्ते यद्य् अन्यो ऽतिथिर् आव्रजेत् ।

[२०१] तस्माद् अन्नं यथाशक्ति प्रदद्यान् न बलिं हरेत् ॥

“वैश्वदेवे” सर्वार्थपाके । “निर्वृत्ते” कृतप्रयोजने, निःशेष इति यावत् । “अतिथिः” अतिथिलक्षणोपेतः । “बलिं हरेद्” इति मनुष्ययज्ञव्यतिरिक्तपाकयज्ञोपलक्षणम् ।

अथ याज्ञवल्क्यः [१.१११] ।

अध्वनीनो ऽतिथिर् ज्ञेयः श्रोत्रियो वेदपारगः ।

मान्याव् एतौ गृहस्थस्य ब्रह्मलोकम् अभीप्सतः ॥

“अध्वनीनः” सततम् अध्वगामी । “श्रोत्रियः” एकशाखाध्याय्य् अपि ।

तथा च बौधयनः

एकां शाखाम् अधीत्य श्रोत्रियो भवति । इति ।

मनुर् विष्णुः शातातपश् च द्वितीये ।

एकरात्रं तु निवसन्न् अतिथिर् ब्राह्मणः स्मृतः ।

अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते ॥

नैकग्रामीणम् अतिथिं विप्रं साङ्गतिकं तथा ।

[२०२] उपस्थितं गृहे विद्याद् भार्या यअत्राग्नयो ऽपि वा ॥

अयम् अर्थः — एकां रात्रिं वसतो ऽतिथित्वम्, न ततः परम् । एकरात्रेर् अपि न क्षत्रियादेः । “एकग्रामीणः” एकग्रामवासी । “साङ्गतिकः” यश् चित्रपरिहासकथादिभिः सर्वैः सह सङ्गच्छेत् । एतौ च वैश्वदेवकालोपस्थिताव् अपि नातिथी । “गृहे” नित्यनिवासस्थाने । न केवलं गृह एवातिथिः । किं तु भार्यादिना योषितस्य ग्रामन्तरे वने वा, भार्या अग्नयश् च यत्र भवन्ति तत्राप्य् उपस्थितम् अतिथिं विजानीयाद् इति मेधातिथिः

यमः

तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना ।

सो ऽतिथिः सर्वभूतानां शेषान् अभ्यागतान् विदुः ॥

व्रति यतिर् एकरात्रं निवसन्न् उच्यते ऽतिथिः ।

यस्मान् नित्यं च वसति तस्मात् तम् अतिथिं विदुः ॥

“पर्वाणि” अमावास्यादीनि । “उत्सवाः” विवाहादयः । “तिथिः” तद्व्यतिरिक्ता दीपमालिकाप्रतिपदादिः । एते धर्मपुरस्कारेणान्नविशेषप्राप्तिहेतवो “येन त्यक्ताः” “सो ऽतिथिः” । “धर्मपुरस्कारो नान्यप्रयोजनः सो ऽतिथिः” इत्य् आपस्तम्बवचनात् [२.३.५] ।

गौतमः [५.४१] ।

असमानग्रामो वातिथिर् एकरात्रिको ऽधिवृक्षसूर्योपस्थायी ।

“एकरात्रिकः” एकरात्रवसनशीलः । अधिवृक्षसूर्यशब्दः सायङ्कालपर इति मस्करि-भर्तृयज्ञौ

**पराशरः शातातपश् **च प्रथमे ।

अचिन्तितम् अनाहूतं देशकाल उपस्थितम् ।

अतिथिं तं विजानीयान् नातिथिः पूर्वम् आगतः ॥

क्षुधार्तस् तृषितः श्रान्तो दूराद् अध्वन आगतः ।

तं पूजयेत् प्रयत्नेन सो ऽतिथिः स्वर्गसङ्क्रमः ॥

“देशो” भार्याग्निसन्निहितः । “कालो” वैश्वदेवान्तादिः ।

मनु-विष्णू

इतरान् अपि सख्यादीन् सम्प्रीत्या गृहम् आगतान् ।

प्रकृत्यान्नं यथाशक्ति भोजयेत् सह भार्यया ॥

“सख्यादीन्”इत्यादिशब्देन सम्बन्धिबान्धवानाम् उपादानम् । “प्रकृत्य” प्रकर्षेण सत्कृत्य । “सह भार्यया” [२०४] भार्यासहितो गृहस्थस् तान् “भोजयेत्” । भार्यापि परिवेषणादि कुर्याद् इत्य् अर्थः ।

याज्ञवल्क्यः [१.१०८] ।

भोजयेच् चागतान् काले सखिसम्बन्धिबान्धवान् ।

तथा [१.११३] ।

अहःशेषं सहासीत शिष्टैर् इष्टैश् च बन्धुभिः ।

“काले” भोजनकाले ।

आपस्तम्बः [२.५.४–११] ।

    समावृत्तं चेद् आचार्यो ऽभ्यागच्छेत् तम् अभिमुखो ऽभ्यागम्य तस्योपसङ्गृह्य न बीभत्समान उदकम् उपस्पृशेत् पुरस्कृत्योपस्थाप्य यथोपदेशं पूजयेत् । आसने शयने भक्ष्ये भोज्ये वाससि वा सन्निहिते निहीनतरवृत्तिः स्यात् । तिष्ठन् सव्येन पाणिनानुगृह्याचार्यम् आचामयेत् । अन्यं वा समुदेतम् । स्थानासनचङ्क्रमणस्मितेष्व् अनुचिकीर्षन् । सन्निहिते मूत्रपुरीषवातकर्मोच्चैर्भाषाहासनिष्ठीवनदन्तस्खलननिशृङ्खण-भ्रुक्षेपणतालननिष्ठ्यानीति । दारे प्रजायां चोपस्पर्शनभाषा विस्रम्भपूर्वाः परिवर्जयेत् । वाक्येन वाक्यस्य प्रतिघातम् आचार्याय वर्जयेत् । श्रेयसां च ।

[२०५] “तस्योपसङ्गृह्य” पादाव् इति शेषः । “न बीभत्समान उदकम् उपस्पृशेत्” आचार्यस्य चरणप्रक्षालने स्पर्शे घृणां कुर्वन् हस्तप्रक्षालनं न कुर्यात् । “पुरस्कृत्य” चरणप्रक्षालनानुलेपनादिनातिथ्यं कृत्वा । “उपस्थाप्य” सर्वम् एतद् धनशरीरादि भवदीयम् इति निवेद्य । “यथोपदेशं” यथाशास्त्रम् । “सन्न्”हिते” गुरौ । “तिष्ठन् आचार्यम् आचामयेत्” नोपविष्टः । “सव्येन पाणिनानुगृह्य” दक्षिणेन पाणिना गृहीतं जलपात्रं पश्चाद् वामेनापि गृहीत्वा । “अन्यं वा समुदेतम्” आचामयेद् इत्य् अनुषङ्गः । तच् चाचमनम् आचार्यवद् एव समुदेतस्याप्य् उक्तसत्कारादिपूर्वकं बोद्धव्यम्, तथाविधस्यैव प्रकृतत्वात् । “अनुचिकीर्षन्” स्नानादिक्रियासु वर्तमाने आर्ये स्वयम् अपि पश्चात् तथा । “सन्निहिते” आचार्य इति शेषः । “दन्तस्खलनं” दन्तधावनम् । “निशृङ्खणं” नासामलोत्सर्जनम् । “तालनं” हस्तवाद्यम् । “निष्ठ्यं” विट्श्लेषः । आदिशब्देन नृत्यगीतवाद्याद्युपसङ्ग्रहः । “प्रजायाम्” अपत्ये । “उपस्पर्शनम्” अङ्गपरिष्वङ्गः । “भाषा” सम्भाषणम्, एतत् प्रणयपूर्वकं वर्जयेत् । “श्रेयसां” श्रेष्ठपुरुषाणाम् अप्य् अन्येषाम्, “प्रतिघातं वर्जयेद्” इत्य् अन्वयः ।

गौतमः [५.२७–३२]

    आचार्यपितृसखीनां तु निवेद्य वचनक्रिया । **[२०६]** ऋत्विगाचार्यश्वशुरपितृव्य-मातुलानाम् उपस्थाने मधुपर्कः । संवत्सरे पुनः । यज्ञविवाहयोर् अर्वाक् । राज्ञश् च श्रोत्रियस्य । अश्रोत्रियस्यासनोदके ।

“आचार्यपितृसखीनाम्” गृहागतानाम् । “निवेद्य” सिद्धम् अन्नादि । “वचनक्रिया” यत् ते ब्रुवते तत् करणम् । ऋत्विगादीनां तु “उपस्थाने” गृहागमने सति मधुपर्केण पूजा कर्तव्या । “संवत्सरे पुनः” “उपस्थाने मधुपर्कः” इत्य् अन्वयः । “यज्ञविवाहयोर् अर्वाग्” इति, यज्ञविवाहयोर् उपस्थाने संवत्सराद् अर्वाग् अपि मधुपर्को देय इत्य् अर्थः । “राज्ञः” इति, श्रोत्रियस्य सतो राज्ञः संवत्सराद् अर्वाग् अपि मधुपर्को देयः । “अश्रोत्रियस्य” राज्ञ आसनोदके एव देये न मधुपर्कः ।

मनुः [३.११९–१२०] ।

राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान् ।

अर्हयेन् मधुपर्केण प्रतिसंवत्सरात् पुनः ॥

राजा च श्रोत्रियश् चैव यज्ञकर्मण्य् उपस्थितौ ।

मधुपर्केण सम्पूज्यो न त्व् अयज्ञ इति स्थितिः ॥

[२०७] याज्ञवल्क्यः [१.११०] ।

प्रतिसंवत्सरं त्व् अर्घ्याः स्नातकाचार्यपार्थिवाः ।

प्रियो विवाह्यश् च तथा यज्ञं प्रत्य् ऋत्विजः पुनः ॥

बौधायनः [२.६.३५–३७] ।

पूज्यान् पूजयेत् ।

ऋषिविद्वन्नृपवरमातुलश्वशुरर्त्विजः ।

एते ऽर्घ्याः शास्त्रविहिताः स्मृताः कालविभागशः ॥

ऋषिविद्वन्नृपाः प्राप्ताः क्रियारम्भे वरर्त्विजौ ।

मातुलश्वशुरौ पूज्यौ संवत्सरगाव् इति ॥

“ऋषिः” मन्त्रदृक् । “विद्वान्” वेदार्थवित् । “नृपः” अभिषिक्तः क्षत्रियो धर्मेण प्रजापालकः । “प्राप्ताः” गृहम् इति शेषः । “क्रियारम्भेषु” यज्ञविवाहादिषु ।

आपस्तम्बः [२.८.५–९] ।

    गोमधुपर्कार्हो वेदाध्यायः । आचार्य ऋत्विक् स्नातको राजा वा धर्मयुक्तः । आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सराद् उपतिष्ठद्भ्यो गौर् मधुपर्कश् च । दधि मधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् । अभाव उदकम् ।

[२०८] “वेदाध्यायाः” अधीतवेदः । “परिसंवत्सरात्” संवत्सर् संवत्सरे ।

पुनर् आपस्तम्बः [२.९.५–६] ।

    सर्वान् वैश्वदेवभागिनः कुर्वीताश्वचाण्डलेभ्यः । नानर्हद्भ्यो दद्याद् इत्य् एके ।

“सर्वान्” अन्नार्थिनः । “वैश्वदेवभागिनः” वैश्वदेवान्नसंविभागिनः कुर्यात् । “आ श्वचाण्डालेभ्यः” इत्य् आङभिविधौ । “अनर्हद्भ्यः” श्वपाषण्दचण्डालादिभ्यः । अनर्हताम् अदाने नास्ति दोषः, दाने तु पुण्यम् इति व्यवस्था ।

आपस्तम्ब-बौधायनौ

    ये नित्या भक्तिकाः स्युस् तेषाम् अनुरोधेन संविभागो विहितः । कामम् आत्मानं भार्यां पुत्रं चोपरुन्ध्यान् न त्व् एव दासकर्मकरम् । तथा चात्मनो ऽनुपरोधं च कुर्याद् यथा कर्मसु समर्थः स्यात् ।

“भक्तिकाः” भक्तार्हाः ।

मनुः [४.३२] ।

शक्तितो ऽपचमानेभ्यो दातव्यं गृहमेधिनाम् ।

संविभागश् च भूतानां कर्तव्यो ऽनुपरोधतः ॥

यमः

अपचन्तम् अतिक्रम्य पचन्तं यस् तु भोजयेत् ।

[२०९] शौण्डिकानां व्रजेद् योनिं वर्षाणाम् अधिकं शतम् ॥

**वसिष्थो मनुश् **च द्वितीये श्लोके ।

महयेद् यथाशक्ति चान्नेन सर्वभूतानि ।

गृहस्थ एव यजते गृहस्थस् तप्यते तपः ।

चतुर्णाम् आश्रमाणां तु गृहस्थश् च विशिष्यते ॥

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।

एवम् आश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥

यथा मातरम् आश्रित्य सर्वे जीवन्ति जन्तवः ।

एवं गृहस्थम् आश्रित्य सर्वे जीवन्ति भिक्षुकाः ॥

“महयेत्” पूजयेत् ।

मनुः [३.७८–७९] ।

यस्मात् त्रयो ऽप्य् आश्रमिणो ज्ञानेनान्नेन चान्वहम् ।

गृहस्थैर् एव धार्यन्ते तस्माच् छ्रेष्ठो गृहाश्रमी ॥

स सन्धार्यः प्रयत्नेन स्वर्गम् अक्षयम् इच्छता ।

सुखं चेहेच्छतात्यन्तं यो ऽधार्यो दुर्बलेन्द्रियैः ॥

“सः” गृहाश्रमः । “दुर्बलेन्द्रियैः” असंयतेन्द्रियैः, “अधार्यो” धारयितुम् अशक्यः । असंयतेन्द्रियाणां स्वाधीन**[२१०]**विषयलाभे सति नियत्धर्मानुष्ठानासम्भवात् । तस्माच् छ्रेष्ठो गृहाश्रमी ।

बृहस्पतिः

आश्रमाणां समुत्पत्तिर् वर्धनं पालनं तथा ।

गृहस्थाज् जायते सम्यक् तेन सो ऽभ्यधिकः स्मृतः ॥

पैठीनसिः

    चत्वारो ह्य् आश्रमा ब्रह्मचारी गृहस्थो वानप्रस्थो भिक्षुकश् चेति । सर्वे ते गृहस्थमूलास् तदुपजीविनः ।

दक्षः [२.५७–६०] ।

देवैश् चैव मनुष्यैश् च तिर्यग्भिश् चोपजीव्यते ।

गृहस्थः प्रत्यहं यस्मात् तस्माच् छ्रेष्ठो गृहाश्रमी ॥

त्रयाणाम् आश्रमाणां च गृहस्थो योनिर् उच्यते ।

सीदमानेन तेनैव सीदन्तीहेतरे त्रयः ॥

मूलं प्राणो भवेत् स्कन्धः स्कन्धाच् छाखास् च पल्लवाः ।

मूलेनैव विनष्टेन सर्वम् एव विनश्यति ॥

तस्मात् सर्वप्रयत्नेन रक्षणीयो गृही सदा ।

राज्ञा चान्यैस् त्रिभिः पूज्यो माननीयश् च सर्वदा ॥

[२११] अथ **गौतमः **[५.२६] ।

    भोजयेत् पूर्वम् अतिथिकुमारव्याधितगर्भिणीस्ववासिनीस्थविरान् जघन्यांश् च ।

आत्मनः “पूर्वम्” एतान् “भजयेत्” । “कुमाराः” बालाः । “स्ववासिन्यः” ऊढा दुहितरः । “जघन्याः” भृत्याः ।

बुधः

    अतिथिं पूजयेत् । भृत्यान् बन्धून् पोष्यवर्गं च । श्ववायसादिभ्यो भूमौ दत्वा ब्राह्मणान् भोजयेत् पित्रर्थान् ।

याज्ञवल्क्यः [१.१०५] ।

बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ।

सम्भोज्यातिथिभृत्यांश् च दम्पत्योः शेषभोजनम् ॥

देवलः

गर्भिण्यातुरवृद्धेषु बालश्रान्तातिथिष्व् अपि ।

अप्राशितेषु तत् पूर्वम् अनिवेद्य च नाश्नीयात् ॥

मनु-विष्णू [३.११४] ।

सुवासिनीः कुमारांश् च रोगिणो गर्भिणीस् तथा ।

[२१२] अतिथिभ्यो ऽग्र एवैतान् भोजयेद् अविचारयन् ॥

अदत्वा तु य एतेभ्यः पूर्वं भुङ्क्ते ऽविचक्षणः ।

स भुञ्जानो न जानाति श्वगृध्रैर् जग्धिम् आत्मनः ॥

“अग्रे” प्रथमम् । अत्र च यद् गौतमादिस्मृतिष्व् अतिथिभोजनस्य बालादिभोजनात् प्राथम्यप्रतिपादनम्, तद् अतिथेर् अभ्यर्हितत्वप्रतिपादनार्थम् । मनाव् अप्य् अतिथिबालादीनां भोजने परस्परं पौर्वापर्यम् अविवक्षितम् । किं तु दम्पत्योस् तच्छेषभोजनम् अभिमतम् ।

अदत्वा तु य एतेभ्यः पूर्वं भुङ्क्ते ऽविचक्षणः ।

इत्य् एकवाक्यतयैतेषु भुक्तवत्सु स्वयं भुञ्जीतेत्य् अत्र तात्पर्यम् ।

बौधायनः [२.१३.५] ।

अग्रे भोजयेद् अतिथीन् अन्तर्वत्नीर् अनन्तरम् ।

बालान् वृद्धांस् तथा दीनान् व्याधितांश् च विशेषतः ॥

“दीनाः” दुःखिताः ।

यमः

विद्वान् अग्निपरो नित्यम् अर्चयेत् पितृदेवताः ।

गुरून् अतिथिबालांश् च तर्पयेत् पूर्वम् एव तु ॥

आत्मानं तर्पयेत् पश्चान् नियतो वाग्यतः शुचिः ।

[२१३] स्त्रीशूद्रं तर्पयेत् पश्चाद् एष धमः सनातनः ॥

“गुरवः” पित्रादयः ।

भोजयेद् इत्य् अनुवृत्तौ वसिष्ठः [११.५–९] ।

    स्वगृह्यानां कुमारीबालवृद्धतरुणप्रजातास् ततो ऽपरान् गृह्यान् । श्वचाण्डाल-पतितवायसेभ्यो भूमौ बलिं निर्वपेत् । शूद्रायोच्छिष्टम् अनुच्छिष्टं वा दद्यात् । शेषं दम्पती भुञ्जीयाताम् । सर्वोपयोगे तु पुनः काकः कार्यः ।

“तरुणप्रजाताः” नवप्रसूता नार्यः । “गृह्याः” गृहभवाः परिचारका इति यावत् । अयं चोच्छिष्टानुच्छिष्टदानविकल्प आश्रितानाश्रितशूद्रविषयः सदसच्छूद्रविषयो वा । “सर्वोपयोगे” सर्वस्यान्नस्यातिथिभोजने कृते यदान्यत् प्रयोजनम् अस्ति तदा तदर्थं “पुनः पाकः” कर्तव्यः । न पुनर् वैश्वदेवादि कार्यम् ।

मनुः [३.११६–११८] ।

भुक्तवत्सु च विप्रेषु स्वेषु भृत्येषु चैव हि ।

भुञ्जीयातां ततः पश्चाद् अवशिष्टं तु दम्पती ॥

देवान् ऋषीन् मनुष्यांश् च पितॄन् गृह्याश् च देवताः ।

पूजयित्वा ततः पश्चाद् गृहस्थः शेषभुग् भवेत् ॥

[२१४] अघं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात् ।

यज्ञशिष्टाशनं ह्य् एव सताम् अन्नं विधीयते ॥

ऋषिपूजा ब्रह्मयज्ञेन ।

तथा [३.२८५] ।

विधसाशी भवेन् नित्यं चामृतभोजनः ।

विघसो भृत्यशेषं तु यज्ञशेषम् अथामृतम् ॥

“भृत्यः” अवश्यपोषणीयः ।

बौधायनः [२.१३.७] ।

देवतातिथिभृत्यानां मातापित्रोस् तथा गुरोः ।

मौनी विघसम् अश्नीयाद् एवं धर्मो न हीयते ॥

यमः

अमृताशी भवेन् नित्यं विघसाशी तु वा पुनः ।

अमृतं यज्ञशेषं तु हविष्यं भोजनं स्मृतम् ।

भृत्यशेषं तु यो ऽश्नीयात् तम् आहुर् विघसाशिनम् ॥

देवलः

स्नात्वा प्रक्षाल्य पादौ च स्रग्गन्धालङ्कृतो शुचिः ।

पञ्चयज्ञावशिष्टं च यो भुङ्क्ते सो ऽमृताशनः ॥

[२१५] हारीतः

    हुतं निवाप्याहुतप्रहुत्प्राशितावशिष्टम् अमृतं प्राहुर् यम् अश्नुवन्तो गृहस्थवानप्रस्थाद् एव सायुज्यम् आप्नुवन्ति ।

यम-पैठीनसी

नात्मार्थं पाचयेद् अन्नं नात्मार्थं पाचयेत् पशून् ।

देवार्थे ब्राह्मणार्थे वा पचमानो न लिप्यते ॥

यमः

अघं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात् ।

इन्द्रियप्रीतिजननं वृथापाकं विवर्जयेत् ॥

शङ्खलिखितौ

देवान् भृत्यातिथींश् चैव पितॄन् आत्मानम् एव च ।

प्रकृतान् नावमन्येत तेषां शिष्टं समश्नुयात् ॥

मार्कण्डेयपुराणे [२९.३९–४०] ।

कुटुम्बिनो भोजनीयाः स्वसमं विभवे सति ।

श्रीमन्तं ज्ञातिम् आसाद्य यो ज्ञातिर् अवसीदति ॥

सीदता यत् कृतं तेन तत् पापं स समश्नुते ।

“स्वसमम्” आत्मभोज्यतुल्यभोज्यं तान् अपि भोजयेद् इत्य् अर्थः ।

[२१६] भविष्यपुराणे

अकृत्वा वैश्वदेवं तु ये भुञ्जन्त्य् अबुधाः खग ।

तथा विना तु साक्ष्येण मृगयोनिं व्रजन्ति ते ॥

बौधायनः [२.५.१७–१८] ।

    न चैव क्वचिद् अदत्वा भुञ्जीत । अथाप्य् अत्र्**आन्नगीतौ** श्लोकाव् उदाहरन्ति ।


    	यो माम् अदत्वा पितृदेवताभ्यो


    		भृत्यातिथीनां स्वसुहृज्जनस्य ।


    	सम्पन्नम् अश्नन् विषम् अत्ति मोहात्


    		तम् अद्म्य् अहं तस्य च मृत्युर् अस्मि ॥


    	हुताग्निहोत्रः कृतवैश्वदेवो


    		भुक्तातिथिर् भृत्यनावशिष्टम् ।


    	तुष्टः शुचिः श्रद्दधद् अत्ति यो मां


    		तस्यामृतं स्यां स च मां भुनक्ति ॥ इति ।

[२१७] दक्षः [२.६१–६२] ।

गृहस्थो ऽपि क्रियायुक्तो न गृहेण गृही भवेत् ।

न चैव पुत्रदारेण स्वकर्मपरिवर्जितः ॥

अस्नात्वा चाप्य् अहुत्वा चाप्य् अदत्वा ये तु भुञ्जते ।

देवादीनाम् ऋणी भूत्वा नरकं ते व्रजन्त्य् अधः ॥

तथा [२.६५–६६]

एको हि भुङ्क्ते ह्य् अशनम् अपरो ऽन्नेन भुज्यते ।

न भुज्यते स एवैको यो भुङ्क्ते च ससाक्षिकम् ॥

सम्विभागं ततः कृत्वा गृहस्थः शेषभुग् भवेत् ।

“साक्षिणः” अतिथिभृत्यादयः ।

यम-शातातपौ

अदत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः ।

वृथा तेनान्नपाकेन काकयोनिं व्रजन्ति ते ॥

आपस्तम्बः [२.१५.१३] ।

यस्याग्नौ न क्रियते यस्य चाग्रं न दीयते न तद् भोक्तव्यम् ।

“यस्य” अन्नस्य ।

जाबालिः

अस्नाताशी मलं भुङ्क्ते अजपी पूयशोणितम् ।

[२१८] अहुत्वा तु कृमीन् भुङ्क्ते अदत्वा विषभोजनम् ॥

याज्ञवल्क्यः [१.१२१] ।

भार्यारतिः शुचिर् भृत्यभर्ता श्राद्धक्रियारतः ।

नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेत् ॥

**पराशरः **[१.३८] ।

षट्कर्माभिरतो नित्यं देवतातिथिपूजकः ।

हुतशेषं तु भुञ्जानो ब्राह्मणो नावसीदति ॥

षट्कर्माणि यजनादीनि वक्ष्यमाणानि ।

इति भट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भ्ट्टश्रीमल्लक्ष्मीधरेण विरचिते कृत्यकल्पतरौ

नियतकालकाण्डे ऽतिथिपूजा ॥

[२१९]

अथ भोजनविधिः

तत्र दक्षः [२.५६, ६७] ।

पञ्चमे च तथा भागे संविभागो यथार्हतः ।

देवपितृमनुष्याणां कीटानां चोपदिश्यते ॥

संविभागं ततः कृत्वा गृहस्थः शेषभुग् भवेत् ।

“संविभागः” संविभज्य प्रतिपादनम् ।

देवलः

स्नात्वा प्रक्षाल्य पादौ च स्रग्गन्धालङ्कृतः शुचिः ।

पञ्चयज्ञावशिष्टं तु भुङ्क्ते यः सो ऽमृताशनः ॥

उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वाग्यतः ।

प्राङ्मुखो ऽन्नानि भुञ्जीत शुचिः पीठम् अधिष्ठितः ॥

[२२०] बौधायनः [२.५.२१; २.६.१–२] ।

    सुप्रक्षालितपाणिपादो ऽप आचम्य शुचौ संवृते देशे ऽन्न्म् उपहृतम् उपसङ्गृह्य कामक्रोधद्रोहलोभमोहान् अपहत्य सर्वाभिर् अङ्गुलीभिः शब्दम् अकुर्वन् प्राश्नीयात् । न पिण्डशेषं पात्र्याम् उत्सृजेत् । मांसमत्स्यतिल-मधुसंसृष्टं प्राश्याप उपस्पृश्याग्निम् अभिस्पृशेत् ।

“संवृते” वस्त्रादिना परिवेष्टिते, उपविश्येति शेषः । “उपहृतम्” उपनीतम् । “उपसङ्गृह्य” समीपस्थे पात्रे प्रीतिपूर्वकं सम्यग् गृहीत्वा । “शब्दम् अकुर्वन्” भक्षणे क्रियमाणे सीत्कारादिध्वनिम् अकुर्वन् । “पिण्डशेषम्” अशितुं गृहीतस्य शेषम् ।

ब्रह्मपुराणे

विशेद् भोजनभूमिं तु सुप्रक्षालितपाणिमान् ।

आसनस्थस् तु यो दर्पात् पङ्क्तिमध्य उपस्पृशेत् ॥

स सर्वेषां तु यत् पापं तद् गृह्णाति नराधमः ।

[२२१] तस्माद् बलिर् उपस्पृश्य स्वाचान्तः प्रविशेद् गृहम् ॥

उपलिप्ते समे स्थाने शुचौ श्लक्ष्णासनान्विते ।

चतुरस्रं त्रिकोणं तु वर्तुलं चार्धचन्द्रकम् ॥

कर्तव्यम् आनुपूर्व्येण ब्राह्मणादिषु मण्डलम् ।

ब्रह्मरुद्रेन्द्रचन्द्रार्का वसवो मण्डलान्तरात् ॥

निवेदितं नरैर् अन्नं यस्माद् गृह्णन्ति नान्यथा ।

अकृत्वा मण्डलं ये तु भुञ्जते ऽधमयोनयः ॥

तेषां तु यक्षरक्षांसि हरन्त्य् अन्नस्य तद्बलम् ॥

मनुः [२.५२] ।

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।

श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्य् उदङ्मुखः ॥

“आयुष्यम्” आयुषे हितम् । “यशस्यम्” यशसे हितम् । “श्रियम्” “ऋतम्” इत्य् अत्रोभयत्र कामयमान इत्य् अध्याहारेण परिसमाप्तिः । “ऋतम्” सत्यं यज्ञं वा ।

हारीतः

    प्राङ्मुख आयुःकामो ऽश्नीयात् । यशोऽर्थी दक्षिणामुखः । श्रीकामः प्रत्यङ्मुखः । नोदङ्मुखः । नाधिशयने **[२२२]** नासने वाश्नीयात् । न कार्ष्णायासे । न मृत्पात्रे । न भिन्नावकीर्णे ।

“अधिशयने” उपरिशयने खट्वादौ । “आसने” पीठादौ, अन्नपात्रं निधायेति शेषः । “कार्ष्णाय्से” लोहपात्रे । “मृत्पात्रे” शरावादौ । “भिन्ने” स्फुटिते । “अवकीर्णे” दुर्ब्राह्मणादिभोजनादिनापवित्रीकृते ।

वामनपुराणे

भुञ्जीत नैवेह च दक्षिणामुखो

	न च प्रतीचीम् अभिभोजनीयम् ।

अयं च प्रत्यङ्मुखोदङ्मुखनिषेधो निष्कामविषयः । सकामस्य,

श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्य् उदङ्मुखः ।

इति मुखद्वयभोजनस्य विधानात् । दक्षिणामुखभोजननिषेधो जीवन्मातृकविषयः ।

तथा च पुष्टिकामाधिकारे आपस्तम्बः [२.१९.१–२] ।

    वाग्यतो दक्षिणामुखो भुञ्जीत । अनायुष्यं त्व् एवम्मुखस्य भोजनं मातुर् उपदिशन्ति । इति ।

[२२३] विष्णुपुराणे [३.११.७९–८०] ।

नैकवस्त्रधरो नार्द्रपाणिपादो नरेश्वर ।

विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः ॥

प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः ।

“विदिङ्मुखः” नाग्नेयादिकोणाभिमुखः । “प्राङ्मुखो उदङ्मुखो वा” इत्य् अत्र भुञ्जीतेत्य् अन्वयः ।

यमः

प्राङ्मुखो ऽन्नानि भुञ्जीत पञ्चार्द्रो वाग्यतः शुचिः ।

भुञ्जीत ह्य् आर्द्रपादस् तु नार्द्रपादः स्वपेन् निशि ॥

आर्द्रपादस् तु भुञ्जानः शतवर्षाणि जीवति ।

“पञ्चार्द्रः” करचरणवदनार्द्रः । “पञ्चार्द्रः” इत्य् अभिधाय “आर्द्रपादः” इति पुनर् अभिधानम् आर्द्रपादताया आदरातिशयार्थम् ।

विष्णुपुराणे

स्नातो यथावत् कृत्वा च देवर्षिपितृतर्पणम् ।

प्रशस्तरत्नपाणिस् तु भुञ्जीत प्रयतो गृही ॥

कृतवापो हुते चाग्नौ शुद्धवस्त्रधरो नृप ।

“प्रशस्तरत्नानि” गारुडादीनि । “कृतवापः” देवाद्यर्थे कृतनिर्वापः ।

[२२४] मनुः

सायम्प्रातर् मनुष्याणाम् अशनं देवनिर्मितम् ।

नान्तरा भोजनं कार्यम् अग्निहोत्रसमो विधिः ॥

सायम्प्रातःशब्दाव् अत्र रात्रिदिवसपरौ ।

तथा च छन्दोगपरिशिष्टे कात्यायनः [२.३३] ।

मुनिभिर् द्विरशनम् उक्तं

	विप्राणां मर्त्यलोकवासिनां नित्यम् ।

अहनि च तथा तमस्विन्यां

	सार्धप्रहरयामान्तः ॥

अत्राप्य् अहःशब्दो दक्षानुसारात् पञ्चमाहर्भागपरः । “तमस्विनी” रात्रिः । “सर्धप्रहरयामान्तः” सार्धप्रथमप्रहरमध्ये ।

ब्रह्मपुराणे

पात्रेष्व् अर्थानुरूपेषु पुत्रभृत्यात्मजैः सह ।

भूमौ पात्रं प्रतिष्ठाप्य मौनेनान्नं तु भोजयेत् ॥

पवित्रपाणिः पुण्यं च लभेत् तत्राघमर्षणम् ।

“अर्थानुरूपेषु” स्वविभवानुसारेण सौवर्णराजतादिषु । “अघमर्षणम्” अघमर्षणजन्यं पुण्यम् ।

[२२५] मनुः [२.५४–५५] ।

पूजयेद् अशनं नित्यम् अद्याच् चैतद् अकुत्सयन् ।

दृष्ट्वा हृष्येत् प्रसीदेच् चाप्य् अभिनन्देच् च सर्वशः ॥

पूजितं ह्य् अशनं नित्यं बलम् ऊर्जं च यच्छति ।

अपूजितं तु तद् भुक्तम् उभयं नाशयेद् इदम् ॥

ब्रह्मपुराणे

अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः कथयेत् ततः ।

अस्माकं नित्यम् अस्त्व् एतद् इति भक्त्या च वन्दयेत् ॥

अन्नं विष्णुं स्वयं प्राह नित्यम् एव जनार्दनः ।

यो मां ददाति प्राणाय भुञ्जानः शास्त्रविद् द्विजः ॥

प्राणार्थं मां सदा ध्यायेत् स मां सम्पूजयेत् सदा ।

वामेन पाणिना पात्रं गृहीत्वा भुवि संस्थितम् ॥

तेजो ऽसीति जपंस् त्व् अन्नं प्रणमेद् अमृतं च तत् ।

मार्कण्डेयपुराणे [३४.२८] ।

उपघाताद् ऋते दोषं नान्नस्योदीरयेद् बुधः ।

[२२६] उपघातः श्वकाकादिस्पर्शः ।

वृद्धशातातपः

परिधानम् अपोशानं पूर्वम् आच्छादनं परम् ।

भवत्य् अन्नम् अनग्नं हि सोत्तरीयं तथामृतम् ॥

पूर्वं यद् “अपोशनं” तत् “परिधानम्”, परम् “अपोशानम्” “आच्छादनम्” ।

याज्ञवल्क्यः [१.१०६] ।

अपोशानेनोपरिष्टाद् अधस्ताद् अश्नता तथा ।

अनग्नम् अमृतं चैव कार्यम् अन्नं द्विजन्मना ॥

ब्रह्मपुराणे

अपोशानं च गृह्णीयात् सर्वतीर्थमयं च तत् ।

अमृतोपस्तरणम् असीति विष्णोर् अन्नमयस्य च ॥

हस्तेन लङ्घयेन् नान्नं सोदकेन कदाचन् ।

दम्भाद्यो लङ्घयेद् भुञ्जंस् तेनान्नं निहितं भवेत् ॥

हतं चान्नम् अभक्ष्यत्वं तस्य यानि दुरात्मनः ।

पञ्चग्रासांस् तु भुक्त्वादौ क्वचिद् वेश्मनि सङ्कटे ॥

**[२२७] ** पात्रम् उद्धृत्य शेषं तु भक्षयेत् साङ्कराद् भयात् ।

पित्र्ये कर्मणि भुञ्जानो भूमौ पात्रं न चालयेत् ॥

तथा

प्राणेभ्यस् त्व् अथ पञ्चभ्यः स्वाहाप्रणवसंयुताः ।

पञ्चाहुतीस् तु जुहुयात् प्रलयाग्निनिभेषु च ॥

विष्णुपुराणे [३.११.८९] ।

पञ्चग्रासान् महामौनं प्राणाद्याप्यायनाय तत् ।

महामौनग्रहणात् सर्वथा ध्वनिनिवृत्तिर् अभिमताह् ।

ब्रह्मपुराणे

प्राणे तृप्ते तु तृप्यन्ते नित्यं स्वर्गार्कचक्षुषः ।

व्याने तृप्ते तु तृप्यन्ते श्रोत्रे त्वक्ककुभस् तथा ॥

अपाने तृप्ते तृप्यन्ते वह्निवाग्भूमयः सदा ।

समाने तृप्ते तृप्यन्ते मनःपर्जन्यविद्युतः ॥

उदाने तृप्ते तृप्यन्ते वाय्वाकाशौ च सर्वदा ।

तृप्तेष्व् एतेषु तृप्तं स्याज् जगत् सदसदात्मकम् ॥

प्रजाढ्यो ब्रह्मचारी स्यात् पश्वन्नैर् वर्धते च सः ।

प्राणाग्निहोत्रविद् विप्रो दाता च स्यात् समृद्धिमान् ॥

तथा

भुक्त्वामृतापिधानार्थं पिबेत् तोयं सकृत् सकृत् ।

[२२८] येनान्नं न भवेन् नग्नं जीवभूतं जगत्त्रये ॥

एवं भुञ्जन् सदा विप्रो ज्ञातिप्राधान्यम् आप्नुयात् ।

शङ्खलिखितौ

श्रुतिस्मृतिसमापन्नं देवद्रव्यगुणान्वितम् ।

देवतोयैर् यथाकॢप्तं प्रोक्षितं शिष्टभोजनम् ॥

“श्रुतिस्मृतिसमापन्नम्” श्रुतिस्मृतिभ्याम् अवगतम् । “देवद्रव्यगुणान्वितम्” यज्ञियम् । “देवतोयैर् यथाकॢप्तम्” येन प्रकारेण कॢप्तं तत्प्रकारम् एव भोजनम् ।

**हारीतः **।

    अथ ब्राह्मणानां भोजनविधिं प्रवक्ष्याम्य् अहम् । स्नातो ऽहतवासाः पवित्रात्मा प्राङ्मुख आसीनः पाणी प्रक्षाल्य दशहोतारं निगद्येन्द्रं गच्छ स्वाहेति ध्यायेद् अव्यक्तं पुरुषम् । ॐ तेजो ऽसीत्य् अन्नाद्यम् आह्रियमाणम् अभिमन्त्रयेत् । द्यौस् त्वा ददात्व् इति दीयमानम् । भूस् त्वा प्रतिगृह्णात्व् इति प्रतिगृह्य ।


    	अग्निर् अस्मि जन्मना जातवेदा


    		घृतं मे चक्षुर् अमृतं म आसन् ।


    **[२२९]** अर्कस् त्रिधातू रजसो विमानो


    		ऽजस्रो घर्मो हविर् अस्मि नाम ॥


    	अहम् अस्मि प्रथमजा ऋतस्य


    		पूर्वं देवेभ्यो अमृतस्य नाभिः ।


    	यो मा ददाति स इ देवम् आवाः


    		अहम् अन्नम् अन्नम् अदन्तम् अद्मि ॥”


    इत्य् अन्नम् अभिमन्त्रयेत् ।


    	“अन्तश् चरसि भूतेषु गुहायां विश्वतोमुखः ।


    	त्वं यज्ञस् त्वं वषट्कारस् त्वं विष्णोः परमं पदम् ॥


    	आपो ज्योती रसो ऽमृतं ब्रह्म भूर् बुवः स्वर् ॐ ।”


    अमृतोपस्तरणम् असीत्य् अपः प्राश्य प्राणाय स्वाहेत्य् एकैकयाहुत्या सर्वान् प्राणान् प्रीणाति । समस्ता निगिरेत् । अथ **मैत्रायणेर्** मतम् । आयुषे स्वाहेति दशैताः प्राणाहुतीर् **[२३०]** आयुष्कामो भुञ्जीतेत्य् एवं ह्य् आह । यथाकामं समश्नुते । अन्तश् चरसीत्य् अभिधायेदम् अमृतयोनौ सत्ये ज्योतिषि परमात्मनि जुहोमि स्वाहेति प्रीणात्य् आत्मानम् । तेन प्राणान् आप्यायस्वेति हृदयदेशम् आलभ्य जपति । प्राणानां ग्रन्थिर् असीति प्राणदेशम् । विष्णोर् जठरम् असीति नाभिदेशम् । “यो देवानाम् असि श्रेष्ठ उग्र तन्ति चरो वृषामृतत्वम् अस्मभ्यं रुद्रैतद् अस्तु हुतं तव स्वाहा” इति पुनर् अपि हृदयदेशम् आलभ्य जपति । सावित्रीं चानुभाष्य त्रिर् अपो वसाना बहूनां रसभुक् समस्तान्नपाककर्मेष्टिः प्रीयतां विश्वभुग् इति ध्यायेद् अव्यक्तं अव्यक्तं पुरुषम् । मूत्रपुरीषे रथ्याम् आक्रम्य श्मशानं वाचान्तः पुनर् आचामेत् । एवं यो ब्राह्मणो भुङ्क्ते सः पुण्यतमो भवति । पङ्क्तिपावनो भवति । उभयतः **[२३१]** पक्षाणि तर्पयति । देवांश् च तर्पयति । पितॄंश् च तर्पयति । मनुष्यांश् च तर्पयति । अभोज्यस्यान्नं पुनाति । ब्रह्मणः सायुज्यं गच्छतीत्य् एवं ह्य् आहेति ।

“दशहोता” “चित्तिः स्रुक् चित्तम् आज्यम्” इत्यादिको मन्त्रः । “इन्द्रं गच्छ स्वाहा” इति मन्त्रान्तेन “चित्तिः स्रुक्” इत्यादि दशहोतृमन्त्रप्रदर्शनम्, एवं मन्त्रम् उच्चार्य । “अव्यक्तं पुरुषम्” जगत्कारणम् । “प्राणान्” इति प्राणापानव्यानोदानसमानानां ग्रहणम् । आहितिग्रहणम् अनामिकाङ्गुष्ठमात्रग्राह्यान्नग्रहणार्थम् । तथा छन्दोगोपनिषदि वाक्यकारः: “समां प्रथमाहुतिम् इत्य् आहुतिधर्मप्रज्ञप्तिः स्तोकेन गृहीतैः” इति । एतच् च **वृद्धद्रविडविवरणकारेण **व्याख्यातम् । “स्तोकता निर्दिश्यते, अनामिकाङ्गुष्ठेन च यावद् गृह्यते तावत् । कुतस् तद्गृहीतैः । तथा ह्य् आहुतिर् गृह्यमाणा दृश्यते” इति जयस्वामी । क्षिप्ताम् आहुतिं “निगिरेत्” न दन्तभिन्नां कुर्यात् । अपरा दशाहुतयः “आयुषे स्वाहा” इत्यादयः काम्याः । “यथाकामम्” इत्य् अनेनैतद् उक्तम् । शेषाहुतिषु निगरणे नियमो नास्ति । “अन्तश् चरसीत्य् अभिप्रायः” “अन्तश् [२३२] चरस्ति” इत्यादिना “अमृतापिधानम् असि” इत्य् ऊहितान्तेनाभिधाय, जुहोत्य् अप इति शेषः । “सावित्रीं” “त्रिः” उच्चार्य “अपो वसाना” इत्यादिमन्त्रेण “अव्यक्तं पुरुषं ध्यायेत्” । एवम्भूतेतिकर्तव्यताकभोजने वैश्वानरविद्याविदो ऽधिकारः । अयं चार्थः पुण्यतम्मेत्याद्यन्ते ऽन्नम् इत्य् अनुवादेन सूचितः ।

बौधायनः [२.१२.१–४, ७–१६; २.१३.१–४] ।

    अथ शालीनयायावराणाम् आत्मयाजिनां प्राणाहुतीर् व्याख्यास्यामः । सर्वावश्यकावसाने सम्मृष्टोपलिप्ते देशे प्राङ्मुख उप्विश्योद्धृतम् आह्रियमाणं भूर् भुवः सुवर् ॐ इत्य् उपस्थाय वाचं यच्छेत् । न्यस्तं महाव्याहृतिभिः प्रदक्षिणम् अन्नम् उदकं प्रैषिच्य सव्येन पाणिनाविमुञ्चन्न् अमृतोपस्तरणम् असीति पुरस्ताद् अपः पीत्वा पञ्चान्नेन प्राणाहुतीर् जुहोति । **[२३३]** “प्राणे निविष्टो ऽमृतं जुहोमि शिवो माविशाप्रदाहाय प्राणाय स्वाहा । अपाने निविष्टो ऽमृतं जुहोमि शिवो माविशाप्रदाहायापानाय स्वाहा । व्याने निविष्टो ऽमृतं जुहोमि शिवो माविशाप्रदाहाय व्यानाय स्वाहा । उदाने निविष्तो ऽमृतं जुहोमि शिवो माविशाप्रदाहायोदानाय स्वाहा । समाने निविष्टो ऽमृतं जुहोमि शिवो माविशाप्रदाहाय समानाय स्वाहा ।” इति पञ्चान्नेन प्राणाहुतीर् हुत्वा तूष्णीम्भूतो भूयो व्रतयेत् प्रजापतिं मनसा ध्यायन् । अथाप्य् उदाहरन्ति ।


    	आसीनः प्राङ्मुखो ऽश्नीयाद् वाग्यतो ऽन्नम् अकुत्सयन् ।


    	अस्कन्दयंस् तन्मनाश् च भुक्त्वा चाग्निम् उपस्पृशेत् ॥ इति ।


    सर्वभक्ष्यापूपकन्दमूलफलमांसादीनि दन्तैर् नावद्येत् । **[२३४]** नातिसुहितः । अमृतापिधानम् असीत्य् उपरिष्टाद् अपः पीत्वाचान्तो हृदयदेशम् अभिमृशति “प्राणानां ग्रन्थिर् असि रुद्रो मा विशान्तकस् तेनान्नेनाप्यायस्व” इति । पुनर् आचम्य दक्षिणे पादाङ्गुष्ठे पाणी निःस्रावयति –


    	अङ्गुष्ठमात्रः पुरुषो अङ्गुष्ठं च समाश्रितः ।


    	ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् ॥ इति ।


    हुतानुमन्त्रणम् ऊर्ध्वहस्तश् च समाचरेत् । “श्रद्धायां प्राणे निविश्यामृतं हुतं शिवो माविश । प्राणम् अन्नेनाप्यायस्व । श्रद्धायाम् अपाने निविश्यामृतं हुतं शिवो माविश । अपानम् अन्नेनाप्यायस्व । श्रद्धायां व्याने निविष्यामृतं हुतं शिवो माविश । व्यानम् अन्नेनाप्यायस्व । श्रद्धायाम् उदाने निविश्यामृतं हुतं शिवो माविश । उदानम् अन्नेनाप्यायस्व । श्रद्धायां समाने निविश्यामृतं हुतं शिवो माविश । समानम् अन्नेनाप्यायस्व ।” इति पञ्चभिः । **[२३५]** “ब्रह्मणि म आत्मामृतत्वाय” इत्य् अक्षरेण चात्मानं योजयेत् । सर्वक्रतुयाजिनाम् आत्मयाजी विशिष्यते । अथाप्य् उदाहरन्ति ।


    	यथा हि तूलम् ऐषीकम् अग्नौ प्रोतं प्रदीप्यते ।


    	तद्वत् सर्वाणि पापानि दह्यन्ते ह्य् आत्मयाजिनः ॥


    केवलाघो भवन्ति केवलादी । मोघम् अन्नं विन्दत इति । स एवम् एव वाहर् अहः सायम्प्रातर् जुहुयात् । अद्भिर् वा सायम् ।

“शालीनाः” शालानिवासशीलाः । “यायावराश्” च सर्वदाटनशीलाः साग्नयो गृहस्थविशेषाः । “आत्मयाजी” यो ऽग्निम् एव ससाधनं परमात्मबुध्या उपासते । “आवश्यकम्” स्नानादिपञ्चयज्ञान्तरम् । “संसृटं” सम्मार्जन्यादिना शोधितम् । “उपलिप्ते” गोमयोदकाभ्याम् । “उद्धृतम्” अन्नम् इति शेषः । [२३६] “उपस्थानम्” तत्सम्मुखत्वेन नम्रीभावः । “न्यस्तम्” पात्रे निहितम् । “प्रदक्षिणम् अन्नम् उदकम्” इति, तस्यायम् अर्थः — उदकं गृहीत्वा सर्वतोदिक्कं प्रदक्षिणम् उदकेन सेचनम् अन्नस्य तत्र कुर्याद् इति । “पञ्च प्राणाहुतीः” इत्य् अन्वयः । “वाचं यच्छेद्” इत्य् अभिधाय पुनस् तूष्णीङ्ग्रहणं वागयमस्य पञ्चाहुतिमात्रविषयता-निवारणार्थम् । “अस्कन्दयन्” अन्नम् अविकिरन् । एतेषां शालीनादीनां तिलादिसंसृष्टान्नभक्षणं विनापि भोजनान्ते ऽग्नेर् उपस्पर्शनं नित्यवद् अङ्गम् इत्य् उक्तम् “अग्निम् उपस्पृशेद्” इति । “कन्दानि” सूरणादीनि । “मूलानि” मूलकादीनि । सर्वभक्ष्यग्रहणाद् एवापूपादिप्राप्तेस् तद्ग्रहणं दोषातिशयार्थम् । “दन्तैर् नावद्येत्” दन्तैः खण्डयित्वा शेषा न पुनर् भक्षणीया इत्य् अर्थः । “पञ्चभिः” उक्तमन्त्रैर् इति शेषः । “ब्रह्मणि म आत्मामृतत्वाय” इत्य् अनेन मन्त्रेण “अक्षरेण” परब्रह्मणा “आत्मानं” जीवं “योजयेद्” एकतया चिन्तयेद् इत्य् अर्थः । “अद्भिर् वा सायम्” इति, सायम्भोजनासम्भवे ऽद्भिर् एव प्राणाहुत्यादिकं सर्वं सम्पादनीयम् ।

आपस्तम्बः [२.१.१–३] ।

    पाणिग्रहणाद् अधि गृहमेधिनोर् व्रतम् । कालयोर् भोजनम् । अतृप्तिश् चान्नस्य ।

“पाणिग्रहणाद् अधि” विवाहाद् ऊर्ध्वम् । “गृहमेधिनोः” [२३७] गृहस्थयोर् दम्पत्योः । “कालयोः” सायम्प्रातःकालयोः “भोजनम्” । “अन्नस्य” अन्नेनेत्य् अर्थः । सुहितार्थयोगे षष्ठी ।

गौतमः [९.५९] ।

सायं प्रातस् त्व् अन्नम् अभिपूजितम् अनिन्दन् भुञ्जीत ।

बौधायनः [२.१३.१०–१४] ।

	गृहस्थो ब्रह्मचारी वा यो ऽनश्नंस् तु तपश् चरेत् ।

	प्राणाग्निहोत्रलोपेन ह्य् अवकीर्णी भवेत् तु सः ॥


    अन्यत्र प्रायश्चित्तात् प्रायश्चित्ते तद् एव विधानम् । अथाप्य् उदाहरन्ति ।


    	अन्तरा प्रातराशं च सायमाशं तथैव च ।


    	सदोपवासी भवति यो न भुङ्क्ते कदाचन ॥


    	प्राणाग्निहोत्रमन्त्रांस् तु निरुद्धे भोजने जपेत् ।


    	त्रेताग्निहोत्रमन्त्रान् वै द्रव्यालाभे यथा जपेत् ॥ इति ।


    स एवम् एवाचरंस् तु ब्रह्मभूयाय कल्पते ।

“गृहस्थः” अत्राहिताग्निः । “अनश्नन्” उपवासं कुर्वन् । “अवकीर्णी” अवकीर्णिविहितप्रायश्चित्तार्हः । “अन्यत्र [२३८] प्रायश्चित्तात्” उपवासयुक्तात् प्रायश्चित्ताद् अन्यत्र । अत्रैव हेतुः — “प्रायश्चित्ते तद् एव विधानम्” अनशनम् एव विशेषविहितम् । अनेनेदम् उक्तं भवति — यत्राहिताग्न्युद्देशेन विशेषविहित उपवासविधिस् तत्रैवोपवासकर्मणि तस्याधिकारो नान्यत्रेति । एवं ब्रह्मचारिणो ऽपि । “अन्तरा प्रातराशम्” इत्यादि — “अन्तरा” मध्ये अशनम् “आशो” भोजनम् । “उपवासी” उपवासफलभाक् । निरुद्धे भोजनार्हत्वे सत्य् अन्नाद्यसम्भवाद् एव भोजननिवृत्तौ । त्रयो ऽग्नयः “त्रेता” गार्हपत्यादयः । “द्रव्यालाभे” अग्निहोत्रहवनीयद्रव्यालाभे ।

पुष्टिकामाधिकारे आपस्तम्बः [२.१९.३–१२] ।

    औदुम्बरश् चमसः सुवर्णनाभः प्रशस्तः । न चान्येनापि भोक्तव्यम् । यावद्ग्रासं न सन्नयन्न् अस्कनद्यन् नापजिहीतापजिहीत वा कृत्स्नं ग्रासं ग्रसेत् सदाङ्गुष्ठम् । न च मुखशब्दं कुर्यात् । पाणिं च नावधुनुयात् । आचम्योर्ध्वौ पाणी धारयेद् आ प्रोदकीभावात् । ततो ऽग्निम् उपस्पृशेत् । दिवा च न भुञ्जीतान्यन् मूलफलेभ्यः । स्थालीपाकानुद्देश्यानि च वर्जयेत् । सोत्तराच्छादनश् चैव यज्ञोपवीती भुञ्जीत ।

“औदुम्बर्ः” ताम्रमयः । “न चान्येनापि” इत्यादिना तत्पुत्रेणापि तत्र पात्रे न भोक्तव्यम् इत्य् उक्तम् । “यावद्ग्रासम्” [२३९] यावद् ग्रसितुं शक्यम् इत्य् अर्थः । “नापजिहीत” सव्येन पाणिना पात्रं न विमुञ्चेत्, अथ वा “अपजिहीत” । अयं च पात्रधारणाधारणविकल्पः षोडशिग्रहणाग्रहणवद् व्यवस्थितः । यदि प्रथमं पात्रधारणपूर्वकं भोजनम् उपक्रान्तं तदा धारणम् एव । यदि प्रथमम् अधृत्वैव भोजनम् उपक्रान्तं तदाधारणम् एवेति कपर्दी । “प्रोदकीभावः” प्रचुरोदकसम्बन्धित्वम् । एतच् चाग्न्युपस्पर्शनं (?) तिलमांसादिसंसृष्टान्नभोजनविषयम् । “दिवा न भुञ्जीत” पुनर् इति शेषः । “स्थालीपाकः” पक्षादिचरुः । “अनुद्देश्यानि” देवपित्राद्युद्देशेनासङ्कल्पितानि । स्वयम् एव “यज्ञोपवीती” “सोत्तराछादनः” सोपरिवस्त्र एव “भुञ्जीत” । नोत्तरीयं वासोव्यतिरेकेण भोजनकाले सूत्रादिना कार्यम् इति कपर्दिभाष्यम्

वसिष्थः [१२.१५–१७] ।

    प्राङ्मुखो ऽन्नानि भुञ्जीत । तूष्णीं साङ्गुष्ठं कृत्स्नं ग्रासं ग्रसेत् । न च मुखशब्दं कुर्यात् ।

अन्नग्रहणात् ताम्बूलादौ प्राङ्मुखत्वादिनियमो नास्तीति सूचितम् । तूष्णीङ्ग्रहणेनैव मौने प्राप्ते पुनर् मुखशब्दनिषेधो भाषणव्य्तिरिक्तसीत्कारादिध्वनिनिवृत्त्यर्थः ।

[२४०] मनुः [४.६२] ।

न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यम् आचरेत् ।

नातिप्रगे नातिसायं न सायं प्रातराशितः ॥

“उद्धृतस्नेहम्” पिण्याकादि । “अतिप्रगे” अचिरोदित एव सूर्ये । “अतिसायं” सूर्यास्तमनसमीपे । “प्रातराशितः” प्रातस्तृप्तः “सायं” न भुञ्जीत ।

विष्णुः [६८.४८] ।

न तृतीयम् अथाश्नीयान् नापथ्यं च कदाचन ।

नातिप्रगे नातिसायं न सायं प्रातराशितः ॥

विष्णुपुराणे [३.११.८७] ।

अश्नीयात् तन्मना भूत्वा पूर्वं तु मधुरं रसम् ।

लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस् तथा ॥

प्राग्द्रवं पुरुषो ऽश्नीयान् मध्ये तु कठिनाशनः ।

अन्ते पुनर् द्रवाशी च बलारोग्ये न मुञ्चति ॥

ब्रह्मपुराणे

सर्वाङ्गुलीभिर् अश्नीयान् नावधूयेत् करं क्वचित् ।

कुर्यात् क्षीरान्न्नम् आहारं न च पश्चात् पिबेद् दधि ॥

[२४१] जठरं पूरयेद् अर्धम् अन्नैर् भागं जलेन च ।

वायोः सञ्चारणार्थाय चतुर्थम् अवशेषयेत् ॥

देवलः

न भुञ्जीताघृतं नित्यं गृहस्थो भोजनं स्वयम् ।

पवित्रम् अथ हृद्यं च सर्पिर् आहुर् अघापहम् ॥

मनुः [४.५५] ।

नाश्नीयात् सन्धिवेलायाम् ।

आपस्तम्बः [१.१७.६–८] ।

न नावि भुञ्जीत तथा प्रासादे कृतभूमौ च भुञ्जीत ।

“नावि” आसीन इति शेषः । “प्रासादे” प्रासादस्थोपरीत्य् अर्थः । “कृतभूमौ” मृत्तिकाप्रक्षेपेण सम्पादितभूमौ ।

ब्रह्मपुराणे

यस् तु पाणितले भुङ्क्ते यस् तु फूत्कारसंयुतम् ।

प्रसृताङ्गुलिभिर् यश् च तस्य गोमांसवच् च तत् ॥

नाजीर्णे भोजनं कुर्यात् स्याच् च नातिबुभुक्षितः ।

हस्त्यश्वरथयानोष्ट्रप्रासादस्थो न भक्षयेत् ॥

[२४२] श्मशानान्तर्गतो वापि देवालयगतो ऽपि वा ।

शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥

न सन्ध्ययोर् न मध्याह्ने नार्धरात्रे कदाचन ।

नार्द्रवासा नार्द्रशिरा न चायज्ञोपवीतवान् ॥

न प्रसारितपादस् तु पादारोपितपाणिमान् ।

नावसक्थिकसंस्थश् च न च पर्यङ्किकास्थितः ॥

न वेष्टितशिराश् चापि नोत्सङ्गकृतभाजनः ।

नैकवस्त्रो दुष्टमध्ये सोपानत्कः सपादुकः ॥

न चर्मोपरिसंस्थश् च चर्मवेष्टितपार्श्ववान् ।

अन्नस्य जन्मकालुष्यं दुष्पङ्क्तिं च न कुत्सयेत् ॥

ग्रासशेषं तु नाश्नीयात् पीतशेषं पिबेन् न तु ।

शाकमूलफलेक्ष्वादि दन्तच्छेदैर् न भक्षयेत् ॥

सञ्चयेन् नान्नम् अन्नेन विक्षिप्तं पात्रसंस्थितम् ।

बहूनां भुञ्जतां मध्ये न चाश्नीयात् त्वरान्वितः ॥

वृथा न विकिरेद् अन्नं नोच्छिष्टः कुत्रचिद् व्रजेत् ।

न स्पृशेत् स्वशिरो विप्रः सोच्छिष्टेनैव पाणिना ॥

तिलकल्कं जलं क्षीरं दधिक्षौद्रघृतानि तु ।

न त्यजेद् अर्धजग्धानि सक्तॄंश् चाथ कदाचन ॥

“प्रसृताङ्गुलिभिः” असङ्कुचिताभिर् अङ्गुलीभिः । “स्याच् च नातिबुभुक्षितः” अतिशयेन बुभुक्षयात्मानं न [२४३] पीडयेद् इत्य् अर्थः । “यानं” दोलादि । “पर्यङ्किका” मञ्चिका । “दुष्टाः पतितादयः । “चर्मवेष्टितपार्श्ववान्” कृतसन्नाहादिः । “जन्मकालुष्यं दुष्पङ्क्तिं च न कुत्सयेत्” “जन्मकुत्सनं” निन्दितदेशोत्पत्त्या, “कालुष्यं” मलिनत्वम्, “दुष्पङ्क्तिकः” निन्दितपाकः । “पीतशेषं” पानपात्रावशिष्टम् एव । “दन्तच्छेदैः” दन्तैश् छित्वा । “अन्नेन” अपूपादिना पात्रे विकीर्णम् अन्नं न राशीकुर्याद् इत्य् अर्थः । “उच्छिष्टेन पाणिना” उच्छिष्टान्नलिप्तेन पाणिना, “स्वशिरो न स्पृशेत्” इत्य् अर्थः । “अर्धजग्धानि” किञ्चिद्भुक्तानि ।

महाभारते

पानीयं पायसं सर्पिर् मधुशेषं ददीत्य् अपि ।

निरस्यं शेषम् एतेषां न प्रदेयं तु कस्यचित् ॥

“निरस्यम्” अत्याज्यम् ।

ब्रह्मपुराणे

अप्य् एकपङ्क्त्यां नाश्नीयात् संयुतः स्वजनैर् अपि।

को हि जानाति किं कस्य प्रच्छन्नं पातकं भवेत् ॥

भस्मस्तम्भजलद्वारमार्गैः पङ्क्तिं च भेदयेत् ।

विष्णुपुराणे [३.११.८३, ८६] ।

न चासन्दीस्थिते पात्रे नादेशे च नरेश्वर ।

[२४४] नाकाले नातिसङ्कीर्णे ऽदत्वाग्रं न नरो ग्रसेत् ॥

नाशेषं पुरुषो ऽश्नीयाद् अन्यत्र जगतीपते ।

मण्डाम्बुदधिसर्पिर्भ्यः सक्तुभ्यश् च विवेकवान् ॥

“आसन्दी” वेत्रादिनिर्मिता । “अदेशे” रथ्यादौ । “अकाले” सन्ध्यादौ । “मण्डः” —

सक्तवः सर्पिषाभ्यक्ताः शीतवारिपरिप्लुताः ।

नातिद्रवा नातिसान्द्रा मण्ड इत्य् अभिधीयते ॥

इति चरकः

शङ्खलिखितौ

    न भोजनार्थं पाकशालां प्रविशेत् । न वृथापाकं पचेत् । न वृथापाकम् अश्नीयात् ।

हारीतः

    न क्रुद्धो नान्यमना नाभिभाषमाणो ऽश्नीयात् । न शिशून् भर्त्सयन् । नाप्रदाय प्रेक्षमाणेभ्यः । स च तद् अश्नीयाद् येन देवपितृमनुष्यार्थं न कुर्यात् । एवं ह्य् आह –


    	आत्मार्थं भोजनं यस्य रत्यर्थं यस्य मैथुनम् ।


    	वृत्त्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् ॥

[२४५] यद् भुङ्क्ते वेष्टितशिरा यच् च भुङ्क्त उदङ्मुखः ।

	सोपानत्कश् च यद् भुङ्क्ते सर्वं विद्यात् तद् आसुरम् ॥

“प्रेक्षमाणेभ्यः” प्रकर्षेण साभिलाषम् ईक्षमाणेभ्यो बालाद् अन्येभ्यः । “देवपितृमनुष्यार्थम्” इति पञ्चयज्ञोपलक्षणम् । भुज्यत इति “भोजनं” भोज्यम् अन्नम् ।

यमः

अश्नाति यो भृत्यजनस्य मध्ये

	मिष्टान्नम् एको रसगृध्नुबुद्धिः ।

दीनैः कटाक्षैर् अपि वीक्ष्यमाणो

	व्यक्तं विषं हालहलं स भुङ्क्ते ॥

“रसगृध्नुबुद्धिः” रसे गृध्नुर् बुद्धिर् यस्य, यस्य रसकाङ्क्षिणी मतिर् इत्य् अर्थः ।

विष्णुः [६८.४–४७] ।

    न गोब्राह्मणोपरागे चाश्नीयात् । न राजन्यव्यसने । प्रवसितश् चाग्निहोत्री यदाग्निहोत्रं हुतं मन्येत तदाश्नीयात् । यदा कृतं मन्येत वैश्वदेवम् अपि । पर्वणि च पर्म यदा कृतं **[२४६]** मन्येत । नाश्नीयाच् चाजीर्णे । नार्धरात्रे । न मध्याह्ने । न सन्ध्ययोः । नार्द्रवासाः । नैकवासाः । न नग्नः । नोदके । नोत्कुटुकः । न च भिन्नासनगतः । न च शयनगतः । न भिन्नभाजने । नोत्सङ्गे । न भुवि । न पाणौ । लवणं च यन् न दद्यान् न तद् अश्नीयात् । न बालकं निर्भर्त्सयन् । नैको मृष्टम् । नोद्धृतस्नेहम् । न दिवा धानाः । न रात्रौ तिलसम्बन्धम् । न दधिसक्तून् । न कोविदारवटपिप्पलशणशाकम् । नादत्वा । नाहुत्वा । नानार्द्रपादः । नानार्द्रकरमुखश् च । नोच्छिष्टो घृतम् आदद्यात् । न चन्द्रार्कतारका निरीक्षेत । न मूर्धानं स्पृशेत् । न ब्रह्म कीर्तयेत् । प्राङ्मुखो ऽश्नीयात् । दक्षिणाभिमुखो वा । अभिनन्द्यान्नम् । सुम्नाः स्रग्व्य् अनुलिप्तश् च । न निःशेषकृत् स्यात् । अन्यत्र दधिमधुसर्पिःपयःसक्तु-पललोदनेभ्यः ।


    	नाश्नीयाद् भार्यया साकं नाकाशे न तथोत्थितः ।


    	बहूनां प्रेक्षमाणानां नैकस्मिन् बहवस् तथा ॥

[२४७] शून्यालये वह्निगृहे देवागारे कथञ्चन ।

	पिबेन् नाञ्जलिना तोयं नातिसौहित्यम् आचरेत् ॥

“गोब्राह्मणोपरागे” गोब्राह्मणयोर् व्यसने । “प्रवसितः” अग्निहोत्रदेशं त्यक्त्वा ग्रामान्तरं गतः । “नोत्कुटुकः” नोत्कटासनः । “भिन्नं” स्फुटितम् । “न भुवि” कृत्वेत्य् शेषः । “पाणौ” स्थितम् इति शेषः । “दद्याद्” देवादिभ्य इति शेषः । “नादत्वा” इत्य् अनेन ब्राह्मणादिभ्यो दानम् अकृत्वा नाश्नीयाद् इत्य् उक्तम् । “यन् न दद्याद्” इत्य् अनेनान्यजातीयं दत्वाप्य् अन्य्न् नाश्नीयाद् इति ।”“निःशेषकृत्” सर्वभोजी । आकाशे निराधारे भोजनासम्भवाद् आसन्दिकादौ प्रतिषेधो ऽनाकास” इति । “एकस्मिन्” प्रेक्षमाण इति शेषः ।

तथा [६८.४९] ।

न भावदुष्टम् अश्नीयान् न भाण्डे भावदूषिते ।

शयानः प्रौढपादश् [?] च कृत्वा चैवावसक्थिकाम् ॥

“भावदुष्टम्” अशुचित्वेन शङ्कितम् ।

मनुः

एकवस्त्रो न भुञ्जीत कपाटम् अपिधाय च ।

भूमौ चाननरीकृत्य भिन्नपात्रे न चाशनम् ॥

[२४८] तथा

स्वग्रामे ग्रामतो वापि सन्निकृष्टे मृते सति ।

न भुञ्जीताशनं धीमान् अधर्म्यं शोककारणात् ॥

“भिन्नपात्रे न् चाशनम्” इत्य् अत्र न कुर्याद् इति शेषः । “स्वग्रामे” स्वग्रामीणे । “ग्रामतः सन्निकृष्टे” सन्निकृष्टग्रामीणे । “अधर्म्यम्” अधर्मसाधनम् ।

बृहस्पतिः

न स्पृशेद् वामहस्तेन भुञ्जानो ऽन्नं कदाचन ।

न पादौ न शिरो वस्तिं न पदा भाजनं स्पृशेत् ॥

भुञ्जीतेत्य् अनुवृत्तौ उशना

नानाचान्तः खट्वारूढो न चोत्तानः कदाचन ।

गौतमः [९.५६–५७] ।

न भक्ष्यान् उत्सङ्गे भक्षयेत् । न रात्रौ प्रेष्याहृतम् ।

“रात्रौ” “प्रेष्येण” दासादिना आनीतं किञ्चिद् अपि न भक्षयितव्यम् इति **मस्करी **।

याज्ञवल्क्यः [१.१३१] ।

न भार्यादर्शने ऽश्नीयान् नैकवासा न संस्थितः ।

[२४९] “भार्यादर्शने” पश्यन्त्यां भायायाम् ।

मनुः [४.४३] ।

नाश्नीयाद् भार्याया सार्धं नैनाम् ईक्षेत नाश्नतीम् ।

“अश्नतीम्” भुञ्जानाम् ।

वसिष्ठः [१२.२९] ।

    भार्यया सह नाश्नीयाद् अवीर्यवद् अपत्यं भवतीति **वाजसनेयके** विज्ञायते ।


    	ब्राह्म्ण्या सह यो ऽश्नीयाद् उच्छिष्टं वा कदाचन ।


    	न तस्य दोषं मन्यन्ते नित्यम् एव मनीषिणः ॥


    	उच्छिष्टम् इतरस्त्रीणां यो ऽश्नीयाद् ब्राह्मणः क्वचित् ।


    	प्रायश्चित्ती स विज्ञेयः सङ्कीर्णो मूढचेतनः ॥

ब्राह्मणीग्रहणं भर्तृसवर्णोपलक्षणार्थम् । ब्राह्मण्यापि सह कदाचिद् भोजनम् अध्वन्य् एव ।

तथा च ब्रह्मपुराणे

ब्राह्मण्या भार्यया सार्धं क्वचिद् भुञ्जीत वाध्वनि ।

असवर्णस्त्रिया सार्धं भुक्त्वा पतति तत्क्षणात् ॥ इति ।

[२५०] ब्रह्मपुराणे

विप्रस् त्व् एवम् उपस्पृश्य पादाङ्गुष्ठे च दक्षिणे ।

हस्ताभ्यां मन्त्रवद् दद्याद् विधिवच् चावनेजनम् ॥

सम्मार्ज्य बाहू जानू च गोप्रदानफलं लभेत् ।

भुक्त्वा चैव प्रतिष्ठेत न चाप्य् आर्द्रेण पाणिना ॥

आचान्तो ऽप्य् शुचिस् तावद् यावत् पात्रम् अनुद्धृतम् ।

उद्धृते ऽप्य् अशुचिस् तावद् यावन् नोन्मृज्यते मही ॥

विष्ण्पुराणे [३.११.९०–९५] ।

भुक्त्वा शम्यग् अथाचम्य प्राङ्मुखोदङ्मुखो ऽथवा ।

आचान्तः पुनर् आचामेत् पाणी प्रक्षाल्य मूलतः ॥

स्वस्थः प्रशान्तचित्तस् तु कृतासनपरिग्रहः ।

अभीष्टदेवतानां तु कुर्वीत स्मरणं ततः ॥

अग्निर् आप्यायतां धातून् पार्थिवान् पवनेरितः ।

दत्तावकाशो नभसा जरयत्व् अस्तु मे सुखम् ॥

अन्नं बलाय मे भूमेर् अपाम् अग्न्यनिलस्य च ।

भवत्व् एतत् परिणतौ ममास्त्व् अव्याहतं सुखम् ॥

प्राणापानसमानानाम् उदानव्यानयोस् तथा ।

अन्नं पुष्टिकरं चास्तु ममास्त्व् अव्याहतं सुखम् ॥

[२५१] अगस्तिर् अग्निर् वडवानलश् च

	भुक्तं मयान्नं जरयत्व् अशेषम् ।

सुखं च मे तत्परिणामसम्भवं

	यच्छत्व् अरोगं मम चास्तु देहे ॥

विष्णुः समस्तेन्द्रियदेहदेही 

	प्रधानभूतो भगवान् यथैकः ।

सत्येन तेनान्नम् अशेषम् एतद्

	आरोग्यदं मे परिणामम् एतु ॥

विष्णुर् अत्ता तथैवान्तं परिणामश् च वै यथा ।

सत्येन तेन यद् भुक्तं जीर्यत्व् अन्नम् इदं तथा ॥

इत्य् उच्चार्य स्वहस्तेन परिमार्ज्य तथोदरम् ।

अनायासप्रदायीनि कुर्यात् कर्माण्य् अतन्द्रितः ॥

आपस्तम्बः [२.४.२४] ।

    यत्र भुज्यते देशे तत् समूह्य निर्हृत्यावोक्ष्य तं देशम् अमत्रेभ्यो लेपात् सङ्कृष्याद्भिः सम्मृज्योत्तरतः शुचौ देशे रुद्राय निनयेत् । एवं वास्तु शिवं भवति ।

“समूहनम्” वर्धन्यादिना शोधनम् । “निर्हरणम्” समूहस्योच्छिष्टस्यापनयनम् । “अवोक्ष्य” प्रसिच्य, समाचाराद् गोमयोदकेन । “अमत्राणि” पाकभाण्डान्य् अत्र । “उत्तरतो” गृहात् । “वास्तु” गृहम् । “शिवम्” भद्रम् ।

हारीतः

पश्चात् पत्नी शेषं बलिं हरेत् ।

[२५२] एतच् च पाकभाण्डशिष्टेनान्नेन रौद्रबलिहरणं कर्तव्यम् इति जयस्वामी

अथ भोज्याभोज्यानि

तत्र गौतमः [१७.१] ।

प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत ।

“प्रशस्तानां” सम्यक् स्वकर्मनिष्ठत्वेन स्तुतिविषयाणाम् । “द्विजातीनां” त्रैवर्णिकाणाम् ।

यमः, हारीत-जमदग्नी प्रथमद्वितीययोः, **पैठीनसिश् **च तृतीये ।

ब्राह्मणस्य सदाश्नीयात् क्षत्रियस्य च पर्वसु ।

प्रकृतेषु च वैश्यस्य शूद्रस्य न कदाचन ॥

अमृतं ब्राह्मणस्यान्नं क्षत्रियस्य पयः स्मृतम् ।

ब्राह्मणान्नं क्षत्रियान्नं वैश्यानां शौद्रम् एव च ॥

तां तां योनिं व्रजेद् विप्रो भुक्त्वान्नं यस्य वै मृतः ।

“पर्व्सु” पौर्णमास्यादिषु । “प्रकृतेषु” प्रक्रमविशेषेषु गोमङ्गलादिषु । “यस्य” ब्राह्मणादेः । शूद्रान्ननिषेधश् चासच्छूद्रान्नविषयः, गवादिप्राप्त्यसम्भवे सच्छूद्रान्नविषयश् च ।

तथा च ब्रह्मपुराणे

[२५३] राज्ञां पर्वणि वैश्यानाम् अश्नीयान् मङ्गले गवाम् ।

गोभूमिरत्नहेमार्थं सच्छूद्रस्य गृहे तथा ॥

“अश्नीयाद्” इत्य् अन्वयः ।

आपस्तम्बः [१.१८.९–१३] ।

    त्रयाणां वर्णानां क्षत्रियप्रभृतीनां समावृत्तेन न भोक्तव्यम् । प्रकृत्या ब्राःमणस्य भोक्तव्यं कारणाद् अभोज्यम् । यत्राप्रायश्चित्तं कर्मासेवने प्रायश्चित्तवति । चरितनिर्वेषस्य भोक्तव्यम् । सर्ववर्णानां स्वधर्मे वर्तमानानां भोक्तव्यं शूद्रवर्जम् इत्य् <span style="text-decoration:underline;">एके</span> ।

समावृत्तग्रहणाद् ब्रह्मचारिणः सर्ववर्णेषु भिक्षाचरणं न निषिद्धम् । “प्रकृत्या” स्वाभाविक्या, स्वधर्मपरतया स्थितस्येति शेषः । “कारणाद्” उपपातकादियोगात् । “अप्रायश्चित्तं” प्रायश्चित्ताद् इतरन् नित्यनैमित्तिकं कर्म । इदं च प्रकृत्येत्य् अनेनैवोक्तम् । “प्रायश्चित्तवति” प्रायश्चित्तहेतुपापसद्भावे । “चरितनिर्वेषस्य” कृतप्रायश्चित्तस्य । इदं च धर्मनिष्ठक्षत्रियवैश्यान्नभोजनानुज्ञानं यमवचनानुसारात् पर्वमङ्गलविषयम् ।

[२५४] मनुः [४.२२३] ।

नाद्याच् छूद्रस्य पक्वान्नं विद्वान् अश्राद्धिनो द्विजः ।

आददीतामम् एवास्माद् अवृत्ताव् एकरात्रिकम् ॥

“अश्राद्धिनः” नित्यश्राद्धम् अकुर्वतः । “अवृत्तौ” आपदि । “एकरात्रिकम्” एकदिवसनिर्वाहयोग्यम् अन्नम् ।

हारीतः

शूद्रान्नेन तु भुक्तेन जठरस्थेन यो मृतः ।

स वै खरत्वम् उष्ट्रत्वं शूद्रत्वं चोपगच्छति ॥

वसिष्ठः [६.२६, २५, २७] ।

शूद्रान्नेनोदरस्थेन यः कश्चिन् म्रियते द्विजः ।

स भवेत् सूकरो ग्राम्यस् तस्य वा जालते कुले ॥

शूद्रान्नरसपुष्टाङ्गो ह्य् अधीयानो ऽपि नित्यशः ।

जुह्वन् वापि जपन् वापि गतिम् ऊर्ध्वां न गच्छति ॥

शूद्रान्नेन तु भुक्तेन मैथुनं यो ऽधिगच्छति ।

यस्यान्नं तस्य वै पुत्रा न च स्वर्गार्हको भवेत् ॥

यमः

शूद्रान्नेनोदरस्थेन ब्राह्मणो यस् त्यजेत् तनुम् ।

[२५५] आहिताग्निस् तथा यज्वा स शूद्रगतिम् आप्नुयात् ॥

यश् चाहिताग्निर् विप्रस् तु शूद्रान्नान् न निवर्तते ।

पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयो ऽग्नयः ॥

अङ्गिराः

षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् ।

स च जीवन् भवच् छूद्रो मृतः श्वा चाभिजायते ॥

पैठीनसिः

गृहमेधी न शूद्रान्नम् अश्नीयाद् आयुर् बलं तेज इत्य् अपक्रामति ।

विष्णुपुराणे

सम्यक् प्रोक्ष्य तु गृह्णीयाच् छूद्रान्नं गृहम् आगतम् ।

भविष्यपुराणे

उपक्षेपणधर्मेण शूद्रान्नं यः पचेद् द्विजः ।

अभोज्यं तद् भवेद् अन्नं स च विप्रः पुरोहितः ॥

अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमन्त्रितम् ।

तथैव वृषलस्यान्नं ब्राह्मणेन निमन्त्रितम् ॥

[२५६] शूद्रान्नं शूद्रसम्पर्कः शूद्रेण च सहासनम् ।

शूद्राज् ज्ञानागमः कश्चिज् ज्वलन्तम् अपि पातयेत् ॥

“उपक्षपणधर्मः” शूद्रस्वामिकस्यान्नस्य पाकार्थं ब्राह्मणगृहे समर्पणम् । यत् तु,

यथा यतस् ततो ऽप्य् आपः शुद्धिं यान्ति नदीं गताः ।

शूद्राद् विप्रगृहेष्व् अन्नं प्रविष्टं च सदा सुचि ॥

इत्य् अङ्गिरोवचनम्, तच् छूद्राद् ब्रह्मणेन प्रतिग्रहादिना यल् लब्धम् अन्नं तद्विषयम् ।

याज्ञवल्क्यः [१.१६६] ।

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।

भोज्यान्ना नापितश् चैव यश् चात्मानं निवेदयेत् ॥

“गोपालः” यस्य गाः पालयति तस्यैव भोज्यान्न इति भर्तृयज्ञः । “कुलमित्रम्” कुलक्रमाद् आयाता येन सह मैत्री । “अर्धसीरी” मिलित्वा कर्षकः । “नापितः” क्षुरकर्मोपजीवी, सो ऽपि स्वकीय एव । “आत्मनिवेदनम्” कुलतः शीलतो दृष्टादृष्टप्रयोजनेनोपचारविशेषेण च स्वामिप्रायकथनपूर्वकं तदाश्रयणम् ।

तथा च मनुः [४.२५४] ।

यादृशो ऽस्य भवेद् आत्मा यादृशं च चिकीर्षितम् ।

यथा चोपचरेद् एनं तथात्मानं निवेदयेत् ॥ इति ।

[२५७] देवलः

स्वदासो नापितो गोपः कुम्भकारः कृषीवलः ।

ब्राह्मणैर् अपि भोज्यान्नाः पञ्चैते शूद्रयोनयः ॥

“कृषीवलः” अत्र याज्ञवल्क्यवचनानुसाराद् अर्धसीरी । तेषाम् आमम् अन्नम् अनापद्य् अपि ग्राह्यम् । आपदि त्व् एतेषां पक्वान्नम् अपि ग्राह्यम् ।

शूद्राधिकारे गौतमः [१७.६–७] ।

    पशुपालक्षेत्रकर्षककुलसङ्गतकारयितृप्रतिचारका भोज्यान्नाः । वणिक् चाशिल्पी ।

“कारयिता” नापित इति मस्करिभाष्यम् । यः शूद्रो “वणिक्” स चेद् “अशिल्पी” तक्षादि न भवति तदा भोज्यान्नः ।

शूद्राधिकारे आपस्तम्बः [१.१८.६–८] ।

    एतस्यापि धर्मोपनतस्य सुवर्णं दत्वा पशुं वा भुञ्जीत । नात्यन्तम् अन्ववस्येत् । वृत्तिं प्राप्य विरमेत् ।

“सुवर्णं वा दत्वा” “पशुं वा दत्वा” धर्मेणोपनतस्य शूद्रस्यापि भुञ्जीतेत्य् अर्थः । “नात्यन्तम् अन्ववस्येत्” वृत्त्यन्तरालाभे ऽप्य् एतदीयान्नभोजनरतिर् न स्याद् इत्य् अर्थः ।

[२५८] गोरसं चैव सक्तूंश् च तैलं पिण्याकम् एव च ।

अपूपान् भक्षयेच् छूद्राद् यच् चान्यत् पयसा कृतम् ॥

“पयसा कृतम्” किलाटादि ।

हारीतः

कन्दुपक्वं स्नेहपक्वं पायसं दधि सक्तवः ।

एतान्य् अशुद्रान्नभुजो भोज्यानि **मनुर्** अब्रवीत् ॥

पराशरः ।

तावद् भवति शूद्रान्नं यावन् न स्पृशति द्विजः ।

द्विजाग्रकरसंस्पृष्टं सर्वं तद् धविर् उच्यते ॥

यमः

यथा जलं निर्गमनेष्व् अपेयं

	नदीगतं तत् पुनर् एव पेयम् ।

तथान्नपानं विधिपूर्वम् आगतं

	द्विजातिपात्रान्तरितं न दुष्यति ॥

[२५९] “निर्गमनानि” रथ्यादिपतितवारिप्रवाहप्रदेशाः ।

मनुः [४.२०५–२०८] ।

नाश्रोत्रियतते यज्ञे गामयाजिहुते तथा ।

स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥

अश्लीकम् एतत् साधूनां यत्र हुह्वत्य् अमी हविः ।

प्रतीपम् एतद् देवानां तस्मात् तत् परिवर्जयेत् ॥

मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।

“अश्रोत्रियः” अध्ययनरहितः, ऋत्विग् यजमानो वा । “तते” वितते प्रारब्ध इत्य् अर्थः । “ग्रामयाजी” बहूनां याजयिता । “यश् चोपनयते बहून्” इति वाक्यपर्यालोचनया बहूनाम् उपनेतेति विश्वरूपाचार्यः । स यस्य होमकर्ता तस्यान्नं न भोक्तव्यम् । “स्त्रिया हुते” स्त्रिया यत्र प्रातर् वैश्वदेवादि कृतम् । “अश्लीकम्” अश्रीकरम् । “प्रतीपम्” प्रतिकूलम् ।

तथा [४.२०९–२१७] ।

गवा चान्नम् उपाघ्रातं घुष्टानं च विशेषतः ।

गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥

स्तेनगायनयोश् चैव तक्ष्णो वार्धुषिकस्य च ।

दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥

[२६०] अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च ।

शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टम् एव च ॥

चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ।

उग्रान्नं सूतिकान्नं च पर्याचन्तम् अनिर्दशम् ॥

समासमाभ्यां विप्राभ्यां विषमं समम् एव च ।

पूजान्ते दीयमानं च न ग्राह्यं देयम् एव च ॥

अनर्चितं वृथामांसम् अवीरायाश् च योषितः ।

द्विषदन्नं नगर्यन्नं पतितान्नम् अवक्षुतम् ॥

पिशुनानृतिनोश् चान्नं क्रतुविक्रयिकस्य च ।

शौलूषअतुन्नवायान्नं कृतघ्नस्यान्नम् एव च ॥

कर्मारस्य निषादस्य रङ्गावतरकस्य च ।

सुवर्णकर्तुर् वेणस्य शस्त्रविक्रयिणस् तथा ॥

श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ।

रजकस्य नृशंसस्य यस्य चोपपतिर् गृहे ॥

मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः ।

अनिदशं च प्रेतान्नम् अतुष्टिकरम् एव च ॥

“घुष्टान्नम्” भुज्यताम् अन्नं ये केचिद् भोजनार्थिनः इत्याद्याघुष्य यद् अन्नं दीयते । “गणः” सङ्घः । “गणिका” विश्या । “विदुषा” वेदार्थविदा मध्यस्थेन । “जुगुप्सितम्” निन्दितम् । जुगुप्सात एवअ तत्रादृष्टदोषानुमानम् । “गायनो” गायनेन यो जीवति । “कदर्यः” कृपणः । “बद्धस्य” रज्ज्वादिना [२६१] यन्त्रितस्य । “निगडस्य” निगडवतः, मत्वर्थलक्षणया । अथ वा निगडेन बद्धस्येत्य् अर्थः । तृतीयार्थे षष्ठी । “पुंश्चली” व्यभिचारिणी । “शुक्तम्” यद् अन्यरसं द्रव्यान्तरसम्बन्धाद् अम्लतां गतम् । तच् चात्यम्लं वर्जनीयम् । “अत्यम्लं शुक्तम् आख्यातम्” इति वृद्धबृहस्पतिवचनानुसारात्** **। “शूद्रोच्छिष्टम्” शूद्रं भोजयित्वा यद् उद्धृतम् । “क्रूरो” अनृजुप्रकृतिः । “उच्छिष्टभोजी” निषिद्धोच्छिष्टभोजी । “उग्रः” दारुणकर्मा । “उग्रो राजा” इति मञ्जरीकारः । “सूतिकान्नम्” सूतिकाम् उद्दिश्य यत् क्रियते तद् अन्नं तत्कुलैर् अपि न भोक्तव्यम् । “पर्याचान्तम्” इतरान् एकपङ्क्तिस्थान् परिभूय यत्रान्ने भुज्यमाने केनाप्य् आचम्यते तद् अन्नं पर्याचान्तम् । “अनिर्दशम्” सूतक्यन्नम् । विद्यादिना तुल्ययोर् विप्रयोर् विषमपूजायां दीयमानम् अन्नम् अभोज्यम् । एवं विद्यादिना विषमयोः समपूजयां दीयमानम् अअन्नम् अभोज्यम् । दात्रापि न तथा दातअव्यम् इत्य् अर्थः । “अनर्चितम्” अर्चार्हस्य यद् अवज्ञया दीयते । “वृथामांसम्” देवपित्राद्युद्देशेन यन् न कृतम् । “अवीरा” पतिपुत्ररहिता । “नगरी” नगरस्वामी । “पिशुनः” परोक्षे परापवादभाषणपरः । “अनृती” अतिशयेनानृतवादी कूटसाक्ष्यादिः । “क्रतुविक्रयिकः” मदीययागात् तव फलम् अस्त्व् इत्य् अभिधाय यो धनं गृह्णाति । “शैलूषो” नटः । “तुन्नवायः” सौचिकः । “कृतघ्नः” कृतं यो न मन्यते । “कर्मकारो” लोहकारः । “निषादो” जातितः । “तङ्गावतरकः” नटगायनाद्यतिरिक्तो रङ्गावतरणकर्मजीवी । “वेणो” वेणुच्छेदनेन यो जीवति । “बरुड” इति विश्वरूपः । “श्ववतः” आखेटकार्थं [२६२] पशूनां पोषकः । “शौण्डिको” मद्यविक्रेता । “नृशंसो” निर्दयः । “स्त्रीजितानाम्” भार्यावशवर्तिनाम् । “सर्वशः” सर्वव्यवहारेषु । “अनिर्दशं” दशाहाभ्यन्तरे प्रेतम् उद्दिश्य यद् दीयते तद् असूतकिनो ऽप्य् अन्नं न भोक्तव्यम् इति ।

याज्ञवल्क्यः [१.१६२] ।

क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ।

“व्रात्यः” पतितसावित्रीकः ।

तथऐव पुनर् **याज्ञवल्क्यः **[१.१६४] ।

नृशंसराजरजककृतघ्नवधजीविनाम् ।

“वधजीवी” प्राणिवधेन यो जीवति ।

तथा [१.१६५] ।

पिशुनानृतिनोअश् चैव तथा चक्रिकबन्दिनाम् ।

तेषाम् अन्नं न भोक्तव्यं सोमविक्रयिणस् तथा ॥

“चक्रिकः” शकटोपजीवी ।

यमः

नटनर्तकतक्षाणश् चर्मकारः सुवर्णकृत् ।

स्थाणुकाषण्ढगणिका अभोज्यान्नाः प्रकीर्तिताः ॥

[२६३] गान्धर्वो लोहकारश् च सूचिकस् तन्तुवायकः ।

चक्रोपजीवी रजकः कितवस् तस्करस् तथा ॥

ध्वजी मानोपजीवी च शूद्राध्यापकयाजकौ ।

कुलालश् चित्रकर्मा च वार्धुषी चर्मविक्रयी ॥

“कुलालः” अत्रास्वकीयः, “शूद्रस्यास्वभूतस्य” इति वसिष्ठवचनानुसारात् । यत् तु देवलेन कुम्भकारो भोज्यान्न इत्य् उक्तः सः स्वकीयो बोद्धव्यः ।

सुमन्तुः

    अभिशस्तपतितपौनर्भवभ्रूणहपुंश्चल्यस्त्रविशस्त्रकारतैलिकचक्रिक-ध्वजिसुवर्णकारलेखकषण्ढबन्धकीगणकगणिकान्नानि चाभोज्यानि । सौकरिकव्याधनिष्पचरजकरङ्गकारबरुडचर्मकारा अभोज्यान्ना अप्रतिग्राह्याः ।

“पौनर्भवः” पुनर्भूपुत्रः । “अस्त्रम्” धनुः । “विशस्त्रम्” विविधप्रकारं खड्गादि । “ध्वजी” मद्यविक्रयी । “लेखकः” चित्रकारः । “षण्ढकः” नपुंसकः । “बन्धकी” अभिसारिणी । “सौकरिकः” सौकरोपजीवी । “निष्पचो” यः पाकं न करोति, यतिर् ब्रह्मचारी च ।

[२६४] अन्नं नाद्यम् इत्य् अनुवृत्तौ वसिष्ठः [१४.४–११] ।

    शूद्रस्य वास्वभूतस्य । उपपतेर् यश् चोपपतिं मन्यते । यश् च गृहान् दहेत् । यश् च वधार्हेणोपहन्यात् । को भोज्यत इति चाभिक्रुष्टम् । गणान्नं गणिकान्नं च । अथाप्य् उदाहरन्ति ।


    	नाश्नन्ति श्ववतो देवा नाश्नन्ति वृषलीपतेः ।


    	भार्याजितस्य नाश्नन्ति यस्य चोपपतिर् गृहे ॥

“वधार्हेण” विषादिना ।

गौतमः [१७.१५–१७] ।

    उत्सृष्टपुंश्चल्यभिशस्तानपदेश्यदाण्डिकतक्षकदर्यबन्धनिकचिकित्सक-मृगय्वनिषुचार्युच्छिष्टभोजिगणविद्विषाणानाम् । अपङ्क्त्यानां प्राग् दुर्वालात् । वृथान्नाचमनोत्थानव्यपेतानि ।

“उत्सृष्टम्” अस्वामिकम् । “अनपदेश्यः” अविज्ञातकुलाचारः । “दाण्डिकः” पापकृन्निग्रहाधिकृतः । “बन्धनिकः” कारागाराध्यक्षः । “चिकित्सकः” चिकित्सा जीविका यस्य । “मृगयुः” लुब्धकः । स चेद् “अनिषुचारी” भवति । “अनिषुचारी” पाशिकः । “प्राग् दुर्वालात्” प्राग् ये श्राद्धप्रकरणे [२६५] अपाङ्क्तेया उक्ताः स्तेनादयस् त्यक्तात्मपर्यन्तास् तेषाम् अकृतप्रायश्चित्तानाम् अन्नम् अभोज्यम् इत्य् अर्थः । “वृथान्नम्” यद् देवाद्युद्देशेन केवलम् आत्मार्थं पच्यते । “आचमनव्यपेतम्” यत्रार्धभुक्त आचमनं कृतम् । “उत्थानव्यपेतम्” यत्रार्धभुक्त उत्तानं कृतम् ।

अन्नम् अभोज्यम् इत्य् अनुवृत्तौ आपस्तम्बः [१.१८.१८–३३; १.१९.१] ।

    सर्वेषां च शिल्पजीविनाम् । ये च शस्त्रम् आजीवन्ति । ये चाधिम् । भिषक् । वार्धुषिकः । दीक्षितो ऽक्रीतराजकः । अग्नीषोमीयसंस्थायाम् एव । हुतायां वा वपायां दीक्षितस्य भोक्तव्यम् । यज्ञार्थे वा निर्दिष्टे शेषाद् भुञ्जीरन्न् इति हि ब्राह्मणम् । क्लीबः । राज्ञां प्रैषकरः । अहविर्याजी । चारी । अविधिना च प्रव्रजितः । यश् चाग्नीन् अपास्यति । यश् च सर्वान् वर्जयते सर्वान्नी च श्रोत्रियो निराकृतिर् वृषलीपतिः । मत्त उन्मत्तो बद्ध ऋणिकः प्रत्युपविष्टो यश् च प्रत्युपवेशयते तावन्तं कालम् ।

[२६६] “आधिम्” बन्धकम्, आजीवन्तीत्य् अनुषङ्गः । “वार्धुषिकः,”

समर्घं धान्यम् आदाय महार्घं यः प्रयच्छति ।

इत्यादिनाभिहितः । “अक्रीतराजकः” अक्रीतसोमः । “अग्नीषोमीयसंस्था” अग्नीषोमीयपशुयागसमाप्तिः । “हुतायां वा वपायां” अग्नीषोमीयपशोर् एव । “निर्दिष्टम्” उद्दिष्टम् । प्रेषणम् एव “प्रैषम्” । “अहविर्याजी” नररुधिरादिनाभिचारादिकर्मसु यो जुहोति । “चारी” चरः । “अविधिना” शास्त्रोक्तविधिम् अन्तरेण । “अपास्यति” अविधिनेति शेषः । “सर्वान्” अनिन्द्यान् अपि । “निराकृतिः” अधीतवेदो ऽप्य् अध्यापनब्रह्मयज्ञादिरहितः । “ऋणिकः” उत्तमर्णः । स चेत् “प्रत्युपविष्टो” अधमर्णं प्रति धनग्रहणार्थम् अनश्नन्न् उपविष्टो भवति तावत्कालम् अभोज्यान्नः । “यश् च प्रत्युपवेशयते” यश् चाधमर्ण उत्तमर्णम् अदानेन प्रत्युपवेशयेत् ।

पुनर् आपस्तम्बः [१.१९.९–१०] ।

पुण्यस्येप्सतो भोक्तव्यम् । पुण्यस्याप्य् अनीप्सतो न भोक्तव्यम् ।

“पुण्यस्य” धार्मिकस्य । “ईप्सतो” याचमानस्य ।

शङ्खलिखितौ

    भीतरुदिताक्रन्दितावक्रुष्टक्षुतपरिभुक्तविस्मितोन्मत्तावधूत-राजपुरोहितान्नानि वर्जयेत् ।

[२६७] “भीतः” त्रस्तः । “रुदितः” अश्रुपातवान् । “आक्रन्दितः” आक्रन्दो दुःखितया सन्ततशब्दकरणम्, तद्वान् । “अवक्रुष्टः” जुगुप्सितः । “क्षुतः” छिक्कावान् । “परिभुक्तः” सर्वतोभावेन भुक्तं शेषीकृतम् अन्नं येन । “विस्मितो” विस्मितवान् । “अवधूतः” साधुभिर् बहिष्कृतः । सर्वत्रादिकर्मणि क्तः । तेन भयादयो वर्तमाना एव निमित्तम् इति बोद्धव्यम् । “राजा” जनपदेश्वरः । “पुरोहितः” यस्य कस्यचित् । एतेषाम् अन्नं न भोक्तव्यम् ।

पुनः शङ्खलिखितौ

विद्विषाणस्य नाश्नीयाद् ब्रह्मच्छित्पापकारिणाम् ।

श्राद्धसूतगणान्नानि परिभूतानि यानि च ॥

“विद्विषाणः” विद्वेषशीलः । “श्राद्धम्” प्रेतश्राद्धाशी । “सूतः” ब्राह्मण्यां क्षत्रियाज् जातः । “परिभूतानि” तिरस्कृतानि ।

देवलः

पतितान्नम् अभोज्यान्नम् अपाङ्क्तेयान्नम् एव च ।

शूद्रान्नं कुत्सितान्नं च दूषितं परिवर्जयेत् ॥

“अभोज्याः” पुंश्चल्यभिशस्तादयः स्मृत्यन्तरप्रसिद्धाः । “दूषितं” केशकीटादिभिः ।

[२६८] वसिष्ठः [४.३१–३२] ।

अशौचे यस् तु शूद्रस्य सूतके वापि भुक्तवान् ।

स गच्छेन् नरकं घोरं तिर्यग्योनौ च जायते ॥

अनिर्दशाहे परशवे नियोगाद् भुक्तवान् द्विजः ।

कृमिर् भूत्वा स देहान्ते तां विष्ठां समुपाश्नुते ॥

“परशवे” यदीयम् आशौचं यस्य नास्ति तस्य सः परः, परस्य “शवे” मृतकाशौचाभ्यन्तरे ।

यमः

यस् तु प्राणान् विमुञ्चेत भुक्त्वा श्राद्धं नवं द्विजः ।

अयाज्यासु च घोरासु तिर्यग्योनिषु जायते ॥

यस् तु प्रजायते गर्भो भुक्त्वा श्राद्धं नवं द्विजः ।

न स विद्याम् अवाप्नोति क्षीणायुश् चैव जायते ॥

“अयाज्याः” याज्यास् छागादयस् तेभ्यो ऽन्ये ।

शङ्खः [१५.२४] ।

पराशौचे च यो भुङ्क्ते कृमियोनौ प्रजायते ।

भुक्त्वान्नं म्रियते यस्य तस्य जातौ प्रजायते ॥

आपस्तम्बः [१.१६.१८–२०] ।

    यस्य कुले म्रियेत न तत्रानिर्दशे भोक्तव्यम् । तथानुत्थितायां सूतिकायाम् । अन्तःशवे च ।

[२६९] “अन्तःशवे” अशौचानधिकारिणो ऽपि यस् गृहमध्ये शवस् तद्गृहे यद् अन्नम् ।

अङ्गिराः

जन्मप्रभृतिसंस्कारे बालस्यान्नस्य भोजने ।

असपिण्डैर् न भोक्तव्यं श्मशानान्ते विशेषतः ॥

“बालस्य” “जन्मप्रभृतिसंस्कार” इत्य् अन्वयः ।

भविष्यपुराणे

यो ऽगृहीत्वा विवाहाग्निं गृहस्थ इति मन्यते ।

अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः ॥

शातातपः

यत्र नाश्नन्ति वै देवाः पितरश् च तथातिथिः ।

वृथापाकः स विज्ञेयो न तस्याद्यात् कथञ्चन ॥

अङ्गिराः

अप्रजानां तु नारीणां नाश्नीयाज् जातु तद्गृहे ।

मोहाद् वा यस् तु भुञ्जीत स पूयनरकं व्रजेत् ॥

“अप्रजाः” अनपत्याः ।

यमः

अधीत्य चतुरो वेदान् साङ्गोपाङ्गान् विशेषतः ।

[२७०] नरेन्द्रस्य गृहे भुक्त्वा कृमियोनौ प्रजायते ॥

राजान्नं हरते तेजः शूद्रान्नं ब्रह्मवर्चसम् ।

वैश्याआन्नं सूतिकान्नं च लोकेभ्यः परिकृन्तति ॥

तथा राजभृतस्यान्नं चौरस्यान्नं तथैव च ।

सूतके मृतके चान्नं स्वर्गस्थम् अपि पातयेत् ॥

हारीतः

राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।

गणान्नं गणिकान्नं च लोकान् अपि निकृन्तति ॥

य इच्छेच् छुद्धम् आत्मानम् इष्टांल् लोकांश् च वेदितुम् ।

गणान्नं गणिकान्नं च दूरतः परिवर्जयेत् ॥

“वेदितुम्” अनुभवितुम् ।

मनुः [४.२१८–२२१] ।

राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।

आयुः सुवर्णकारान्नं यशश् चर्मविकर्तिनः ॥

कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च ।

गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥

पूयं चिकित्सकस्यान्नं पुंश्चल्यास् त्व् अन्नम् इन्द्रियम् ।

विष्ठा वार्धुषिकस्यान्नं शल्यविक्रयिणां मलम् ॥

य एभ्यो ऽन्ये त्व् अभोज्यान्नाः क्रमशः परिकीर्तिताः ।

तेषां त्वगस्थिरोमाणि वदन्त्य् अन्नं मनीषिणः ॥

[२७१] “निर्णेजकः” धावकः ।

यमः

विष्ठा वार्धुषिकस्यान्नं रुधिरं ब्रह्मघातिनः ।

मलं हि रजकस्यान्नं चर्मकारस्य किल्बिषम् ॥

पाप्मा तथान्नं शौण्डस्य घाण्टिकस्य तथैव च ।

तेषां त्वगस्थिरोमाणि वदन्त्य् अन्नं मनीषिणः ॥

पैठीनसिः

    गणान्नं गणिकान्नं च दुष्कृतम् । वार्धुषेर् विष्ठा । सांवत्सरघाण्टिक-ग्रामकूटान्नं विषम् । बन्धकीनां रेतः । भिषक्शल्यकृतः पूयम् । परिवित्तिपरिवेविदानविद्धप्रजननवृषलीपतिदिधिषूपतिपुनर्भूपुत्राणां रुधिरम् । पतितान्नं च ।

“सांवत्सरो” ज्यौतिषिकः । “ग्रामकूटकः” ग्रामे कपटव्यवहारशीलः । “परिवेविदानः” परिवेत्ता । “विद्धप्रजननः” छिन्नशिश्नचर्मा ।

वसिष्ठः [१४.१४] ।

श्रद्दधानस्य भोक्तव्यं चौरस्यापि विशेषतः ।

न त्व् एवं बहुयाज्यस्य यश् चोपनयते बहून् ॥

“बहुयाज्यो” बहूनां याजकः ।

मनुः [४.२२४–२२५] ।

श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः ।

मीमांसित्वोभयं देवाः समम् अन्नम् अकल्पयन् ॥

[२७२] तान् प्रजापतिर् इत्य् आह मा कृध्वं विषमं समम् ।

श्रद्धापूतं वदान्यस्य हतम् अश्रद्धयेतरत् ॥

“वदान्यः” प्रियवाग् दानशीलश् च ।

बौधायनः [१.१०.५] ।

शुचेर् अश्रद्दधानस्य श्रद्दधानस्य चाशुचेः ।

मीमांसित्वोभयं देवाः समम् अन्नम् अकल्पयन् ॥

तान् प्रजापतिर् इत्य् आह कृध्वं विषमं समम् ।

हतम् अश्रद्दधानस्य श्रद्धापूतं विशिष्यते ॥

यमः

अवधूतम् अविज्ञातं सरोषं विस्मयान्वितम् ।

गुरोर् अपि न भोक्तव्यम् अन्नं सत्कारवर्जितम् ॥

अवधूतं यद् उच्छिष्टं वाग्दुष्टम् अपि यद् भवेत् ।

अश्रद्धया हुतं दत्तम् अभोज्यं तद् द्विजातिभिः ॥

अवलिप्तस्य मूर्खस्य दुर्वृत्तस्य च दुर्मतेः ।

अन्नम् अश्रद्दधानस्य यो भुङ्क्ते भ्रूणहा तथा ॥

असुतान्नं च यो ऽश्नीयात् स भुङ्क्ते पृथवीमलम् ।

नृणाम् आहुर् मलं चान्नं सर्वम् अन्ने प्रतिष्ठितम् ॥

दुष्कृतं हि मनुष्यस्य अन्नम् आश्रित्य तिष्ठति ।

यो यस्यान्नम् इहाश्नाति स तस्याश्नाति किल्बिषम् ॥

“अवधूतम्” उपहतम् । “वाग्दुष्टं” भक्ष्यम् अप्य् अभक्ष्याभिधायिशब्देनोक्तम् । “अवलिप्तो” गर्वितः ।

[२७३] आदित्यपुराणे

विष्णुं जामातरं मन्येत् तस्य मन्युं न कारयेत् ।

अप्रजायां तु कन्यायां नाश्नीयात् तस्य वै गृहे ॥

ब्रह्मदेये विशेषेण दैवे भोज्यं सदैव हि ।

गान्धर्वे चैव राजन्ये कुर्याद् वै गमनागमम् ॥

ब्रह्मदेयां न वै कन्यां दत्वा भुङ्क्ते कदाचन ।

अथ भुञ्जीत मोहात्मा स पूयनरकं व्रजेत् ॥

आपस्तम्बः [२.६.१९–२०] ।

    द्विषन् द्विषतो वा नान्नम् अश्नीयाद् दोषेण वा मीमांसमानस्य मीमांसितस्य वा । पाप्मानं हि स तस्य भक्षयतीति विज्ञायते ।

मनु-यम-वसिष्ठाः

अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।

गुरौ शिष्यश् च याज्यश् च स्तेनो राजनि किल्बिषम् ॥

[२७४] “किल्बिषम्” इत्य् अन्नादिभिः प्रत्येकम् अभिसम्बध्यते । “मार्ष्टि” संयोजयति ।

वसिष्ठः [१४.१४–१५] ।

    न मृगयोर् इषुचारिणः परिवर्यम् अन्नम् । विज्ञायते ह्य् अगस्त्यो वर्षसाहस्रिके सत्रे मृगयां चकार । तस्यासंस्तरसमयाः पुरोडाशा मृगपक्षिणां प्रशस्तानाम् ।

अत्र “इषुचारी” द्विजातिर् एव वृत्तिकर्शितो मृगयोपजीवी ।

शातातपः

वनस्पतिगते सोमे परान्नं ये तु भुञ्जते ।

तेषां मासकृतो होमो दातारम् अधिगच्छति ॥

“वनस्पतिगते सोमे” अमावास्यायाम् इत्य् अर्थः ।

मनुः [३.१०४] ।

उपासते गृहस्था ये परपाकम् अबुद्धयः ।

तेन ते प्रेत्य पशुतां व्रजन्त्य् अन्नाद्यदायिनाम् ॥

“अन्नाद्यम्” अन्नम् एव ।

यमः

स्वपाके वर्तमाने यः परपाकं निषेवते ।

[२७५] सो ऽश्वत्वं सूकरत्वं च गअर्दभत्वं च गच्छति ॥

परपाकेन पुष्टस्य द्विजस्य गृहमेधिनः ।

इष्टं दत्तं तपो ऽधीतं यस्यान्नं तस्य तद् भवेत् ॥

यस्यान्नेन तु भुक्तेन भार्यां समधिगच्छति ।

यस्यान्नं तस्य ते पुत्रा अन्नाद् रेतः प्रवर्तते ॥

याज्ञवल्क्यः [१.११२] ।

परपाकरुचिर् न स्याद् अनिन्द्यामन्त्रणाद् ऋते ।

हारीत-जमदग्नी

ब्राह्मणान्नेन दारिद्र्यं क्षत्रियान्नेन प्रेष्यताम् ।

वैश्यान्नेन च शूद्रत्वं शूद्रान्नैर् नरकं व्रजेत् ॥

अथाभक्ष्ञानि

तत्र कथं मृत्युर् विप्रान् जिघांसतीति ऋषिप्रश्नानन्तरम् मनुः [५.४–६] ।

अनभ्यासेन वेदानाम् आचारस्य च वर्जनात् ।

[२७६] आलस्याद् अन्नदोषाच् च मृत्युर् विप्रान् जिघांसति ॥

लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।

अभक्ष्याणि द्विजातीनाम् अमेध्यप्रभवानि च ॥

लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस् तथा ।

शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् ॥

“आलस्यं” सामर्थ्ये सय् अवश्यकर्तव्यकरणानुत्साहः । “अन्नदोषात्” जात्यादिभिः ।

तथा च भविष्यपुराणे

जातिदुष्टं क्रियादुष्टं कालाश्रयविदूषितम् ।

संसर्गाश्रयदुष्टं च सहृल्लेखं स्वभावतः ॥

लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।

वार्ताकुं नालिकालाबू उपेयाज् जातिदूषितम् ॥

न भक्षयेत् क्रियादुष्टं यद् दृष्टं पतितैः पृथक् ।

कालदुष्टं तु विज्ञेयं ह्यस्तनं चिरसंस्थितम् ॥

दधि भक्ष्यं विकाराश् च मधुवर्जं तद् इष्यते ।

सुरालशुनसंसृष्टं पेयूषादिसमन्वितम् ॥

संसर्गदुष्टम् एतद् धि शूद्रोच्छिष्टवद् आचरेत् ।

[२७७] शूद्रोच्छिष्टं तु विज्ञेयं पूर्वं शूद्रे प्रदर्शितम् ॥

विचिकित्सा तु हृदये अन्ने यस्मिन् प्रजायते ।

सहृल्लेखं तु विज्ञेयं पुरीषं तु स्वभावतः ॥

रसदुष्टं विकाराद् धि रसस्येति प्रदर्शितम् ।

पायसक्षीरपूपानि तस्मिन्न् एव दिने तथा ॥

“कालदुष्टम्” इत्यादेर् अयम् अर्थः — “ह्यस्तनम्” पर्युषितं सर्वम् एवाभक्ष्यम् । “दधि” “भक्ष्यम्” “विकाराश् च” यवगोधूमादिप्रभवाः पर्युषिआ अपि ये भक्ष्यत्वेनाभ्यनुज्ञातास् ते ऽपि “चिरसंस्थिता” अतिविकृतरसगन्धाः सन्तो न भक्षणीया इत्य् अर्थः । “मधु” पुनश् चिरसंस्थितम् अपि भक्ष्यम् । तद् उक्तम् “मधुवर्जम्” इति । “गृञ्जनः” लशुनसदृशः कन्दविशेष उत्तरपथे प्रसिद्धः । “कवकम्” छत्राकसदृशं कुमुदकलिकाकृति ।

तथा च ब्रह्मपुराणे

मधुकैटभवृत्राणां त्रिशीर्षस्यासुरस्य च ।

विष्णुना हन्यमानानां यन् मेदः पतितं भुवि ॥

पिण्डोपमं तु खुड्खण्डं कवकं चैत्यसन्निभम् ।

छत्राकं छत्रसदृशं दैत्यदेहसमुद्भवम् ॥

“अमेध्यप्रभवानि” साक्षाद्विष्ठाजातानि तण्डुलीयकादीनि । “विड्जानि” इति **याज्ञवल्क्य-**वचनानुसारात् । ये तु [२७८] साक्षाद् विड्जा न भवन्त्य् अमेध्याक्रान्तभूप्रभवा वृक्षास् तेषां पुष्पफलान्य् अदुष्टान्य् एव ।

तद् उक्तं बौधायनेन [१.९.४] ।

अमेध्येषु च ये वृक्षा उप्ताः पुष्पफलोपगाः ।

तेषाम् अपि न दुष्यन्ति पुष्पाणि च फलानि च ॥

अत्र वृक्षग्रहणाच् छाकादीनाम् एवंविधानाम् प्रतिषेध एव । साक्षाद् अमेध्यजातेषु वृक्षेषु यानि पुष्पफलानि तानि प्रतिषिद्धान्य् एव । “वृक्षनिर्यासः” वृक्षान् निर्गतो रसः कठिनतां गतः । “व्रश्चनं” छेदनम् । “व्रश्चनप्रभवांस् तथा” तथा व्रश्चनप्रभवान् अलोहितान् अपि वर्जयेद् इत्य् अर्थः । तथा च तैत्तिरीयश्रुतिः “अथो खलु य एव लोहितो यो वाव्रश्चनान् निर्येषति तस्य नाशं कामम् अन्यस्य” इति । तेन कर्पूरादीनाम् अप्रतिषेधः । “शेलुः” बहुवारकः । “पेयूषं” नवप्रसूतायाः क्षीरं यद् अग्निसंयोगात् कठितं भवति तच् चेद् गव्यं तदा वर्ज्यम् ।

यमः

लशुनं गृञ्जनं चैव विलयं सुमुखं तथा ।

कवकानि पलाण्डुं च वर्जयेत् सर्वदा बुधः ॥

वरं स्वयं विशस्यापि सर्वमांसानि भक्षयेत् ।

न च छत्राकम् अश्नीयाद् द्विजात्यपसदो ऽपि सन् ॥

[२७९] भूमिजं वृक्षजं वापि छत्राकं भक्षयन्ति ये ।

ब्रह्मघ्नांस् तान् विजानीयाद् ब्रह्मवादिषु गर्हितान् ॥

“विलयो” घृतमलम् । “विशस्य” मारयित्वा । “अपसदो” अपकृष्टः ।

हारीतः

छत्राकं विड्वराहं च पलाण्डुं लशुनं तथा ।

भक्षयन् वै पतेद् विप्रो यदि स्यात् सर्ववेदवित् ॥

देवलः

श्लेष्मातको वज्रफली कौस्तुम्भं नालमस्तकान् ।

गृञ्जनं चेति शाकानाम् अभक्ष्याणि प्रचक्षते ॥

पलाण्डुं लशुनं शुक्तं निर्यासं चेति सर्वशः ।

कुचुन्दं श्वेतवृन्ताकं कुम्भाण्डं च विवर्जयेत् ॥

“नालं” कलम्बिका । “श्वेतवृन्ताकं” श्वेतवार्ताकुः । “कुम्भाण्डं” दाडिमसदृशः फलविशेषः कुम्भालु इति प्रसिद्धः ।

नियमभोज्या गौतमः [१७.३०–३१] ।

किसलयक्वाकुलशुननिर्यासलोहिता व्रश्चनाश् च ।

[२८०] “किसलयो” नवप्ल्लवः । “क्वाकुः” अहिच्छत्राकः ।

अभोज्यप्रकरणे आपस्तम्बः [१.१७.२५–२८] ।

    तथा कीलालौषधीनां च । कलञ्जपलाण्डुपरारीकाः । यच् चान्यत् परिचक्षते । क्याक्व् अभोज्यम् इति हि ब्राह्मणम् ।

“कीलालं” सुरा, तदर्थं स्थापिता या “ओषधयो” व्रीह्यादयः, तेषां विकार इत् शेषः । “कलञ्जं” लशुनविशेषः । “परारीकः” पलाण्डुविशेषः । तथा च स्मृतिमञ्जरीकारलेखित्आयुर्वेदश्लोकः

रसोनो दीर्घपत्रश् च पिच्छगन्धो महौषधम् ।

हिरण्यश् च पलाण्डुश् च नवतर्कः परारिका ॥

गृञ्जनो यवनेष्टश् च पलाण्डोर् दशजातयः ।

“यच् चान्यद्” एवंविधं कोविदारादि शिष्टाः “परिचक्षते” परिवर्जयन्ति तद् अपि न भोज्यम् इति शेषः ।

उशना

कुसुम्भं नालिकाशाकं वृन्ताकं पौतिकं तथा ।

भक्षयन् पतितस् तु स्याद् अपि वेदान्तगो द्विजः ॥

“वृन्ताकं” श्वेतम् अत्र । “श्वेतवृन्ताकम्” इति देवलवचनात् ।

पैठीनसिः

    वृन्ताकनालिकापोतकुसुम्भाश्मन्तकाश् चेति शाकफलानाम् अभोज्याः ।

[२८१] “अश्मन्तको” वृक्षविशेषः ।

“वर्जयेद्” इत्य् अनुवृत्तौ याज्ञवल्क्यः [१.१७१] ।

देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस् तथा ।

अनुपाकृतमांसानि विड्जानि कवकानि च ॥

“देवतार्थं” बल्युपहारादि । “हविः” होमार्थं यच् चरुपुरोडाशादि । “शिग्रुः” शोभाञ्जनः । “अनुपाकृतं” पशुयागादौ मन्त्रवत् तृणेन पशोः स्पर्शनम् उपाकरणम्, तद्रहितम् ।

तथा [१.१७३] ।

वृथाकृसरसंयावपायसापूपशष्कुलीः ।

“वृथा” देवताद्यनुद्देशेन केवलम् आत्मार्थं यत् पच्यते, “न पचेद् अन्नम् आत्मार्थम्” इति वचनात् । वृथान्नप्रतिषेधे सिद्धे कृसरादीनां पुनः प्रतिषेधः प्रायश्चित्तविशेषार्थः । “कृसरः” तिलमुद्गाभ्यां सह सिद्ध ओदनः । “संयावः” घृतक्षीरगोधूमचूर्णसिद्धः, उत्करिकेति प्रसिद्धः । “शष्कुली” मुद्गादिचूर्णसिद्धा सतिला स्नेहपक्वा ।

हारीतः ।

    परमान्नकृसरशष्कुलीमांसयावकापूपान् न पाचयेद् आत्मार्थम् । न वटप्लक्षोदुम्बरदधित्थनीपमातुलुङ्कानि वा भक्षयेत् ।

“पर्मान्नं” पायसम् । “अपूपाः” पूरिका इति प्रसिद्धाः । “नीपः” कदम्बः । “मातुलुङ्गः” बीजपूरः ।

**[२८२] यमः **।

यवागूं कृसरं चैवापूपपायसशष्कुलीः ।

ऋजीषपक्वं मांसं च मत्स्यान् अप्य् अनुपाकृतान् ॥

वर्जयेत् सर्वशुक्तानि देवान्नानि हवींशि च ।

स्नेहेन तु समायुक्तं नैव सर्वं प्रयोजयेत् ॥

“ऋजीषपक्वं” भौमोष्मपक्वम् ।

गौतमः [९.५८] ।

    उद्धृतस्नेहविअलयनपिण्याकमथितप्रभृतीनि चात्तवीर्याणि नाश्नीयात् ।

“आत्तवीर्याणि” उद्धृतसाराणि ।

“अश्नीयाद्” इत्य् अनुवृत्तौ विष्णुः [६८.२७–३१] ।

    नोद्धतस्नेहम् । न दिवा धानाः । न रात्रौ तिलसम्बन्धम् । न दधिसक्तून् । न कोविदारवटपिप्पलशाणशाकम् ।

**देवलः **।

न बीजान्य् उपभुञ्जीअ रोगापत्तिम् ऋते बुधः ।

फलान्य् एषाम् अनन्तानि बीजानां हि विनाशयेत् ॥

नाश्नीयात् पयसा नक्तं भुक्तं चेन् न स्वपेन् निशि ।

न क्षीरम् उत्सृजेत् प्राप्तं पवित्रं हि पयः स्मृतम् ॥

[२८३] “बीजानि” कूष्माण्डबीजानि ।

यमः

भिन्नभाण्डे न भुञ्जीत न रात्रौ दधिसक्तुकान् ।

दिवा दधित्थधानासु रात्रौ च दधिसक्तुषु ॥

कोविदारे च रजके तस्करे सूतके तथा ।

श्लेष्मातके तथालक्ष्मीर् नित्यम् एव कृतालया ॥

“सूतके” जननमरणाशौचे ।

**ब्रह्मपुराणे **।

राजमाषाः स्थूलमुद्गास् तथा वृषकवासकौ ।

मसूराः शतपुष्पाश् च कुसुम्भं श्रीनिकेतनम् ॥

सस्यान्य् एतान्य् अभक्ष्याणि न च देयानि कस्यचित् ।

आपस्तम्बः [२.१८.१–४] ।

विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत् ।

कृष्णधान्यं च शूद्रान्नं ये चान्ये ऽनाश्यसम्मिताः ॥

अहविष्यम् अनृतं क्रोधं येन च क्रोधयेत् परम् ।

स्मृतिम् इच्छन् मेधां पुष्टिं द्वादशैतानि वर्जयेत् ॥

[२८४] “कृष्णधान्यं” कलिङ्गकादि । “अनाश्यम्” अभक्ष्यं मण्डूकादि, तैः “सम्मिताः” तुल्यत्वेन मताः । येन च व्यापारेण् परस्य क्रोधो जायते तं व्यापारं स्वयम् अक्रुद्धो ऽपि वर्जयेत् ।

विश्वामित्रः

जातिक्रियाभावदुष्टम् असत्संसर्गदुष्टं सहृल्लेखं च न भक्षयेत् ।

“भावदुष्टम्” अभक्ष्यपदार्थसदृशत्वेन बुद्धिस्वीकृतम् । “अनाश्यसम्मिता” इत्य् आपस्तम्बवचनानुसारात् ।

वसिष्ठः [१४.२०–२२] ।

    उच्छिष्टम् अगुरोर् अभोज्यम् । स्वम् उच्छिष्टम् उच्छिष्टोपहतं च । वसनकेशकीटोपहतं च ।

“स्वम् उच्छिष्टं” स्वयम् एव किञ्चिद् भुक्त्वा यत् परित्यक्तम् । “वसनम्” अत्र परिहितं वासः ।

सुमन्तुः

    केशकीटक्षुतवचोऽभिहतं श्वभिर् आघ्रातं प्रेक्षितं चादधि पर्युषितं पुनःसिद्धं चण्डालावेक्षितम् अन्नम् अभोज्यम् अन्यत्र हिरण्योदकैः स्पृष्टान् ।

“वचोऽभिहतं” यस्यान्नस्याभिमुखेन वागुच्चारणं कृतम् । “प्रेक्षितं” श्वभिर् एव । “अदधि” दधिव्यतिरिक्तम् । “पर्युषितं” सिद्धम् अन्नं रात्र्यन्तरितम् । “पुनःसिद्धं” द्विःपक्वम् । “हिरण्योदकं” हिरण्यस्पृष्टम् उदकम् ।

मनुः [४.२०७–२०८] ।

मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।

केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥

भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्य् उदक्यया ।

पतत्रिणावलीढं च शुना संस्पृष्टम् एव च ॥

“पतत्रिणा” पक्षिणा । “अवलीढम्” आस्वादितम् ।

याज्ञवल्क्यः [१.१६७–१६८] ।

शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ।

उदक्यास्पृष्टसङ्घुष्टं पर्यायान्नं च वर्जयेत् ॥

“पर्यायान्नम्” अन्यसम्बन्धि यद् अन्नम् अन्यव्यपदेशेन दीयेते । यथा –

ब्राह्मणान्नं ददच् छूद्रः शूद्रान्नं ब्राह्मणो ददत् ।

[२८६] उभाव् एवाव् अभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥ इति ।

यमः

काककुक्कुट्संस्पृष्टं शुक्तं वा कृमिसंयुतम् ।

अभोज्यं तद् विजानीयाद् धर्मराजवचो यथा ॥

आपस्तम्बः [१.१६.२१–३३; १.१७.१–५] ।

    अप्रयतोपहतम् अन्नम् अप्रयतं न त्व् अभोज्यम् । अप्रयतेन शूद्रेणोपहतम् अभोज्यम् । यस्मिंश् चान्ने केशः स्यात् । अन्यद् वामेध्यम् । अमेध्यैर् अवमृष्टम् । कीटो वामेध्यसेवी । मूषकलाङ्गं च । पदा चोपहतम् । सिचा वा । शुना वापपात्रेण वा दृष्टम् । सिचा चोपहृतम् । दास्या वा नक्तम् आहृतम् । भुञ्जानं वा यत्र शूद्र उपस्पृशेत् । अनर्हद्भिर् वा समानपङ्क्तौ । भुञ्जानेषु वा यत्रानूत्थायोच्चिष्टं प्रयच्छेद् आचामेद् वा । कुत्सयित्वा वा यत्रान्नं दद्युः । मनुष्यैर् अवघ्रातम् अन्यैर् वामेध्यैः ।

“अप्रयतोपहतम्” “अप्रयतेन” अशुचिना “उपहतम्” स्पृष्टम् । “अप्रयतम्” अशुचि । “न त्व् अभोज्यम्” किं त्व् अग्नाव् अधिसंश्रयणादिना शुद्धिं कृत्वा भोज्यं भवति । “अप्रयतेन” शूद्रेण स्प्र्ष्टं न कथञ्चनापि भोज्यम् । “अमेध्यम्” ऊषर**[२८७]**मृत्तिकादि । “अमेध्यैः” कलञ्जपलाण्ड्वादिभिः । “अवमृष्टं” स्पृष्टम् । “कीटो” “अमेध्यसेवी” यस्मिन्न् अन्ने तद् अभोज्यम् इति वाक्यपरिसमाप्तिः । “मूषकला” मूषिकाविष्ठा । “अङ्गं” मूषिकापुच्छपदादि । “पदा उपहतम्” पदा स्पृष्टम् । “सिचा” स्पृष्टं, वस्त्रवातेन प्रक्षालितेनापि स्पृष्टम् । “शुना” कुक्कुरेणापि स्पृष्टं दृष्टं च । “अपपात्रेण” पतितादिना । “उपहृतम्” आनीतम् । “दासी” इति स्त्रीलिङ्गम् अविवक्षितम् । “उपस्पृशेद्” इति अत्र तद् अन्नम् अर्धभुक्तम् अप्य् अभोज्यम् इति शेषः । “अनर्हद्भिः” अभिजनविद्याचारशूनैः, “समानपङ्क्तौ” अन्नम् अभोज्यम् । अर्हद्भिर् वा समानपङ्क्तौ यत्रार्धभुक्तेषु कश्चिद् “अनूत्थाय” भृत्यादेः “उच्छिष्टं प्रयच्छेत्” तत्रेतरेषाम् अर्धभुक्तम् अन्नम् अभोज्यम् । एतेन “आचामेद्” इत्य् अपि व्याख्यातम् । “कुत्सयित्वा” “एहि विषं भुङ्क्ष्व” इत्याद्य् उक्त्वा । “मनुष्यैर् अवघ्रातं” प्रयत्नत इत् शेषः । “अमेध्यैः मार्जारगर्दभादिभिः ।

शङ्खलिखितौ

    तत्रापेयान्य् अभक्ष्याणि च वर्जयेत् । अमेध्यपतित**[२८८]**चाण्डालपुल्कस-रजस्वलाकुणपकुष्ठिसंस्पृष्टानि ।

“पुल्कसः” म्लेच्छजातिविशेषः । “कुणपः” शवः ।

बृहस्पतिः [आचार ७१; श्राद्ध ८६अ] ।

नाद्याच् छास्त्रनिषिद्धं तु भक्ष्यभोज्यादिकं द्विजः ।

मांसं विगर्हितं चैव शुक्तं बहुविधं तथा ॥

अत्यम्लं शुक्तम् आख्यातं निन्दितं ब्रह्मवादिभिः ।

“विगर्हितं” शिष्टैर् निन्दितम् ।

देवलः

अभोज्यं प्राहुर् आहारं शुक्तं पर्युषितं सदा ।

अन्यत्र मधुसक्तुभ्यां भक्ष्येभ्यः सर्पिषो गुडात् ॥

अवलीढं श्वमार्जारध्वाङ्क्षकुक्कुटमूषिकैः । 

भोजने नोपयुञ्जीत तद् अमेध्यं हि धर्मतः ॥

विशुद्धम् अपि चाहारं मक्षिकाकृमितन्तुभिः ।

केशलोमनखैर् वापि दूषितं परिवर्जयेत् ॥

“भक्ष्या” लड्डुकादयः ।

[२८९] अश्नीयाद् इत्य् अनुवृत्तौ **हारीतः **।

    न रजस्वलया दत्तं न पुंश्चल्या न क्रुद्धया । न मलवद्वाससा । नापरया द्वारा दापितम् । न द्विः पक्वम् । न शुक्तम् । न पर्युषितम् । अन्यत्र गुडपिष्टसक्तुस्नेहगोरसतैलादिषुपक्वात् । न तैलं दध्यनुपानम् । नावक्षुतान्नम् । न जुगुप्सितम् ।

“मलवद्वासा” अमेध्यलिप्तवस्त्रा । “अपरया द्वारा” मुख्यद्वारातिरिक्तद्वारेण । “तैलादिषु” इत्यादिशब्दाद् घृतसर्षपस्नेहग्रहणम् । “न तैलं दध्यनुपानम्” भोजनान्ते तैलं दधी वा यथा भवति तथा नाश्नीयात् ।

“अभोज्यम्” इत्य् अनुवृत्तौ गौतमः [१७.१४] ।

    पर्युषितम् अशाकभक्ष्यस्नेहमांसमधुनि । 

शाकादीनि पर्युषितानि विहायेत्य् अर्थः

शङ्खलिखितौ

    नापणीयम् अन्नम् अश्नीयात् । न द्विः पक्वम् । न शुक्तम् । न पर्युषितम् । अन्यत्र रागचुक्रषाडवदधिगुडगोधूमयवपिष्टविकारेभ्यः ।

“रागाः” मुद्गदाडिममांसाद्या अंशुकगालिताः प्रलेहाः । “षाडवाः” स्वाद्वम्लकटुकाद्याः प्रलेहाः एव ।

[२९०] वसिष्ठः [१४.२८–२९] ।

    अन्नं पर्युषितं भावदुष्टअं सकृल्लेखं पुनःसिद्धम् आमम् ऋजीषपक्वम् । कामं तु दध्ना घृतेनाभिघारितम् उपभुञ्जीत ।

“आमं” तण्डुलादि । “कामं दध्ना घृतेनाभिघारितम् उपभुञ्जीत” इत्य् अनेन भोज्यान्तरासम्भव एवं भुञ्जीतेत्य् उक्तम् ।

आपस्तम्बः [१.१७.१४–२०] ।

    नापणीयम् अन्नम् अश्नीयात् । तथा रसानाम् अमांसमधुलवणानीति परिहाप्य । तैलसर्पिषी तूपयोजयेद् उदके ऽवधाय । कृतान्नं पर्युषितम् अखाद्यापेयानाद्यम् । शुक्तं च । फाणितपृथुकतण्डुलकरम्भभरुज-सक्तुशाकमांसपिष्टक्षीरविकारौषधिवनस्पतिमूलफलवर्जम् । सुक्तं चापरयोगम् ।

“आपणीयं” हट्टाद् उपानतम् । “रसाः” गुडादयः । “उदके ऽवधाय” उदकपात्रे मणिकादौ विधाय । “अखाद्यापेयानाद्यं”, “खाद्यं” खरविशदं “पेयं” द्रवम्, “आद्यं” मृदुविशदम् ओदनादि । “शुक्तं च” पर्युषितम् अपि नोपयोज्यम्** [२९१]** इत्य् अर्थः । “फाणितम्” इक्षुरसविकारपाकजन्यो द्रवः । “पृथुकतण्डुलाः” भ्रष्टधान्यकुट्टनान् निष्पादितास् तण्डुलाश् चिपिटका इति प्रसिद्धाः । “करम्भाः” दधिमिश्राः सक्तवः । “भरुजाः” धानाः । “शुक्तं चापरयोग” इति, परेणान्नेन योगो यस्येति गमकत्वाद् वैयधिकरण्ये बहुव्रीहिः । यच् च शुक्तम् अपेयम् अखाद्यम् उक्तं तद् द्रव्यान्तरासंयुक्तम् । “शुक्तं तु केवलम्” इति गौतमवचनात् ।

बृहस्पतिः [आचार्। ८०–८१] ।

दधि भक्ष्यं शुक्तम् अपि यच् चैव दधिसम्भवम् ।

कन्दमूलफलैः पुष्पैः शस्तैः शुक्तासवं तु तत् ॥

अविकारि भवेन् मेध्यम् अभक्ष्यं तद् विकारकृत् ।

“कन्दमूलफलैः पुष्पैः” इत्यादेर् अयम् अर्थः — यच् छुक्तं कन्दादिभिः कृतसन्धानं तद् यदि मोहादिविकारकरं न भवति तदा “भक्ष्यं” भक्षणीयम् ।

यमः

शुक्तानि हि द्विजो ऽन्नानि न भुञ्जीत कदाचन ।

प्रक्षालितानि निर्दोषाण्य् आपधर्मो यदा भवेत् ॥

[२९२] मसूरमाषसंयुक्तं तथा पर्युषितं च यत् ।

तत् तु प्रक्षालितं कृत्वा भुञ्जीत ह्य् अभिघारितम् ॥

यत् “शुक्तं” यत् “पर्युषितं च मसूरमाषसंयुक्तं” तत् प्रक्षाल्य “अभिघारितं कृत्वा” आपदि भुञ्जीतेत्य् अर्थः ।

मनुः [५.२४–२५] ।

यत् किञ्चित् स्नेहसंयुक्तं भक्ष्यं भोज्यम् अगर्हितम् ।

तत् पर्युषितम् अप्य् आद्यं हविःशेषं च सर्वशः ॥

चिरस्थितम् अपि त्व् आद्यम् अस्नेहाक्तं द्विजातिभिः ।

यवगोधूमजं सर्वं पयसश् चैव विक्रिया ॥

याज्ञवल्क्यः [१.१६९] ।

अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।

अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥

यमः

अपूपाश् च करम्भाश् च धाना वटकसक्तवः ।

शाकं मांसम् अपूपं च सूपं कृसरम् एव च ॥

यवागूं पायसं चैव यच् चान्यत् स्नेहसंयुतम् ।

सर्वं पर्युषितं भोज्यं शुक्तं च परिवर्जयेत् ॥

[२९३] वसिष्ठः [१४.३७–३८] ।

    अपूपधानाकरम्भसक्तुवटकतैलपायसशाकानि च शुक्तानि वर्जयेत् । अन्यांश् च क्षीरपिष्टविकारान् ।

देवीपुराणे

वृथकृसरपूपानि पायसं मधुसर्पिषी ।

वृथामांसं च नाश्नीयात् पितृदेवविवर्जितम् ॥

ब्रह्मपुराणे

चण्डालपतितामेध्यकुणपैः कुष्ठिना तथा ।

ब्रह्मघ्नसूतिकोदक्याकौलेयककुटुम्बिभिः ॥

इष्टं वा केशकीटाक्तं मृद्भस्मकनकाम्बुभिः ।

शुद्धम् अद्यात् सहृल्लेखं प्रभूतं चोष्णम् एव च ॥

“कौलेयकः” श्वा ।

तथा

उच्छिष्टेन तु शूद्रेण संस्पृष्टः परिवेषकः ।

द्रव्यहस्तस् तु यत् किञ्चिद् दद्यात् त्व् अन्नं न भक्षयेत् ॥

मार्कण्डेयपुराणे

भिन्नभाण्डगतं तद्वन् मुखवातोपमार्जितम् ।

[२९४] तद् ऊष्मपक्वम् अस्विन्नम् अवलीढम् असंस्कृतम् ॥

पिष्टशाकेक्षुपयसां विकारा नृपनन्दन ।

तथा मांसविकाराश् च वर्ज्याश् चैव चिरोषिताः ॥

ब्रह्मपुराणे

शूद्रभुक्तावशिष्टं तु नाद्याद् भाण्डस्थितं त्व् अपि ।

भविष्यपुराणे

आयसेन तु पात्रेण यद् अन्नम् उपनीयते ।

भोक्ता विष्ठासमं भुङ्क्ते दाता च नरकं व्रजेत् ॥

अङ्गुल्या दन्तकाष्ठं च प्रत्यक्षलवणं च यत् ।

मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणैः ॥

**ब्रह्मपुराणे **।

एकेन् पाणिना दत्तं शूद्रादत्तं न भक्षयेत् ।

घृतं तैलं च लवणं पानीयां पायसं तथा ।

भिक्षा च हतदत्ता या न ग्राह्या कुत्रचित् क्वचित् ॥

अथ दुग्धानि

तत्र मनुः [५.८–९] ।

अनिर्दशाया गोः क्षीरम् औष्ट्रम् एकशफं तथा ।

[२९५] आविकं सन्धिनीक्षीरं विवत्सायाश् च गोः पयः ॥

आरण्यानां च सर्वेषां मृगाणां माहिषं विना ।

स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥

“अनिदशायाः” यस्याः प्रसूताया दशदिनान्य् अनपक्रान्तानि । “एकसफाः” एकखुरा अश्वादयः । “आविकं” मेषीक्षीरम् । “सन्धिनी” या ऋतुमती वृषभम् इच्छति । “सन्धिनी वृषस्यन्ती तस्याः पयो न पिबेद् ऋतुमद् भवति” इति हारीतवचनात् । “विवत्सा” वत्सरहिता । “आरण्या मृगाः” रुरुमहिषपृषतादयः ।

गौतमः [१७.२०–२३] ।

    गोश् च क्षीरम् अनिर्दशायाः सूतके । अजामहिष्योश् च । नित्यम् आविकम् अपेयम् औष्ट्रम् एकशफं च । स्यन्दिनीयमसूसन्धिनीनां च ।

“स्यन्दिनी” वत्सं विनैव प्रस्रवत्स्तनी । “यमसूः” यमलापत्या ।

[२९६] बौधायनः [१.१२.९–१०] ।

अनिर्दशाहासन्धिनीक्षीरम् अपेयम् । विवत्सान्यवत्सयोश् च ।

“अन्यवत्सा” अन्यस्या वत्सेन युक्ता ।

आपस्तम्बः [१.१७.२१–२४] ।

    अपेयम् । तथैलकं पयः । उष्ट्रीक्षीरमृगीक्षीरसन्धिनीक्षीरयमसूक्षीराणीति । धेनोश् चानिर्दशायाः ।

“पयो न पिबेत्” इत्य् अनुवृत्तौ हारीतः

    न विवत्सायाः स्तेययोगात् । न हतवत्सायाः शोकाभिभूतत्वात् । न निर्णिकाया असत्त्वात् । नान्यस्याच्छिद्यात्मनाश्नीयात् । एवं न नवसूतायाः सरजस्त्वात् । सप्तरात्राद् इत्य् <span style="text-decoration:underline;">एके</span> । दशरात्राद् इत्य् <span style="text-decoration:underline;">अपरे</span> । मासेन पेयूषं भवतीत्य् <span style="text-decoration:underline;">अपरे</span> । एवं ह्य् आह ।


    	द्वौ मासौ पाययेद् वत्सं तृतीये द्विस्तनं दुहेत् ।


    	चतुर्थे त्रिस्थनं दुह्याद् यथान्यायं यथाबलम् ॥

[२९७] “विवत्सा” अत्र विप्रकृष्टवत्सा । “निर्णिक्तायाः” निःशेषेण दुग्धायाः ।

ब्रह्मपुराणे

घृतात् फेनं घृतान् मण्डं पेयूषम् अथ वापि गोः ।

सगुडं मरिचाक्तं तु तथा पर्युषितं दधि ॥

दीर्णं तक्रम् अपेयं च नष्टस्वादं च फेनवत् ।

प्रमादाद् भक्षितैर् एभिर् वने पक्षं व्रतं चरेत् ॥

भविष्यपुराणे

कपिलां यः पिबेच् छूद्रो नरके स विपच्यते ।

हुतशेषं पिबेद् विप्रो विप्रः स्याद् अन्यथा पशुः ॥

ब्रह्मपुराणे

अपि प्रयाणसमये रात्रौ न प्राशयेद् दधि ।

मधुपर्कप्रदानं च वर्जयित्वा तु कामतः ॥

दिवा धानासु वसति रात्रौ च दधिसक्तुषु ।

अलक्ष्मीः कोविदारेषु कपित्थेषु सदा स्थिता ॥

[२९८]

अथ पक्षिणः

तत्र मनुः [५.११–१६] ।

क्रव्यादाञ् छकुनीन् सर्वान् तथा ग्रामनिवासिनः ।

अनिर्दिष्टांश् चैकशपांष् टिट्टिभं च विवर्जयेत् ॥

कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् ।

सारसं रज्जुदालं च दात्यूहं शुकसारिके ॥

प्रतुदान् जालपादांश् च कोयष्टिनखविष्किरान् ।

निमज्जतश् च मत्स्यादान् सौनं वल्लूरम् एव च ॥

बकं चैव बलाकां च काकोलं खञ्जरीटकम् ।

मत्स्यादान् विड्वराहांश् च मत्स्यान् एव च सर्वशः ॥

“क्रव्यादाः” मांसाशिनो गृध्रादयः । “ग्रामनिवासिनः” पारावतादयः । अत्रोभयत्र शकुनीति सम्बध्यते । “अनिदिर्ष्टान्” श्रुतौ भक्ष्यत्वेनाकथितान् । श्रुतौ हि केचित् क्वचित् भक्ष्यत्वेनैकशफा निर्दिष्टाः । यथा “त्वाष्ट्रं वाडवम् आलभेत तस्य च मांसम् अश्नीयात्” इति । अतो ये क्वचिद् यज्ञे श्रुत्या भक्षयत्वेनोक्तास् ते तद्दर्शनेनान्यत्रापि न भक्षणीयाः । तेषाम् एकशफानां अन्यत्रापि भक्ष्यत्वेनानिर्देशात् । “कलविङ्कः” [२९९] ग्रामचटकः । तस्य च ग्रामनिवासित्वेन निषेधे सिद्धे पुनर् ग्रामवचनं ग्रामारन्योभयनिवासित्वाद् आरण्यस्यापि निषेधार्थम् । “प्लवः” प्लवनेनैव य आहारं प्राप्नोति । “रज्जुदालः” काष्ठकुट्टकः । “दात्यूहः” कालकण्ठः, डाडक इति प्रसिद्धः । “प्रतुदाः” ये चञ्च्वा प्रतुद्य भक्षयन्ति । “जालपादाः” आट्यादयः । “कोयष्टिः” पक्षिविशेषः । “नखविष्किराः” नखैर् विकीर्य ये भक्षयन्ति । “निमज्यतो मत्स्यादाः” मद्गुप्रभृतयः । “सौनं” सूनास्थानसम्भवं मांसम् । “वल्लूरं” शुष्कमांसम् । “काकोलो” द्रोणकाकः । “मत्स्यादाः” नक्रादयः । “सर्वशः” सर्वप्रकारेण ।

याज्ञवल्क्यः [१.१७२–१७३] ।

क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् ।

सारसैकशफान् हंसान् सर्वांश् च ग्रामवासिनः ॥

कोयष्टिप्लवचक्राह्वबलाकाबकविष्किरान् ।

तथा [१.१७४–१७५] ।

कलविङ्कं सकाकोलं कुररं रज्जुदालकम् ।

[३००] जालपादान् खञ्जरीटान् अज्ञातांश् च मृगद्विजान् ॥

चाषांश् च रक्तपादांश् च सौनं वल्लूरम् एव च ।

मत्स्यांश् च कामतो जग्ध्वा सोपवासस् त्र्यहं वसेत् ॥

“कुररः” कुरलः । “चाषः” किकीदिविः । “रक्तपादाः” कदम्बादयः ।

देवलः

बलाकाहंसदात्यूहभृङ्गराजकचित्रकाः ।

उलूककुररश्येनगृध्रकुक्कुटवायसाः ॥

चकोरः कोकिलो रज्जुः कुटिलश् चाषमद्गुकौ ।

कङ्कः सारवणो भासः शतपत्रप्लवङ्गमाः ॥

उत्क्रोशो बर्हिणः क्रौञ्चश् चक्रवाकः शिलीमुखः ।

पारावतकपोतौ चाभक्ष्याः पक्षिगणाः स्मृताः ॥

“भ्र्ङ्गराजो” धूम्राटः, धनच्छुआ इति प्रसिद्धः । “चित्रकः” चित्रकपोतः । “कङ्कः” लोहितपत्रः ।

“अभोज्यम्” इत्य् अनुवृत्तौ वसिष्ठः [१४.४८] ।

[३०१]

    शकुनानां विधुनविष्किरजालपादाः कलविङ्कप्लवहंसचक्रवाकभास-वायसपारावताः कुक्कुटसारङ्गाः पाण्डुकपोतक्रौञ्चक्रकरबकबलाका-मद्गुटिट्टिभमान्धालनक्तञ्चरा दार्वाघाटकचातकतैलातकहारीतक-खञ्जरीटकग्राम्यकुक्कुटशुकसारिकाकोकिलक्रव्यादो ग्रामोपचारिणश् च ।

विधुनोतीति “विधुनः” । “भासः” तल्लचरो गृध्रविशेषः । “सारङ्गो” मृगः । “क्रकरः” कृकलासः । “मान्धालो” वाग्गुदः । “नक्तञ्चरा” उलूकादयः । “दार्वाघाटः” काष्ठकुट्टकः । “हारीतकः” हरितपक्षः कपोताकृतिः । “ग्रामोपचारिणः” ग्राम एव ये सदा चरन्ति ।

अत्र “अभक्ष्या” इति भाविनि गौतमः [१७.२६–२७] ।

    कलविङ्कप्लवचक्रवाकहंसाः । काककङ्कगृध्रश्येना जलजा रक्तपादतुण्डा ग्राम्यकुक्कुटसूकराः ।

[३०२] अभक्ष्या इत्य् अनुवृत्तौ यमः

    कलविङ्कप्लवचक्रवाकहंसभाससारसा ये चान्ये प्रतुदा विष्किरा जालपादा रक्तपादा कोयष्टिकाः ।

पुनर् यमः

छत्राकं विड्वराहं च जालपादांश् च कुक्कुटान् ।

भक्षयित्वा पतेद् विप्रो यो ऽपि स्यात् सर्ववेदवित् ॥

अत्राभक्ष्यप्रकरणे आपस्तम्बः [१.१७.३२–३६] ।

    कुक्कुटो विष्किराणाम् । प्लवः प्रतुदाम् । क्रव्यादः । हंससारसचक्रवाक-सुपर्णाश् च । क्रुञ्चक्रौञ्चवार्ध्राणसलक्ष्मणवर्ज्यम् ।

गौतमः [१७.३२–३३] ।

    निचुदारुबकबलाकाशुकमद्गुटिट्टिभमान्धालनक्तञ्चरा अभक्ष्याः । भक्ष्याः प्रतुदविष्किराजालपादाः ।

[३०३] भक्ष्या इत्य् अनुवृत्तौ बौधायनः [१.१२.७] ।

    पक्षिणस् तित्तिरिकपोतकपिञ्जलवार्ध्राणसतृणमयूरवारणा वारणवर्जाः पञ्चविष्किराः ।

शङ्खः [१७.२७] ।

तित्तिरिं च मयूरं च लावकं च कपिञ्जलम् ।

वार्ध्राणसं वर्तकं च भक्ष्यान् आह **यमः** सदा ॥

अथ पशवः

तत्र देवलः

अभक्ष्याः पशुजातीनां गोखरोष्ट्राश्वकुञ्जराः ।

सिंहव्याघ्रर्क्षशरभाः सर्पाजगरजालकाः ॥

आखुमूषिकमार्जारनकुलग्रामसूकराः ।

श्वशृगालमृगद्वीपिगोलाङ्गूलनृमर्कटाः ॥

[३०४] “ऋक्षः” भल्लूकः । “शरभो” अष्टपदः । “अजगरः” सर्पविशेषः । “आखुः” महानुन्दुरुः । “मूषिको” अत्र स्वल्पमूषिकः । “द्वीपी” चित्रकः । “गोलाङ्गूलअः” कृष्णमुखो वानरः । “ना” मनुष्यः । “मर्कटो” वानरः ।

**पैठीनसिः **।

    मृगपक्षिणां क्रव्यादांश् च वर्जयेत् । सर्वमांसादानां यावन्तस् तथोक्तास् तावन्तो ऽभक्ष्याः ।

यमः

गवाश्वं गर्दभोष्ट्रं च श्वशृगालं तथैव च ।

विष्किरान् प्रतुदान् भुक्त्वा सद्यः पतति वै द्विजः ॥

“नित्यम् अभोज्यम्” इत्य् अनुवृत्तौ गौतमः [१७.२६] ।

उभयतोदन्तकेश्यलोमैकशफकलविङ्कप्लवचक्रवाकहंसाः ।

“उभयतोदन्तः” मनुष्यः । “केशी” चमरी । “अलोमाः” सर्पादयः ।

पुनर् गौतमः [१७.२९] ।

अपन्नददवसन्नवृथामांसानि ।

[३०५] “अपन्नदत्” यावत् स्वभावतो दन्ता न पतन्ति तावद् भक्ष्यो ऽप्य् अभक्ष्यः । “अवसन्नो” व्याधिग्लानः । “वृथामांसं” यद् देवपित्राद्युद्देशेन न पच्यते ।

“अभोज्या” इत्य् अनुवृत्तौ वसिष्ठः [१४.४३–४७] ।

    गौरगवयशरभाजाश् च । अनुद्दिष्टास् तथा । धेन्वनड्वाहावपन्नदन्ताश् च । भक्ष्यौ धेन्वनड्वाहौ मेध्यौ **वाजसनेयके** विज्ञायते । खड्गे तु विवदन्त्य् अग्राम्यसूकरे च ।

“गौरः” अश्वसदृश आरण्यपशुः । “मेध्यौ” मेधो यज्ञस् तदङ्गभूतौ । “खड्गे च विवदन्त्य् अग्राम्यसूकरे च” इति, खड्गग्राम्यसूकरयोः केचिन् मुनयो भक्ष्यत्वं वदन्ति, केचिच् चाभक्ष्यत्वम् । ततश् च विकल्पः । स च श्राद्धनियुक्तानियुक्ततया व्यवस्थितः ।

ब्रह्मपुराणे

पशोश् च मार्यमाणस्य न मांसं ग्राहयेद् द्विजः ।

पृष्ठमांसं गर्भशय्यां शुष्कमांसम् अथापि वा ॥

भूमेर् अन्तरितं कृत्वा मृद्भिश् चाच्छादितं च यत् ।

पक्वमांसम् ऋजीषं च प्रयत्नात् तन् न भक्षयेत् ॥

[३०६] मनुः [५.१७] ।

न भक्षयेद् एकचरान् अज्ञातांश् च मृगद्विजान् ।

भक्ष्येष्व् अपि समुद्दिष्टान् सर्वान् पञ्चनखांस् तथा ॥

“एकचराः” एकाकिनः प्रायेण स्वभावतो ये चरन्ति सर्पादयः । “अज्ञाताः” नामतः स्वभावतो रसवीर्यविपाकतश् चाभियुक्तैर् अपि ये । सामान्यतो विशेषतश् च प्रतिषेधानाक्रान्तत्वेन भक्ष्यवर्गमध्यपाताद् “भक्ष्येष्व् अपि समुद्दिष्टान्” इत्य् उक्तम् ।

अभक्ष्यप्रकरणे आपस्तम्बः [१.१७.३७] ।

पञ्चनखानां गोधाकच्छपश्वाविच्छल्यकखड्गशशपूतिखषवर्जम् ।

“श्वावित्” सेधा । “शल्यकः” शल्यसहितः सेधासदृशाः प्राणिविशेषः । “पूतिखषः” हिमवति प्रसिद्ध इति कपर्दी

[३०७] मनुः [५.१८] ।

श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस् तथा।

भक्ष्यान् पञ्चनखेष्व् आहुर् अनुष्ट्रांश् चैकतोदतः ॥

“एकतोदतः” एकतोदन्तान् ।

बौधायनः [१.१२.५] ।

    भक्ष्याः श्वाविद्गोधाशशकशल्यककच्छपखड्गाः खड्गवर्जाः पञ्च पञ्चनखाः ।

महाभारते

आजं गव्यं च यन् मांसं मायूरं च विवर्जयेत् ।

हारीतः

    ग्राम्यारण्यानां पशूनाम् अश्नन्ति यथाजमेषमहिषहरिणखड्गरुरु-पृषतर्श्यन्यङ्कुमहारण्यवासिनश् च वराहान् । तथा शशकशल्यकसेधा-गोधाकूर्मवर्तकतित्तिरिमयूरवार्ध्राणसलावकक्रकुरकपिञ्जलान् । सशल्कांश् च मत्स्यान् न्यायोपपन्नान् भक्षयेत् ।

[३०८] “रुरुः” बहुशाखशृङ्गो मृगः । “पृषतो” बिन्दुचित्रितो मृगः । “ऋश्यः” मृदुशृङ्गह्, रोझ इत् प्रसिद्धः । “न्यङ्कु” शबरसदृशः शृङ्गरहितः । “सेधा” शललवती ।

पैठीनसिः

    ग्राम्यारण्याश् चतुर्दश । गौर् अविर् अजो ऽश्वो ऽश्वतरो गर्दभो मनुष्यश् चेति सप्त ग्राम्याः पशवः । पक्षिवानरमहिषसरीसृपरुरुपृषतमृगास् चेति सप्तारण्याः पशवः ।

अथ मत्स्याः

तत्र मनु-यमौ

यो यस्य मांसम् अश्नाति स तन्मांसाद उच्यते ।

मत्स्यादः सर्वमांसादस् तस्मान् मत्स्यान् विवर्जयेत् ॥

आपस्तम्बः [१.१७.३८–३९] ।

    अभक्ष्यश् चेटो मत्स्यानाम् । सर्पशीर्षो मृदुरः क्रव्यादो ये चाने विकृतास्या यथा मनुष्यशिरसः ।

“सर्पशीर्षः” सर्पस्येव शिरो यस्य । “मृदुरः” मकरः । “क्रव्यादः” ये प्रायेण् मांसम् अश्नन्ति नक्रादयः ।

[३०९] यमः

    अभक्ष्या मकरसर्पसरीसृपमद्गुमयूरवर्मिकनक्रकर्कटशिशुमाराः । ये चान्ये हयकर्णिकाः । ये चान्ये ऽशल्का मत्स्या उभयकास्याः ।

“सर्पः” अत्र जलसर्पो डुण्डुभः । “सरीसृपः” अत्र जलौकाः । “मद्गुः” जलकाकः । “मयूरः” अत्र जलचरो मयूरसदृशः पक्षी । “वर्मिकः” स्वल्पसर्पसदृशो मत्स्यः । “उभयकास्याः” उभयतोमुखाः ।

पुनर् यमः

मत्स्यान् अशल्कान् सर्वान् वेदाध्यायी विवर्जयेत् ।

“वेदाध्यायी” त्रैवर्णिको ऽत्र ।

पैठीनसिः

    कुलीरवार्ताकपृतनजलानर्तक्षिप्रगाश् चेत्य् अभक्ष्याः । सर्पशीर्षा 


    विकृतमुखाश् च ।

“अभक्ष्याः” इत्य् अनुवृत्तौ वसिष्ठः [१४.४१–४२] ।

    मत्स्यानां वेटगवयशिशुमारनक्रकुलीराः । विकृतरूपाः सर्पशीर्षाश् च ।

[३१०] देवलः

शम्बूकः शुक्तिर् नखशुक्तिः शिशुमारः प्लवङ्गमः ।

मत्स्याश् च विकृताकारा नैव भक्ष्या जलौकसाम् ॥

“नखशुक्तिः” दीर्घशुक्तिका । “प्लवङ्गमो” मण्डूकः ।

मनुः [५.१६] ।

पाठीनरोहिताव् आद्यौ नियुक्तौ हव्यकव्ययोः ।

राजीवान् सिंहतुण्डांश् च सशल्कांश् चैव सर्वशः ॥

“नियुक्तौ हव्यकव्ययोः” श्राद्धाद्यर्थं विनियुक्तौ । “आद्यौ” अदनीयौ ।

शङ्खः [१७.२५] ।

राजीवाः सिंह्तुण्डाश् च सशल्काश् च तथैव च ।

पाठीनरोहितौ वापि भक्ष्या मत्स्येषु कीर्तिताः ॥

“भक्ष्या” इत्य् अनुवृत्तौ बौधयनः [१.१२.८] ।

    मत्स्याः सहस्रदंष्ट्रश् चिलिचिमो वर्मी बृहच्छिरो रोमशकरिरोहितराजीवाः ।

[३११] हारीतः

सशल्कांश् च मत्स्यान् न्यायोपपन्नान् भक्षयेत् ।

अत्र “भक्ष्या” इत्य् अनुवृत्तौ गौतमः [१७.३४] ।

मत्स्याश् चाविकृताः ।

याज्ञवल्क्यः [१.१७७–१७८] ।

भक्ष्याः पञ्चनखा सेधागोधाकच्छपशल्यकाः ।

शशश् च् मत्स्येष्व् अपि तु सिंहतुण्डकरोहिताः ॥

तथा पाठीनराजीवसशल्काश् च द्विजातिभिः ।

अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥

अथ मांसभक्षणवर्जनविधिः

तत्र मनुः [५.२६–३२] ।

एतद् उक्तं द्विजातीनां भक्ष्याभक्ष्यम् अशेषतः ।

मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥

[३१२] प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया ।

यथाविधि नियुक्तश् च प्राणानाम् एव चात्यये ॥

प्राणस्यान्नम् इदं सर्वं प्रजापतिर् अकल्पयत् ।

जङ्गमं स्थावरं चैव सर्वं प्राणस्य भोजनम् ॥

चराणाम् अन्नम् अचरा दंष्ट्रिणां चाप्य् अदंष्ट्रिणः ।

अहस्ताश् च सहस्तानां शूराणां चैव भीरवः ॥

नात्ता दुष्यत्य् अदन्न् आद्यान् प्राणिनो ऽहन्य् अहन्य् अपि ।

धात्रैव सृष्टा ह्य् आद्याश् च प्राणिनो ऽत्तार एव च ॥

यज्ञाय जग्धिर् मांसस्येत्य् एष दैवो विधिः स्मृतः ।

अतो ऽन्यथा प्रवृत्तिस् तु राक्षसो विधिर् उच्यते ॥

क्रीत्वा स्वयं वाप्य् उत्पाद्य परोपहृतम् एव वा ।

देवान् पितॄंश् चार्चयित्वा खादन् मांसं न दुष्यति ॥

“एतद् उक्तं द्विजातीनाम्” इति, पूर्वोक्तभक्ष्याभक्ष्ययोर् ब्राह्मणादिवर्णत्रयाधिकारकथनं शूद्रव्युदासार्थम् । तेन लशुनादिभक्षणे तस्यादोषः । तन्मध्यपठितकाकादिभक्षणं तु महाजनविगानाद् दोषावहम् । अतो वक्ष्यमाणमांसवर्जनविधानं चातुर्वर्ण्यसाधारणम् । वर्जने तु विधिः सूर्यानी**[३१३]**क्षणवत् सङ्कल्परूपः । “प्रोक्षितम्” अत्र यज्ञार्थमन्त्रैः संस्कृतम्, “असङ्कृतान् पशून् मन्त्रैः” इत्यादिवाक्यशेषात् । “ब्राह्मणानां च काम्यया” इति, यदा ब्राह्मणाः केचित् प्रत्येकं कामयन्ते त्वया मांसं भोक्तव्यम् इति, तदा तेषाम् इच्छयैकवारं मांसं भक्षयतो न दोषः, “सकृद् ब्राह्मणकाम्यया” इति यमवचनात् । “प्राणानाम् एव चात्य्त्ये” इति, रोगेणान्नाभावेन वा यदा मांसभक्षणव्यतिरेकेण प्राणात्ययः सम्भाव्यते, तदा मांसं भक्ष्यम् इत्य् अर्थः । एषाम् एव पूर्वोक्तानाम् अर्थवादाः “प्राणस्यान्न” इत्यादयः । “चराः” हरिणादयः । “अचराः” तृणादयः । “दंष्ट्रिणो” व्याघ्रादयः । “अदंष्ट्रिणो” हरिणादयः । “सहस्ताः” मनुष्यादयः । “अहस्ताः” मत्स्यादयः । “शूराः” युद्धाद्युत्साहिताः । “भीरवः” कातराः । “यज्ञाय” यज्ञार्थम् । “जग्धिः” भक्षणम् । “स्वयम् उत्पाद्य” इति क्षत्रियविषयम् ।

तथा च महाभारते

क्षत्रियाणां तु यो दृष्टो विधिस् तम् अपि मे शृणु ।

वीर्येणोपार्जितं मांसं यथा खादन् न दुष्यति ॥

आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः ।

[३१४] अगस्त्येन पुरा राजन् मृगया येन पूज्यते ॥

नात्मानम् अपरित्यज्य मृगया नाम विद्यते ।

समताम् उपसङ्गम्य भूतं हन्येत मानवः ॥

अतो राजर्षयः सर्वे मृगयां यान्ति भारत ।

लिप्यन्ते न च दोषेण न चैतत् पातकं विदुः ॥ इति ।

“क्रीत्वा स्वयं वा” इत्य् अनेन च देवपित्रर्चनपूवके मांसभक्षणे दोषाभावः प्रदर्शितः । यत् तु मांसवर्जनात् फलश्रवणं तद् अप्य् एतत् प्रकारप्राप्तमांसभक्षणवर्जनविषयं, न नियुक्तादिविषयम् । तथाकरणे दोषश्रुतेः ।

याज्ञवल्क्य-विश्वामित्रौ

प्राणात्यये तथा श्राद्धे प्रोक्षितं द्विजकाम्यया ।

देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक् ॥

देवलः

भक्षयन्न् अपि मांसानि शेषभोजी न लिप्यते ।

औषधार्थम् अशक्तौ च नियोगाद् यज्ञकारणात् ॥

[३१५] “शेषभोजी” देवपित्राद्यर्चनशेषस्य भोक्ता । “औषधार्थम्” औषधप्रयोजनेन । “अशक्तौ” व्याधिनाभिभवे सति । तेन यत्र मांसभक्षणं विना रोगापनयो न भवतीति वैद्यकशास्त्रविदां निश्चयस् तत्र भक्ष्यम् इत्य् अर्थः । “नियोगः” श्राद्धे निमन्त्रणम् । “यज्ञकारणात्” यज्ञसिद्ध्यर्थम् । “भक्षयन् न लिपयत” इत्य् अन्वयः ।

यमः

भक्षयेत् प्रोषितं मांसं सकृद् ब्राह्मणकाम्यया ।

दैवे नियुक्तः श्राद्धे वा नियमे तु विवर्जयेत् ॥

“सकृद्” एकवारः । अस्य च “ब्राह्मणकाम्यया” इत्य् अनेन सम्बन्धः । “नियमे” मांसवर्जनव्रते कृते सति । एतच् च् प्रोक्षितातिरिक्तैः सर्वैर् एव सम्बध्यते । प्रोक्षिते तु न सम्बध्यते, प्रत्यक्षश्रुतिविरोधात् । एवम् अन्यस्मिन्न् अपि मांसभक्षणाभ्यनुज्ञाने स्मृत्यन्तरोक्ते बलवत् प्रमाणविषयं विहाय नियमे तु वर्जयेद् इति सम्बन्धनीयम् ।

बृहस्पतिः [आचार्। ८४, ८१] ।

रोगी नियुक्तो विधिना हुतं विप्रवृतस् तथा ।

मांसम् अद्याच् चतुर्धैषा परिसङ्ख्या प्रकीर्तिता ॥

[३१६] अतो ऽन्यथा तु यो ऽश्नीयाद् विधिं हित्वा पिशाचवत् ।

यावन्ति पशुरोमाणि तावत् प्राप्नोति मारणम् ॥

“रोगी” चात्र मांसेनैव यस्य रोगापनयनं भवति । “विधिना” शास्त्रोक्तप्रकारेण । “हुतं” हुतावशिष्टम् । “विप्रवृतः” विप्रेण प्रार्थितः । “परिसङ्ख्या” अत्र परिगणनम् । स्मृत्यन्तरे

देवान् पितॄंश् चार्चयित्वा खादन् मांसं न दोषभाक् ।

इत्यादिप्रकारान्तरेणापि मांसभक्षणाभ्यनुज्ञानात् ।

हारीतः

वृथमांसं न भक्ष्यं तु प्रास्य कृच्छ्रं चरेद् बुधः ।

काम्यया ब्राह्मणानां तु यथाकामं समश्नुयात् ॥

मनु-विष्णू

असंस्कृतान् पशून् मन्त्रैर् नाद्याद् विप्रः कथञ्चन ।

मन्त्रैस् तु संस्कृतान् अद्याच् छाश्वतं विधिम् आस्थितः ॥

यत् “प्रोक्षितं भक्षयेन् मांसम्” इति पूर्वम् उक्तम्, तस्यैव विषयम् आह “मन्त्रैस् तु संस्कृतान्” इति । “शाश्वतः” नित्यवेदप्रतिपादितत्वात् । “आस्थितः” आस्रितः ।

[३१७] यमः

यजुषा संस्कृतं मांसं भक्षयेत् तु यथाविधि ।

न भक्षयेद् वृथा मांसं पृष्ठमांसं विवर्जयेत् ॥

“पृष्ठमांसम्” पृष्ठसम्बन्धिमांसम् ।

पैठीनसिः

श्राद्धे तु मांसम् अश्नीयात् तथातिथिनिमित्तके ।

यावन्ति पशुरोमाणि तावन् नरकम् ऋच्छति ॥

“श्राद्धे” निमन्त्रित इति शेषः । “अतिथिनिमित्तके” अतिथ्यर्थं यद् उपात्तं तद् अतिथिना भक्ष्यम् इत्य् अर्थः ।

महाभारते

हविर् यत् प्रोक्षितं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि ।

वेदोक्तेन प्रकारेण पितॄणां प्रक्रियासु च ॥

अतो ऽन्यथा वृथामांसम् अभक्ष्यं **मनुर्** अव्रवीत् ।

तथा

प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया ।

अल्पदोषम् इह ज्ञेयं विपरीते तु लिप्यते ॥

तथा

पितृदैवतयज्ञेषु प्रोक्षितं हविर् उच्यते ।

विधिना वेददृष्टेन तद् भुक्त्वेह न दुष्यति ॥

[३१८] मनुः [५.३५] ।

नियुक्तस् तु यथान्यायं यो मांसं नात्ति मानवः ।

स प्रेत्य पशुतां याति सम्भवान् एकविंशतिम् ॥

यमः

आमन्त्रितस् तु यः श्राद्धे दैवे वा मांसम् उत्सृजेत् ।

यावन्ति पशुरोमाणि तावन् नरकम् अश्नुते ॥

हारीत-शातातपौ

नियुक्तस् तु यथा श्राद्धे यस् तु मांसं न भक्षयेत् ।

यावन्ति पशुरोमाणि तावन् नरकम् ऋच्छति ॥

क्षत्रियैस् तु मृगव्येन विधिना समुपार्जितम् ।

श्राद्धकाले प्रशंसन्ति सिंहव्याघ्रहतं च यत् ॥

विषछद्महतं चैव व्याधतिर्यग्घतं च यत् ।

न प्रशंसन्ति वै श्राद्धे यच् च मन्त्रविवर्जितम् ॥

“मृगव्येन” आखेटकेन । “विधिना” विषघद्मादिरहितशौर्येण । “निर्यञ्चो” अत्र सिंहादेर् अन्ये पशवः ।

**गौतमः **[१७.३६] ।

व्यालहतादृष्टदोषवाक्प्रशस्तान्य् अभ्युक्ष्योपयुञ्जीत ।

[३१९] “व्यालाः” सिंहव्याघ्रादयः स्मृत्यन्तरोक्तः । “अदृष्टदोषम्” अनिश्चितदोषम् । “वाकप्रशस्तम्” अत्र शुच्यशुचि वेति यत् सन्दिग्धं तद् यदान्येन वाचा शोभनम् इति प्रशस्तं भवति तदाभ्युक्ष्योपयुञ्जीतेत्य् अर्थः ।

आपस्तम्बः [१.१६.१६] ।

हिंसार्थेनासिना छिन्नं मांसम् अभोज्यम् ।

“हिंसार्थेन” प्राणिवधार्थम् एव यन् नियतं तेन यत् “छिन्नं” पाकाद्यर्थं कृतम् । असिग्रहणम् अत्रोपलक्षणम् ।

मनुः विष्णुश् च द्वितीय ।

नाद्याद् अविधिना मांसं विधिज्ञो ऽनापदि द्विजः ।

जग्ध्वा ह्य् अविधिना मांसं प्रेत्य तैर् अद्यते ऽवशः ॥

न तादृशं भवत्य् एनो मृगहन्तुर् धनार्थिनः ।

यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥

मां स भक्षयितामुत्र यस्य मांसम् इहाद्म्य् अहम् ।

[३२०] एतन् मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥

स्वमांसं परमांसेन यो वर्धयितुम् इच्छति ।

अनभ्यर्च्य पितॄन् देवान् न ततो ऽन्यो ऽस्त्य् अपुण्यकृत् ॥

यमः

स्वमांसं परमांसेन यो वर्धयितुम् इच्छति ।

यत्र तत्राभिजायेत स बवेद् व्याधिपीषितः ॥

भुक्त्वा तु मोहान् मांसानि नरः पुष्ट्यर्थम् आत्मनः ।

अकृत्वेहात्मनः शुद्धिं तिर्यग्योनिषु पच्यते ॥

“आत्मनः शुद्धिम्” प्रायश्चित्तम् ।

हारीतः

मातृकात् पैतृकाच् चैव किल्बिषाज् जन्तुसम्भवः ।

यो यस्य भक्षयेन् मांसं स तस्याश्नाति किल्बिषम् ॥

भक्षयित्वा तु यो मांसम् अद्भिः शौचं समाचरेत् ।

हसन्ति देवतास् तस्य ह्य् अशुचेः शुचिदर्शिनः ॥

“किल्बिषम्” अत्र शुक्रशोणिते । “तस्य किल्बिषम्” तन्मांसं तन्मयत्वात् किल्बिषम् उच्यते ।

मनुः [५.५१] ।

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।

संस्कर्ता चोपहर्ता च खादकश् चेति घातकाः ॥

[३२१] देवलः

आत्मार्थं स्वादुकामित्वाज् जीवजातं न घातयेत् ।

कष्टं हि व्यालधर्मित्वाज् जीवमांसोपजीवनम् ॥

“कष्टम्” पापहेतुत्वात् ।

यमः

यस् तु खादति मांसानि प्राणिनां जीवितैषिणाम् ।

हतानां च मृतानां च यथा हन्ता तथैव सः ॥

अनुमन्ता विशस्ता च निहन्ता क्रयविक्रयी ।

घातकाः सर्व एवैते संस्कर्ता षष्ठ उच्यते ॥

निर्देशेनानुमन्ता च विशस्ता शासनात् तथा ।

हननेन तथा हन्ता धनेन क्रयिकस् तथा ॥

विक्रयी च धनादानात् संस्कर्ता तत्प्रवर्तनात् ।

धनेन चोपभोगेन वधबन्धेन चाप्य् अथ ॥

त्रिविधस् तु वधो ज्ञेयो भोक्ता तत्रातिरिच्यते ।

घातकाः षट् समाख्याता भोक्ता तत्र तु सप्तमः ॥

षण्णां तेषां सकाशात् तु ह्य् उपभोक्तातिरिच्यते ।

क्रेतारं भजते पादः पादो भोक्तारम् ऋच्छति ॥

[३२२] घातकं भजते पादः पादम् ऋच्छन्त्य् अतस् त्रयः ।

यदि तत्खादको न स्याद् घातको न तथा भवेत् ॥

खादको घातकः क्रेता त्रयस् तुल्या न संशयः ।

न भूमेर् जायते मांसं न वृक्षास् तु प्ररोहति ॥

घोरं प्राणिवधं कृत्वा तस्मान् मांसं विवर्जयेत् ।

यस् तु खादति मांसानि ब्राह्मणो वेदवित्तमः ॥

स पच्यते निरालम्बे नरके तेन कर्मणा ।

मनुः [५.५०] ।

यस् तु भक्षयते मांसं विधिं हित्वा पिशाचवत् ।

स लोके ऽप्रियतां याति व्याधिभिश् चैव पीड्यते ॥

यमः

भक्ष्याण्य् अपि च मांसानि यस् तु तानि न भक्षयेत् ।

अभक्षणेन मांसानां साक्षाद् धर्मश् च तुष्यति ॥

सर्वेषाम् एव मांसानां महान् दोषस् तु भक्षणे ।

अभक्षणे तु धर्मः स्याद् विशिष्ट इति नः स्मृतम् ॥

मनुः [५.५३–५४] ।

वर्षे वर्षे ऽश्वमेधेन यो यजेत शतं समाः ।

[३२३] मांसानि तु न खादेद् यस् तयोः पुण्यफलं समम् ॥

फलमूलाशनैर् मेध्यैर् मुन्यन्नानां च भोजनैः ।

न तत् फलम् अवाप्नोति यन् मांसपरिवर्जनात् ॥

याज्ञवल्क्यः [१.१८१] ।

सर्वान् कामान् अवाप्नोति हयमेधफलं तथा ।

गृहे ऽपि निवसन् विप्रो मुनिर् मांसविवर्जनात् ॥

नन्दिपुराणे

क्लेदि दुर्गन्धि विकृतं जुगुप्सास्पदम् एव च ।

मांसं न भक्षयेद् विद्वान् न स्वादु परमं हितम् ॥

यश् च सम्यक् स्वधर्मस्थो गुरुशुश्रूषणे रतः ।

गच्छेल् लोकं शुभं मर्त्यो दिव्यं देवनिषेवितम् ॥

तम् एव दिवसं मांसाद् विरतो लोकम् आप्नुयात् ।

यो मासं वर्जयेन् मांसं पुरुषः शुभमानसः ॥

स याति स्वर्गं अतुलं दिव्यभोगसमृद्धिमान् ।

यत् तपोघोरसङ्कल्पं पुष्करेषु शतं समाः ॥

तप्त्वा फलम् अवाप्नोति तत् फलं मांसवर्जनात् ।

चन्द्रसूर्यग्रहे यस् तु दद्यात् पृथ्वीं चराचराम् ॥

[३२४] गयायां तु तपो घोरं यश् चाब्दशतम् आचरेत् ।

एवंविधो यः परमांल् लोकान् सम्प्राप्नुयान् नरः ॥

लोकान् इमान् समाप्नोति सर्वदा मांसवर्जनात् ।

यश् चोपदेशं कुरुते परस्य तु महात्मनः ॥

मांसस्य वर्जनफलं सो ऽमांसाद् अफलं लभेत् ।

महाभारते

मासि मास्य् अश्वमेधेन यो यजेत शतं समाः ।

न खादति च यो मांसं समम् एतद् युधिष्ठिर ॥

तथा

यस् तु वर्षशतं पूर्णं तपस् तप्येत् सुदारुणम् ।

यश् चैकं वर्जयेन् मांसं समं वा स्यान् न वा समम् ॥

कौमुदं तु विशेषेण शुक्लपक्षं नराधिप ।

वर्जयेत् सर्वमांसानि धर्मो ह्य् अत्र विधीयते ॥

चतुरो वार्षिकान् मासान् यो मांसम् अपि वर्जयेत् ।

चत्वारि भद्राण्य् आप्नोति कीर्तितम् आयुर् यशो बलम् ॥

अथ वा मासम् अप्य् एकं सर्वमांसान्य् अभक्षयन् ।

अतीत्य सर्वदुःखानि सुखं जीवेन् निरामयः ॥

ये वर्जयन्ति मांसानि मासं पक्षम् अथापि वा ।

[३२५] तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते ॥

मासं तु कौमुदं पक्षं वर्जितं सर्वराजभिः ।

सर्वभूतात्मभूतैस् तैर् विज्ञातार्थपरापरैः ॥

नाभागेनाम्बरीषेण गयेन च महात्मना ।

आयुषा चानरण्येन दिलीपरघुसूनुभिः ॥

कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना ।

नृपेण विष्वक्सेनेन तथैव शतबिन्दुना ॥

युवनाश्वेन च तथा शिबिनौशीनरेण च ।

मुचुकुन्देन मान्धात्रा हरिश्चन्द्रेण वा विभो ॥

सत्यं वदत मासत्यं सत्यं धर्मः सनातनः ।

हरिश्चन्द्रश् चरति वै दिवि सत्येन चन्द्रवत् ॥

श्येनचित्रेण राजन्य सोमकेन वृकेण च ।

देवत्रा रन्तिदेवेन वसुना सञ्जयेन च ॥

दुष्यन्तेन करूषेण रामालर्कनलैस् तथा ।

विरूपाश्वेन निमिना जनकेन च धीमता ॥

नीलेन पृथुना चैव वीरसेनेन चैव हि ।

इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च ॥

अजेन धुन्धुना चैव तथैव च सुबाहुना ।

हर्यश्वेन च राजेन्द्र कृपेण भरतेन च ॥

एतैश् चान्यैश् च राजेन्द्रैः पुरा मांसं न भक्षितम् ।

शारदं कौमुदं मांसं ततस् ते स्वर्गम् आप्नुवन् ॥

ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रिया वृताः ।

[३२६] उपास्यमाना गन्धर्वैः स्त्रीसहस्त्रसमन्वितैः ॥

तद् एवम् उत्तमं धर्मम् अहिंसालक्षणं शुभम् ।

ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते ॥

मधु मांसं च ते नित्यं वर्जयन्तीह धार्मिकाः ।

जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ॥

**बृहस्पतिः **[आचार्। ८५, ८२] ।

रोगार्तो ऽभ्यर्चितो वापि यो मांसं नात्त्य् अलोलुपः ।

फलं प्राप्नोत्य् अयत्नेन सो ऽश्वमेधशतस्य तु ॥

मद्यं मांसं मैथुनं च भूत्नां ललनं स्मृतम् ।

तद् एव विधिना कुर्वन् स्वर्गम् आप्नोति मानवः ॥

मनुः [५.५६] ।

न मांसभक्षणे दोषो न मद्ये न च मैथुने ।

प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला ॥

“निवृत्तिः” वर्जनसङ्कल्पः । “महाफला” स्वर्गादिफला, भक्षणजन्यतृप्त्यपेक्षया स्वर्गादेर् महाफलत्वात् ।

अथ पशुहिंसाविधिप्रतिषेधौ

तत्र मनुः [५.२२–२३] ।

यज्ञार्थं ब्राह्मणैर् वध्याः प्रशस्ता मृगपक्षिणः ।

[३२७] भृत्यानां चैव वृत्त्यर्थम् अगस्त्यो ह्य् आचरत् पुरा ॥

बभूवुर् हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् ।

पुराणेष्व् अपि यज्ञेषु ब्रह्मक्षात्रसवेषु च ॥

“यज्ञार्थम्” इति दृष्टान्तर्थम् । “प्रशस्ताः” भक्ष्यत्वेन प्रसिद्धाः । “पुराणाः” ऋषियज्ञाः षड्विंशद्वत्सरादयः । तत्र हि मृगवधः श्रूयते —

    संस्थिते ऽहनि गृहपतिर् मृगयां याति । स तत्र यान् यान् मृगान् हन्ति तेषां तरसाः पुरोडाशा भवन्ति । इति ।

“संस्थिते” समाप्ते । “तरसाः” मांसमयाः ।

मनुर् विष्णुश् च [५.३९–४२, ४४] ।

यज्ञार्थं पशवः सृष्टाः स्वयम् एव स्वयम्भुवा ।

यज्ञो ऽस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधो ऽवधः ॥

ओषध्यः पशवो वृक्षास् तिर्यञ्चः पक्षिणस् तथा ।

यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्य् उच्छ्रितीः पराः ॥

मधुपर्के च सोमे च पितृदैवतकर्मणि ।

अत्रैव पशवो हिंस्या नान्यत्रेत्य् अब्रवीन् **मनुः** ॥

[३२८] एष्व् अर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः ।

आत्मानं च पशूंश् चैव गमयत्य् उत्तमां गतिम् ॥

या वेदविहिता हिंसा नियतास्मिंश् चराचरे ।

अहिंसाम् एव तां विद्याद् वेदाद् धर्मो हि निर्बभौ ॥

वसिष्ठः [४.५, ८] ।

    पितृदेवतातिथिपूजायाम् अप्य् एव पशुं हिंस्याद् इति **मानवम्** । अथापि ब्राह्मणाय राजन्याय चाभ्यागताय महोक्षं महाजं वा पचेद् एवम् अस्मा आतिथ्यं कुर्वन्ति ।

“पितृदैवतम्” अष्टकाकर्म ।

यम-पैठीनसी ।

नात्मार्थं पाचयेद् अन्नं नात्मार्थं घातयेत् पशून् ।

देवार्थे ब्राह्मणार्थे वा पचमानो न लिप्यते ॥

मनुः, विष्णुश् च तृतीये ।

गृहे गुराव् अरण्ये वा निवसन्न् आत्मवान् द्विजः ।

नावेदविहितां हिंसाम् आपद्य् अपि समाचरेत् ॥

[३२९] कुर्याद् घृतपशुं सङ्गे कुर्यात् पिष्टपशुं तथा ।

न त्व् एव तु वृथा हन्तुं पशुम् इच्छेत् कथञ्चन ॥

यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम् ।

वृथा पशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥

यो ऽहिंसकानि भूतानि हिनस्त्य् आत्मसुखेच्छया ।

स जीवंश् च मृतश् चैव न क्वचित् सुखम् अश्नुते ॥

“गुरौ वसन्” ब्रह्मचारी । “गृहे वसन्” गृहस्थः । “अरण्ये वसन्” वानप्रस्थः । “अवेदविहिताम्” अविहिताम् । “आपदि” क्षुधादिक्लेशे । प्राणात्ययसम्भावनायां तु विहितत्वात् कर्तव्यैव हिंसा । “घृतपशुं” पशुकार्ये घृतम् । “सङ्गे” लोकाचारप्राप्तसीतायज्ञादौ पशुवधसम्प्रयोगे, तत्र घृतं पिष्टं वा पशुं कुर्याद् इत्य् अर्थः ।

याज्ञवल्क्यः [१.१८०] ।

वसेत् स नरके घोरे दिनानि पशुरोमभिः ।

सम्मितानि दुराचारो यो हन्त्य् अविधिना पशून् ॥

मनुः [५.४६–४७] ।

यो बन्धनवधक्लेशं प्राणिनां न चिकीर्षति ।

स सर्वस्य हितप्रेप्सुः सुखम् अत्यन्तम् अश्नुते ॥

[३३०] यद् ध्यायति यत् कुरुते रतिं बध्नाति यत्र च ।

तत् तद् आप्नोत्य् अयत्नेन यो हिनस्ति न किञ्चन ॥

हारीतः

यथात्मनस् तथान्येषां यो विद्वान् स्वस्ति चेच्छति ।

स सर्वलोकप्रवरे ब्रह्मलोके महीयते ॥

अथ मद्यानि

तत्र यमः ।

मांसं समलम् अन्नानां मांसानां च मलं सुरा ।

मलं हि सर्वपापानां सुरा धर्मेषु कथ्यते ॥

तस्माद् द्विजैर् न पेयैषा नेषा ग्राह्या कथञ्चन ।

“समलं” मलम् । “धर्मेषु” धर्मशास्त्रेषु ।

मनुः, हारीतश् च चौत्र्हवर्जम्, यमश् च प्रथमचतुर्थयोः ।

सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते ।

तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् ॥

गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।

यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥

यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ।

[३३१] तद् ब्राह्मणेन नात्तव्यं देवानाम् अश्नता हविः ॥

अमेध्ये वा पतेन् मत्तो वैदिकं वाप्य् उदाहरेत् ।

अकार्यम् अन्यत् कुर्याद् वा ब्राह्मणो मदमोहितः ॥

यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ।

तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥

“गौडी” गुडकार्यं मद्यम् । “पैष्टी” पिष्यकार्यम् । “माध्वी” मधुकार्यम् । “सुरा” मुख्या पैष्टी । “यथैवैका” इति, यथा एका पैष्टी त्रिभिर् अपि द्विजातिभिर् न पातव्या तथा “द्विजोत्तमैः” ब्राह्मणैः “सर्वा एव न पातव्या” । हारीते तु “द्विजातिभिर्” इति पाठः । अत्र च द्विजातिशब्दो ब्राह्मणपरः, “तद् ब्राह्मणेन नात्तव्यम्” इति वाक्यशेषात्,

कामाद् अपि हि राजन्यो वैश्यो वा सुसमाहितः ।

पिबेतां मधु तावत् तु न दोषं कञ्चिद् ऋच्छतः ॥

इति यमवचनात् । “यक्षरक्ष” इति, यस्माद् यक्षरक्षःपिशाचानाम् एतद् अन्नं यन् मद्यं मांसं सुरासवं तस्माद् ब्राह्मणेन न भोक्तव्यम् ।

यमः

मद्यं पीत्वा तु यो विप्रो ब्रह्म व्याहरते क्वचित् ।

घृताहुतिसहस्रेण न स किञ्चिद् उपाश्नुते ॥

तथा

ब्राह्मण्यम् ईहते यस् तु यजमानः पुनः पुनः ।

[३३२] न तेन मद्यं पातव्यं दातव्यं न च कस्यचित् ॥

उशना

मद्यम् अपेयम् अदेयम् अनिर्ग्राह्यम् ।

“अनिर्ग्राह्यम्” अस्वीकार्यम् ।

“वर्जयेद्” इत्य् अनुवृत्तौ गौतमः [२.२६] ।

मद्यं नित्यं ब्राह्मणः ।

बृहस्पतिः [आचार। ७५] ।

सौत्रामण्यां तथा मद्यं श्रुतौ भक्ष्यम् उदाहृतम् ।

विष्णुः [२२.८२–८४] ।

गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।

यथैवैका तथा सर्वा न स्प्रष्टव्या द्विजातिभिः ॥

माधूकम् ऐक्षवं टाङ्कं कौलं खार्जूरपानसे ।

मृद्वीकारसमाध्वीके मैरेयं नालिकेरजम् ॥

अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य तु ।

राजन्यश् चैव वैश्यश् च स्पृष्ट्वैतानि न दुष्यतः ॥

“द्विजातिभिः” ब्राह्मणैः । “माधूकं” मधुपुष्पभवम् । “ऐक्षवम्” इक्षुरसभवम् । “टाङ्कं” टङ्कः कपित्थविशेषः, तद्भवम् । “कौलम्” कोलिफलजम् । “खार्जूरम्” खर्जूरफलजम् । [३३३] “पानसम्” कण्टकिफलजम् । “मृद्वीकारसम्” द्राक्षाद्रवजम् । “मैरेयम्” धातुपुष्पं गुडधान्याम्बुसहितम् इति शब्दार्णवे वाचस्पतिः

भक्ष्याभक्ष्यप्रकरणे देवलः

अयातयामं रसवत् प्रत्यग्रं सुपरिश्रुतम् ।

द्रव्यं द्रव्येषु धर्मज्ञैर् एतन् मेध्यतमं स्मृतम् ॥

सुराम् अरिष्टं मैरेयं मधु माध्वीकम् आसवम् ।

धान्याम्बु शुक्तं वर्जं तु न पेयं ब्राह्मणैर् विदुः ॥

“अयातयामम्” अपरिभुक्तम् । “रसवत्” अगलितरसम् । “परिश्रुतम्” वस्त्रपूतम् । इत्थम्भूतम् अपरिश्रुतम् अभोज्यम् । “अरिष्टम्” मद्याकारादिकद्रव्यं खादिरादिभिर् विनिर्मितम् । “आसवम्” सन्धानकम् । “धान्याम्बु शुक्तम्” धान्याम्बु शुक्तं जातम् ।

अथ भोज्योत्तरकर्म

तत्र दक्षः [२.६८–६९] ।

भुक्त्वा तु सुखम् आस्थाय तद् अन्नं परिणामयेत् ।

इतिहासपुराणादैः षष्ठसप्तमकौ नयेत् ॥

अष्टमे लोकयात्रा तु बहिःसन्ध्या ततः पुनः ॥

“सुखम् आस्थाय” अत्र परिणामानुकूलां सुखावस्थितिं कुर्यात् ।

[३३४] याज्ञवल्क्यः [१.११४] ।

उपास्य पश्चिमां सन्ध्यां हुत्वाग्नींस् तान् उपास्य च ।

भृत्यैः परिवृतो भुक्त्वा नातितृप्तो ऽथ संविशेत् ॥

“तान्” अग्नीन् । “उपास्य” आराध्य । “संविशेत्” शयीत ।

दक्षः [२.७०–७१, ७४] ।

होमो भोजनकासश् च यच् चान्यद् गृहकृत्यकम् ।

कृत्वा चैव ततः पश्चात् स्वाध्यायं किञ्चिद् आचरेत् ॥

प्रदोषपश्चिमौ यामौ वेदाभ्यासरतिर् नयेत् ।

यामद्वयं शयानस् तु ब्रह्मभूयाय कल्पते ॥

अस्मिन्न् एव प्रयुञ्जानो ह्य् अस्मिन्न् एव च लीयते ।

तस्मात् सर्वप्रयत्नेन कर्तव्यं सुखम् इच्छता ॥

शर्वर्या मध्यमौ यामौ हुतशेषं हविश् च यत् ।

भुञ्जानश् च शयानश् च ब्राह्मणो नावसीदति ॥

“अस्मिन्” इति प्रदोषचतुर्थयामद्वये । “प्रयुञ्जानो” वेदं पठन् । “अस्मिन्” ब्रह्मणि” “क्र्तव्यम्” वेदाध्ययनम् इति शेषः ।

विष्णुपुराणे [२.१२.२९–३४] ।

शुशुमारस् तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति ।

[३३५] सन्निवेशं च तस्यापि शृणुष्व मुनिसत्तम ॥

यद् अह्ना कुरुते पापं दृष्ट्वा तं निशि मुच्यते ।

यावत्यश् चेह ताराश् च शुशुमाराश्रिता दिवि ॥

तावन्त्य् एव च वर्षाणि जीवन्त्य् अभ्यधिकानि तु ।

उत्तानपादस् तस्याथ विज्ञेयो ह्य् उत्तरो हनुः ॥

यज्ञो ऽधरश् च विज्ञेयो धर्मो मूर्धानम् आश्रितः ।

हृदि नारायणश् चास्ते अश्विनौ पूर्वपादयोः ॥

वरुणश् चार्यमा चैव पश्चिमे तस्य सक्थिनी ।

शिश्नः संवत्सरस् तस्य मित्रो ऽपानं समाश्रितः ॥

पुच्छे ऽग्निश् च महेन्द्रश् च कश्यपो ऽथे ततो ध्रुवः ।

तारकाशुशुमारस्य नास्तम् एति चतुष्टयम् ॥

शङ्खलिखितौ

त्रयाणाम् अपि वर्णानां पूर्वरात्रेषु जागरः ।

[३३६]

अथ रात्रिकृत्यम्

विष्णुपुराणे [३.११.१०८–११०] ।

कृतपादादिशौचस् तु भुक्त्वा सायं ततो गृही ।

गच्छेद् अस्फुटितां शय्याम् अपि दारुमयीं नृप ॥

नाविशालां न वा भग्नां नासमां मलिनां न च ।

न च जन्तुमयीं शय्याम् अधितिष्ठेद् अनास्तृताम् ॥

प्राच्यां दिशि शिरः शस्तं याम्यायाम् अथ वा नृप ।

सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥

विष्णुः [७०.१–१७] ।

    आर्द्रपादो न सुप्यात् । नोत्तरापरशिराः । न नग्नः । नानुवंशम् । नाकाशे । न पालाशे शयने । न पञ्चदारुकृते । न गजभग्नकृते । न विद्युद्दग्धकृते । न भिन्ने । नागिप्लुष्टे । न घटसिक्तजले । न श्मशानशून्यालयदेवतालयेषु । न चपलमध्ये । न नारीमध्ये । न धान्यगोगुरुहुताशनसुराणाम् उपरि । **[३३७]** नोच्छिष्टः । न दिवा स्वपेत् । न सन्ध्ययोः । न भस्मनि । देशे न चाशुचौ । न चार्द्रे । न पर्वतमस्तके ।

“अपरः” पश्चिमः । “अनुवंशम्” वंशदैर्घ्यानुगतः । वंशः गृहमूर्घन्य् अदीर्घकाष्ठम् । “आकाशे” अनावृतदेशे । “पञ्चदारुकृते” पञ्चजातीयदारुकृते । “चपलः” अत्र व्यसनी । “आर्द्रे” देश इत्य् अनुवृत्तः ।

हारीतः

    न सन्धिवेलायां शयीत । नान्यपूर्वे । नानुवंशास्तीर्णे । नाश्मपीठोपधाने । न तिर्यगुदक्प्रत्यक्शिराः । न नग्नः । नाशुचिः । नासने । नोच्छिष्टः । नो भग्ने । न प्रगे । नोच्चैर् निशायां भाषेत । 

“अन्यपूर्वे” पूर्वोपभुक्ते । “प्रगे” प्रातः ।

“सुप्यात् प्रत्यक्शिराः” इत्य् अनुवृत्तौ शङ्खलिखितौ

    न विशीर्णखट्वायाम् । नान्यवर्णोपसेवितायाम् अनभ्युक्ष्य । न भूतयक्षग्रअहायतनेषु । न श्मशानवृक्षच्छायासु । न पर्वणि रभसोत्सवे वा ।

“पर्व” प्रतिपत्पञ्चदश्योः सन्धिः । “रभसोत्सवे” हर्षोत्पादकपुत्रजन्माद्युत्सवे ।

[३३८] मनुः [४.५७] ।

नैकः सुप्याच् छून्यगृहे ।

गौतमः [९.६०] ।

न कदाचिद् रात्रौ नग्नः ।

सुप्याद् इत्य् शेष इति भर्तृयज्ञः

उशना

न तैलेनाभ्यकशिराः स्वपेत् ।

पैठीनसिः

    न शीर्णायां खत्वायाम् उपविशेत् । नाद्वारेण प्रविशेत् । तथा नादीक्षितः कृष्णचर्मणि शयीत ।

बौधायनः [२.४.२४] ।

न दिवास्वप्नशीलेन न च सर्वान्नभोजिना ।

कामं शक्यं नभो गन्तुम् आरूढपतितेन वा ॥

आपस्तम्बः [१.३२.६] ।

सदा निशायां दारान् प्रत्य् अलङ्कुर्वीत ।

[३३९] अथ मनुः [३.४५–५०] ।

ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा ।

पर्ववर्जं व्रजेद् एनां तद्व्रतो रतिकाम्यया ॥

ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।

चतुर्भिर् इतरैः सार्धम् अहोभिः सद्विगर्हितैः ॥

तासाम् आद्याश् चतस्रस् तु निन्दितैकादशी च या ।

त्रयोदशी च शेषाः स्युः प्रशस्ताः दश रात्रयः ॥

युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु ।

तस्माद् युग्मासु पुत्रार्थी संविशेद् आर्तवे स्त्रियम् ॥

पुमान् पुंसो ऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियाः ।

समे ऽपुमान् पुंस्त्रियो वा क्षीणे ऽल्पे च विपर्ययः ॥

निन्द्यासु चान्यास्व् अष्टासु स्त्रियो रात्रिषु वर्जयेत् ।

ब्रह्मचार्य् एव भवति यत्र तत्राश्रमे वसन् ॥

“ऋतुः” स्त्रीणां गर्भग्रहणयोग्यावस्था, तदुपलक्षितः कालः स “ऋतुकालः” । तत्राभिगमनम् एव व्रतं यस्य स “ऋतुकालाभिगामी” । “व्रते” इति णिनिः । “पर्ववर्जम्” इति, ऋताव् अनृतौ च । “तद्व्रतः” भार्यारतिकाम्यया गमनम् एव व्रतं यस्य स तथा । एतच् च गमनं सकामाया रक्षणार्थम् । स्वाभाविकग्रहणाद् रोगादितो ऽन्यथापि भवतीति सूचितम् । एकादश्यादित्रात्रयो ऽत्र ऋतूपक्रमापेक्षया न तिथ्यपेक्षया । “अयुग्मासु” विषमासु पञ्चम्यादिषु रात्रिषु । “संविशेत्” अभिगच्छेत् । “समे” इति, समे तुल्ये शुक्रे [३४०] स्त्रीपुंसयोः । “अपुमान्” नपुंसकः । “युगपद् यत्र वर्तेते विद्यात् तत्र नपुंसकम्” इति देवलवचनात् । “पुंस्त्रियौ वा” इति, द्विधाभूते तु सम एव स्त्रीपुरुषशुक्रे स्त्रीपुंसयुगलं जायते । “क्षीणे” निःसारे । “अल्पे” परिमाणतः ।”“विपर्ययः” अत्र गर्भानुत्पत्तिः । “निन्द्यासु” षट्सु, आद्याश् चतस्र एकादशी त्रयोदशी चेत्य् एतासु । “अष्टासु चान्यासु” अनिन्द्यास्व् अपि यासु कासुचिद् रात्रिषु स्त्रियो वर्जयेत् । रात्रिद्वितय एव च स्त्रियो ऽभिगच्छन् “ब्रह्मचार्य् एव भवति” ब्रह्मचर्यफलं प्राप्नोतीत्य् अर्थः । “यत्र तत्राश्रमे” इति, गृहस्थो ऽपि सन् ।

यमः

ऋतुस् तु षोडशाहानि रजन्यो ऽष्टौ विनिन्दिताः ।

तासाम् आद्यास् चतस्रस् तु सप्तम्य् एकादशी च या ॥

त्रयोदशी पञ्चदशी नवमी पञ्चमी तथा ।

युग्मासु पुत्रा जायन्ते ह्य् अयुग्मासु च योषितः ॥

युगपद् यत्र वर्तेते विद्यात् तत्र नपुंसकम् ।

पुरुषो हीयते यत्र योषित् तत्राभिजायते ॥

पुरुषो ह्य् अधिको यत्र पुमांस् तत्राभिजायते ।

यदि संयोगकाले तु पुरुषो रागमोहितः ॥

द्विधा समुत्सृजेच् छुक्रं यमलं तत्र जायते ।

शुक्रशोणितवैषम्याज् जायते कृष्णपिङ्गलः ॥

एवम् उत्पादिताः पुत्रा म्रियन्ते वागतायुषः ।

“वर्तेते” प्रवर्तेते । एतच् चाल्पशुक्रत्वोपलक्षणम् । “हीयते” शुक्रतः । “अधिको” अपि शुक्रत एव । “वैषम्यं” वैकृतम् । [३४१] “कृष्णपिङ्गल” इत्य् अनेन वर्णोपलक्षणम् । “एवम् उत्पादिताः” अनिन्दितरात्रिजनितगर्भाधानजनिताः । “अगतायुषः” सम्पूर्णायुषः ।

याज्ञवल्क्यः [१.७९–८१] ।

षोडशर्तुर् निशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् ।

ब्रह्मचार्य् एव पर्वाण्य् आद्याश् चतस्रस् तु वर्जयेत् ॥

एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् ।

सुस्थ इन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान् ॥

यथाकामी भवेद् वापि स्त्रीणां वरम् अनुस्मरन् ।

स्वदारनिरतश् चापि स्त्रियो रक्ष्या यतः स्मृताः ॥

“पर्वाणि” पौर्णमास्यामावस्याष्टमीचतुर्दशीसङ्क्रान्तयः । “क्षामा” अल्पबला । क्षामता च रजस्वलाव्रतैर् यदि न भवति तदावृत्या लघ्वाहारादिना कर्तव्या । “सुस्थ इन्दौ” बलवति चन्द्रे । इन्दुग्रहणं शुभग्रहान्तरोपलक्षणार्थम् । “सकृत्” एकस्यां रात्राव् एकवारं न द्विर् गच्छेद् इत्य् अर्थः । “लक्षण्यम्” शुभलक्षणयुक्तम् ।

हारीतः

    चतुर्थे ऽहनि स्नातायां युग्मासु गर्भाधानाद्युपेतो ब्रह्मगर्भं सन्दधाति ।

[३४२] महाभारते

स्नातां चतुर्थे दिवसे रात्रौ गच्छेद् विचक्षणः ।

एतद्वचनाच् च “तासाम् आद्याश् चतस्र” इति **मानवीयो **“न चतुर्थे आह्वयेद्” इति च पैट्ःईनसीयो निषेधो ऽपत्यगताल्पायुष्ट्वादिदोषार्थ इति तात्पर्यम् । “चतुर्थीप्रभृत्याषोडशीम् उत्तरोत्तरां प्रजानिःश्रेयसार्थम्” इत्य् आपस्तम्बगृह्यवचनात् ।

देवलः

ब्राह्मण्या द्वादशाहं स्याद् वेदोक्तम् ऋतुधारणम् ।

दशाष्टौ षट् च शेषाणां विधीयन्ते ऽनुपूर्वशः ॥

एतेष्व् अपि त्र्यहं पूर्वं वर्जयित्वा रजस्वलाम् ।

शुद्धां स्नातां ततो भार्यां समेयुः पुत्रकारणात् ॥

इदं तु ब्राह्मणादीनां द्वादशाहादिऋतुधारणवचनं गम्यत्वाभिप्रायं न ऋतुकालाभिप्रायम्,

ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडशः स्मृतः ।

इति मनुवचनविरोधात् । “शुद्धाम्” कालतः ।

बृहस्पतिः [सं। ३०, ३४–३५, ३३]

ऋतुकालाभिगमनं कुर्यात् पर्वाणि वर्जयेत् ।

स्त्रियाः शुक्रे ऽधिके स्त्री स्यात् पुमान् पुंसो ऽधिके भवेत् ॥

तस्माच् छुक्रविवृद्ध्यर्थं वृष्यं स्निग्धं च भक्षयेत् ।

लघ्वाहारां स्त्रियं कुर्याद् एवं सञ्जनयेत् सुतम् ॥

[३४३] ऋतुकाले ऽभिगमनं पुंसा कार्यं प्रयत्नतः ।

सदैव वा पर्ववर्जं स्त्रीणाम् अभिमतं हि तत् ॥

गौतमः [५.१–२] ।

ऋताव् उपेयात् । सर्वत्र वा प्रतिषिद्धवर्जम् ।

देवलः

अतीर्थगमनात् पुंसस् तीर्थसङ्गूहनात् स्त्रियाः ।

उभयोर् धर्मलोपः स्याद् द्वेषेण तु विशेषतः ॥

यौगपद्ये तु तीर्थानां विवाहक्रमशो व्रजेत् ।

रक्षणार्थम् अपुत्रां वा ग्रहणक्रमशो ऽपि वा ॥

“तीर्थम्” ऋतुः । “सङ्गूहनम्” प्रच्छादनम् । “अपुत्राम्” इति, इतरासु पुत्रवतीषु मध्ये ऋतुयौगपद्ये ऽपि ताम् एव प्रथमतो गच्छेत् । “ग्रहणक्रमशः” ऋतुग्रहणक्रमेण ।

आपस्तम्बः [२.१.१७–२३; २.२.१] ।

    ऋतौ च सन्निपाते दाराणाम् अनुव्रतम् । अन्तराले ऽपि दार एव । ब्राह्मणवचनाच् च संवेशनम् । स्त्रीवाससैव **[३४४]** सन्निपातः स्यात् । यावत् सन्निपातं च सह शय्या । ततो नाना । उदकोपस्पर्शनम् । अपि वा लेपान् प्रक्षाल्याचम्य प्रोक्षणम् अङ्गानाम् ।

“सन्निपातः” संयोगः । “अनुव्रतम्” पर्वादिवर्जनरूपं व्रतम् अनुगम्येत्य् अर्थः । “अन्तराले” अनृतौ । “ब्राह्मणम्” अत्र वेदभागः, “अब्रुवन् वरं वृणामह” इत्यादि तैत्तिरीये । “नाना” पृथक् शयितारौ स्याताम् । “उदकोपस्पर्शनम्” स्नानम् । एतद् ऋतौ । अनृतौ च “प्रोक्षणम्” । यत आह वृद्धशातातपः

ऋतौ तु गर्भशाङ्कित्वात् स्नानम् एव विधीयते ।

अनृतौ तु सदा कार्यं शौचं मूत्रपुरीषवत् ॥ इति ।

आपस्तम्बः [१.३२.२] ।

मिथुनीभूय च न तया सह सर्वां रात्रिं शयीत ।

**[३४५] वृद्धशातातपः **।

द्वाव् एताव् अशुची स्यातां दम्पती शयनं गतौ ।

शयनाद् उत्थिता नारी शुचिः स्याद् अशुचिः पुमान् ॥

“शुचित्वम्” स्नानप्रोक्षणव्यतिरेकेणापि ।

गौतमः [९.२६] ।

न मिथुनीभूय शौचं प्रति विलम्बेत् ।

पराशरः [४.१५] ।

ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।

स गच्छेन् नरकं घोरं ब्रह्महेति तथोच्यते ॥

यमः

ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।

घोरायां ब्रह्महत्यायां पच्यते नात्र संशयः ॥

भार्याम् ऋतुमुखे यस् तु सन्निधौ नोपगच्छति ।

पितरस् तस्य तं मासं तस्मिन् रेतसि शेरते ॥

देवलः

यः स्वदारान् ऋतुस्नातान् सुस्थश् चेन् नोपगच्छति ।

[३४६] भ्रूणहत्याम् अवाप्नोति गर्भं प्राप्य विनास्य सः ॥

“सुस्थः” रोगादिरहितः ।

बौधायनः [४.१.१९, २१] ।

त्रीणि वर्षाण्य् ऋतुमतीं यो भार्यां नोपगच्छति ।

स तुल्यं ब्रह्महत्याया दोषम् ऋच्छत्य् असंशयम् ॥

ऋतौ नोपैति यो भार्याम् अनृतौ यश् च गच्छति ।

तुल्यम् आहुस् तयोर् दोषम् अयोनौ यश् च सिञ्चति ॥

अथ मनुः [४.४०–४२] ।

नोपगच्छेत् प्रमत्तो ऽपि स्त्रियम् आर्तवदर्शने ।

समानशयने चैव न शयीत तया सह ॥

रजसाभिप्लुतां नारीं नरस्य ह्य् उपगच्छतः ।

प्रज्ञा तेजो बलं चक्षुर् आयुश् चैव प्रहीयते ॥

तां विसर्जयतस् तस्य रजसा समभिप्लुताम् ।

प्रज्ञा लक्ष्मीर् यशश् चक्षुर् आयुश् चैव प्रवर्धते ॥

[३४७] देवलः

अशुद्धदिवसेष्व् एतां मैथुनार्थं यदि व्रजेत् ।

आयुः प्रज्ञा च धर्मश् च तस्य पुंसः प्रहीयते ॥

तस्मात् त्रिरात्रं चाण्डालीं पुषिपितां परिवर्जयेत् ।

अवेक्षेत च तां नित्यं रथ्याभस्मनिषेवणैः ॥

“अवेक्षेत” रक्षेत । “रथ्याभस्मनिषेवणैः” इत्य् अत्राध्याहृतोत्सुकशब्दयोगे तृतीया । तेन ततौत्सुक्यं निवारयेद् इत्य् अर्थः ।

वसिष्ठः [१२.५–७] ।

    न मलिनवाससा सह संविशेत् । न रजस्वलया । नायोग्यया ।

“अयोग्या” अप्राप्तयौवनया ।

गौतमः [९.२९–३२] ।

    नाकल्यां नारीम् अभिरमयेत् । न रजस्वलाम् । न चैनां श्लिश्येत् । न कन्याम् ।

“अकल्यां” रोगिणीम् । “न कन्यां श्लिष्येत्” न रमयेद् इत्य् अर्थः ।

[३४८] श्राद्धानन्तरं शङ्खलिखितौ

    ऋतुस्नातां तदहोरात्रं परिहरेत् । नार्तवे । न दिवा मैथुनं व्रजेत् । क्लीबा अल्पवीर्याश् च दिवा प्रसूयन्ते ऽल्पायुषश् च । तस्माद् एतद् वर्जयेत् प्रजाकामः । पितॄणां नेह वै तन्तुं विच्छिन्द्यात् । प्रयतेनाच्छेदाय येनाप्रतिष्ठः पतति । तस्मात् प्रतिष्ठाकामः प्रजया प्रतिष्ठेत् ।

“तन्तुं” सन्तानम् । “अच्छेदाय” अविच्छेदाय सन्तानस्य । “येन” यस्मात् । नोशब्देन निषेधे । “अप्रतिष्ठः” प्रजानुत्पत्त्याप्राप्तप्रतिष्ठः सन् “पतति” । तस्माद् उत्पत्त्यर्थं यतितव्यम् ।

विष्णुः [६९.१–१७] ।

    नाष्टमीचतुर्दशीषु स्त्रियम् उपेयात् । न श्राद्धं भुक्त्वा । न दत्वा । नामन्त्रितः श्राद्धे । न व्रती । न दीक्षितश् च । न देवायतने । न श्मशानशून्यालयेषु । न वृक्षमूलेषु । न दिवा । न सन्ध्ययोः । न मलिनाम् । नाभ्यक्ताम् । नाभ्यक्तः । न रोगार्ताम् । न रोगार्तः ।


    	न हीनाङ्गीं नाधिकाङ्गीं तथैव च वयोधिकाम् ।

[३४९] नोपेयाद् गर्भिणीं नारीं दीर्घम् आयुर् जिजीविषुः ॥

“दीक्षितः” दीक्षाख्यसंस्कारवान् अवभृतेष्टिं यावत्, तत्र दीक्षोन्मोचनात् । “रोगार्तां” व्याधिपीडिताम्, स्त्रियः पुरुषस्य वोपगमनजन्यो तत्संवर्धनीयो वा रोगो विवक्षितः । “वयोधिका” अत्रोपरतरजस्का ।

मनुः [४.१२८] ।

अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् ।

ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥

वसिष्ठः [१२.२१–२४] ।

ऋतुकालाभिगामी स्यात् पर्ववर्जं स्वदारेषु । नातीर्थम् उपेयात् ।

“तीर्थम्” अत्र योनिः ।

अथाप्य् उदाहरन्ति ।

	यस् तु पाणिगृहीताया आस्ये कुर्वीत मैथुनम् ।

	भवन्ति पितरस् तस्य तन्मासं रेतसो भुजः ॥

	या स्याद् अनतिचारेण रतिः सा धर्मम् आश्रिता ।

“अनतिचारेण” योन्यनतिक्रमेण ।

    अपि च **काटके **प्रवचने विज्ञायते । अपि नः श्वो विजनिष्यमाणाः पतिभिः सह शरीरन्न् इति स्त्रीणाम् इन्द्रदत्तो वर इति ।

बौधायनः

    यस् तु पाणिगृहीताया मुखे गच्छति मैथुनम् ।


    तस्येह निष्कृतिर् नास्तीत्य् एवम् आह प्रजापतिः ॥

पैठीनसिअः

    अयुग्मेनावपेत् स्त्री जायते युग्मे पुमान् भवति । संवृते देशे मैथुनार्थम् आह्वयेत् । न प्रथमे । न द्वितीये । न तृतीये । न चतुर्थ आह्वयेत् ।

अथ रजस्वलाधार्माः

तत्र हारीतः

    रजः प्राप्ता चेद् अधः शयीत । न देवकार्यं कुर्वीत । भूमौ कार्ष्णायसे पाण्यां मृन्मये वाश्नीयात् ।

“रजः प्राप्ता” रजः प्राप्तवती । “अधः” भूमौ । अस्पृश्यत्वाद् एव तस्याः साक्षाद् देवकार्यकरणनिषेधे सिद्धे “न देवकार्यं कुर्याद्” इत्य् अभिसन्धानं तदन्नप्रेक्षणं तद्द्रव्यपुष्पनैवेद्याद्यवेक्षणम् अपि न कुर्याद् इत्य् एतदर्थम् । “कार्ष्णायसम्”

अयःपात्रम्

[३५१] वसिष्ठः [५.६–१०] ।

    त्रिरात्रं रजस्वलाशुचिर् भवति । सा नाञ्ज्यात् । नाभ्यञ्ज्यात् । नाप्सु स्नायात् । अधः शयीत । न दिवा सुप्यात् । नाग्निं स्पृशेत् । न रज्जुं विसृजेत् । न दन्तान् धावयेत् । न मांसम् अश्नीयात् । न ग्रहान् निरीक्षेत । न हसेत् । न किञ्चिद् आचरेत् । नाञ्जलिना पिबेत् । न खर्वेण पिबेत् । न लोहितायसेन वा । विज्ञायते हि । इन्द्रस् त्रिशीर्षाणं त्वाष्ट्रं हत्वा पाप्मगृहीतो महत्तमाधर्मसम्बद्धो ऽहम् इत्य् एवम् आत्मानम् अमन्यत । तं सर्वाणि भूतान्य् अभ्याक्रोशान् भ्रूणहन्न् इति । स स्त्रिय उपाधावद् अस्मै मे भ्रूणहत्यै तृतीयं प्रतिगृह्णातेति । ता अब्रुवन् किं नो भूयुआद् इति । सो ऽब्रवीद् वरं वृणीष्वम् इति । ता अब्रुवन् ऋतौ प्रजां विन्दामह इति कामम् आ विजनितोः सम्भवामेति । तथेति ताः प्रतिजगृहुः । सैषा ब्रह्महत्या मासि मास्य् आविर् भवति । तस्माद् रजस्वलाया अन्नं न्श्नीयात् । भ्रूणहत्याया एवैषा रूपं प्रतिमुच्यास्ते । तद् आहुर् अञ्जनाभ्यञ्जनम् एवास्या न प्रतिग्राह्यं तद् धि स्त्रिया अन्नम् इति । तस्मात् तस्या अन्नं न बीभत्सन्ते मैवं मेधम् उपागाद् इति ।


    	उदक्यान्वासते येषां ये च केचिद् अनग्नयः ।


    	कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः ॥

“ग्रहान्” आदित्यादीन् । “किञ्चित्” गृहलेपनाद्य् अपि । “खर्वो” वामहस्तः । “लोहितायसेन” ताम्रपात्रेण । “पाप्मगृहीतम् अमन्यत” पापगृहीतो ऽहम् इति मतिं कृतवान् । “आ विजनितोः [३५२] सम्भवाम” इति, “आ विजननाद्” आ प्रसवात् “सम्भवाम” मिथुनीभवामेत्य् अर्थः । “आ विजनितोर्” इति “भावलक्षण” इत्यादिना तोसुन्प्रत्ययः । “प्रतिमुच्य” आबन्ध्य । “अञ्जनम् अभ्यञ्जनं च” “अञ्जनं” मैथुनं स्नेहद्रव्यलक्षणसाम्यात्, “अभ्यञ्जनम्” अत्रालिङ्गनम् । अञ्जनम् अभि तस्य वृत्तेः । “न चैनां श्लिश्येद्” इति गौतमवचनानुसारात् । “अश्नीयाद्” उपभुञ्जीत । “भ्रूणहत्या” अत्र ब्रह्महत्या । यतस् तयाञ्जनाभ्यञ्जनम् एवान्नम्, तस्मात् तस्या ओदनादिरूपम् अन्नं “न बीभत्सन्ते” न निन्दन्ति । यद्य् अञ्जनाभ्यञ्जनमात्रे साशुचिस् तदा यज्ञचर्यायां सा शुचिः स्याद् इत्य् आह “मैवं मेधम् उपागाद्” इति । “मेधो” यज्ञः । मैवंविधा सति यज्ञं गच्छेद् इत्य् अर्थः । “अन्वासते” उपासनां कुरुते ।

पैठीनसिः

    अथ रजस्वलां परिहरेत् । त्वाष्ट्रं विश्वरूपं जघान वज्रेणेन्द्रः । तं देवा भ्रूणहन्न् इत्य् एवम् अवदन् । स स्त्रिय उपाधावद् अस्यै मे भ्रूणहत्यायै तृतीयं भागं प्रतिगृह्णीत वरं दास्यामीति । ततो ऽस्यांशं तृतीयं ब्रह्महत्यायाः स्त्रियः प्रपद्यन्ते । एवं भूमिर् वनस्पतयश् चैकैकम् । तासां वरान् तुष्टः प्रायच्छत् । भूमेः स्थिरत्वं वृक्षाणां छिन्नप्ररोहणं स्त्रीणां सर्वकाले सम्भोगः । तस्माद् रजस्वलां नोपासीत । ब्रह्महत्याप्रयुक्तां तां चतूरात्रेण स्नातां सर्वकर्माणि कारयेत् ।

“सर्वकर्माणि” देवपितृव्यतिरिक्तानि ।

[३५३] पुनः पैठीनसिः

    त्रिरात्रं मलवद्वासो धारयमाणा न स्नायात् । नाभ्यञ्ज्यात् । न नखान् निकृन्तेत् । नापमार्जयेत् । न रज्जुं स्पृशेत् । न दन्तान् धावयेत् । न स्रजं धारयेत् । न गन्धान् सेवेत । न कृणीयात् । न खर्वेण पिबेत् । न पर्णैः । न प्रपाणिः । न गोपीथे । न गवाम् इव जलपानम् । अत्रैव **तैत्तिरीयश्रुतिः **— यां मलवद्वाससं सम्भवन्ति यस् ततो जायते सो ऽभिशस्तो याम् अरण्ये तस्यै स्तेनो यां पराचीं तस्यै ह्रीतमुख्यप्रगल्भो या स्नाति तस्या अप्सु मारुको याभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिर् अपमारी याङ्क्ते तस्यै काणो या दत्तो धावते तस्यै श्यावदन् या नखानि निकृन्तते तस्यै कुनखी या कृणत्ति तस्यै क्लीबौ या रज्जुं सृजति तस्या उद्बन्धुको या पर्णेन पिबति तस्या उन्मादुको या खर्वेण पिबति तस्यै खर्वस् तिस्रो रात्रीर् व्रतं चरेद् अञ्जलिना वा पिबेद् अखर्वेण वा पात्रेण प्रजायै गोपीथाय । इति ।

इति भट्टहृदयधरात्मजमहासान्धिविग्रहिक-

भट्टश्रीमल्लक्ष्मीधरेण विरचिते कृत्यकल्पतरौ

नियतकालकाण्डे ऽहोरात्रकृत्यानि ॥

[३५४]

अथ पर्वकृत्यानि

तत्र मनुः [४.१५०] ।

सावित्रान् शान्तिहोमांश् च कुर्यात् पर्वसु नित्यशः ।

पितॄंश् चैवाष्टकास्व् अर्चेन् नित्यम् अन्वष्टकासु च ॥

“सावित्राः” सवितृदेवताकाः । ते च गायत्र्याक्षतद्रव्येण कार्याः,

शान्तिकामस् तु जुहुयाद् गायत्र्या चाक्षतैः शुचिः ।

इति** शङ्ख**वचनात् । धर्मद्वारा ऐहिकानिष्टनिवृत्तिः “शान्तिः” । “पर्वसु” चतुर्दश्यादिषु । नित्यग्रहणात् पर्वस्व् अवश्यकर्तव्यता प्रतीयते ।

विष्णुः [७१.८६–८९] ।

    पर्वसु च शान्तिहोमान् कुर्यात् । न तृणम् अपि छिन्द्यात् । अलङ्कृतस् तिष्ठेत् । एवम् आचारसेवी स्यात् ।

“छिन्द्यात्” हिंस्यात् ।

[३५५] आपस्तम्बः [१.३१.२१–२२] ।

    दिवादित्यः सत्त्वानि गोपायति नक्तं चन्द्रमाः । तस्माद् अमावास्यायां निशायां स्वाधीय आत्मनो गुप्तिम् इच्छेत् प्रायत्यब्रह्मचर्यकालेचर्यया च । सह ह्य् एतां रात्रिं सूर्याचन्द्रमसौ वसतः ।

“स्वाधीयः” भृशतरम् । “गुप्तिः” रक्षा । “प्रायत्येन” अप्रायत्यनिमित्तदृष्टार्थ-रथ्योपसर्पणवर्जनादिना सम्यक् शौचाचमननिष्पादनेन । एवं “ब्रह्मचर्येण” । “कालेचर्यया” मुख्यकाल एव प्रातरादौ तत्कर्मकरणेन ।

छन्दोगपरिशिष्टे कात्यायनः

पौर्णमासीम् अमावास्याम् अधःस्वापो विधीयते ।

अनाहिताग्नेर् अप्य् एष पश्चाद् अग्नेर् विधीयते ॥

“अनाहिताग्निः” अत्र स्मार्ताग्निमान् ।

बौधायनः [१.२१.१९–२१] ।

    पर्वसु च नाधीयीत । न मांसम् अश्नीयात् । न स्त्रियम् उपेयात् । पर्वसु हि रक्षःपिशाचा व्यभिचारवन्तो भवन्ति ।

[३५६] पैठीनसिः

    न पर्वसु तैलं क्षुरं मैथुनं मांसम् इत्य् उपेयात् । नामावास्यायां हरितानि छिन्द्यात् ।

“उपेयात्” उपभुञ्जीत ।

**विष्णुपुराणे **[२.१२.१०] ।

छिनत्ति वीरुधो यस् तु वीरुत्संस्थे दिवाकरे ।

पत्रं वा पातयत्य् एकं ब्रह्महत्यां स विन्दति ॥

“वीरुत्संस्थे” वनस्पतिस्थिते ।

यमः

आसप्तमं कुलं हन्ति शिरो ऽभ्यङ्गे चतुर्दशी ।

मांसाशने पञ्चदशी कामधर्मे अथाष्टमी ॥

**वृद्धशातातपः **।

दन्तकाष्ठम् अमावास्या मैथुनं च चतुर्दशी ।

हन्ति सप्तकुलं तस्य तैलग्रहणम् अष्टमी ॥

षष्ठ्य् अष्टमी पञ्चदशी उभौ पक्षौ चतुर्दशी ।

[३५७] अत्र सन्निहितं पापं तैले मांसे क्षुरे भगे ॥

षष्ठ्यां तैलम् अनायुष्यम् अष्टम्यां पिशितं तथा ।

क्षुरकर्म चतुर्दश्यां तथा पर्वणि मैथुनम् ॥

सर्वपर्वसु षष्ठ्यां च सामान्येनैव सर्वतैलादिनिषेधे सिद्धे तिथिविशेषसम्बन्धेन तैलादिविशेषनिषेधो दोषविशेषार्थः ।

देवलः

पञ्चदश्यां चतुर्दश्याम् अष्टम्यां च विशारदः ।

तैलं मांसं व्यवायं च क्षुरं च परिवर्जयेत् ॥

अत्र षष्ठ्यादिशब्देन तिथिवाचिना चन्द्रगत्यवच्छिन्नकालविशेषप्रतिपादनाद् यावत् षष्ठ्यादितिथिकालम् एव मांसादिनिषेधः, न तु तदुपलक्षणतो ऽहोरात्रे । उपलक्षणपरत्वे प्रमाणाभावात् । अत एव देवपितृकृत्ययोः पूर्वाह्णापराह्णयोर् विहितत्वात्

तत्कालव्यापितिथ्यादरः ।

विष्णुपुराणे [३.११.११८–१२०] ।

चतुर्दश्य् अष्टमी चैव अमावास्या च पूर्णिमा ।

पर्वाण्य् एतानि राजेन्द्र रविसङ्क्रान्तिर् एव च ॥

तैलस्त्रीमांससम्भोगी पर्वस्व् एतेषु वै पुमान् ।

विण्मूत्रभोजनं नाम प्रयाति नरकं नृप ॥

[३५८] अशेषपर्वस्व् एतेषु तस्मात् संयमिभिर् नरैः ।

भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैः सदा ॥

वराहपुराणे

चाण्डालशपथेषु —

षष्ठ्य् अष्टम्य् अमावास्या उभौ पक्षौ चतुर्दशी ।

अस्नातानां गतिं यास्ये यद्य् अहं नागमे पुनः ॥

भविष्यपुराणे

सप्तम्यां स्पृशतस् तैलम् इष्टा भार्या विनश्यति ।

वामनपुराणे

नन्दासु नाभ्यङ्गम् उपाचरेत

	क्षौरं च रिक्तासु जयासु मांसम् ।

पूर्णासु योषित् परिवर्जनीया 

	भद्रासु सर्वाणि समाचरेत् ॥

नाभ्यङ्गम् अर्के न च भूमिपुत्रे 

	क्षौरं च शुक्रे ऽथ कुजे च मांसम् ।

बुधे तु योषां न समाचरेत 

	शेषेषु सर्वाणि सदैव कुर्यात् ॥

चित्रासु हस्ते श्रवणे च तैलं

	क्षौरं विशाखाप्रतिपत्सु वर्जम् ।

मूले मृगे भाद्रपदासु मांसं

	योषिन् मघाकृत्तिकसोत्तरासु ॥

[३५९] वराहपुराणे

वैष्णवं प्रकृत्य वराह उवाच —

षष्ठ्य् अष्टमी चामावास्या उभे पक्षे चतुर्दशी ।

मैथुनं नैव सेवेत द्वादशीं च मम प्रियाम् ॥

अष्टम्यां च चतुर्दश्यां षष्थ्यां च द्वादशीं तथा ।

अमावास्यां चतुर्थ्यां च मैथुनं यो ऽधिगच्छति ॥

तिर्यग्योनिं स गच्छेच् च मम लोकं न गच्छति ।

मनुः [४.१२८] ।

अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् ।

ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥

नन्दिपुराणे

यदि वा न समर्थः स्यात् सदा मांसविवर्जने ।

वर्जयेद् अयने मुख्ये कृतस्वर्गमतिर् नरः ॥

चतुर्थी चाष्टमी चैव द्वादशी च चतुर्दशी ।

तथा पञ्चदशी वर्ज्या षडशीतिमुखानि च ॥

[३६०] सङ्क्रमं वापि सूर्यस्य विषुवौ चापि वार्षिकौ ।

मांसात् तु विरतो नित्यं स्वर्गं याति दिनत्रयम् ॥

अथ वाश्वयुजं मासं वर्जयेन् मांसभक्षणम् ।

मासषट्कं कृतं पुण्यं लभेताश्वयुजान् नरः ॥

मांसभोजनसन्त्यागात् पुरुषः शुद्धमानसः ।

यो नरः कार्तिकं मासं मांसं तु परिवर्जयेत् ।

संवत्सरस्य लभते पुण्यअं मांसविवर्जनात् ॥

अथ सङ्क्रान्तिनिर्णयः

तत्र देवीपुराणे

द्वादशैव समाख्याताः समाः सङ्क्रान्तिकल्पनाः ।

सप्तधा सापि बोद्धव्या एकैकं च यथा शृणु ॥

मन्दा मन्दाकिनी ध्वाङ्क्षी घोरा चैव महोदरी ।

राक्षसी मिश्रिता प्रोक्ता सङ्क्रान्तिः सप्तधा नृप ॥

मन्दा ध्रुवेषु विज्ञेया मृदौ मन्दाकिनी तथा ।

क्षिप्रैर् ध्वाङ्क्षीं विजानीयाद् उग्रैर् घोरा प्रकीर्तिता ॥

चरैर् महोदरी ज्ञेया क्रूरैर् ऋक्षैस् तु राक्षसी ।

मिश्रिता चैव निर्दिष्टा मिश्रितर्क्षैस् तु सङ्क्रमे ॥

त्रिचतुःपञ्चसप्ताष्तनवद्वादश एव च ।

क्रमेण घटिका ह्य् एतास् तत्पुण्यं पारमार्थिकम् ॥

अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः ।

सान्निध्यं तु भवेत् तत्र ग्रहाणां सङ्क्रमे रवेः ॥

[३६१] व्यवहारो भवेल् लोके चन्द्रसूर्योपलक्षितः ।

काले विकलते सर्वं ब्रह्माद्यं सचराचरम् ॥

पुण्यपापविभागेन फलं देवी प्रयच्छति ।

एकधापि कृतं यस्मिन् कोटिकोटिगुणं भवेत् ॥

धर्माद् विवर्धते ह्य् आयू राज्यपुत्रसुखादयः ।

अधर्माद् व्याधिशोकादि विषुवायनसन्निधौ ॥

विषुवेषु च यज् जप्तं दत्तं भवति चाक्षयम् ।

एवं विष्णुपदे चैव षडशीतिमुखेषु च ॥

“कल्पनाः” भेदाः । “समाः” तुल्याः । सङ्क्रान्तिमात्ररूपतया चेष्टानिष्टफलजनकतामात्र-साम्येन वक्ष्यमाणास् तु विशेषा अयनादिविशेषरूपतया । यद्य् अपि कदाचिन् मलमासेन सह त्रयोदश मासा भवन्ति तथापि सङ्क्रान्तयो द्वादश, न त्रयोदशेत्य् एवकारेण सूचितम् । “ध्रुवाणि” स्थिराणि त्रीण्य् उत्तराणि रोहिणी च । “मृदूनि” अनुराधाचित्रारेवतीमृगशीर्षाणि । “क्षिप्राः” लघवः हस्ताश्विनीपुष्याः । “उग्राः” पूर्वात्रयं भरणी मघा च । “चराः” पुनर्वसु-श्रवणधनिष्ठा स्वातीशतभिषाः । “क्रूराः” तीक्ष्णाः, ते च मूलाज्येष्ठाश्लेषार्द्राः । “मिश्रा” कृत्तिका विशाखा च । “क्रमेण” यथासङ्ख्येन । “पारमार्थिकं” मुख्यं फलम् । सूक्ष्मसङ्क्रान्तिकाले वसोर् धारादिप्रयोगानुष्ठानजन्यं यत् पुण्यं तद् एतास्व् अपि नाडिकास्व् इत्य् अर्थः । “ताः” घटिकाः । पुण्यहेतुत्वात् “पुण्यम्” । “भोगो” व्याप्तिः । सूक्ष्मसङ्क्रमणकालसन्निधाने च पुण्यतमत्वम् इति यावत् । “सान्निध्यम्” इत्यादिकैस् तस्यैव कालस्य स्तुतिः ।

शातातपः

अर्वाक् षोडश विज्ञेया नाड्यः पश्चात् तु षोडश ।

[३६२] कालः पुण्यो ऽर्कसङ्क्रान्तौ विद्वद्भिः परिकीर्तितः ॥

इत्य् उभयतः षोडशनाडीनां पुण्यताम् आह ।

तथा **जाबालिर् **अपि ।

सङ्क्रान्तेः पुण्यकालस् तु षोडशोभयतः कलाः । इति ।

एतद्वाक्यदर्शनाच् च पञ्चदशनाडीभोगो ऽप्य् उभयत एव बोद्धव्यः । “विकलते” स्वभावाच् च्यवते । “देवी” दुर्गा, सङ्क्रान्त्युपक्रमे देवीपुराण एव ।

समायनऋतुमासपक्षाहादिक्रमेण तु ।

स्थूलसूक्ष्मविभागेन देवी सर्वगता विभो ॥

इत्य् अभिधानात् । “सन्निधौ” भोगकाले । विष्णुपदीषडशीतिमुखस्वरूपम् उक्तं ज्योतिःशास्त्रे यथा ।

धनुर् मिथुनकन्यासु मीने च षडशीतयः ।

वृषवृश्चिककुम्भेषु सिंहे विष्णुपदी स्मृतः ॥ इति ।

[पुनर् देवीपुराणे] ।

अयनेषु विकल्पो यस् तन् मे निगदतः शृणु ।

यावद् विंशत्कला भुक्ता तत्पुण्यं चोत्तरायणे ॥

निरंशे भास्करे दृष्टे दिनान्ते दक्षिणायने ।

अर्धरात्रे त्व् असम्पूर्णे दिवापुण्यम् अनागतम् ॥

सम्पूर्णे चार्धरात्रे च उदयास्तमये ऽपि वा ।

मानार्धं भास्करे पुण्यम् अपूर्णे शर्वरीदले ॥

[३६३] सम्पूर्णे तूभयोर् देयम् अतिरेके परे ऽहनि ।

षडशीतिमुखे ऽतीते वृत्ते वा विषुवद्वये ॥

भविष्यत्य् अयने पुण्यम् अतीते चोत्तरायणे ।

आदौ पुण्यं विजानीयाद् यद्य् अभिन्ना तिथिर् भवेत् ॥

अर्धरात्रे व्यतीते तु विज्ञेयं चापरे ऽहनि ।

“विंशत्कला” विंशतितमी कला सङ्क्रान्तिक्षणाद् ऊर्ध्वं यावद् भवति तावत् पुण्यम् । “निरंशे” अंशकशून्ये, सङ्क्रान्तिकाले हि भास्करो ऽंशकरहितो भवति । “दिनं” च रविसंस्कारसंस्कृतास् त्रिंशन्नाडिका इति ज्योतिर्विदः, “तदन्ते” पुण्यम् इति । “दिवा पुण्यम् अनागतं” सङ्क्रमपुण्यं यद् दिवा तेन सङ्क्रान्तिकालाद् अर्वाग् एव दिवाभागे सङ्क्रान्तिकृत्यं कर्तव्यम् इत्य् अर्थः । “सम्पूर्णे अर्धरात्रे” उदयोपक्रमम् अस्तमयान्तम् । “मानार्धं पुण्यं” “मानं” दिनमानम्, “तदर्धं” भास्करोपलक्षिते काले । “दलम्” अर्धम् । अत्रापि मानार्ध्म् इत्य् अनुषङ्गः । “सम्पूर्णे अर्धरात्रे” सङ्क्रान्तौ सत्याम् “उभयोः” पूर्वापरदिनयोः “मानार्धं” “देयं” योज्यम् इत्य् अर्थः । “अतिरेके परे ऽहनि” अत्रापि मानार्धं देयम् इत्य् अनुषङ्गः । “वृत्ते” अतीते । एवं च रात्रौ द्वादशस्व् अपि रविसङ्क्रान्तिष्व् अर्धरात्राद् अर्वाक् सङ्क्रमणे पूर्वदिनोत्तरार्धं पुण्यम् । सम्पूर्णे त्व् अर्धरात्रे पूर्वदिनस्योत्तरार्धम् उत्तरदिनस्य पूर्वम् अर्धं पुण्यम् । अर्धरात्राद् अनन्तरं तूत्तरदिनस्य पूर्वम् अर्धं पुण्यम् । “षडशीतिमुखे ऽतीते” इत्यादि तु पारिशेष्याद् दिनसङ्क्रान्तिविषयम् । उभयतः पञ्चदशषोडशनाडीनां पुण्यत्वम् अपि दिनसम्बन्धि-विष्णुपदीमात्रविषयं पारिशेष्यात् । “आदौ” **[३६४] **इत्यादि, “आदौ” पूर्वदिन एव । “अभिन्ना” पूर्वदिने सङ्क्रान्तिकाले चैकैव । एतेनार्धरात्रिसङ्क्रमणे यद् उभयतः पुण्यकथनं तद् भिन्नतिथिविषयम् । “अर्धरात्रे व्यतीते तु” पूर्वेणाह्णा तिथ्यभेदे ऽपि परस्येव पूर्वम् अर्धं पुण्यम् इति तात्पर्यार्थः ।

तथा

मन्दा विप्रजने शस्ता मन्दाकिन्य् अपि राजनि ।

ध्वाङ्क्षी वैश्येषु विज्ञेया घोरा शूद्रे शुभप्रदा ॥

महोदरी तु चोराणां शौण्डिकानां जयावहा ।

चाण्डालपुल्कसानां तु ये चान्ये क्रूरकर्मिणः ॥

सर्वेषां कारुकाणां तु मिश्रिता भूतिवर्धिनी ।

नृपाः पीड्यन्ते पूर्वाह्णे मध्याह्ने तु द्विजोत्तमाः ॥

अपराह्णे तथा वैश्याः शूद्रास् चास्तमये रवौ ।

पिशाचास् तु प्रदोषे तु अर्धरात्रे तु राक्षसाः ॥

अर्धरात्रे व्यतीते तु पीड्यन्ते नटनर्तकाः ।

उषःकाले तु सङ्क्रान्तौ हन्ति गोस्वामिनो जनान् ॥

हन्ति प्रव्रजितान् सर्वान् सन्ध्याकाले तु सङ्क्रमः ।

एष स्थूलविभागस् तु भुक्तिकामस्य कीर्तितः ॥

पर्मार्थेन या सङ्ख्या कथयामि नृपोत्तम ।

स्वस्थे नरे सुखासीने यावत् स्पन्दति लोचनम् ॥

[३६५] तस्य त्रिंशत्तमो भागस् तत्परः परिकीर्तितः ।

तत्पराच् छत्मो भागस् त्रुटिर् इत्य् अभिधीयते ॥

त्रुटेः सहस्रभागो यः स कालो रविसङ्क्रमे ।

तत्काले तु द्रवीभूतं त्रैलोक्यं सचराचरम् ॥

व्यतीपाते तु चैवं स्याद् भवेत् पुण्यं ततो ऽधिकम् ।

अत्र ब्रह्मापि सन्दिग्धम् उवाच सुरसत्तम ॥

दानाध्ययनजप्यादि विशिष्टं वह्निहोमतः ।

वसोर् धारासु लभते त्व् अन्यथा न कथञ्चन ॥

शातातपः

अयनादौ सदा देयं द्रव्यम् इष्टं गृहे तु यत् ।

षडशीतिमुखे चैव विमोक्षे चन्द्रसूर्ययोः ॥

अर्वाक् षोडश विज्ञेया नाड्यः पश्चाच् च षोडश ।

कालः पुण्यो ऽर्कसङ्क्रान्तेर् विद्वद्भिः परिकीर्तितः ॥

सङ्क्रान्तौ यानि देयानि हव्यकव्यानि कर्तृभिः ।

तानि नित्यं ददात्य् अर्कः पुनर् जन्मनि जन्मनि ॥

ब्रह्मपुराणे

तुलां प्रत्यागते सूर्ये विषुवद् दिवसे सति ।

[३६६] ब्राह्मणेभ्यः प्रदेयानि सस्यान्य् अभिमतानि च ॥

मेषादित्रयसङ्क्रान्तौ चण्डांशुस् तूत्तरायणे ।

ब्रह्मलोकं तु गच्छन्ति देवाः सर्वे सवासवाः ॥

तस्मान् मासत्रयं तेषां प्रतिमाः शैलसम्भवाः ।

आच्छाद्य घृतवस्त्राभ्यां तथा रक्ष्याश् च नित्यशः ॥

पुष्पैर् वस्त्रैः सकामैस् तु गृहीतव्यास् तु सर्वदा ।

पूज्याः प्रतिदिनं ताश् च तथा विप्रास् तु भोजनैः ॥

तर्पणीयास् तथा गावस् तृणेन लवणाम्बुभिः ।

वह्निर् नित्यं च प्रज्वाल्यो नृणां कायाग्निवर्धनः ॥

“मेषो” अत्र मकरः । “शैलसम्भवाः” पाषाणनिर्मिताः ।

तथा

मेषं जिगमिषौ सूर्ये शैशिरं घृतकम्बलम् ।

अपास्य देहाद् देवेभ्यः पूजा कार्या प्रयत्नतः ॥

कालिकापुराणे

कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम् ।

एतानि पञ्चरत्नानि विन्यसेल् लिङ्गमूर्धनि ॥

रत्नानां चाप्य् अभावे तु कर्षं कर्षार्धम् एव वा ।

सुवर्णं योजयित्वा च तस्मिन्न् एवोत्तरायणे ॥

विधिवच् च तथाब्यर्च्य गव्येनाज्येन भूरिणा ।

[३६७] प्रक्षाल्य मर्दयित्वापि दद्याच् च घृतकम्बलम् ॥

दत्वा चोपस्करं भूयो ब्राह्मणान् यतिभिः सह ।

सम्भोज्य दक्षयित्वा तु कल्पयेद् अनिवारितम् ॥

उपोष्य सर्वम् एतद् वै कुर्याद् भक्तिपुरःसरम् ।

पञ्चगव्यं तिलैर् युक्तं पीत्वा वै पारयेत् स्वयम् ॥

तिलैः स्नानं प्रकुर्वीत तैर् एवोद्वर्तनं बुधः ।

देवतानां पितॄणां च उभाभ्यां तर्पणं तथा ॥

होमं तैश् च प्रकुर्वीत सर्वदा चोत्तरायणे ।

तान् वै देवाय विप्रेभ्यो हाटकेन समं ददेत् ॥

सकृद् एवं करोत्य् एवं चित्तं शम्भौ निवेश्य यः ।

उत्तरायणम् आसाद्य नरः कस्मात् स शोचते ॥

“कुलिशं” हीरकम् । “दक्षयित्वा” दक्षिणया सम्पूज्य । “कल्पयेत्” भोजनम् इति शेषः । “पारयेत्” पारणं कुर्यात् । तिलस्नानपारणयोर् नात्र क्रमो विवक्षितः । “उभाभ्याम्” इति तादर्थ्ये चतुर्थी ।

ब्रह्मपुराणे

शुक्लपक्षे तु सप्तम्यां यदा सङ्क्रमते रविः ।

महाजयाआ तदा स्याद् वै सप्तमी भास्करप्रिया ॥

स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।

[३६८] सर्वं कोटिगुणं प्रोक्तं तपनेन महौजसा ॥

यस् त्व् अस्यां मानवो भक्त्या घृतेन स्नापयेद् रविम् ।

सो ऽश्वमेधफलं प्राप्य ततः सूर्यपुरं व्रजेत् ॥

पयसा स्नापयेद् यस् तु भास्करं भक्तिमान् नरः ।

विमुक्तः सर्वपापेभ्यो याति सूर्यसलोकताम् ॥

कर्बुरेण विमानेन किङ्किणीजालमालिना ।

तेजसा रविसङ्काशः कान्त्यात्रेयसमो भवेत् ॥

स्थित्वा तत्र चिरं कालं राजा भवति किञ्जयः ।

महाजयैषा कथिता सप्तमी त्रिपुरान्तक ॥

याम् उपोष्य नरो भक्त्या ह्य् अचलाम् अब्जजां लभेत् ।

ततो याति परं ब्रह्म यत्र गत्वा न शोचति ॥

अथ ग्र्हणनिर्णयः

तत्र जाबालिः

सङ्क्रान्तेः पुण्यकालस् तु षोडशोभयतः कलाआः ।

चन्द्रसूर्योपरागे च यावद् दर्शनगोचरः ॥

चन्द्रसूर्योपरागस्य निमित्तत्वप्रतिपादनाज् ज्ञातस्यैव च निमित्तत्वाज् ज्ञानमात्रे प्राप्ते “यावद् दर्शनगोचरः” इति [३६९] “राहुदर्शन” इति वचनाच् च चाक्षुषज्ञानविषयस्यैव निमित्त्तता । चाक्षुषज्ञाने दर्शनपदस्य मुख्यत्वात् । तेन न मेघादिच्छन्ने स्नानादिकं कर्तव्यम् । एवं ग्रस्तास्तमिते परे ऽहनि यन् मुक्तदर्शनं तच् चाक्षुषम् एव ।

विष्णुः [६८.१, ३] ।

    चन्द्रार्कोपरागे नाश्नीयात् । अमुक्तयोर् अस्तङ्गतयोर् दृष्ट्वा स्नात्वा परे ऽहनि ।

शातातपः

अहोरात्रं तु नाश्नीयाच् चन्द्रसूर्यग्रहो यदा ।

मुक्तिं दृष्ट्वा तु भुञ्जीत स्नानं कृत्वा विधनतः ॥

सूर्याचन्द्रमसोर् लोकान् अक्षयान् याति मानवः ।

धौतपाप्मा विशुद्धात्मा मोदते तत्र देववत् ॥

अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा ।

अहोरात्रोषितः स्नातः सर्वपापैः प्रमुच्यते ॥

“अहोरात्रोषितः” पूर्वस्मिन् दिने कृतोपवासः । अहोरात्रभोजनं तु फलर्थम् इति

भाउल्लस्मृतिः

तथा

नाद्यात् सूर्यग्रहात् पूर्वम् अह्नि सायं शशिग्रहात् ।

[३७०] ग्रहकाले च नाश्नीयात् स्नात्वाश्नीयाच् च मुक्तयोः ॥

मुक्ते शशिनि भुञ्जीत यदि न स्यान् महानिशा ।

स्नात्वा दृष्ट्वापरे ऽह्न्य् अद्याद् ग्रस्तास्तमितयोस् तयोः ॥

“मुक्तयोः” सूर्यचन्द्रयोः । “महानिशा” रात्रेः प्रथमार्धप्रहराद् ऊर्ध्वं मुहूर्तचतुष्टयम् ।

ब्रह्मपुराणे

नाश्नीयाद् अथ तत्काले ग्रस्तयोश् चन्द्रसूर्ययोः ।

मुक्तयोश् च कृतस्नानः पश्चात् कुर्यात् स्ववेश्मनि ॥

“कुर्याद्” इति, अशनम् इति विपरिणतम् अनुषज्यते ।

तथा

नित्यं द्वयोर् अयनयोस् तथा विषुवतोर् द्वयोः ।

चन्द्रार्कयोर् ग्रहणयोर् व्यतीपातेषु पर्वसु ॥

अहोरात्रोषितः स्नातः श्राद्धं दानं तथा जपम् ।

यः करोति प्रसन्नात्मा तस्य स्याद् अक्षयं च तत् ॥

देवीपुराणे

कार्तिके ग्रहणं श्रेष्ठं गङ्गायमुनसङ्गमे ।

मार्गे तु ग्रहणं प्रोक्तं देविकायां महामुने ॥

[३७१] पौषे तु नर्मदा पुण्या माघे सन्निहिता शुभा ।

फाल्गुने वरुणा पुण्या चैत्रे पुण्या सरस्वती ॥

वैशाखे तु महापुण्या चन्द्रभागा सरिद् वरा ।

ज्येष्ठे तु कौशिकी पुण्या आषाढे तापिका नदी ॥

श्रावणे सिन्धुनामा तु तथा भाद्रे च गण्डकी ।

आश्विने सरयूः श्रेष्ठा भूयः पुण्या तु नर्मदा ॥

गोदावरी महापुण्या चन्द्रे राहुसमन्विते ।

सूर्ये च राहुणा ग्रस्ते तमोभूते महामुने ॥

नर्मदातोयसंस्पर्शात् कृतकृत्या भवन्ति ते ।

ये सूर्ये सैंहिकेयेन ग्रस्ते रेवाजलं नराः ॥

स्पृशन्ति चवगाहन्ति न ते प्रकृतिमानुषाः ।

स्मृत्वा शतक्रतुफलं दृष्ट्वा गोदानजं फलम् ॥

स्पृष्ट्वा गोमेधतुल्यं तु पीत्वा सौत्रामणिं लभेत् ।

स्नाप्त्वा वाजिमखं पुण्यं प्राप्नुयाद् अविचारतः ॥

रविचन्द्रोपरागे तु अयने चोत्तरे तथा ।

एवं गङ्गापि द्रष्टव्या तद्वद् एव सरस्वती ॥

शिवादित्यफलं यच् च मण्डले समुदाहृतम् ।

सग्रहे मण्डले योगे तद् अपि प्राप्नुयान् नरः ॥

ऊषरारण्यक्षेत्रेषु पुण्यं यत् समुदाहृतम् ।

तद् अत्र कालम् आहात्म्याद् उपरागे ऽधिकं भवेत् ॥

[३७२]

[युगादयो युगान्ताश् च]

ब्रह्मपुराणे

वैशाखशुक्लपक्षे तु तृतीयायां कृतं युगम् ।

कार्तिके शुक्लपक्षे तु त्रेता तु नवमे ऽहनि ॥

अथ भाद्रपदे कृष्णत्रयोदश्यां तु द्वापरम् ।

माघे च पौर्णमास्यां तु घोरं कलिगुयं तथा ॥

युगारम्भास् तु तिथयो युगाद्यास् तेन विश्रुताः ।

सूर्यस्य सिंहसङ्क्रान्त्याम् अन्तः कृतयुगस्य तु ॥

अथ वृश्चिकसङ्क्रान्त्याम् अन्तस् त्रेतायुगस्य तु ।

ज्ञेयश् च वृषसङ्क्रान्त्यां द्वापरान्तश् च सञ्ज्ञया ॥

तथा च कुम्भसङ्क्रान्त्याम् अन्तः कलियुगस्य च ।

युगाद्येषु युगान्तेषु श्राद्धम् अक्षयम् उच्यते ॥

[महाकार्तिक्यादि]

तथा

पुण्या महाकार्तिकी स्याज् जीवेन्द्वोः कृत्तिकास्थयोः ।

मघास्थयोश् च जीवेन्द्वोर् महामाघीति कथ्यते ॥

तथा

तिलद्वादशिसाम्ज्ञा च माघे कृष्णचतुर्दशी ।

तथा

आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचित् ।

[३७३] महती सा तिथिर् ज्ञेया स्नानदानेषु चोत्तमा ॥

यदा याम्यं च भवति ऋक्षं तस्यां तिथौ क्वचित् ।

तिथिः सापि महापुण्या मुनिभिः परिकीर्तिता ॥

प्राजापत्यं तथा ऋक्षं तिथौ तस्यां नराधिप ।

सा महाकार्तिकी प्रोक्ता देवानाम् अपि दुर्लभा ॥

“आग्नेयं” कृत्तिका । “याम्यं” भरणी । “प्राजापत्यं” रोहिणी । एतन्नक्षत्रयोगेनापि महत्वप्रतिपादनात् कृत्तिकान्ते बृहस्पतिचन्द्रयोगे यन् महत्वाभिधानं तन् महत्वातिशयार्थम् ।

मन्दे चार्के गुरौ वापि वारेष्व् एतेषु चैत्रिकी ।

अत्राश्वमेधिकं पुण्यं स्नानतश् च लभेन् नरः ॥

दानम् अक्षतां याति पितॄणां तर्पणं तथा ।

“मन्दः” शनैश्वरः ।

विशाभासु यदा भानुः कृत्तिकासु च चन्द्रमाः ।

स योगः पद्मको नाम पुष्करे ह्य् अतिदुर्लभः ॥

विष्णुः [५०.९–१०] ।

दृश्येते सहितौ यस्यां दिवि चन्द्रबृहस्पती ।

पौर्णमासी तु महती प्रोक्ता संवत्सरे तु सा ॥

तस्यां दानोपवासाद्यम् अक्षयं परिकीर्तितम् ।

तथैव द्वादशी शुक्ला यान्या श्रवणसंयुता ॥

[३७४] “यस्यां” पौर्णमास्यां माससञ्ज्ञाप्रवृत्तिनिमित्ते नक्षत्रे चन्द्रबृहस्पती भवतः, “सा” सर्वा “महती” महाफलेत्य् अर्थः । महाकार्तिकीमहामाघ्योर् माससञ्ज्ञैकनक्षत्र-स्थत्वेन महत्वस्योक्तेर् अन्यत्रापि माससञ्ज्ञैकनक्षत्रस्थत्वेन महत्वम् ।

[मन्वतरादयः]

मत्स्यपुरने [१७.६] ।

आश्वयुक्शुक्लनवमी द्वादशी कार्तिकी तथा ।

तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥

फाल्गुनस्य त्व् अमावास्या पुष्यस्यैकादशी तथा ।

आषाढस्यापि दशमी माघमासस्य सप्तमी ॥

श्रावणस्याष्टमी कृष्णा तथा षष्ठी च पूर्णिमा ।

कार्तिकी फाल्गुनी चैत्री ज्येष्ठी पञ्चदशी तथा ॥

मन्वन्तरादयश् चैता दत्तस्याक्षयकारिकाः ।

अमावास्याश्रावणाष्टमीव्यतिरिक्ताः सर्वास् तिथयः शुक्लाः ।

भविष्यपुराणे

	महादेव उवाच ।

पुष्ये मासि यदा देवि शुक्लाष्टम्यां बुधो भवेत् ।

तदा तु सा महापुण्या महाभद्रेति कीर्तिता ॥

तस्यां स्नानं जपो होमस् तर्पणं विप्रभोजनम् ।

मत्प्रीतये कृतं देवि शतसाहस्रिकं भवेत् ॥

[३७५] तस्मात् तस्यां महादेवि पूज्यो ऽहं विधिवद् बुधैः ।

गन्धपुष्पोपहारैश् च ब्राह्मणानां च तर्पणैः ॥

रोहिणी च यदा कृष्णे पक्षे ऽष्टम्यां द्विजोत्तम ।

जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ॥

यद् बाल्ये यच् च कौमारे यैवने वार्धिके च यत् ।

सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥

तत् क्षालयति भूतेशं तस्याम् अभ्यर्च्य भक्तितः ।

होमजप्यादिदानानां फलं च शतसम्मितम् ॥

स प्राप्नोति न सन्देहो यच् चान्यन् मनसेप्सितम् ।

उपवासस् तु तत्रोक्तो महापापकनाशनः ॥

पौषे मासे यदा देवि अष्टम्यां नगजे शुभे ।

नक्षत्रं जायते पुण्यं यल् लोके रौद्रम् उच्यते ॥

“रौद्रम्” आर्द्रम् ।

तदा तु सा महापुण्या जयन्ती चाष्टमी शुभा ।

तस्यां स्नानं तथा दानं जपो होमश् च तर्पणम् ॥

तत् सर्वं कोटिगुणितं हुतं भवति कृत्स्नशः ।

तस्मान् मत्पूजनं देवि कर्तव्यं विधिवन् नरैः ॥

पौषे मास्य् अष्टमी पुण्या चैत्रे मासि त्रयोदशी ।

कार्तिके पौर्णमासी च द्वादशी कार्तिकोत्तरे ॥

“कार्तिकोत्तरे” मार्गशीर्षे ।

[३७६] येयं भाद्रपदे मासि षष्ठी स्याद् भरतर्षभ ।

पुण्या चेयं पापहरा शिवा शान्ता शुभा नृप ॥

स्नानदानादिकं किञ्चित् सर्वम् अक्षयम् उच्यते ।

यो ऽस्यां पश्यति गाङ्गेयं दक्षिणापथवासिनम् ॥

ब्रह्महत्यादिपापैस् तु मुच्यते नात्र संशयः ।

तस्मात् तस्यां सदा पश्येत् कार्तिकेयं सदैव हि ॥

त्रिःकृत्वा दक्षिणाम् आशां गत्वा यः श्रद्धयान्वितः ।

पूजयेद् देवदेवेशं स गच्छेच् छान्तिमन्दिरम् ॥

पुण्या भाद्रपदे प्रोक्ता पञ्चमी नागपञ्चमी ।

“गाङ्गेयं” कार्तिकेयम् । “शान्तिमन्दिरम्” शिवमन्दिरम् । “त्रिःकृत्वा दक्षिणाम् आशां गवा” इत्य् उक्तेर् विन्ध्योत्तरतो गच्छताम् एतत् फलम् ।

इति भट्टहृदयधरात्मजमहासान्धिविग्रहिक-

श्रीमल्लक्ष्मीधरेण विरचिते कृत्यकल्पतरौ

नियतकालकाण्डे पर्वकृत्यानि ॥

[३७७]

१०

अथ तिथिकृत्यानि

ब्रह्मपुराणे

चैत्रे मासि जगद् ब्रह्मा ससर्ज प्रथमे ऽहनि ।

शुक्लपक्षे समग्रं तु यदा सूर्योदये सति ॥

ततः प्रभृति यो धर्मः पूर्वैः पूर्वतरैः कृतः ।

अद्यापि गूढः सुतरां कर्तव्यो ऽसौ प्रयत्नतः ॥

“गूढो” गुप्तः ।

तत्र कार्या महाशान्तिः सर्वकल्मषनाशिनी ।

सर्वोत्पातप्रशमनी कलिदुःस्वप्ननाशिनी ॥

आयुःप्रदा पुष्टिकरी धनसौभाग्यवर्धिनी ।

मङ्गल्या च पवित्रा च लोकद्वयसुखावहा ॥

यस्याम् आदौ च सम्पूज्यो ब्रह्मा कमलसम्भवः ।

पाद्यार्घ्यधूपपुष्पैश् च वस्त्रालङ्कारभोजनैः ॥

होमैर् बल्युपहारैश् च तथा ब्राह्मणतर्पणैः ।

तथा क्रमेण देवेभ्यः पूजा कार्या पृथक् पृथक् ॥

**[३७८] **“देवेभ्यो” वक्ष्यमाणेभ्यः कालादिभ्यः ।

कृत्वोङ्कारं नमस् ते ऽस्तु कुशोदकतिलाक्षतैः ।

पुष्पधूपप्रदीपैश् च भोजनैश् च यथाक्रमम् ॥

मन्त्रं सम्पूजनार्थं तु बहुरूपं पठेत् ततः ।

ॐ नमो ब्रह्मणे तुभ्यं कालाय च महात्मने ॥

नमस् ते ऽस्तु महेशाय त्रुटये च नमो नमः ।

भवाय च नमस् तुभ्यं नमस् ते ऽस्तु क्षणाय च ॥

नमओ नमस् ते काष्ठयै कलायै चाथ सर्वदा ।

नाडिकायै सुषुम्नायै मुहूर्ताय नमो नमः ॥

नमो निशाभ्यः पुण्याभ्यो दिवसेभ्यश् च नित्यशः ।

पाक्षाभ्यां चाथ मासेभ्य ऋतुभ्यः षड्भ्य एव च ॥

अयनाभ्यां च पञ्चभ्यो वत्सरेभ्यश् च सर्वदा ।

नमः कृतयुगादिभ्यो ग्रहेभ्यश् च नमो नमः ॥

अष्टाविंशतिसङ्ख्येभ्यो नक्षत्रेभ्यो नमो नमः ।

“अष्टाविंशतिः” नक्षत्राणाम् अभिजिता सह ।

राशिभ्यः करणेभ्यश् च व्यतीपातेभ्य एव च ॥

प्रतिवर्षाधिपेभ्यश् च विज्ञानेभ्यो नमः सदा ।

नमो ऽस्तु कुलनागेभ्यः सानुयातृभ्य एव च ॥

“सानुयातृभ्यः” सानुचरेभ्यः ।

[३७९] नमश् चतुर्दशभ्यस् तु मनुभ्यश् च पुनः पुनः ।

नमः पुरन्दरेभ्यश् च तत्सङ्ख्येभ्यो नमो नमः ॥

“तत्सङ्ख्येभ्यः” चतुर्दशसङ्ख्येभ्यः ।

पञ्चाशते नमो नित्यं दक्षकन्याभ्य एव च ।

नमो ऽदित्यै सुवृत्तायै जयायै नाथ सर्वदा ॥

कृशाश्वाय नमस् तुभ्यं सर्वास्त्रजनकाय च ।

नमो ऽस्तु बहुपुत्राय पत्नीभिः सहिताय च ॥

नमो वृध्यै तथा ऋध्यै निद्रायै धनदाय च ।

नलकूबरयक्षाय गुह्य्कस्वामिने नमः ॥

नमो ऽस्तु शङ्खपद्माभ्यां निधिभ्याम् अपि नित्यशः ।

भद्रकाल्यै नमो नित्यं सुरभ्यै च नमो नमः ॥

वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च ।

नागयक्षसुपर्णेभ्यो नमो ऽस्तु गरुडाय च ॥

अरुणाय नमस् तुभ्यं सप्तद्वीपेभ्य एव च ।

सप्तभ्यश् च समुद्रेभ्यः सागरेभ्यश् च सर्वदा ॥

उत्तरेभ्यः कुरुभ्यश् च नमो हैरण्मयाय च ।

भद्राश्वकेतुमालाभ्यां नमः सर्वत्र सर्वदा ॥

इडावृत्ताय च नमो हरिवर्षाय चैव हि ।

नमः किम्पुरुषेभ्यश् च भारताय नमो नमः ॥

[३८०] नमो भारतदेवेभ्यो नागेभ्यश् चाथ सर्वदा ।

पातालेभ्यश् च सप्तभ्यो नरकेभ्यो नमो नमः ॥

कालाग्निरुद्रशेषाभ्यां हरये क्रोडरूपिणे ।

सप्तभ्यस् त्व् अथ लोकेभ्यो महाभूतेभ्य एव च ॥

तमसे बुद्धये चैव नमः प्रकृतये तथा ।

पुरुषायाभिमानाय नमो ऽस्त्व् अव्यक्तमूर्तये ॥

हिमवत्पुरुषेभ्यश् च पर्वतेभ्यो नमः सदा ।

पुराणीभ्यश् च गङ्गाभ्यः सप्तभ्यश् च नमो नमः ॥

नमो ऽस्त्व् अद्यतनीभ्यश् च सप्तभ्यश् चाथ सर्वदा ।

नमो ऽस्तु पुष्करादिभ्यस् तीर्थेभ्यश् च पुनः पुनः ॥

निम्नगाभ्यो नमो नित्यं वितस्तादिभ्य एव च ।

चतुर्दशभ्यो देवेभ्यो धारणेभ्यो नमो नमः ॥

नमो धात्रे विधात्रे च छन्दोभ्यश् च नमो नमः ।

सुरेशैरावणाभ्यां च नमो भूयो नमो नमः ॥

अप्सरोभ्यः सोमपेभ्यो देवेभ्यश् च नमो नमः ।

नमस् तथोच्चैःश्रवसे ध्रुवाय च नमो नमः ॥

नमो ऽस्तु धन्वन्तरये शस्त्रास्त्राभ्यां नमः सदा ।

विनायककुमाराभ्यां विघ्नेभ्यश् च नमः सदा ॥

शिखाय च विशाखाय नैगमाय नमो नमः ।

नमः स्कन्दग्रहेभ्यश् च स्कन्दमातृभ्य एव च ॥

ज्वराय रोगपतये भस्मप्रहरणाय च ।

[३८१] ऋषिभ्यो वालखिल्येभ्यः कश्यपाय नमः सदा ॥

अगस्तये नारदाय व्यासादिभ्यो नमो नमः ।

असोमपेभ्यश् च नमस् तुषितेभ्यो नमः सदा ॥

आदित्येभ्यो नमो नित्यं द्वादशभ्यश् च सर्वशः ।

एकादशभ्यो रुद्रेभ्यः सगणेभ्यो नमो नमः ॥

दशभ्यो विश्वेदेवेभ्यः पुण्येभ्यश् च नमः सदा ।

नमो वसुभ्यस् त्वष्टभ्यो दिव्ययोगिभ्य एव च ॥

द्वादशभ्यो भृगुभ्यश् च नमः सर्वत्र सर्वदा ।

दशभ्यस् त्व् अङ्गिरोभ्यश् च तपस्विभ्यो नमो नमः ॥

नमो नासत्यदस्राभ्याम् अश्विभ्यां नित्यम् एव हि ।

साध्येभ्यो द्वादशभ्यश् च पुराणेभ्यो नमः सदा ॥

एकोनपञ्चाशद्भ्यो ऽथ मरुद्भ्यश् च नमो नमः ।

शिल्पाचार्याय देवाय नमस् ते विश्वकर्मणि ॥

अष्टभ्यो लोकपालेभ्यः सायुधेभ्यश् च सर्वदा ।

आयुधेभ्यो वाहनेभ्यः पुराणेभ्यो नमः सदा ॥

दैत्यराक्षसगन्धर्वपिशाचेभ्यश् च नित्यशः ।

पितृभ्यः सप्तभेदेभ्यः प्रेतेभ्यश् च नमः सदा ॥

सुपूज्येभ्यश् च देवेभ्यो भागवतेभ्य एव च ।

नमस् ते बहुरूपाय विष्णवे परमात्मने ॥

अथ किं बहुनोक्तेन मन्त्रेणानेन चार्चयेत् ।

प्राङ्मुखोदङ्मुखो वापि देवान् उद्दिश्य पूर्ववत् ॥

[३८२] अर्घैः पुष्पैश् च धूपैश् च वस्त्रैर् माल्यैश् च हृष्टवान् ।

धनधान्यान्नविभवैर् दक्षिणाभिश् च सर्वदा ॥

इतिहासपुराणानां प्रवक्तॄंश् च द्विजोत्तमान् ।

कालज्ञान् कालभेदज्ञान् भृत्यान् सम्बन्धिबान्धवान् ॥

अनेनैव तु मन्त्रेण स्वाहान्तेन पृथक् पृथक् ।

यविष्टायाग्नये होमः कर्तव्यः सर्वतृप्तये ॥

वेदवच् चाहुतिं दत्वा स्थाने प्राधानिके सति ।

“वेदवच् चाहुतिः” इति वेदेतिकर्तव्यतायुक्ता । “स्थाने प्राधानिके” प्रधानाहुतिस्थाने, आज्यभागान्त इति यावत् ।

आत्मशोभा ततः कार्या मङ्गलालम्भनं तथा ॥

भोजयित्वा द्विजान् सर्वान् मुनीन् सम्बन्धिबान्धवान् ।

“मुनयो” अत्र नियतात्मानः ।

विशेषेण तु भोक्तव्यं कार्यश् चापि महोत्सवः ॥

नवसंवत्सरारम्भे सर्वसिद्धिप्रवर्तकः ।

शुक्लायाम् अथ पञ्चम्यां चैत्रे मासि शुभानन ॥

श्रीर् ब्रह्मलोकान् मानुष्यं सम्प्राप्ता केशवाज्ञया ।

ततस् तां पूजयेत् तत्र यस् तं लक्ष्मीर् न मुञ्चति ॥

एषा श्रीपञ्चमी प्रोक्ता विष्नुलोकगतिप्रदा ।

अमावास्यायां सम्भूतः स्कन्दः पूर्वं हुताशनात् ॥

जातः पर्वणि षष्ठ्यां तु शुक्लायां चैत्रनामनि ।

“चैत्रनामनि” मासे ।

[३८३] सेनापत्याभिषिक्तस् तु देवानां ब्रह्मणा स्वयम् ॥

जितवान् तारकं दैत्यं क्रौञ्चं शक्त्या विभेदनात् ।

तस्मात् सर्वत्र विधिना स्कन्दो जातीसुगन्धिभिः ॥

दीपालङ्कारवस्त्रान्नकुक्कुटैः पूज्य एव हि ।

“कुक्कुटः” क्रीडार्थं दातव्यः न तु मारणीयः ।

अब्जैः क्रीडनकैर् अन्यैर् घण्टाचामरदर्पणैः ॥

सर्वासु शुक्लषष्ठीषु पूज्यो वा श्रद्धया नरैः ।

आरोग्यकामैर् बालानां पुत्रवद्भिर् विशेषतः ॥

चैत्रे नवभ्यां शुक्लायां भद्रकाली महाबला ।

योगिनीनां तु सर्वासाम् आधिपत्ये ऽभिषेचिता ॥

तस्मात् तां पूजयेत् तत्र सोपवासो जितेन्द्रियः ।

विचित्रैर् बलिभिर् भक्त्या सर्वासु नवमीषु च ॥

एकादश्यां ततः स्त्रीभिर् देवी पूज्या च रुक्मिणी ।

पौराणी योगिनी काचिच् छक्तिर् नारायणाङ्गना ॥

पुष्पालङ्कारधूपान्नशाकैश् च विविधैर् अपि ।

अपूपैर् विविधाकारैर् वह्निब्राह्मणतर्पणैः ॥

तत्रापराह्णे वास्तुश् च वेश्मनो वंशधारकः ।

अर्घैर् मालैश् च वस्त्रैश् च पूज्यो रङ्गैः सुचित्रितैः ॥

प्रदोषसमये तत्र सोपवासो जितेन्द्रियः ।

तिलसिद्धार्थकैर् युक्तं गृहीत्वा वेश्मनो बहिः ॥

देयं दिक्षु च पर्युक्षेद् दुष्टप्राणिनिवारणम् ।

[३८४] ऽपर्युक्षेत्” तद् एव पञ्चगव्यं प्रतिदिशं क्षिपेत् ।

कृतोपवासो द्वादश्यां ततो विष्णुं च पूजयेत् ॥

अपराह्णे तु तत्रैव कामदेवं प्रपूजयेत् ।

पटस्थं विविधैर् माल्यैर् गन्धैर् उच्चावचैश् तथा ॥

ततस् तु शीतलं तोयं पुण्यम् आदाय वाग्यतः ।

कामदेवाग्रतः स्थाप्यं पुष्पच्छन्ने महाघटे ॥

अर्घादिपूजितं सम्यक् प्रशस्तैर् वृक्षपल्लवैः ।

तस्यां रात्र्यां व्यतीतायां ततो गुप्ततरे गृहे ॥

अनर्काभ्य्दिते काले स्नाप्याः स्युस् तेन वारिणा ।

“स्थाप्याः” वक्ष्यमाणा दयिता एव ।

त्रयोदश्यां तु दयिताः स्वयं भर्त्रा प्रियेण च ॥

आत्मपूजा च कर्तव्या पूजनीया गृहे स्त्रियः ।

त्रयोदशीषु सर्वासु कामः पूज्यो ऽथ सर्वदा ॥

यात्रोत्सवश् च विधिवत् कर्तव्यश् चाथ विष्णवे ।

उपोष्य च चतुर्दश्यां पौर्णमास्यां हरिं व्रजेत् ॥

पौर्णमास्यां निकुम्भश् च पिशाचैः सहितो बली ।

याति योद्धुं पिशाचांश् च सिकताद्वीपवासिनः ॥

तदर्थं गच्छतां तेषां मध्याह्ने तु गृहे गृहे ।

पूजा कार्या प्रयत्नेन नित्यं शक्त्या यथाक्रमम् ॥

पिशाचं मृन्मयं कृत्वा रम्यं तृणमयं च वा ।

गन्धैर् माल्यैस् तथा वस्त्रैर् अलङ्कारैर् मनोहरैः ॥

[३८५] भक्ष्यैर् उल्लेपिकापूपैर् मांसैर् दिव्यैश् च पानकैः ।

स्वजातिविहितैः पुष्पैर् नैवेद्यैश् च पृथग्विधैः ॥

आयुधैर् विविधाकारैश् छत्रोपानहयष्टिभिः ।

शूकान्नपूरिकायुक्तैः स्थिरैर् भक्ष्यैश् च भस्त्रया ॥

“सूकान्नं” यवादि । “भस्त्रा” चर्मपुटः ।

शिक्यकुद्दालपिटकैर् बन्धनद्धैश् च चर्मणा ।

“बन्धनद्धैश् च चर्मणा” चर्मबन्धेन बद्धैः ।

तत्रीवाद्यैर् मनोज्ञैश् च तथा पान्थोपयोगिभिः ॥

“पान्थोपयोगिभिः” छत्रोपानत्प्रभृतिभिः ।

मध्याह्ने तं तु सम्पूज्य प्राप्ते चन्द्रोदये पुनः ।

पूर्ववत् पूजयेत् तं तु वित्तशाठ्यविवर्जितः ॥

ततः कृतस्वस्त्ययनान् ब्राह्मणांस् तु विसर्जयेत् ।

तम् अनुव्रज्य नियतं द्वितीयं दिवसे सति ॥

गृहाद् अदूरे यो यस्य पर्वतस् तम् अथारुहेत् ।

पुनर् गृहं प्रविश्यैव कर्तव्यः सुमहोत्सवः ॥

गीतवादित्रनिर्घोषैर् जनकोलाहलैस् तथा ।

कृत्वा तृणमयैः सर्पं दृढैः काष्ठैस् तु वेष्टितम् ॥

क्रीडितव्यं पुनर् ग्रामे नगरेषु च सर्वदा ।

सन्त्रासो दुष्टसर्पाणां तत्क्षणाद्यैर् न जायते ॥

त्रिभिश् चतुर्भिर् दिवसैः कर्तव्यं खण्डखण्डशः ।

[३८६] सर्वापस्मारशमनं तच् च खण्डं गृहे गृहे ॥

पूजितव्यं सुगुप्ते तु रक्षितव्यं च वत्सरम् ।

इरा नामाप्सराः पूर्वं सक्ता विश्वावसोर् यदा ॥

नृत्यगीतैस् तथा देवान् नास्तुवन् मन्दचेतना ।

वासवेन ततः शप्ता जाता रम्ये हिमाचले ॥

मनोज्ञपुष्पतां प्राप्ता कल्पे वैवस्वते सति ।

अथ फुल्लां तु तां दृष्ट्वा वैशाखे मासि माधवे ॥

स्त्रीपुत्रमित्रभृत्यैश् च सहितः सुसमाहितः ।

सुवासाः स्वनुलिप्ताङ्गः परितुष्टेन चेतसा ॥

समीपस्थो विधानेन ताम् आदौ यजते क्रमात् ।

अर्घैः पुष्पैर् भक्ष्यभोज्यैर् दीपधूपैः सुगन्धिभिः ॥

ततः प्रदक्षिणां कृत्वा दिव्याम् अप्सरसं च ताम् ।

गृहीत्वा परया भक्त्या ब्रह्मणे च निवेदयेत् ॥

तत्पुष्पाणां सहस्रेण विष्णवे च निवेदयेत् ।

ततः प्रदक्षिणीकृत्य दिव्याम् अप्सरसं च ताम् ॥

इह लोके च पुष्ट्यर्थं स्वर्गायान्ते च सर्वदा ।

अथ रुद्रेन्द्रचन्द्रार्कदेवनागेभ्य एव च ॥

लक्ष्म्यै क्षीरोदकन्यायै दुर्गायै कश्यपाय च ।

नीलाय नागपतये ब्राह्मणेभ्यस् ततः क्रमात् ॥

स्त्रीपुत्रमित्रभृत्येभो ज्येष्ठपुत्रक्रमेण वा ।

[३८७] रक्तसूत्रेण सुप्रोतं स्रजं च परमात्मने ॥

निवेदयित्वा तां देवीं सुगन्धां सर्ववल्लभाम् ।

तत्रैव भोजनं भुङ्क्ते सभृत्यज्ञातिबान्धवः ॥

तत् पुष्पाढ्यं पिबेत् पानं स्वजातिविहितं शुचिः ।

शृण्वंश् च गीतवाद्यादि पश्यंश् च नटनर्तकान् ॥

वैशाखे मासि शुक्लायां तृतीयायां जनार्दनः ।

यवान् उत्पादयामास युगं चारब्धवान् कृतम् ॥

ब्रह्मलोकत्रिपथगां पृथिव्याम् अवतारयत् ।

तस्यां कार्यो यवैर् होमो यवैर् विष्णुआं समर्चयेत् ॥

यवान् दद्याद् द्विजातिभ्यः प्रयतः प्राशयेद् यवान् ।

पूजयेच् छङ्करं गङ्गां कैलासं तु हिमाचलम् ॥

भगीरथं च नृपतिं सागराणां सुखावहम् ।

स्नानं दानं ततः श्राद्धं जपहोमादिकं च यत् ॥

श्रद्धया क्रियते तत्र तद् आनन्त्याय कल्पते ।

सिन्धोस् तीरे विशेषेण सर्वम् अक्षयम् उच्यते ॥

वैशाखे शुक्लसप्तम्यां जाह्नवी जह्नुना पुरा ।

क्रोधात् पिता पुनस् त्यक्ता कर्णरन्ध्रात् तु दर्क्षिणात् ॥

तां तु पूजयते देवीं गङ्गां गगनमेखलाम् ।

[३८८] अष्टाविंशतिमे प्राप्ते विष्णुः कलियुगे सति ॥

शाक्यान् विनष्टधर्मांश् च बुद्धो भूत्वा प्रवर्तयत् ।

तत्र पूज्यो भविष्यो ऽसौ पुष्पाद्यैर् दिवसत्रयम् ॥

सर्वौषधैः सर्वगन्धैः सर्वरत्नैश् च सर्वदा ।

बुद्धार्चास्नापनं कार्यं शास्त्रोक्तैर् विविधैः शुभैः ॥

सुविचित्राणि कार्याणि चैत्यदेवगृहाणि च ।

पूज्याः शाक्याश् च यतयश् चीवराहारपुस्तकैः ॥

पुष्पवस्त्रान्नदानं च देयं दीनजनस्य च ।

त्रिदिनं चोत्सवः कार्यो नटनर्तकसङ्कुलः ॥

वैशाख्यां पौर्णमास्यां तु सृष्टाः सकलयोनिना ।

तिलाः कृष्णाश् च गौराश् च तृप्तये सर्वदेहिनाम् ॥

तस्मात् कार्यं तिलैः स्नानं तत्राग्नौ जुहुयात् तिलान् ।

निवेदयेच् च विधिवत् तिलपात्रं च विष्णवे ॥

तिलतैलेन दीपाश् चदेया देवेभ्य एव च ।

सोदकैश् च तिलैः सार्धं कर्तव्यं पितृतर्पणम् ॥

[३८९] तिलैः समधुभिर् युक्तं ब्राह्मणेभ्यश् च भोजनम् ।

दातव्या दक्षिणा चापि तिलैर् मधुयुतैः सह ॥

मन्त्रं जपेच् च पौराणं पारम्पर्यक्रमागतम् ।

“ॐ तिलाः सोमदेवत्याः सुरैः सृष्टाश् च गोसवे ॥

स्वर्गप्रदाः स्वतन्त्राश् च ते मां रक्षन्तु नित्यशः ।”

दद्याद् अनेन मन्त्रेण तिलपात्राणि तत्र च ॥

सप्तभ्यस् त्व् अथ पञ्चभ्यो ब्राह्मणेभ्यस् तु कीर्तयेत् ।

प्रीयतां धर्मराजश् च देवांश् चान्यांस् तथापि वा ॥

एवं कृते स मुक्तः स्यात् पापैर् जन्मशतार्जितैः ।

“प्रीयतां धर्मराज” इति मन्त्रं “कीर्तयेत्” । “देवांश् चान्यान्” प्रीयतां वासुदेव इत्यादि कीर्तयेत् ।

तथा च विष्णुः [९०.१०] ।

    वैशाख्यां पौर्णमास्यां तु ब्राह्मणसप्तकं क्षौद्रयुक्तैस् तिलैः सन्तर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतो भवति । इति ।

[३९१] रथचक्राकृतौ रम्ये मण्डले सर्वकामदम् ।

भक्ष्यैर् भोज्यैश् तथा पेयैः पुष्पैर् धूपविलेपनैः ॥

आषाढशुक्लपक्षे तु स्वातीयोगे महाबलः ।

जातो वाउस् तथा पूज्यो गन्धदीपैर् द्विजार्चनैः ॥

भूरिणा परमान्नेन सक्तुभिर् विविधैस् तथा ।

“परमान्नेन” पायसेन । “विविधैः” विविधप्रकृतद्रव्यैः ।

सुमनोभिर् विचित्रैश् च कुसुमैः श्रद्धया तथा ॥

एकादश्यां तु सुक्लायाम् आषाढे भगवान् हरिः ।

भुजङ्गशयने शेते यदा क्षीरार्णवे सदा ॥

तदा तत्प्रतिमा कार्या सर्वलक्षणसंयुता ।

सुप्ता तु शेषपर्यङ्के शैलमृद्भिः सुदारुभिः ॥

ताम्रारकूटरजतैस् तथा चित्रपटेषु वा ।

लक्ष्म्या उत्सङ्गहस्तेषु विन्यस्तचरणाम्बुना ॥

नानाविधोपकरणैः पूज्या च विधिपूर्वकम् ।

उपवासश् च कर्तव्यो रात्रिजागरणं तथा ॥

तस्यां रात्र्यां व्यतीतायां द्वादश्यां पूजयेत् तथा ।

त्रयोदश्यां ततो नृत्यं गीतं वाद्यं निवेदयेत् ॥

वैष्णवे रङ्गजीविभ्यो धनं दद्याच् च शक्तितः ।

“रङ्गजीविनो” नटादयः ।

चतुर्दश्याम् उपोष्याथ पौर्णमास्यां यजेद् धरिम् ॥

यमः

क्षीराब्धौ शेषपर्यङ्के आषाढ्यां संविशेद् धरिः ।

[३९२] निद्रां त्यजति कार्तिक्यां तयोस् तं पूजयेत् सदा ॥

ब्रह्महत्यासमं पापं क्षिप्रम् एव व्यपोहति ।

हिंसात्मकैस् तु किं तस्य यज्ञैः कार्यं महात्मनः ॥

सुष्वापि च प्रबोधे च पूजितो येन केशवः ।

आषाढस्येयम् “आषाढी”, कार्तिकयेयम् “कार्तिकी” । “आषाडीया” कार्तिकीया इति प्राप्ते क्वचिद् अपवादविषये ऽप्य् उत्सर्गप्रवृत्तेर् अस्यापि विषयता भवति । यथा श्वदंष्ट्रीय इति प्राप्ते श्वादंष्ट्रो मणिर् इति । सा चैकादश्याम् अभिप्रेता,

एकादश्यां तु शुक्लायां कार्तिके मासि केशवम् ।

प्रसुप्तं बोधयेद् रात्रौ श्रद्धाभक्तिसमन्वितः ॥

इति ब्रह्मपुराणवचनात् ।

वराहपुराणे

	भगवान् उवाच ।

अन्यत् तव प्रवक्ष्यामि कर्म संसारमोक्षणम् ।

कदम्बः कुटजैश् चैव धनको ऽर्जुनकस् तथा ॥

एभिर् अभ्यर्चनं कुर्याद् विधिदृष्टेन कर्मणा ।

ततः संस्थापनं कृत्वा मम मन्त्रविधिः स्मृतः ॥

“धनकः” कपित्थ इति शब्दार्णवे वाचस्पतिः । “संस्थापनम्” अनन्तरोक्तकर्म-समापनम् ।

नमो नारायणेत्य् उक्त्वा इदं मन्त्रम् उदीरयेत् ।

[३९३] पश्यन्ति मेघान्य् अपि मेघश्यामं

	क्रमागतं सिच्यमानं महीम् इमाम् ।

निद्रां भगवान् गृह्णातु लोकनाथ

	वर्षास्व् इमं गृह्णातु मेघवृन्दम् ॥

ज्ञात्वा स्वयं पश्य च देवनाथ

	मासं चत्वारि वैकुण्ठस्य तु पश्य नाथ ॥

आषाढमासे द्वादश्यां सर्वशान्तिकरं शिवम् ।

य एतेन विधानेन भूमिर् मे कर्म कारयेत् ॥

स पुमान् न प्रणश्येत संहारेषु युगे युगे ।

ब्रह्मपुराणे

आषाढान्ते वैश्वदेवे नक्षत्रे सति शोभने ।

दश तान् पूजयेत् तत्र विश्वेदेवान् महाबलान् ॥

“आषाढान्ते” आषाढपौर्णमास्याम् । “वैश्वदेवनक्षत्रं” उत्तराषाढा । “दश विश्वेदेवाः” क्रतुदक्षादयः ।

यदा तु कर्कटं याति भगवान् चण्डदीधितिः ।

तदा प्रभृति कालः स्याद् दक्षिणायनसञ्ज्ञकः ॥

[३९४] तत्र प्रावृट्सु सम्पूज्याः फलपुष्पाम्बुभिः सदा ।

गोरसाक्तान् तथा सक्तून् ब्राह्मणेभ्यो निवेदयेत् ॥

हिमं च शर्करां चैव शाकमूलफलानि च ।

उपानच्छत्रमाल्यानि जलधेनुं च शास्त्रवत् ॥

“हिमम्” अत्र कर्पूरम् ।

श्रावणे कृष्णपक्षे तु शङ्करः प्रथमे ऽहनि ।

त्रिपर्वणा त्रिशल्येन त्रिमुखेन शरेण तु ॥

“शल्यं” लोहशङ्कुः ।

मुखानि त्रीणि चिछेद यज्ञस्य मृगरूपिणः ।

तैः शिरोभिस् तपस् तप्तं वराः प्राप्ताश् च शङ्करात् ॥

स्त्रीभिः पूज्यानि तानीति न मनुष्यैः कथञ्चन ।

मृगशीर्षं ततः कृत्वा लिङ्गाकारं तु मृन्मयम् ॥

क्षीरेण स्नपनीयं तु पूजितव्यं यथाविधि ।

अर्घैः पुष्पैश् च धूपैश् च नैवेद्यैर् विविधैर् अपि ॥

शाकैः सौवर्चलाभिश् च भक्ष्यैः पिष्टमयैः शुभैः ।

“सुवर्चला” ओषधिविशेषः ।

कांस्यभजनवाद्यैश् च पश्चात् कर्यं च भोजनम् ॥

[३९५] श्रावणे रोहिनीयोगे कश्यपश् च प्रजापतिः ।

जातस् तत्राथ पूज्यो ऽसौ देवस्याथ प्रवर्तकः ॥

गन्धैर् मल्यैश् च नैवेद्यैस् तथा ब्राह्मणतर्पणैः ।

पूज्या गावश् च रोहिण्यस् तथा नार्यः पतिव्रताः ॥ 

श्रावण्यां श्रावणे चैव पूर्वं हयशिरा हरिः ।

जगाद सामवेदं तु सर्वकिल्बिषनाशनम् ॥

सिन्धुर् नदी वितस्तायां प्रविष्टा तत्र चैव हि ।

अतो ऽर्थं [अर्धं?] श्रावणे तत्र स्नानं सर्वार्थसिद्धिदम् ॥

कृत्वा सम्पूजयेद् विष्णुं शङ्खचक्रगदाधरम् ।

श्रोतव्यान्य् अथ सामानि पूज्या विप्राश् च सर्वदा ॥

क्रीडितव्यं च भोक्तव्यं तत्रैव स्वजनैः सह ।

जलक्रीडा तु नारीभिः कर्तव्या भर्तृलब्धये ॥

अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे ।

अष्टाविंशतिमे जातः कृष्णो ऽसौ देवकीसुतः ॥

भारावतारणार्थाय क्षत्रियाणां क्षयाय च ।

तस्मात् स तत्र सम्पूज्यो यशोदा देवकी तथा ॥

गन्धैर् मल्यैस् तथा धूपैर् यवगोधूमसम्भवैः ।

[३९६] सगोरसैर् भक्ष्यभोज्यैः फलैश् च विविधैर् अपि ॥

रात्रौ प्रजागरः कार्यो नृत्यगीतसमाकुलः ।

अरुणोदयवेलायां नवम्यां च ततः स्त्रियः ॥

रक्तवस्त्रावृताः सर्वाः पुष्पमाल्यैर् अलङ्कृताः ।

नयन्ति प्रतिमा ह्य् एषां नानाविभवसम्भवाः ॥

“एषां” विष्णोर् देवक्या यशोदायाश् च ।

नदीतीरं शुभं रम्यं विविक्तं वा महत् सरः ।

तत्र स्नानं प्रकुर्वन्ति स्नपयन्ति च तास् ततः ॥

पुनः प्रविश्य च गृहं यवान्नं भुञ्जते च ताः ।

युक्तम् इक्षुविकारैश् च मध्वाज्यमरिचैः सह ॥

अमावास्यायां पित्र्ये तु नक्षत्रे सति संयुताः ।

सप्तप्रकाराः पितरो जाताः कमलसम्भवात् ॥

तेभ्यः पूजा च कर्तव्या तत्र सर्वात्मना बुधैः ।

पिण्डो देयस् तथाष्टाङ्गः श्राद्धं कार्यं स्वसम्पदा ॥

पञ्चम्यां शुक्लपक्षे तु नीलो नागपतिः पुरा ।

सतीदेहं प्रविष्टश् च तस्मात् तं तत्र पूजयेत् ॥

माल्यैर् वस्त्रोपहारैश् च देवाग्निगुरुतर्पणैः ।

नृत्यगीतैस् तथा वाद्यैः पुष्पधूपान्नसम्पदा ॥

[३९७] स्थाननागं च विधिना पूजयेच् चापि सर्वदा ।

षष्ठ्यां तु माधवः कीर्तिं लब्धवान् देवकीसुतः ॥

स्थाननागः कुमारश् च गावो विप्राश् च भूतले ।

तस्मात् ते तत्र सम्पूज्याः शर्करासम्भवैः फलैः ॥

मध्वाज्यमरिचोपेतैः परिपक्वैर् यथाक्रमम् ।

भृत्यमित्रकलत्रेभ्यो दत्वा भुञ्जीत तान्य् अपि ॥

जनार्दनश् च दुर्गा च धनदो वरुणस् तथा ।

वनस्पतिश् च पञ्चैते नवम्यां तु कृते युगे ॥

उत्पादयेयुर् गोधूमांस् तृप्त्यर्थम् इह देहिनाम् ।

तस्मात् तान् पूजयेत् तत्र भक्ष्यैर् गोधूमसम्भवैः ॥

गुडाज्यमरिचोपेतैः पुष्पधूपैर् यथाक्रमम् ।

गोधूमैस् तर्पयेद् वह्निं गोधूमैश् चार्चयेद् धरिम् ॥

तन्निवेदितशिष्टानि भक्ष्याणि प्रयतात्मवान् ।

दत्वा विप्राय विप्रेभ्यो दद्यात् तेनैव दक्षिणाम् ॥

सुसंस्कृतायां नद्यां च सुपुण्ये च जलाशये ।

आरामे वृक्षबहुले पश्चाद् भुञ्जीत तान्य् अपि ॥

विजयद्वादशीं प्राप्य पूजयेत् तु जनार्दनम् ।

मासि भाद्रपदे शुक्ला द्वादशी श्रवणे बुधः ॥

प्रशस्तः सोदयः कालः सिंहसंस्थो दिवाकरः ।

सिंहात् तृतीयो द्रेक्काणः प्रावृण्णद्योश् च सङ्गमः ॥

“द्रेक्काणः” राशेस् तृतीयो भागः ।

[३९८] ब्राह्मणो वेदपूर्णश् च पात्रं हृदयनन्दनः ।

जितं त इति मन्त्रश् च स्वधर्मोपार्जितं धनम् ॥

युगपद् द्वादशैतानि दुर्लभानि सुरैर् अपि ।

द्वादशात्मा हृषीकेशो येषां दैवतम् उच्यते ॥

सिंहस्थिते तु मार्तण्डे श्रवणस्थे निशाकरे ।

सबुधा द्वादशी शुक्ला न स्याद् भाद्रपदाद् ऋते ॥

सुदुर्लभा च सा पुण्या विजया द्वादशी शुभा ।

अनुग्रहार्थं मर्त्यानां कदाचित् स्यान् न नित्यशः ॥

आकस्मिकीं तु तां लब्ध्वा सर्वसम्भारसम्भृताः ।

एकादश्याम् उपोष्यादौ द्वादश्यां सुसमाहितः ॥

प्रयागादिषु तीर्थेषु नदीनां सङ्गमेषु च ।

कृत्वा स्नानं च विधिना हृषीकेशं प्रपूजयेत् ॥

स्थले जले ऽम्बरे मूर्तौ कुम्भे वा कमलोपरि ।

वह्नौ विप्रे गवि गुरौ पितर्य् अथ च मातरि ॥

आहूयासनपुण्याहस्वागतैर् अथ विस्तरैः ।

“आहूय” आवाहनं कृत्वा ।

पाद्यार्घपुष्पधूपैश् च दीपालङ्कारचामरैः ॥

अङ्गरागैः सुगन्धैश् च पयसा पायसेन वा ।

भक्ष्यैर् मूलफलैः शाकैर् मांसैः सुद्धैर् मनोऽनुगैः ॥

[३९९] मधुपर्कदधिक्षीरमधुभिः साक्षतैस् तिलैः ।

मात्रया च तथा लाजैर् मनोज्ञैर् देशसम्भवैः ॥

“मात्रा” पर्च्छदो वस्त्रादिः ।

पवित्रैः पानकैर् हृद्यैर् गीतनृत्यैः सवादितैः ।

स्त्रोत्रैर् अनेकैः पौराणैर् वेदमन्त्रैः सुसंस्कृतैः ॥

“सुसङ्कृतैः” अध्ययनसंस्कृतैः ।

पौरुषेणाथ सूक्तेन सूक्तैर् अन्यैश् च वैष्णवैः ।

हृषीकेशं समभ्यर्च्य दद्याज् जलमयीं च गाम् ॥

“जलमयी गौः” जलधेनुः ।

यथाशक्त्या तु विप्रेभ्यः श्रद्धापूतेन चेतसा ।

सौवर्णीं राजतीं ताम्रीं रङ्गजां मृन्मयीं च ताम् ॥

शतमानां तु मणिकां जलपूर्णां सुशोभनाम् ।

“शतमानां” शतपलमानाम् ।

तस्यां तु जलपूर्णायां सौवर्णं राजतं च वा ॥

ताम्ररङ्गमयं पात्रं मृन्मयं वा सुशोभनम् ।

सम्पूर्णं परमान्नेन दधिसर्पिर्गुडैस् तथा ॥

शर्कराक्षीरमधुभिस् तिलचामीकराम्बुभिः ।

सेवितं मन्त्रपूतं च दद्याद् आच्छादनं शुभम् ॥

जलधेनुं सपात्रां तां नवेन सदशेन तु ।

सपवित्रेण शुद्धेन वस्त्रेणाच्छाद्य यत्नतः ॥

[४००] छत्रेण च सुशुद्धेन सर्वम् आच्छाद्य शास्त्रवित् ।

वियच्चरकृतान् दोषान् रक्षेद् भौमांश् च विघ्नदान् ॥

जितं त इति मन्त्रेण हृशीकेशं स्मरन्ति च ।

ब्राह्मणेभ्यः परां श्रद्धाम् आश्रित्य सुसमाहितः ॥

दद्याद् उपानहौ तद्वत् पादुके तदनन्तरम् ।

रजतं गां तथा भूमिं सुवर्णं रत्नम् एव वा ॥

हस्त्यश्वरथयानानि गृहाणि शयनानि च ।

आसनान्य् अथ भाण्डानि वस्त्राण्य् आभरणानि च ॥

उद्द्य्श्य सर्वांश् च पितॄन् पैतृकान् मातृकांस् तथा ।

भार्यामित्रगुरूणां तु ये केचित् पितरश् च तान् ॥

गोत्रनामस्वधाकारैः पितृयज्ञविधानवत् ।

पितृभ्यश् चान्नम् अक्षय्यम् इदम् अस्त्व् इति सञ्जपेत् ॥

अथान्नदानाद् भगवान् प्रीतो भवति केशवः ।

गुडक्षीरघृतैर् वस्त्रैः प्रीतो भवति चन्द्रमाः ॥

जलदानाच् च वरुणः सुप्रसन्नो भवेत् सदा ।

रजतेन च दत्तेन प्रीतः स्यात् तु महेश्वरः ॥

सुवर्णेन च दत्तेन वह्निर् नित्यं प्रसीदति ।

हस्त्यश्वरथयानैश् च मघवा व्यज्नैस् तथा ॥

शयनैर् वेश्मभिर् धर्मश् छत्रेणार्कः प्रसीदति ।

उपानद्भ्यां यमो गोभिः सौरभेयः प्रकीर्तितः ॥

[४०१] पादुकाभ्याम् प्रदत्ताभ्यां पद्मयोनिश् च तुष्यति ।

अलङ्कारैस् तथा माल्यैर् जगन्माता च पार्वती ॥

दानं होमो जपः पूजा तथा ब्राह्मणतर्पणम् ।

नदीनां सङ्गमे स्नानं तथा विप्रेषु दक्षिणा ॥

सहस्रगुणितं तत्र सर्वम् अक्षयम् उच्यते ।

यः प्रीणाति हृषीकेशं तत्र श्रद्धासमन्वितः ॥

स सर्वलोकान् जयति याति विष्णोः पदं च तत् ।

तारयेत् स पितॄन् सर्वान् दश पूर्वान् दशापरान् ॥

तस्मिन् काले तु सम्प्राप्य वितस्तां सिन्धुसंयुताम् ।

सुशीतलेन पुण्येन जलेनालोड्य मृत्तिकाम् ॥

सुगौरीं लक्षणोपेतां सङ्गमस्नानपुण्यदाम् ।

ताम् आलभेत यत्नेन स्नानकाले सदैव हि ॥

नभस्यान्ते दशम्यां तु कश्यपो लब्धवान् वरम् ।

अवतारं वितस्तायाः सतीदेहे पुरातने ॥

एकादश्यां ततो रुद्रः सतीं भार्याम् अदेशयत् ।

रसातलगता सा च द्वादश्यां शङ्कराज्ञया ॥

अथ जाता त्रयोदश्यां शूलभेदाद् रसातलात् ।

चतुर्दश्यां पुनर् नष्टा पौर्णमास्यां समुत्थिता ॥

प्रतिपद्य् अथ निष्क्रान्ता फणामार्गेण सा नदी ।

दशम्यादिषु तत् स्नात्वा दिवसेष्व् अपि सप्तसु ॥

पश्येत् सम्पूजयेद् ध्यायेत् पिबेत् स्नायाच् च सर्वदा ।

[४०२] गन्धैर् माल्यैश् च नैवेद्यैर् दीपैर् धूपैः सुशोभनैः ॥

अङ्गरागैश् च विविधैर् वस्त्रैः पुष्पैर् विलेपनैः ।

रक्तसूत्रैः कङ्कणैश् च स्त्रीणाम् आभरणैस् तथा ॥

फलैर् मूलैस् तथा शाकैर् होमैर् ब्राह्मणतर्पणैः ।

पूजनीया विशेषेण वितस्तासिन्धुसङ्गमे ॥

महायात्रोत्सवः कार्यः पूज्याश् च नटनर्तकाः ।

इन्द्रो भाद्रपदे मासि शुक्लपक्षे तु विष्णुना ॥

नियुक्तः सर्वसस्यानि व्रीहींश् चैव फलानि च ।

ओषधीर् वज्रहस्तश् च ताडयन् पातयत्य् अपि ॥

तद्भयात् तानि सर्वाणि वर्धयन्त्य् अखिलं जगत् ।

तस्मात् स तत्र सम्पूज्यः सभार्यश् च दिने दिने ॥

सगणः सायुधश् चैव सानुयात्रः सवाहनः ।

“सानुयात्रः” सानुचरः ।

पटभित्तिकृतो देवो राज्ञा पूज्यो विशेषतः ॥

“पटभित्तिकृतः” पटे भित्तौ वा लिखितः ।

भक्ष्यैर् अन्नैः फलैर् मूलैर् वस्त्रैर् माल्यैः सुशोभनैः ।

तम् उद्दिश्यार्चयेद् विप्रान् तथा रङ्गोपजीविनः ॥

पूर्वभाद्रपदायोगे पौर्णमास्यां पितामहः ।

शक्राग्नियमयात्वम्भोवायुवित्तेशशङ्करान् ॥

[४०३] लोकपालांस् तु रक्षार्थं त्रैलोक्यअस्याभ्यषेचयत् ।

पृथिव्या धारणार्थं च तथानन्तं च भोगिनम् ॥

“यातुः” राक्षसः ।

तस्मात् तत्र लिखेत् पद्मम् अष्टपत्रं सकर्णिकम् ।

कर्णिकायां लिखेत् तत्र सानन्तं कमलोद्भवम् ॥

प्राच्यादिषु च पत्रेषु वासवाद्यांश् च सायुधान् ।

ग्रहान् नागान् क्रमेणैव यथारूपान् समालिखेत् ॥

ततः क्रमेण तेनैव संस्थाप्य कलशान् शुभान् ।

पश्चात् सम्पूजनीयास् तु भक्त्या ब्रह्मादयः सुराः ॥

अर्घपाद्यादिभिः सम्यग् धूपमाल्यानुलेपनैः ।

वस्त्रै रत्नैः फलैर् भक्ष्यैर् होमैर् ब्राःमणतर्पणैः ॥

मनोज्ञैश् च गुडैः क्षीरैः सर्वसस्यसमुद्भवैः ।

नृत्यैर् गीतैश् तथा वाद्यैः सर्वकामार्थसिद्धये ॥

विप्रेभ्यश् चाथ बन्धुभ्यो धाना देयाश् च शास्त्रवत् ।

रात्रौ धानाः स्वयं भक्ष्याः संयमस्थैर् विवेकिभिः ॥

कृष्णाश्वयुक्तृतीयायां पूर्वं तु वरुणो ह्य् अभूत् ।

तस्मात् स तत्र सम्पूज्यो यथाविभवविस्तरैः ॥

शक्राद् धि शङ्खपद्मौ तु निधी लेभे धनेश्वरः ।

[४०४] चतुर्थ्यां तेन तत्रासौ सम्पूज्यो ब्राःमणानुगैः ॥

पञ्चम्यां वसुधा देवी पातालाद् उद्धृता पुरा ।

वराहेणाथ सा तत्र पूज्या दिग्गजसंयुता ॥

षष्ठ्यां कुमाराः सम्भूताः पौराणाः केचिद् एव हि ।

तान् उद्दिश्य कुमारास् तु पूज्याः पुत्राः स्वलङ्कृताः ॥

सप्तम्याम् अभिमानस् तु स्ववीर्याज् जितवान् जगत् ।

तम् उद्दिश्यात्मनः पूजा कार्या स्त्रीबालकेषु च ॥

अशोका योगिनी सिद्धा कृष्णाष्टम्यां पुरा यदा ।

तदा सा तत्र सम्पूज्या योगनिद्रा तु वैष्नवी ॥

विशेषेण कृतस्नानैः सुवस्त्रैश् च स्वयङ्कृतैः ।

सिन्दूरकर्दमालेपैर् नृत्यवाद्यपुरःसरैः ॥

“सिन्दूरकर्दमालेपैः” उदकाद्यालोडितसिन्दूरपङ्कलेपैः ।

शक्त्या शय्यासने तस्यै निवेद्ये सोत्तरच्छदे ।

“सोत्तरछदे” सोपरिवस्त्रे ।

पुष्पान्नधूपपूर्वं तु क्रीडितव्यं च सर्वदा ॥

गुडाज्यमरिचोपेतं यवान्नं भक्षयेत् ततः ।

शुक्लाश्वयुक् चतुर्थ्यां तु जहौ देहं जले सती ॥

तस्मात् सा तत्र सम्पूज्या सर्वसौभाग्यवर्धिनी ।

[४०५] अर्घैः पुष्पैश् च धूपैश् च दीपैर् माल्यैश् च कङ्कणैः ॥

कुङ्कुमाञ्जनवस्त्रैश् च नितम्बिन्य् उपयोगिभिः ।

लवणालक्तकाभ्यां च गुडार्द्रफलकैस् तथा ॥

ताम् उद्दिश्य च नार्यस् तु पूज्याः स्युर् जीवभर्तृकाः ।

भगिन्यो मातरश् चैव तथा नार्यः पतिव्रताः ॥

शुक्लपक्षे नवं धान्यं पक्वं ज्ञात्वा सुशोभनम् ।

सुतिथौ च सुनक्षत्रे सुमुहूर्ते शुभे सति ॥

गच्छेत् क्षेत्रं विधानेन नृत्यवाद्यपुरःसरः ।

तत्र वह्निं च प्रज्वाल्य धान्यैः संस्तीर्य शास्त्रवत् ॥

“शास्त्रवत्” स्वगृह्योक्तप्रकारेण ।

कृत्वा होमं ततः पश्चान् नयेद् धान्यं च भूषितम् ।

पुष्पैर् वस्त्रैः फलैर् मूलैर् हस्त्यश्वरथसंयुतम् ॥

तेन देवान् पितॄन् बन्धूंस् तर्पयित्वा यथाक्रमम् ।

विभज्याश् च यथाशक्त्या दैवज्ञाः सस्यरक्षिणः ॥

नववस्त्रावृतः स्रग्वी स्वनुलिप्तः स्वलङ्कृतः ।

स्थितः पूर्वमुखस् तुष्टो ब्रह्मघोषपुरःसरः ॥

शृण्वन् वाद्यवरं हृष्टो मङ्गलाम्भनादिमान् ।

प्राश्नीयाद् दधिसंयुक्तं नवं विप्राभिमन्त्रितम् ॥

कृताहारश् च कुरुते गीतवाद्यैर् महोत्सवम् ।

क्षीरोदसागरात् पूर्वं मथ्यमानात् पुरातनात् ॥

श्यामा देवी समुत्पन्ना सर्वलक्षणसंयुता ।

[४०६] नारायणाज्ञया सा च सुकुमारी यशस्विनी ॥

सतीदेहसमुत्पन्ना लता परमशोभना ।

तां दृष्ट्वा चकितास् तत्र ततः सर्वे सुरासुराः ॥

मनोज्ञा सुमुखी चैषा तां च द्रक्ष्यामहे वयम् ।

एवम् उक्त्वा वचस् तां तु ददृशुः सर्व एव च ॥

चक्रुर् नाम च तस्यास् ते द्राक्षेति भुवि विश्रुतम् ।

अतो ऽर्थं सा सुपक्वा हि पूजितव्या प्रयत्नतः ॥

पुष्पधूपान्नभक्ष्याद्यैस् तथा ब्राह्मणतर्पणैः ।

द्वौ बालौ द्वौ तथा वृद्धौ सम्पूज्यौ तदनन्तरम् ॥

धर्मार्थकाममोक्षांश् च समुद्दिश्य कुटीरके ।

स्त्रीसहायेन हृष्टेन भृत्यमित्रसुतैः सह ॥

अनुलिप्तेन विधिवत् स्रग्विणा वज्रवाससा ।

निवेदिता गुरुभ्यश् च स्वयं भक्त्या न चान्यथा ॥

उत्सवश् चापि कर्तव्यो नृत्यगीतसमाकुलः ।

आश्वयुक्शुक्लपक्षे तु स्वातीयोगे सुशोभने ॥

पूर्वम् उच्छैःश्रवा नाम प्रथमं सूर्यम् आवहत् ।

[४०७] तस्मात् साश्वैर् नरैस् तत्र पूज्यो ऽसौ श्रद्धया सदा ॥

पूजनीयाश् च तुरगा नवमीं यावद् एव हि ।

शान्तिस्वस्त्ययने कार्ये तदा तेषां दिने दिने ॥

धान्यं भल्लातकं कुष्ठं वचां सिद्धार्थकांस् तथा ।

पञ्चरङ्गेण सूत्रेण कण्ठे तेषां तु बन्धयेत् ॥

वायव्यैर् वारुणैः सौरैः शाक्रैर् मन्त्रैः सवैष्णवैः ।

वैश्वदेवैस् तथाग्नेयैर् होमः कार्यो दिने दिने ॥

तुरगा रक्षणीयाश् च पुरुषैः शस्त्रपाणिभिः ।

न च ताड्याः क्वचित् तत्र न च वाह्याः कदाचन ॥

ज्येष्ठायोगे पुरा तत्र गजाश् चाष्टौ महाबलाः ।

पृथिवीम् अवहन् पूर्वं सशैलवनकाननाम् ॥

कुमुदैरावणौ पद्मः पुष्पदन्तो ऽथ वामनः ।

सुप्रतीको ऽञ्जनो नीलस् तथा तांस् तत्र पूजयेत् ॥

शाक्राद् ऋक्षात् समारभ्य नवम्यन्तं च पूजयेत् ।

तत्राष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी ॥

प्रादुर्भूता महाघोरा योगिनीकोटिभिः सह ।

अतो ऽर्थं [ऽर्धं] पूजनीया सा तस्मिन्न् अहनि मानवैः ॥

उषितैर् वस्त्रधूपैश् च माल्यै रत्नानुलेपनैः ।

दीपरत्नैस् तथा भक्ष्यैः फलमूलैश् च धान्यकैः ॥

[४०८] आमिषैर् विविधैः शाकैर् होमैर् ब्राह्मणतर्पणैः ।

बिल्वपत्रैः श्रीफलैश् च चन्दनेन घृतेन च ॥

पशुभिः पानकैर् हृद्यै रात्रिजागरणेन च ।

दुर्गागृहे तु शस्त्राणि पूजितव्यानि पण्डितैः ॥

वाद्यभाण्डानि चिह्नानि कवचान्य् आयुधानि च ।

रात्रौ तु शिल्पिभिश् तानि स्वानि पूज्यानि सर्वदा ॥

नवम्यां तु कृतस्नानैः सर्वैः पूज्याश् च ब्राह्मणाः ।

भुक्त्वा तु शान्तिः कर्तव्या योगे गोधूलिनामनि ॥

यद् उक्तं शालिहोत्रे तु ज्योतिःशास्त्रे तु यन् मतम् ।

अथर्ववेदे यत् प्रोक्तं तच् च तत्र समाचरेत् ॥

छिन्द्यात् सकुक्कुटं छागं कृत्रिमं दारुवेश्मनि ।

श्रवणे चाथ सन्ध्यायां निर्दहेत् सगृहं ततः ॥

निर्दह्यमानौ तौ तत्र निर्गच्छन्तौ विभावयेत् ।

दिशं शान्तां प्रदीप्तां वा दग्धां वा तत्फलप्रदाम् ॥

द्रष्टव्याश् चात्तशस्त्राश् च राज्ञा नीराजने जनाः ।

**भविष्यपुराणे **।

	सुमन्तुर् उवाच ।

नवम्यां श्रीः समायुक्ता देवैः सर्वैः सुपूजिता ।

जघान महिषं दुष्टम् अवध्यं देवतादिभिः ॥

[४०९] लब्ध्वाभिषेकं वरदा शुक्ले चाश्वयुजस्य तत् ।

यस्मात् सा तत्र सम्पूज्या नवम्यां चण्डिका बुधैः ॥

महत्वं हि ततः प्राप्ता यत्र देवी सरस्वती ।

अतो ऽर्थं [ऽर्धं?] महती प्रोक्ता नवमीयं सदा बुधैः ॥

पूजयित्वा महादेवीं नवम्याम् अत्र चण्डिकाम् ।

महत्वम् आप्तवान् वीरो ब्रह्मा विष्णुस् तथामराः ॥

तस्माद् इयं महापुण्या नवमी पापनाशिनी ।

उपोष्या तु प्रयत्नेन सततं सर्वपार्थिवैः ॥

मूलोत्तरेण ऋक्षेण संयुक्ता विधिवन् नृप ।

विशेषतो ध्यानजीव्यैर् बालवृद्धैः सयौवनैः ॥

ब्राह्मणैः क्षत्रियैर् वैश्यैः शुद्रैर् अन्यैश् च साधनैः ।

अत्र दानानि देयानि सोपवासैर् नृपैर् नृप ॥

गोसुवर्णादि राजेन्द्र वस्त्राणि विविधानि च ।

स्वमांसरुधिरैर् दत्तैर् देवी तुष्यति वै भृशम् ॥

महिषच्छागमेषाणां रुधिरेण तथा नृप ।

सुमेकम् एकं वरदा तृप्ता भवति चण्डिका ॥

“सुमेकः” संवत्सरः ।

रुधिरेणोरणस्यैषा तर्पिता विधिवत् ततः ।

अजस्य दशवर्षाणि रुधिरेण प्रतर्पिता ॥

[४१०] माहिषेण शतं वीर तृप्ता भवति चण्डिका ।

सहस्रं तृप्तिम् आयाति स्वदेहरुधिरेण तु ॥

तर्पिता विधिवद् दुर्गा भित्त्वा बाहू च जङ्घके ।

एवं नानाम्लेच्छगणैः पूज्यते सर्वदस्युभिः ॥

अङ्गवङ्गकलिङ्गैश् च किन्नरैर् बर्बरैः शकैः ।

ब्रह्मपुराणे

सोपवासश् च कर्तव्य एकादश्यां प्रजागरः ।

द्वादश्यां वासुदेवश् च पूजनीयश् च सर्वदा ॥

यात्रोत्सवश् च कर्तव्यस् त्रयोदश्यां च विष्णवे ।

उपवासश् चतुर्दश्यां पौर्णमास्यां हरिं यजेत् ॥

आश्वयुज्यां पुरा विप्रैः काम्यो होमः प्रकीर्तितः ।

महाभये तु रक्षार्थं द्वारोपान्ते हुताशनः ॥

यवाक्षतघृतोपेतैस् तण्डुलैश् च सुतर्पितः ।

पूर्णेन्दुः पूजितश् चापि पाद्यैर् धान्यैः फलैस् तथा ॥

देवदारुवने नग्नः स्तब्धलिङ्गो दिगम्बरः ।

सभार्यः पूजितो रुद्रः स्कन्दनन्दिपुरःसरः ॥

देवैर् अश्वपतिश् चापि रेवन्तः पूजितः सदा ।

मुनिभिर् गौस् तु सुरभिर् गोमद्भिर् अथ पूजिता ॥

छागरूपश् च मुनिभिः पूजितो ऽत्र हुताशनः ।

[४११] उरभ्ररूपी देवेषु पूजितस् तु जलाधिपः ॥

विनायकेन सृष्टास् तु वारणाद्या महाबलाः ।

कान्तारदीपदानं च विष्णुना सम्प्रवर्तितम् ॥

कश्यपेन निकुम्भस्य युद्धाद् आगमनं कृतम् ।

युगपत् तत्र कर्तव्या द्वादशेमे महोत्सवाः ॥

आश्वयुज्यां पौर्णमास्यां निकुम्भो वालुकार्णवात् ।

आयाति सेनया सार्धं कृत्वा युद्धं सुदारुणम् ॥

तस्मात् तत्र नरैर् मार्गाः स्वगेहस्य समीपगाः ।

शोधितव्याः प्रयत्नेन भूषितव्याश् च मण्डलैः ॥

पुष्पार्घफलमूलान्नसर्षपप्रकरैस् तथा ।

वेश्मानि भूषितव्यानि नानारङ्गैर् विशेषतः ॥

सुस्नातैर् अनुलिप्तैश् च नरैर् भाव्यं सबालकैः ।

दिवा तत्र न भोक्तव्यं मनुष्यैश् च विवेकिभिः ॥

स्त्रीमूर्खवृद्धबालैश् च भोक्तव्यं पूजितैः सुरैः ।

पूज्याश् च स्फलैः पुष्पैश् तथा द्वारोर्ध्वभित्तयः ॥

द्वारोपान्ते प्रदीप्तस् तु सम्पूज्यो हव्यवाहनः ।

यवाक्षतघृतोपेतैस् तण्डुलैश् चैव तर्पितः ॥

सम्पूजितव्यः पूर्णेन्दुः पयसा पायसेन च ।

रुद्रः सभार्यः स्कन्दश् च तथा नन्दी सुरेश्वरः ॥

गोमद्भिः सुरभिः पूज्या छागवद्भिर् हुताशनः ।

[४१२] औरभ्रवद्भिर् वरुणो गजवद्भिर् विनायकः ॥

पूज्यः साश्वैश् च रेवन्तो यथाविभवविस्तरैः ।

ततः पूज्यो निकुम्भश् च समाषैस् तिलतण्डुलैः ॥

सुगन्धिभिर् घृतोपेतैः कृसराख्यैश् च भूरिभिः ।

“कृसराख्यो” महिषाख्यगुग्गुलुः ।

ब्राह्मणान् भोजयित्वा तु भोक्तव्यं मांसवर्जितम् ॥

शङ्खवाद्यरवोन्मिश्रैर् गीतनृत्यैश् च सा निशा ।

वह्निपार्श्वगतैर् नेया दृष्ट्वा क्रीडाः पृथग्विधाः ॥

ततः प्रभातसमये स्वनुलिप्तैः स्वलङ्कृतैः ।

मङ्गलालम्भनं कार्यं वह्निसम्पूजनं तथा ॥

भोक्तव्यं ब्राह्मणैः सार्धं क्रीडितव्यं यथासुखम् ।

तस्यां रात्रौ व्यतीतायां द्वितीयायाम् अनन्तरम् ॥

प्रभाते कर्दमाक्तैश् च क्रीडितव्यं पिशाचवत् ।

निर्लज्जैश् चाथ सर्वत्र रुद्रवत् सर्ववेश्मसु ॥

यस्मात् स देशः सोत्कण्ठः पिशाचैः शान्तिवाहनैः ।

लब्धस् तु कश्यपात् पूर्वं सक्रोधस्य प्रजापतेः ॥

आनीय चाथ मैत्राणि लेपनीयानि कर्दमैः ।

कामाग्निजनकैर् वाक्यैः स्त्रीपुंलिङ्गार्थदेशिभिः ॥

वाचा पैशाचम् आचारं कीर्तयद्भिर् इतस् ततः ।

[४१३] अश्लिलान्य् अप्पि जल्पद्भिर् आक्रोशद्भिश् च सम्मुखम् ॥

तस्मिन्न् अहनि पूर्वाह्णे निकुम्भस्यानुयायिनः ।

कान्तवेशाः पिशाचाश् च प्रविशन्ति नरांश् च तान् ॥

अपराह्णे ततः स्नातांस् त्यक्त्वा गच्छन्ति बन्धुवत् ।

दर्पाभिमानदोषेण तत्र यस् त्व् आगतान् नरान् ॥

न पूजयति मोहेन क्रीडां न कुरुते ऽथ च ।

तं निर्दहन्ति ते क्रोधात् पिशाचा रौद्रदर्शनाः ॥

ततः स्नातैर् नरैः पूज्यो देवो दामोदरो हरिः ।

सम्पूज्य विप्रान् भोक्तव्यं स्वनुलिप्तैः स्वलङ्कृतैः ॥

बन्धुमित्रकलत्रैश् च सहितस्य यथाक्रमम् ।

ततः प्रभृति षण्मासान् स्वेषु वेश्मसु मानवैः ॥

अग्निः सन्निहितः कारो रात्रौ सिद्धार्थकास् तिलाः ।

मासं समग्रं देयश् च दीपो नित्यं गृहाद् बहिः ॥

स्कन्दपुराणे

रतावसानं सम्प्राप्य् निष्क्रान्ते दिक्पतौ पतौ ।

[४१४] उत्थाय शयनाद् देवी शौचं चक्रे ऽतिशोचिता ॥

ततः स्पृशन्त्याः पर्वत्या वारिधाराधरप्रभ ।

“धाराधरप्रभा” मेघवेणी । व्यासस्यैतत् सम्बोधनम् ।

चिन्ता समभवत् तस्या न पुत्रो दुहितेति वा ॥

तस्याश् चिन्तयमानाया हृदयाम्बुसमुद्भवा ।

जज्ञे कमलपत्राक्षी कन्या मृन्मयपङ्किता ॥

नीलवस्त्रैर् निवसिता रक्तवस्त्रावगुण्ठिता ।

सोत्थाय कर्दमात् तस्माद् विकृताननमूर्धजा ॥

बद्धाञ्जलिपुटा प्राह पार्वतीं भाविनीं सतीम् ।

अनुब्रूहि मया कार्यं किं ते देहप्रसूतया ॥

गिरिकन्या तु तां कन्यां हृदयाम्बुसमुद्भवाम् ।

उवाच सम्परिष्वज्य मूर्ध्नि चाघ्राय पार्वती ॥

भूमिपङ्काङ्कसम्भूते संलिप्ता च यद् अङ्गने ।

[४१५] तस्माद् उदकसेवेति भविष्यति महोत्सवः ॥

यस्मिन्न् इन्द्रमहो लोके दिने पातम् उपैष्यति ।

तस्मिन् दिने तव जना आरप्स्यन्ते महोत्सवम् ॥

यः कामो भैरवश् चासीद् भगवत्या भवस्य च ।

स महाभैरवो भूत्वा कन्यां गृह्य करे स्थितः ॥

ततो ऽम्बिका भगवती पत्नी भगवतः प्रिया ।

पुमांसम् अब्रवीत् कस् त्वं किं च गृह्णासि मे सुताम् ॥

ततो दंष्ट्राकरालास्य् भैरवो भैरवाकृतिः ।

उमां नीचैः स्थितः प्राह विद्युन्मत्त इवाम्बुदः ॥

यो ऽभवद् भैरवः कामो भगवत्या भवस्य च ।

तत्सम्भूतो ऽहम् एवैषा भार्या मम भविष्यति ॥

[४१६] दम्पती तौ विकृताङ्गौ कुवेषाच्छादनौ स्थितौ ।

विक्षाञ्चक्रे सोमभूषः काव् इमाव् इति शङ्कितः ॥

अथ तौ दम्पती तस्य देवतासुरवन्दितौ ।

महेशचरणौ कान्तौ प्रणम्य च ततः स्थितौ ॥

ताव् उभाव् अपि भवो भवपालश्

	चन्द्रचिह्नितजटस् त्रिपुरारिः ।

प्राह पादपतितौ हि समीपे

	कौ युवां वदथ किं च करोमि ॥

अम्बिका भवम् अथाह गिरीशं

	सूर्यकोटितडिदग्निसवर्णम् ।

हासपूर्णवदना वलमानं

	लीलया भगवती वलमाना ॥

यो ऽभवत् तव ममैव हि कामो

	भैरवो भयकरस् त्रिदशानाम् ।

एष ते भुवि पुमान् किल जातः

	स्त्रीयम् एव तु मया मदनाग्नेः ॥

सोमलक्ष्मा तदा प्रोक्त उमया सोमभावनः ।

गोपवेषधरो देवो दम्पतीत्य् अब्रवीद् वचः ॥

यदैव हि त्वया ध्याने जातेयं स्त्री वराङ्गना ।

तदैव मत्प्रभावेण भैरवो ह्य् एष मे ऽभवत् ॥

नाहं त्वया विना देवि त्वं चापि न मया विना ।

[४१७] अत एव मया ते ऽद्य दत्तो लम्बोदरारणि ॥

उत्सवस् ते च भविता त्रयीप्रोक्तस् तु मत्प्रिये ।

पूर्वागमो ऽस्य भविता वृत्ते काममहोत्सवे ॥

अतस् तदात्मको लोकः सर्वः सुरवरार्चिते ।

सज्जन्ते तेन चान्योन्यं नरा नार्यश् च पार्वति ॥

लिङ्गेषु हृदयं स्त्रीणां भगेषु हृदयं नृणाम् ।

भगलिङ्गाङ्कितं सर्वं तद् इदं जगद् अङ्गने ॥

भगलिङ्गसमुत्क्रोशं कुर्वाणाः सामरा नराः ।

अन्योन्यं पातयिष्यन्ति प्रक्रोशन्तः परस्परम् ॥

आरम्भे चावसाने च भविता भैरवोत्सवः ।

शक्रपातदिने तद्वद् उदसेविकयोत्सवः ॥

“आरम्भे चावसाने च” इत्य् उदसेविकोत्सवापेक्षया, उदसेविकायाः शेषं कालं “भविता” “उत्सवः” ।

यत् पुरं नगरं ग्रामं भैरवो ऽयं प्रवेक्ष्यति ।

उन्मत्तम् इव तत् सर्वं सस्त्रीवृद्धं भविष्यति ॥

उन्मत्तवद् अनुन्मत्तं चातुर्वर्ण्यं गिरेः सुते ।

भविष्यति सुरोन्मत्तं भैरवागमहर्षितम् ॥

यथा नियुक्ताः पित्र्यर्थे विशन्ते देवता द्विजान् ।

[४१८] एवं वै भैरवमहे भैरवो विशते जनान् ॥

ततो रासभम् आरूढाः सकृत् कर्दमलेपिताः ।

कटुकाञ्चनवल्लीभिः कृतवेष्टनभूषणाः ॥

तत्फलाबद्धवलयाः प्रकटोत्कटनिःस्वनाः ।

भस्मभूषितसर्वाङ्गा विण्मूत्रमलपङ्किनः ॥

तलतालैर् वाद्यमानैः क्रूराबद्धवचोऽन्वितैः ।

“अबद्धम्” असम्बद्धम् ।

सूच्यमाने वरारोहे भैरवो भार्यया सह ॥

प्रवेक्ष्यति पुरं ह्य् एष उत्सवं जनयन् नृणाम् ।

प्रविष्टे भैरवे भीरु पुरुहूतार्चितं पुरम् ॥

जनस्य रोचको घोरो भविष्यति तदोत्सवः ।

“रोचकः” प्रीतिविषयः । स एव “घोरः” उत्कटः ।

येषां वर्षशतं भीरु जरया ये च जर्जराः ॥

ते ऽपि वत्सकवत् सर्वे करिष्यन्त्य् उत्सवं नराः ।

“वत्सकवत्” कुमारवत् ।

नानाभूषणपुष्टाङ्गाः कुङ्कुमागुरुभूषिताः ॥

पीतैर् अनेकवर्णैश् च वासोभिः परिवेष्टिताः ।

कर्णपूरैः सुमाल्यैश् च सदामालाः सचूडिनः ॥

“सदामालाः” सस्रजः । “चूडा” बाहुविभूषणम्, तद्वन्तः ।

[४१९] चूर्णैश् चम्पकपुष्पाद्यै रूक्षपिष्टशिरोरुहाः ।

आस्फोटयन्तः क्रन्दन्तः श्रावयन्तो ऽप्रियाणि च ॥

रथ्यासु राजमार्गेषु श्रावयन्तो यतस् ततः ।

कुलपुत्राः कुलस्त्रीणाम् अनङ्गप्रकृतानि च ॥

व्यङ्गानि यानि गुह्यानि कुलाचारकृतानि च ।

तेषां हि सर्वसन्देहं दर्शयन्तः पदे पदे ॥

गायन्तश् च प्रनृत्यन्तः कुर्वन्तो ऽविनयानि च ।

पूर्वं सलज्जीभूत्वा च निर्लज्जत्वम् उपागताः ॥

लज्जनीयान् अपि गुरून् आक्रोशन्तः परान् अपि ।

उदसेविकया मर्त्याः करिष्यन्ति यथामनः ॥

न मातुर् लज्जते पुत्री न पुत्रस्य तथारणी ।

 पितुर् न पुत्रः पौत्रस्य न पिता तु पितामहात् ॥

न मातुलस्य स्वस्रीयः स्वस्व्रीयस्य न मातुलः ।

मुहूर्तेनैव स्वजना निर्लज्जत्वम् उपागताः ॥

अन्योन्यं रूक्षवचनैस् तर्जयन्ति च मूढवत् ।

भस्मरूक्षा वचोरूक्षाः श्वेताङ्गा मृदयापि च ॥

भक्तिच्छेदविलिप्ताङ्गा चार्वङ्गा चारुचेष्टिताः ।

सारमेयान् अनडुह आरूढा गर्दभेषु च ॥

डोम्बवेषा गोपवेषा वटुवेषधराः परे ।

राजवेषान्त्यवेशाश् च तरुणा वृद्धरूपिणः ॥

नापितानां च वेषेण मन्दानाम् अथ चापरे ।

पलाण्डुसीधुवर्षैश् च श्वासकृन् मिश्रितैर् नृप ॥

धूपं सञ्चारयिष्यन्ति घ्राणवैराग्यकारणम् ।

जलेचरमलं चान्ये नरा नॄणाम् अजानताम् ॥

नासिकायां प्रदास्यन्ति दुर्गन्धम् अशुभैः समम् ।

[४२०] अन्ये तु पुरुषा देवि वेदवेषविभूषिताः ॥

काव्यानि श्रावयन्तो हि ते हृष्यन्ति यथामराः ।

यश् च नाक्रुश्यते तत्र यश् च नाक्रोशते परम् ॥

बिभ्यन्ति तस्य पितरो ब्रह्महन्तुर् यथा तथा ।

राजनो हि यथाश्वानां कुञ्जराणां यथा नराः ॥

हिताय जायते तद्वन् नराणाम् उदसेविका ।

न तस्य देवा अश्नन्ति हविः पितर एव वा ॥

मध्यस्थभावं कुरुते उदसेविकया हि यः ।

न त्वं नन्दी न चैवाहं तस्य तुष्यामि पार्वति ॥

विरामे च महाशोकः पुत्राभावे त्वया कृतः ।

उदसेविकया त्व् एवं भविता भैरवागमः ॥

अतुला हर्षसम्पत्तिः पश्चाद् अथ तथावयोः ।

न भ्राजते यथा वेदं त्वच्छोकाद् भवनं तव ॥

उदसेविकया हीनं तथा तद्भविता पुरम् ।

नरा नार्यश् च गिरिजे भस्मना कर्दमेन च ॥

निष्प्रभाणि करिष्यन्ति गृहाण्य् आयतनानि च ।

चैरैर् उद्वासितम् इव पुरं देवि भविष्यति ॥

मृत्पिण्डभस्मविण्मूत्रैर् नरैः प्रेतैर् इवावृतम् ।

भैरवो ऽयं मृत इति घोषयन्तस् तथा नराः ॥

तृणच्छन्नं नरं तत्र संवेश्याम्बरसंवृतम् ।

इति वाचः प्रकुर्वाणो भैरवो ऽयं जहाति नः ॥

निर्हरिष्यन्ति तं विप्रा मृतं गुरुम् इव प्रियम् ।

तडागकूले तं न्यस्य सरित्कूले तथापि वा ॥

स्नाननिर्मुक्तकलुषाः प्रयास्यन्ति ततो गृहम् ।

[४२१] संसाध्य भैरवं स्नाता उत्सवोत्कटखेदिताः ॥

मुनिव्रता इव नरा भविष्यन्ति धिया युताः ॥

यथेवेते पार्वति भैरवागमे

	नराश् च लज्जां मुहुर् एव लज्जिरे ।

तथैव सम्भावितभैरवाः पुनर्

	बभूवुर् एकान्ततपोवनावृताः ॥

इमं तु यः सुन्दरि भैरवोत्सवं

	पठेत विप्रो द्विजदेवसंसदि ।

स पुत्रपौत्रैः समम् एव तत्क्षणे

	महागणेषत्वम् अवाप्नुयाच् छुभम् ॥

ब्रह्मपुराणे

अमावास्यायां तु देवा कार्तिके मासि केशवात् ।

अभयं प्राप्य सुप्तास् तु सुखं क्षीरोदसानुषु ॥

लक्ष्मीर् दैत्यभयान् मुक्ता सुखं सुप्ताम्बुजोदरे ।

चतुर्युगसहस्रं तु ब्रह्मा सुप्तस् तु पङ्कजे ॥

अतो ऽर्थं विधिवत् कार्या मनुष्यैः सुखसुप्तिका ।

दिवा तत्र न भोक्तव्यम् ऋते बालातुराज् जनात् ॥

प्रदोषसमये लक्ष्मीं पूजयित्वा यथाक्रमम् ।

दीपवृक्षास् तथा कार्याः शक्त्या देवगृहेष्व् अपि ॥

[४२२] चतुष्पथश्मशानेषु नदीपर्वतवेश्मसु ।

वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च ॥

वस्त्रैः पुष्पैः शोभितव्याः क्रयविक्रयभूमयः ।

दीपमालापरिक्षिप्ते प्रदेशे तदनन्तरम् ॥

ब्राह्मणान् भोजयित्वादौ विभज्य च बुभुक्षितान् ।

अलङ्कृतेन भोक्तव्यं नववस्त्रोपशोभिना ॥

स्निग्धैर् मुग्धैर् विदग्धैश् च बान्धवैर् निर्वृतैः सह ।

शङ्करश् च पुरा द्यूतं ससर्ज सुमनोहरम् ॥

कार्तिके शुक्लपक्षे तु प्रथमे ऽहनि सत्यवत् ।

जितश् च शङ्करस् तत्र जयं लेभे च पार्वती ॥

अतो ऽर्थं शङ्करो दुःखी गौरी नित्यं सुखोषिता ।

तस्माद् द्यूतं च कर्तव्यं प्रभाते तत्र मानवैः ॥

तस्मिन् द्यूते जयो यस्य तस्य संवत्सरः शुभः ।

पराजयो विरुद्धस् तु लब्धनाशकरो भवेत् ॥

श्रोतव्यं गीतवाद्यादि स्वनुलिप्तैः स्वलङ्कृतैः ।

विशेषतस् तु भोक्तव्यं प्रशस्तैर् बान्धवैः सह ॥

तस्यां निशायां कर्तव्यं शय्यास्थानं शुशोभनम् ।

गन्धैः पुष्पैस् तथा वस्त्रै रत्नैर् माल्यैर् अलङ्कृतम् ॥

दीपमालापरिक्षिप्तं तथा धूपेन धूपितम् ।

दयिताभिश् च सहितैर् नेया सा च भवेन् निशा ॥

नवैर् वस्त्रैश् च सम्पूज्या द्विजसम्बन्धिअबान्धवाः ।

[४२३] पद्मपुराणे

कार्तिके मास्य् अमावास्या तस्यां दीपप्रदीपनम् ।

शालायां ब्रह्मणः कुर्यात् स गच्छेत् परमं पदम् ॥

यावद् दीपस्य सङ्ख्या वै घृतेनापूर्य शक्तितः ।

तावद् युगसहस्राणि शिवलोके महीयते ॥

प्रतिपदि ब्राह्मणांश् च गुडमिश्रैः प्रदीपकैः ।

वासोभिर् अहतैः पूज्य गच्छेद् वै ब्रह्मणः पदम् ॥

गन्धपुष्पैर् नवैर् वस्त्रैर् आत्मानं पूजयेत् ततः ।

तस्यां प्रतिपदायां तु स गच्छेद् ब्रह्मणः पदम् ॥

महापुण्या तिथिर् इयं बलिर् आज्यप्रवर्तिनी ।

ब्रह्मणस् तु प्रिया नित्यं बालेयी परिकीर्तिता ॥

ब्राह्मणान् भोजयेद् यो ऽस्याम् आत्मानं च विशेषतः ।

स याति परमं स्थानं विष्णोर् अमिततेजसः ॥

चैत्रे मासि महाबाहो पुण्या प्रतिपदा परा ।

तस्यां यः श्वपचं स्पृष्ट्वा स्नानं कुर्यान् नरोत्तमः ॥

न तस्य दुरितं किञ्चिन् नाधयो व्याधयो नृप ।

भवन्ति कुरुशार्दूल तस्मात् स्नानं समाचरेत् ॥

दिव्यं नीराजनं तद् धि सर्वरोगविनाशनम् ।

गोमहिष्यादि यत् किञ्चित् तत् सर्वं भूषयेन् नृप ॥

चेलवस्त्रादिभिः सर्वांस् तोरणाधस् ततो नयेत् ।

[४२४] ब्राह्मणानां तथा भोज्यं कुर्यात् कुरुकुलोद्वह ॥

तिस्र एताः पुरा प्रोक्तास् तिथयः कुरुनन्दन ।

कार्तिके ऽश्वयुजे मासि चैत्रे मासि तथा नृप ॥

स्नानं (?) दानं शतगुणं कार्तिके या तिथिर् नृप ।

बलिर् आज्ये तु शुभदा या शुभाशुभनाशिनी ॥

वामनपुराणे

	बलिं प्रति त्रिविक्व्रम उवाच ।

तथान्यद् उत्सवं पुण्यं वृत्ते शक्रमहोत्सवे ।

वीरप्रतिपदा नाम तव भावी महोत्सवः ॥

तत्र त्वां नरशार्दूल हृष्टा पुष्टास् त्व् अलङ्कृताः ।

पुष्पदीपप्रदानेन ह्य् अर्चयिष्यन्ति यत्नतः ॥

तवोत्सवेषु विपुलं भविष्यन्ति दिवानिशम् ।

यथैव राज्ये भवतस् तु सम्प्रति

	तथैव सा भाव्यतिकौमुदीति च ॥

ब्रह्मपुराणे

षड् गर्भान् दानवान् पूर्वं वञ्चयित्वा जनार्दनः ।

तां योगनिद्राम् असृजद् देवीं रक्षार्थम् आत्मनः ॥

एकां निशां भगवती सिद्धिदां कालदैवतम् ।

[४२५] शुक्लपक्षे तु सम्पूज्या कार्तिके केशवाज्ञया ॥

चतुर्थ्याम् अथ वाष्टम्यां नवम्यां वा सुसिद्धिदा ।

चतुर्दश्याम् अथ स्त्रीभिः सुस्नाताभिर् यथाक्रमम् ॥

गृहाद् बाह्ये तु यत्र स्याद् एकान्ते तु फलद्रुमः ।

तत्रार्घपुष्पधूपान्नसम्पदा पूजयेत् तु ताम् ॥

एकपुत्रवती नारी मनोवाक्कायसंयुता ।

पूर्वोपकरणैर् युक्तं गृहीत्वा ग्रासम् उत्तमम् ॥

ततो ददाति श्येनाय सुप्रीता प्रीतिकामिनी ।

इमं ग्रासं नयस्वार्य भगवत्यै निवेदितम् ॥

इत्य् उक्त्वा स्वगृहं याति ततः पूर्णमनोरथा ।

कृते युगे प्रसिद्धो ऽयं दासवद् भृतको यथा ॥

यथोपरिचरो राजा रेतः पर्णपुटे स्वकम् ।

निधाय प्रददौ नेतुं श्येनाय स्वां प्रियां प्रति ॥

युगेष्व् अन्येषु मन्त्रं वै पठन्त्व् अनल इत्य् अपि ।

जहाति भूमौ तं ग्रासं प्राङ्मुखी याति वेश्म च ॥

आमन्त्रणं तु यस्यापि पक्षिणो निर्मितं पुरा ।

स एव पक्षी गृह्णाति तं ग्रासम् इति निश्चयः ॥

आदौ गृहे ततो भुङ्क्ते सा नारी सुसमाहिता ।

पश्चाद् गृहप्तिर् भुङ्क्ते सभृत्यज्ञातिबान्धवाः ॥

गृहदेवीं तु तेनैव विधिना पूजयेत् पतिः ।

श्येनग्रासो न देयश् च न च वृक्षं समाश्रयेत् ॥

किं तु गुप्तगृहे भार्यां पूजयेत् पतिव्रताम् ।

[४२६] युग्मेष्व् अन्येषु सद्भावो दम्पत्योर् नो भवेद् यदा ॥

तदा स्वकुलधर्मं तु तावन्मात्रं करोति सः ।

वराहपुराणे [१२३.८–११] ।

	वराह उवाच ।

कौमुदस्य तु मासस्य या सिता द्वादशी भवेत् ।

अर्चयेद् यस् तु मां तत्र तस्य पुण्यफ्लं शृणु ॥

यावल् लोका हि वर्तन्ते यावत् त्वं चैव माधवि ।

मद्भक्तो जायते तावद् अन्यभक्तो न जायते ॥

कृत्वा वै मम कर्माणि द्वादश्यां मत्परो नरः ।

ममैव बोधनार्थाय चेमं मन्त्रम् उदाहरेत् ॥

	ॐ मन्त्र उच्यते ।

ब्रह्मेन्द्ररुद्रैर् अभिपूज्यमानो

	भवान् ऋषिर् वन्दितवन्दनीयः ।

प्राप्ता तवेयं द्वादशी कौमुदाख्या

	जागृष्व जागृष्व च लोकनाथ ॥

मेघा गता निर्मलपूर्णचन्द्रः 

	शारद्यपुष्पाणि च लोकनाथ ।

अहं ददानीति च पुण्यहेतोः 

	प्रबुध्य जागृष्व च लोकनाथ ॥

[४२७] एवं कर्माणि कुर्वन्ति द्वादश्यां ये यशस्विनि ।

मम भक्त्या नरशेष्ठास् ते यान्ति परमां गतिम् ॥

ब्रह्मपुराणे

एकादश्यां तु शुक्लायां कार्तिके मासि केशवम् ।

प्रसुप्तं बोधयेद् रात्रौ श्रद्धाभक्तिसमन्वितः ॥

नृत्यैर् गीतैश् तथा वाद्यै ऋग्यजुःसाममङ्गलैः ।

वीणापणवशब्दैश् च पुराणश्रवणेन च ॥

वासुदेवकथाभिश् च स्तोत्रैर् अन्यैश् च विष्णवैः ।

सुभाषितैर् इन्द्रजालैर् भूमिशोभाभिर् एव च ॥

पुष्पैर् धूपैश् च नैवेद्यैर् दीपवृक्षैः सुशोभनैः ।

होमैर् भक्ष्यैर् अपूपैश् च फलैः शाकैश् च पायसैः ॥

इक्षोर् विकारैर् मधुना द्राक्षाक्षौद्रैः सदाडिमैः ।

कुठेरकस्य मञ्जर्या मालत्या लवणेन च ॥

हृद्याभ्यां श्वेतरक्ताभ्यां चन्दनाभ्यां च सर्वदा ।

कुङ्कुमालक्तकाभ्यां च रक्तसूत्रैः सकङ्कणैः ॥

तथा नानाविधैः पुष्पैर् द्रव्यैर् वीरक्रयाहृतैः ।

तस्यां रात्र्यां व्यतीतायां द्वादश्याम् अरुणोदये ॥

आदौ घृतेन तैलेन मधुना स्नापयेत् ततः ।

दध्ना क्षीरेण च ततो पञ्चगव्येन शास्त्रवत् ॥

उद्वर्तनं माषचूर्णं मसूरामलकानि च ।

लोध्रं कालेयकं चैव तगरं वर्णसम्भवम् ॥

[४२८] सर्षपाश् च प्रियङ्गुश् च मातुलुङ्गरसस् तथा ।

सर्वौषध्यः सर्वगन्धाः सर्वबीजानि काञ्चनम् ॥

मङ्गलानि यथाकामं रत्नानि च कुशोदकम् ।

हस्तिदन्तोद्धृता मृच् च वृषशृङ्गोद्धृता च मृत् ॥

नदीतीराद् गवां स्थानाद् वल्मीकात् सङ्गमोद्धृतात् ।

इन्द्रस्थानाच् च सरसस् तथा पर्वतमस्तकात् ॥

एताभिः शोधयेद् देवं दद्याद् गोरोचनं शुभम् ।

ततस् तु कलशा देया यथाप्रोक्ताः स्वलङ्कृताः ॥

जातीपल्लवसंयुक्ताः सफलाश् च सकाञ्चनाः ।

पुण्याहवेदशब्देन वीणावेणुरवेण च ॥

शब्देन मधुरेणैव सूतमागधवन्दिनाम् ।

एवं संस्नाप्य गोविन्दं स्वनुलिप्तं स्वलङ्कृतम् ॥

सुवाससं पूजयेच् च सुमनोभिः सुकुङ्कुमैः ।

दीपैर् धूपैर् मनोज्ञैश् च पायसेन च भूरिणा ॥

मात्रयान्नप्रदानैश् च होमैः पुष्पैः सुदक्षिणैः ।

वासोभिर् भूषणै रत्नैर् गोभिर् अश्वैर् मनोहरैः ॥

ब्राह्मणाः पूजनीयाश् च विष्णोर् आद्याश् च मूर्तयः ।

संविभज्याश् च दायादा व्रात्याः सात्वतजातयः ॥

यज्ञशिष्टामृतं पश्चाद् भोक्तव्यं ब्राह्मणैः सह ।

[४२९] संविभज्यास् ततः पश्चात् त्रयोदश्यां तु नर्तकाः ॥

चतुर्दश्यां न भोक्तव्यं पातव्यम् अथ वा पयः ।

पौर्णमास्यां तु सम्पूज्यो भक्त्या दामोदरः सदा ॥

तस्मिन्न् अहनि यतेन कर्तव्यं नक्तभोजनम् ।

दौःशील्यभ्रान्तिचकितैस् तत्र सप्तर्षिभिः पुरा ॥

सन्त्यक्ताः कृत्तिकाः षट् च ऋते साध्वीम् अरुन्धतीम् ।

तत्र स्कन्दश् च भगवान् कार्तिकेयत्वम् आगतः ॥

खड्गश् च रुद्रवचनाद् वह्निमध्यात् समुत्थितः ।

रुद्रात् पाशशतं लेभे वरुणस् तत्र दारुणम् ॥

अग्निश् च भृगुशापाच् च मुक्तस् तत्र महाभयात् ।

अर्हितो मनुना मर्त्यो नीत्वा तत्र पयोनिधिम् ॥

स्नातव्यं वृषभैस् तत्र प्राप्त उत्सर्ग एव हि ।

इष्टिः साङ्ग्रामिकी तत्र कृता देवैर् जिगीषुभिः ॥

तस्माद् दशात्र कर्तव्याः पौराणा उत्सवाः सकृत् ।

तत्र चन्द्रोदये पूज्यास् तापस्यः कृत्तिकाश् च षट् ॥

कार्तिकेयस् तथा खड्गो वरुणश् च हुताशनः ।

धन्यैः सशूकैर् द्वारोर्ध्वं भूषितव्यं निशागमे ॥

माल्यैर् धूपैस् तथा गन्धैर् भक्ष्यैस् तूच्चावचैस् तथा ।

परमान्नैः फलैः शाकैर् वह्निब्राह्मणतर्पणैः ॥

इक्षूणां तु विकारेण दीपवृक्षैः सुशोभनैः ।

[४३०] कृसरेणाथ पयसा तथा रम्यैश् च गोरसैः ॥

लेपकाभिर् विचित्राभिः स्वजात्युक्तैश् च पानकैः ।

एवं देवाः सुसम्पूज्या दीपो देयो गृहाद् बहिः ॥

दीपोपान्ते ततो गर्तश् चतुरस्रो मनोहरः ।

चतुर्विंशाङ्गुलः कार्यः सिक्तश् चन्दनवारिणा ॥

गवां क्षीरेण पूर्णश् च समन्तात् परिरक्षितः ।

तत्र हैममयो मत्स्यो मुक्तानेत्रो मनोहरः ॥

सङ्क्षेप्तव्यो विधानेन नमो ऽस्तु हरये पठेत् ।

ब्राह्मणाय मनोज्ञाय दद्यात् तत् क्षीरसागरम् ॥

नीलं च वृषभं दद्याच् चतुर्वत्सतरीयुतम् ।

सर्वसस्यधनं रम्यं सर्वगन्धसमन्वितम् ॥

सुवाससं ब्राह्मणाय महाकान्तारतारणम् ।

यावन्ति तस्य रोमाणि शरीरे सन्ति सङ्ख्यया ॥

तावद् युगसहस्राणि स्वर्गे वसति तत्प्रदः ।

पूजयित्वा ततो विष्णुं रक्तमाल्यानुलेपनैः ॥

भोक्तव्यं गोरसप्रायं सुप्तव्यं स्थण्डिले ततः ।

एकादश्यादिषु तथा तासु पञ्चसु रात्रिषु ॥

दिने दिने च स्नातव्यं शीतलासु नदीष्व् अपि ।

[४३१] पूजनीयो हरिर् देवो ब्राह्मणाः सहुताशनाः ॥

अभयं सर्वभूतेभ्यो दत्तं पूर्वं सुरासुरैः ।

विष्णुप्रबोधसमये दिव्यं युगशतं क्रमात् ॥

यथावत् पालितं तच् च मुनिभिर् वाक्यम् उत्तमम् ।

देवैर् विष्णुप्रबोधादि समग्रं तूत्तरायणम् ॥

पालितं तच् च वचनात् पश्चात् त्यक्तं विधेर् वशात् ।

नित्यसङ्ग्रामशीलत्वाद् धर्माद् धिंसात्मकैस् तथा ॥

देवदानवयक्षैश् च पिशाचैर् अथ राक्षसैः ।

वर्जिता प्राणिहिंसा च मासादेर् दिनपञ्चके ॥

यस्मान् न भोजनं धात्रा तेषां मांसाद् ऋते कृतम् ।

ततः प्रभृति यो येन धर्मश् च स्वयम् आश्रितः ॥

स तेन पाल्यते नित्यम् अद्यापि प्रथितात्मना ।

मुनिवद् देववच् चाथ दैत्यदानववत् तथा ॥

देया च सर्वभूतेभ्यो नरैर् अभयदक्षिणा ।

मार्गशीर्षस्य मासस्य प्रारम्भे प्रतिपद्य् अपि ॥

नवसंवत्सरारम्भो देवैः कृतयुगे कृतः ।

कश्यपेन च कश्मीरा निर्मिताश् च सुशोभनाः ॥

तस्मात् तत्र नरैः कार्यः सदा पुण्यमहोत्सवः ।

पुष्पैर् माल्यैर् गीतवाद्यैर् मङ्गल्यैर् द्रव्यशोभितैः ॥

दानैर् वस्त्रैस् तथा रत्नैर् उपर्युक्तैर् नवैः सदा ।

[४३२] यद् विष्णोर् दक्षिणं नेत्रं तद् एवाकृतिमत् पुनः ॥

अदितेः कश्यपाज् जज्ञे मित्रो नाम दिवाकरः ।

मार्गशीर्षस्य मासस्य शुक्लपक्षे शुभे तिथौ ॥

सप्तम्यां तेन सा ख्याता लोके ऽस्मिन् मित्रसप्तमी ।

षष्ठ्यां तु स्नपनं कार्यं तस्मै मित्राय भानवे ॥

यथा विष्णोः प्रबोधे तु क्रियते सर्वसम्पदा ।

तत्रोपवासः कर्तव्यो भक्ष्याण्य् अथ फलानि वा ॥

रात्रिजागरणं काऋयं गीतवाद्यपुरस्कृतम् ।

सप्तम्य्ं वपनं कृत्वा ततः स्नात्वा यजेद् रविम् ॥

नानाकुसुमसम्भारैर् भक्ष्यैः पिष्टमयैस् तथा ।

मधुना च प्रभूतेन होमजप्यसमाधिभिः ॥

ब्राह्मणांस् तर्पयेत् पश्चाद् दीनानाथांश् च मानवान् ।

अष्टम्यां संविभज्याथ तथा च नटनर्तकान् ॥

दिनद्वये च भोक्तव्यं पैष्टम् अन्नं मधुप्लुतम् ।

वामं नेत्रं तु यद् विष्णोस् तद् एव भुवनत्रयम् ॥

अनसूयात्मजश् चन्द्रस् त्व् अमृतेनाभ्यषेचयत् ।

पौर्णमास्यां पौर्णमास्यां तस्मात् तं पूजयेत् सदा ॥

[४३३] शुक्लैः पुष्पैश् च पयसा श्रद्धया परया युतः ।

रत्नैर् दीपैश् च बलिभिर् होमैर् ब्राह्मणतर्पणैः ॥

गोभ्यश् च लवणं देयं तस्मिन्न् अहनि सर्वदा ।

यस्मात् तु लवणं चन्द्राद् दक्षशापाद् विनिःसृतम् ॥

माता स्वसा च दुहिता पूज्याः श्रेष्थकुलाङ्गनाः ।

रक्तवस्त्रद्वयेनैव सदशेन नवेन च ॥

रूपमात्रं तु विधिवत् कर्तव्यं तत्र सद्द्विजैः ।

कान्तं रूपं भवेत् स्त्रीणां पूर्णेन्दोः पूजनाद् इति ॥

क्रीडन्त्य् आकाशगङ्गायाम् अष्टमे चात्मवर्त्मनि ।

गजेन्द्राः कुमुदाद्याश् च करैस् तज् जाह्नवीजलम् ॥

गृहीत्वा प्रतिमुञ्चन्ति सूत्कारैर् दक्षिणामुखैः ।

[प्लुष्टाः पूष्णो ऽंशुपातैश् च सामीप्यात् सूर्यरश्मिभिः ॥

सम्यक् स्वदेहशान्त्यर्थं दाहस्य शमनाय च ।]

महाप्रपातान् नभसः पतमानं तु तज् जलम् ॥

वायुना ध्मायमानं तु स्थानत्वम् उपगच्छति ।

तत् पुण्यं हिमवत्सानौ पतते च यदा हिमम् ॥

प्रथमं तत्र सम्पूज्यो हिमवान् शिशिरस् तथा ।

हेमन्तश् च तथा नागो नीलो नीलाब्जसन्निभः ॥

स्थाननागश् च सम्पूज्यः फलैः पत्रैर् नमेरुजैः ।

बकपुष्पाणि देयानि धूपो गुग्गुलुसम्भवः ॥

[४३४] मध्वाज्यतिलसम्मिश्रं पितृभ्यश् च हिमं बहु ।

यस्मिन् देशे हिमं न स्यात् तत्र ब्रूयाद् धिमं हिमम् ॥

घृताक्तं ब्राह्मणेभ्यश् च देयं माषोदनं तथा ।

उत्सवश् च ततः कार्यो गीतनृत्यसमाकुलः ॥

विशेषतश् च भोक्तव्यं मनोज्ञं भोजनं शुभम् ।

श्यामा देवी पूजितव्या धूपपुष्पानुलेपनैः ॥

अन्नैर् भक्ष्यैः फलैर् मूलैः स्वनुलिप्तैः स्वलङ्कृतैः ।

हिमोपरि निविष्टैश् च गुरुप्रावरणाम्बरैः ॥

मित्रभृत्यात्मसम्बन्धिसहितैश् च यथासुखम् ।

भोज्यं विशेषवत् कार्यं श्रोतव्यं गीतवादितम् ॥

द्रष्टव्यं पुंश्चलीनृत्यं पूजनीयास् तथा स्त्रियः ।

नवं च मद्यं पातव्यं मद्यपैश् च यथाक्रमम् ॥

ब्रह्मलोके तपस् तप्त्वा पितरो लेभिरे वरम् ।

पौषे कृष्णाष्टकायां तु शाकैः श्राद्धं सुभोजनम् ॥

पौषमासस्य कृष्णायाम् एकादश्याम् उपोषितः ।

द्वादश्यां पूजयेद् विष्णुं देवं नारायणं हरिम् ॥

यात्रा कार्या त्रयोदश्यां चतुर्दश्याम् उपोषितम् ।

पौर्णमास्यां यजेद् विष्णुं यावद् विभवविस्तरम् ॥

इदं जगत् पुरा लक्ष्म्या त्यक्तम् आसीत् ततो हरिः ।

पुरन्दरश् च सोमश् च तथा पूषा बृहस्पतिः ॥

[४३५] पञ्चैते पुष्ययोगेन पौर्णमास्याम् तपोबलात् ।

अलङ्कृतं पुनश् चक्रुः सौभाग्योत्साहलक्ष्मिभिः ॥

तस्मान् नरैः पुषयोगे तत्र सौभाग्यवृद्धये ।

गौरसर्षपकल्केन समालभ्य स्वकां तनुम् ॥

कृतस्नानैश् ततः कार्यम् अलक्ष्मीनाशनं परम् ।

उद्वर्त्य देहं च तथा सर्वौषधियुतैर् जलैः ॥

स्नानं कृत्वा नवं वस्त्रं गृहीत्वाच्छादनं ततः ।

द्रष्टव्यं मङ्गलशतं धूपस्रग्धान्यशोभितम् ॥

तत्र नारायणः शक्रश् चन्द्रः पूषा बृहस्पतिः ।

सम्पूज्याः पुष्पधूपाद्यैर् नैवेद्यैश् च पृथक् पृथक् ॥

प्रशस्तैर् वैदिकैर् मन्त्रैः कृत्वाग्निहवनं शुभम् ।

धनैर् विप्राश् च सन्तर्प्या नवैर् वस्त्रैश् च शोभिताः ॥

ततः पुष्टिकरं हृद्यं भोक्तव्यं घृतपायसम् ।

पुष्ययोगे च कर्तव्यं राज्ञा स्नानं च सर्वदा ॥

कृष्णाष्टम्यां तु माघस्य मांसश्राद्धं महाफलम् ।

पितृभिः प्रार्थितं पूर्वं तस्मात् तत् तत्र कारयेत् ॥

माघे तु कृष्णद्वादश्यां यमो ऽपि भगवान् पुरा ।

तिलान् उत्पादयामास तपः कृत्वा सुदारुणम् ॥

राजा दशरथो भूमौ तस्मात् तान् अवतारयत् ।

तिलानाम् आधिपत्यं तु विष्णुस् तत्र कृतः सुरैः ॥

तस्याम् उपोषितः स्नातः तिलैस् तस्माद् यजेद् धरिम् ।

तिलतैलेन दीपाश् च देया देवगृहेषु च ॥

[४३६] निवेदयेत् तिलान् एव होतव्याश् च तिलास् तथा ।

तिलान् दद्याच् च विप्रेभ्यो भक्षयेच् च तथा तिलान् ॥

माघकृष्णचतुर्दश्यां विष्णोर् देहान् मरीचयः ।

निश्चेरुस् तिलकाकाराः शतशो ऽथ सहस्रशः ॥

सुप्तस्य भोगिशयने योगनिद्रागतस्य च ।

उदानपवनोद्धूता रोमकूपेषु सर्वतः ॥

तारणाद् योगिमुख्यानां भिन्ने वैकारिके सति ।

विनाशिन्यः शरीरे ताः सिद्धाः सूक्ष्मत्वम् आगताः ॥

तिलकाकृतयो जाताः संस्थिताश् च सुधात्मनः ।

तारकास् तु महाघोरात् संसारगहनार्णवात् ॥

तरतिः प्लवने धातुस् तस्मात् तासां निगद्यते ।

अनर्काभ्युदिते काले सत्सु तारांशुकेष्व् अपि ॥

राजा च तत्र सम्पूज्यो यमः प्रलयभास्करः ।

सर्वाङ्गसन्धिसम्भूता नद्यो विष्णोश् च नित्यशः ॥

अरुणोदयवेलायाम् आरटन्ति च सर्वदा ।

नियुक्ता विष्णुना सर्वाः कस्य पापं पुनीमहे ॥

निमित्तं पञ्चतारेयं तत्र प्रोक्तं यतो भुवि ।

तदा सा तु निशा ज्ञेया तारारात्री सुदारुणा ॥

[४३७] तत्रोपोष्य त्रयोदश्यां सम्प्राप्ते तु निशाक्षये ।

वितस्तायां विशोकायां चन्द्रवत्याम् अथापि वा ॥

तथा हर्षपथायां च त्रिकोट्यां वा यथाक्रमम् ।

सिन्धौ कनकवाहिन्यां तीर्थेष्व् अन्येषु तत्र वा ॥

स्नात्वा पूज्यो जगद्भर्ता हरिः पूज्याश् च तारकाः ।

यमो नद्यश् च तीर्थानि देवताः पितरस् तथा ॥

अर्घैः पुष्पैस् तथा धूपैर् दीपमाल्यानुलेपनैः ।

नैवेद्यैर् विविधाकारैः कृसरेण तु भूरिणा ॥

वह्निः पूज्यश् च भगवान् घृताक्तैस् तिलतण्डुलैः ।

नमःप्रणवसंयुक्तान् सतिलांश् च जलाञ्जलीन् ॥

यमाय सप्त वितरेत् धर्मराजाय सप्त च ।

मृत्यवे सप्त देयाश् च तथा सप्तान्तकाय च ॥

वैवस्वताय सप्तान्याः सप्त कालाय चैव हि ।

सप्त देयाश् च विधिवत् सर्वप्राणहराय च ॥

कृसरं भोजनीयाश् च ब्राह्मणास् तदनन्तरम् ।

श्राद्धं कृत्वा पितृभ्यश् च विमुक्तः सर्वपातकैः ॥

ततो विभज्य बन्धुभ्यः कृसरं भक्षयेत् स्वयम् ।

उमाचतुर्थ्यां माघे तु शुक्लायां योगिनीगणैः ॥

प्राग् भक्षयित्वा सृष्ट्वा च भूयः स्वाङ्गाङ्गजैर् गुणैः ।

सहिताः ससृजुर् यस्मात् तस्मात् प्रोक्ता ह्य् उमा सती ॥

[४३८] तस्मात् सा तत्र सम्पूज्या नरैः स्त्रीभिर् विशेषतः ।

कुन्दपुष्पैः प्रयत्नेन सपद्मकुसुमाक्षतैः ॥

कुëकुमालक्तकाभ्यां च रक्तसूत्रैः सकङ्कणैः ।

अर्घैः पुष्पैस् तथा धूपैर् दीपैर् बलिभिर् एव च ॥

गुडार्द्रकाभ्यां पयसा लवणेनाथ पानकैः ।

पूज्याः स्त्रियश् चाविधवास् तथा विप्राश् च भोजनैः ॥

सौभाग्यवृद्धये चाथ भोक्तव्यं बन्धुभिः सह ।

शुक्लायां माघसप्तभ्यां पूषा नाम महारविः ॥

अदित्यां कश्यपाज् जज्ञे सहस्रकिरणो महान् ।

तस्मात् तं पूजयेत् तत्र सोपवासो जितेन्द्रियः ॥

अर्घैः पुष्पैस् तथा धूपैर् दीपैर् भक्ष्यैर् मनोहरैः ।

नृत्यैर् गीतैस् तथा वाद्यैर् होमैर् ब्राह्मणतर्पणैः ॥

अष्टम्यां च पुनर् भक्ष्यैः पूज्यो घृतमधुप्लुतैः ।

भक्ष्याणि तानि देयानि भक्षितव्यानि तानि च ॥

पौर्णमास्यां मघायोगे वायसाः पञ्च जज्ञिरे ।

इन्द्राच् च वरुणाद् वायोर् यमाद् अथ च नैरृतेः ॥

श्राद्धं पितृभ्यः कर्तव्यं तिलैः पूज्यास् तथा किल ।

ऐन्द्रवारुणवायव्या याम्या नैरृतिकाश् च ये ॥

वायसाः पुण्ययशस् ते मे गृह्णन्तु भोजनम् ।

[४३९] दद्याद् अनेन मन्त्रेण तेभ्यो भोक्तुं मधुप्लुतम् ॥

ब्राह्मणान् भोजयित्वा तु भुञ्जीरन् बन्धुभिः सह ।

फाल्गुनस्य च मासस्य कृष्णाष्टम्यां मही मिता ॥

नारदप्रेरितैर् विप्रैर् दक्षपुत्रैः सिसृक्षुभिः ।

सुबुध्या सूक्ष्ममानेन समुद्रगिरिवर्जिता ॥

अतो ऽर्थं तु महीमानं स्वल्पं तत्र गद्यते ।

पितृभिः पूर्वदेवैस् तु तत्र कृत्वा महत् तपः ॥

अपूपैः प्रार्थितं श्राद्धं मनुष्येभ्यो जनार्दनात् ।

अथअ सस्यानि पूर्णानि मुनिभिः कमलोद्भवात् ॥

प्रजानां वर्धनार्थाय कदाचित् तत्र सर्वदा ।

जाता दाशरथेः पत्नी तस्मिन्न् अहनि जानकी ॥

उपोषितो रघुपतिः समुद्रस्य तटे तदा ।

सर्वसस्यैश् चरुस् तस्मात् तत्र कर्तव्य एव हि ॥

सापूपैस् तत्र सम्पूज्या विप्रसम्बन्धिबान्धवाः ।

रामपत्नी च सम्पूज्या सीता जनकनन्दिनी ॥

ततो नवम्यां लक्ष्मीश् च ब्राह्मणाश् च बहुश्रुताः ।

हृद्येन पिष्टभोज्येन मधुयुक्तेन सर्वदा ॥

बहुप्रकारैर् भोज्यैश् च दशम्यां मित्रबान्धवाः ।

तर्प्यस् त्व् आत्मा च सम्पूज्यः श्रोतव्यं गीतवादितम् ॥

मङ्गलालम्भनं कार्यं नित्यम् एव दिनत्रयम् ।

कृष्णायां फाल्गुने मासि द्वादश्यां श्रवणे सति ॥

[४४०] चकार भगवान् विष्णुः पिण्डनिर्वपणं महत् ।

पितामहेभ्यः श्राद्धं तु तिलैश् च कृतवान् पुरा ॥

सोपवासो हरिं तस्मात् तत्र सम्पूजयेत् तिलैः ।

तिलैः सम्पूजयेद् देवीं तिलांश्च जुहुयात् तथा ॥

तिलतैलेन दीपांश् च दद्याद् देवगृहेष्व् अपि ।

तिलान् दद्याच् च विप्रेभ्यः पितृभ्यश् च तिलोदकम् ॥

तिलांश् च भक्षयेत् तत्र धर्मवृद्ध्यर्थम् आत्मनः ।

अथ कृष्णचतुर्दश्यां फाल्गुने मासि शङ्करः ॥

ब्रह्मविष्णू मोहयित्वा ज्वालालिङ्गेन मायया ।

जगल्लिङ्गसहस्रैश् च पूरयामास तत्क्षणात् ॥

ततः प्रभृति रूढा च लिङ्गपूजा कपर्दिनः ।

गौरमृत्तिकया लिङ्गम् तस्मात् तत्र सुशोभनम् ॥

कुर्यात् प्रमाणसंयुक्तं त्रयोदश्याम् उपोषितः ।

देवोत्थानविधानोक्तैर् द्रव्यैस् तच् च प्रपूजयेत् ॥

अर्घैः सुगन्धिमाल्यैश् च रत्नवस्त्रानुलेपनैः ।

नैवेद्यैर् विविधाकारैर् होमैर् ब्राह्मणतर्पणैः ॥

भुक्त्वा रात्रौ ततः कुर्यान् नृत्यगीतैः प्रजागरः ।

श्रोतव्याः शिवधर्माश् च प्रादुर्भावाश् च शाङ्कराः ॥

अहिंसालक्षणं धर्मं समाश्रित्याथ शङ्करः ।

रम्यैः पिष्टमयैः पूज्यः पशुभिश् च स्वलङ्कृतैः ॥

अमावास्यायां पूज्याश् च रुद्रो ऽग्निर् ब्राह्मणास् तथा ।

[४४१] मांसौदनैर् लोपिकाभिः पूज्यश् चात्मा सबान्धवः ॥

फाल्गुने मासि शुक्लायाम् अष्टम्यां केशवः पुरा ।

महीं सृष्ट्वा तु मनसा सशैलवनकाननाम् ॥

दक्षं प्रजापतिं प्राह सृष्टिम् आपूरयस्व मे ।

तस्य तद् वचनं श्रुत्वा स मुनिस् तां महीं ततः ॥

मापयामास विधिवद् बृहन्मानेन तत्क्षणात् ।

द्वीपार्णवमरुच्चन्द्रनदीवर्षसमन्वितैः ॥

बृहन्मानं समुद्रस्य शतयोजनमात्रकम् ।

चक्रे रघुपतिस् तत्र वृक्षपाषाणकर्दमैः ॥

त्रिकूटशिखरप्रान्तसंस्थितो भगवांश् च सः ।

बृहच् च तन्महीमानं पुराणो वीक्ष्य विस्मितः ॥

इयं मही मया सृष्टा पद्भ्याम् इति विचिन्तयन् ।

हतस्य कुम्भकर्णस्य महामानं स्मरन्न् इव ॥

बृहन्मानेन दीपाश् च सबाह्याभ्यन्तरे गृहे ।

दत्तास् तत्र महीदानं कृतं माल्यादिभिः सदा ॥

तस्माद् बृहन्महीमानं यथा कार्यं तथा शृणु ।

अनन्नभुग्भिर् अष्टम्यां सुस्नातैश् च स्वलङ्कृतैः ॥

लक्ष्मीः सीता च पूज्याथ गन्धमाल्यादिभिस् तथा ।

ततः प्रदोषसमये दीपाः शतसहस्रशः ॥

नरैर् गृहे गृहे देयाः सर्वदेवीभ्य एव च ।

[४४२] देवेभ्यश् च पितृभ्यश् च ततो बाह्ये च वेश्मनः ॥

तेषां चोपरि देयाश् च तावत्सङ्ख्याश् च दीपकाः ।

अवशिष्टं ततो भोज्यं भक्षितव्यं स्वबन्धुभिः ॥

द्वितीये ऽहनि मध्याह्ने शोभनैर् माल्यदामभिः ।

गृहाणि भूषणीयानि तथा देवगृहाण्य् अपि ॥

सीतां सम्पूज्य भोक्तव्यं नृत्यगीतसमाकुलम् ।

पक्वान्नं नित्यदानं च तत्र देयं तु याचते ॥

नान्यत् किञ्चित् प्रार्थितव्यं लब्धं ग्राह्यम् अयत्नतः ।

दशम्यां वापि कर्तव्यं बलिकर्म तथात्मनः ॥

मङ्गलालम्भनं कार्यम् उत्सवश् च विशेषतः ।

ब्राह्मणेभ्यो धनं देयं भृत्येभ्यश् च यथाक्रमम् ॥

धान्यम् अन्नं सुवर्णं च वस्त्रम् आभरणं तथा ।

गोभूमिरत्नवेश्मानि देयानि प्रयतात्मने ॥

सम्प्राप्तान् ग्राहयेत् सम्यङ् न तत्र ग्लपयेन् मनः ।

न कश्चिद् विमुखस् तत्र कर्तव्यस् त्व् आगतो जनः ॥

स्वजातिविहितं पानं पेयं देयं च याचते ।

शय्यासने च कर्तव्ये गन्धपुष्पादिवासिते ॥

स्त्रियः पूज्यास् त्व् अलङ्कार्याः प्रहृष्टाश् च स्वरक्षिताः ।

[४४३] निशायां क्रीडमानाश् च नृत्येयुः कृतभोजनाः ॥

फाल्गुन्याम् अर्यमा जातअस् त्व् अदितौ कश्यपाद् अपि ।

अत्रेश् चाप्य् अनसूयायां जातः पूर्वम् अयं शशी ॥

तौ तत्र पूज्यौ विधिवत् प्राप्ते चन्द्रोदये सति ।

गीतनृत्यैस् तथा वाद्यै रात्रौ कार्यः प्रजागरः ॥

अथ चैत्रेषु कृष्णायां प्रतिपद्य् अपि सर्वदा ।

झल्लमल्लनटानां तु द्रष्टव्यं कौशलं महत् ॥

प्रतिपत् तु समारभ्य पञ्चमीं यावद् एव हि ।

पूजाकर्म ततः कार्यं स्त्रीजनस्यात्मनस् तथा ॥

भोजनं पर्पटप्रायं भोज्यं देयं च याचते ।

चैत्रे तु कृष्णपञ्चम्यां कश्मीरा तु रजस्वला ॥

नित्यं भवति तस्मात् तां कृत्वा शैलमयीं स्त्रियः ।

अभ्यङ्गवस्त्रनैवेद्यैः पूजयन्ति दिनत्रयम् ॥

पुष्पालङ्कारधूपैश् च गोरसं वर्जयन्ति च ।

अष्टम्यां च ततः स्नाप्यास् ताभिर् एव गृहे गृहे ॥

सुस्नाताभिः प्रकृष्टाभिर् जीवपत्नीभिर् एव च ।

भूषिताभिः शुभैर् वस्त्रैर् माल्यैर् गन्धैर् विशेषतः ॥

अनन्तरं द्विजैः स्नाप्याः सर्वौषधियुतैर् जलैः ।

गन्धैर् बीजैस् तथा रत्नैः फलैः सिद्धार्थकैस् तथा ॥

स्नपयित्वा च तां देवीं गन्धैर् माल्यैश् च पूजयेत् ।

वस्त्रालङ्कारपुष्पैश् च तथा पुण्यैश् च गोरसैः ॥

[४४४] मुद्गपिष्टैस् त्रिकोणैश् च तथा भक्ष्यैश् च शालिजैः ।

पयसा पायसैर् हृद्यैर् होमैर् ब्राह्मणतर्पणैः ॥

तन्निवेदितशिष्टं तु प्रार्थितव्यं गृहे गृहे ।

तन्त्रीमनोहरं वाद्यं ततः श्रोतव्यम् आदरात् ॥

अतः परम् ऋतुस्नाता गर्भं गृह्णाति मेदिनी ।

आदित्यमहिषी राज्ञी पौराणी देवपूजिता ॥

राज्ञीस्नपनम् एतस्मात् कारणात् तत्र विश्रुतम् ।

ब्रह्मा विष्णुश् च रुद्रश् च कश्यपः सुरभी तथा ॥

इन्द्रः प्रचेताः पर्जन्यः शेषश् चन्द्रार्कवह्नयः ।

बलदेवो हलं भूमिर् वृषभौ रामलक्ष्मणौ ॥

रक्षोघ्नौ जानकी सीता युगं गगनम् एव च ।

एते द्वाविंशतिः प्रोक्ताः प्रजानां पतयः शूभाः ॥

गोमङ्गले तु सम्पूज्याः कृष्यारम्भे महोत्सवे ।

अर्घैः पुष्पैस् तु धूपैश् च माल्यै रत्नैः पृथक् पृथक् ॥

प्रदक्षिणैर् विधानेन होमैर् ब्राह्मणतर्पणैः ।

ततः शकुनिसूक्तेन वाद्यशब्देन भूरिणा ॥

हलेन वाहयेद् भूमिं स्वयं स्नातः स्वलङ्कृतः ।

पूर्वोत्तरां दिशं गच्छेत् क्रमात् पौरन्दरीं शुभाम् ॥

कृत्वा प्रदक्षिणावर्तम् ऐशान्याभिमुखौ ततः ।

विमुच्य वृषभौ बीजं पुरुषो लक्षणान्वितः ॥

तृप्तः सुवासाः स्रग्वी च सुवर्णजलसेवितम् ।

सुवर्णपात्रसंयुक्तं प्राङ्मुखो निपतेद् भुवि ॥

उप्त्वा बीजं तु तत्रैव भोक्तव्यं बन्धुभिः सह ।

[४४५] उत्सवश् चैव कर्तव्यो गीतनृत्यसमाकुलः ॥

पूर्वं त्रेतायुगे कश्चिन् मध्यदेशोद्भवो द्विजः ।

तीर्थयात्राप्रसङ्गेन चचार पृथिवीम् इमाम् ॥

विहाय कर्म गार्हस्थ्यं तस्मिन् गेहाद् विनिःसृते ।

प्रसक्ता ब्राह्मणी शूद्रे श्मश्रुकर्मकरे रहः ॥

तस्याः कदाचित् पुत्रस् तु तस्माज् जातो विधेर् वशात् ।

शालिकीर्तिर् विवृद्धश् च सविवेकश् च मातरम् ॥

पप्रच्छ जातसन्देहः पितुर् जन्मात्मनस् तथा ।

वक्रोक्त्या स तया प्रोक्तो गिरितः सरितस् त्व् इमाः ॥

निम्नं प्रयाता निम्नेषु जाताः पुण्याश् च शालयः ।

स तु तद्वचनं श्रुत्वा दृष्ट्वा सूर्यं च दुर्मनाः ॥

तपश् चचार सुमहन्मरणे कृतनिश्चयः ।

प्रयाणकाले ब्राह्मणम् अपश्यत् पुरतः स्थितम् ॥

दुर्लभं ब्राह्मणत्वं च न च तस्मात् स लब्धवान् ।

मूढग्राहः स्वम् आत्मानं पीडयित्वा विचेतनः ॥

निष्फलं तु ततस् त्यागं परपीडार्थम् आचरेत् ।

एकादश्यां तु चैत्रस्य कृष्णायां निर्जने मृतः ॥

यक्षात् पिशाच्यां मत्तायां लेभे जन्माथ तामसम् ।

जघन्यां यक्षजातिं च गौह्यकीं तां समाश्रितः ॥

अद्यापि तत् फलं भुङ्क्ते तावन्मात्रं तु तामसम् ।

तस्मात् स तत्र सम्पूज्यः स्त्रीभिश् च प्रातर् एव हि ॥

पाषाणे वर्तुलप्राये मृन्मये वापि चित्रितः ।

अर्घैः पुष्पैस् तथा धूपैः कुङ्कुमेन सुगन्धिना ॥

औरभ्रलोमभिर् मत्स्यैर् भक्ष्यैर् उच्चावचैर् अपि ।

[४४६] तत्र विप्रैर् अनध्यायः कर्तव्यो वाचि संयमः ॥

ततो मअध्याह्नसमये मृन्मये च विचित्रितः ।

क्षिप्त्वा द्वारेण निष्कास्य स्त्रीभिर् एव सुभाषितैः ॥

क्षिप्त्वा गवाक्षरन्ध्रेण प्रवेश्यश् च पुनर् गृहे ।

चैत्रकृष्णे चतुर्दश्यां निकुम्भः शङ्करं सदा ॥

पूजयति च धर्मात्मा पिशाचैः सहितो बली ।

तस्यां निशायां कर्तव्यो नरैर् नित्यं प्रजागरः ॥

शम्भुः पूज्यो निकुम्भश् च पिशाचेभ्यो बलिं हरेत् ।

दीपिकास् तिलतैलस्य कल्केनोक्ताः सुशोभनाः ॥

मत्स्यमांसानि भूरीणि तथा माषोदनं शुभम् ।

भक्ष्याणि परमान्नानि पानकानि शुभानि च ॥

वृक्षमूलेषु गोष्ठेषु तथा शून्यगृहेषु च ।

चतुष्पथेषु रथ्यासु चत्वरेषु नदीषु च ॥

देवालयेषु पुण्येषु वृक्षकोटरकेषु च ।

अट्टालकश्मशानेषु राजमार्गेषु सर्वदा ॥

तस्यां निशायां रक्ष्यास् तु पिशाचेभ्यश् च बालकाः ।

द्रष्टव्यं पुंश्चलीनृत्यं न कुर्यात् स्त्रीनिषेवणम् ॥

अमावास्यां तु चैत्रे सारमेयैश् च काश्यपैः ।

वासुदेवाद् वरो लब्धः प्रभूतं भोजनं त्व् इति ॥

वैवस्वतकुले जातौ द्वौ श्यावशबलौ शुभौ ।

वरं यस्माच् च लेभाते यमद्वारनिवासनम् ॥

तस्मात् तत्र पितॄन् देवान् तर्पयित्वा द्विजैः सह ।

शुनाम् अन्नं प्रभूतं तु पश्चाद् देयं यथेप्सितम् ॥

[४४७] प्रतिमासाद्यदिवसे सर्वैः कार्यो महोत्सवः ।

अत्यन्तदुष्टे सौराग्ने मङ्गलालम्भनं तथा ॥

सर्वैश् च जन्मदिवसे स्नातैर् मङ्गलपाणिभिः ।

गुरुदेवाग्निविप्राश् च पूजनीयाः प्रयत्नतः ॥

स्वनक्षत्रं च पितरौ तथा देवः प्रजापतिः ।

प्रतिसंवत्सरं यस्मात् कर्तव्यस् तु महोत्सवः ॥

**इति राजाधिराजश्रीमद्गोविन्द्चन्द्रदेवमहासान्धिविग्रहिकेण भट्टहृदयधरात्मजेन भट्टश्रीमल्लक्ष्मीधरेण **

रविरचिते कृत्यकल्पतरौ नियतकालकल्पकाण्डे तिथिकृत्यानि ॥

[४४८]

११

अथ कान्तारदीपदानादिविधिः

अथागस्त्यादेर् अर्घदानविधिः

**मत्स्यपुराणे **।

	नारदोवाच ।

कथम् अर्घप्रदानादि कर्तव्यं तस्य वै विभो ।

विधानं यद् अगस्त्यस्य पूजने तद् वदस्व मे ॥

	ईश्वरोवाच ।

प्रत्यूषसमये विद्वान् कुर्यात् तस्योदये निशि ।

स्नानं शुक्लतिलैस् तद्वच् छुक्लमाल्याम्बरो गृही ॥

स्थापयेद् अव्रणं कुम्भं माल्यवस्त्रविभूषितम् ।

पञ्चरत्नसमायुक्तं घृतपात्रेण संयुतम् ॥

नानाभक्ष्यफलैर् युक्तं ताम्रपात्रसमन्वितम् ।

अङ्गुष्ठमात्रं पुरुषं तथैव

	सौवर्णमत्यायतबाहुदण्डम् ।

चतुर्मुखं कुम्भमुखे निधाय

	धान्यानि सप्ताम्बरसंयुतानि ॥

[४४९] सकांस्यपात्राक्षतशुक्तियुक्तं

	मन्त्रेण दद्याद् द्विजपुङ्गवाय ।

उत्क्षिप्य लम्बोदरदीर्घबाहुम्

	अनन्यचेता यमदिङ्मुखस्थः ॥

श्वेतां च दद्याद् यदि शक्तिर् अस्ति

	रौप्यैः खुरैर् हेममयीं सवत्साम् ।

धेनुं नरः क्षीरवतीं प्रणम्य

	वस्त्रघण्टाभरणां द्विजाय ॥

आ सप्तरात्राद् उदये ऽर्घम् अस्य 

	दातव्यम् एतत् सकलं नरेण ।

यावत् समाः सप्त दशाथ वा स्युर्

	अथोर्ध्वम् अप्य् एव वदन्ति केचित् ॥

काशपुष्पप्रतीकाश अग्निमारुतसन्निभ ।

मित्रावरुणयोः पुत्र कुम्भयोने नमो ऽस्तु ते ॥

प्रत्यब्दं च फलत्यागम् एवं कुर्वन् न सीदति ।

होमं कृत्वा ततः पश्चाद् वर्जयेन् मानवः फलम् ॥

अनेन विधिना यस् तु पुमान् अर्घं निवेदयेत् ।

इन्द्रलोकम् अवाप्नोति रूपारोग्यसमन्वितः ॥

सप्तैव लोकान् आप्नोति सप्तार्घ्यान् यः प्रयच्छति ।

यावद् आयुश् च यः कुर्यात् परं ब्रह्माधिगच्छति ॥

इति पठति शृणोति वा य एतद्

	वसुयुगलप्रभवस्य सम्प्रदानम् ।

[४५०] सकृद् अपि च ददाति सो ऽपि विष्णोर्

	भवनगतः परिपूज्यते नरौघैः ॥

ब्रह्मपुराणे

अगस्त्यो दक्षिणाम् आशाम् आश्रित्य नभसि स्थितः ।

वरुणस्यात्मजो योगी विन्ध्यपादविमर्दनः ॥

कन्यांशेभ्यः पश्चिमेभ्यः षड्भ्यः प्रारभ्य सङ्ख्यया ।

अंशान् द्वासप्ततिं यावद् भुङ्क्ते सूर्यस् तु राशिषु ॥

उदेति तावद् भगवान् अगस्त्यो व्योम्नि तोयभुक् ।

ऋक्षांशेभ्यः पश्चिमेभ्यः षड्भ्यः प्रारभ्य पूर्ववत् ॥

षट्त्रिंशतिं च यावच् च भुङ्क्ते भानुर् यथाक्रमम् ।

तावच् छ्रान्तस् तु पातालं प्रयात्य् अस्तम् उपैति च ॥

कृतोपवासः सम्पश्येद् अगस्त्यम् उदितं मुनिम् ।

सर्वकामप्रदं पुण्यं सर्वभाग्यप्रवर्धनम् ॥

अर्चितव्यश् च भगवान् श्रद्धाभक्तिसमन्वितः ।

पूर्णकुम्भैः सुकूष्माण्डैर् यवैर् धान्यैर् घृतेन च ॥

जातीपद्मोत्पलैः शुद्धैश् चन्दनेन शुभेन च ।

गव्यैर् घृतैस् तथा वस्त्रै रत्नैः सागरसम्भवैः ॥

उपानच्छत्रदण्डैश् च पादुकाजिनवल्कलैः ।

भूरिणा परमान्नेन फलैः पुष्पैश् च शोभनैः ॥

अन्नप्रकारैर् भक्ष्यैश् च होमैर् ब्राह्मणतर्पणैः ।

आशास्य च शुभं कामम् उद्दिश्य च मनोगतम् ॥

[४५१] यद्य् अहं प्राप्नुयां कामं भगवन् मनसेप्सितम् ।

त्वत्प्रसादाद् अविघ्नेन भूयस् त्वां पूजयाम्य् अहम् ॥

इत्य् उक्त्वा पूजयेत् पश्चाद् दैवज्ञांश् च तथा गुरून् ।

ब्राःमणान् भोजयित्वा तु ततो भुञ्जीत वाग्यतः ॥

**नरसिंहपुराणे **[६७.१२] ।

यदागस्त्योदये प्राप्ते तदा सप्तसु रात्रिषु ।

अगस्त्याय ददात्य् अर्घं महापुण्यविवृद्धये ॥

शङ्खे तोयं विनिक्षिप्य सितगन्धाक्षतैर् युतम् ।

मन्त्रेणानेन वै दद्याच् छ्वेतपुष्पसमन्वितम् ॥

“काशपुष्प” इत्यादिमन्त्रः पठनीयः “आतापी भक्षित” इति च ।

एवं तु यो ददात्य् अर्घम् अगस्त्याया महामुने ।

सर्वपापविनिर्मुक्तः सदा तरति दुर्गतिम् ॥

मत्स्यपुराणे [७३.१–११] ।

	पिप्पलादोवाच ।

अथातः शृणु भूपाल प्रतिशुक्रं प्रशान्तये ।

यात्रारम्भे ऽवसाने च तथा शुक्रोदयेष्व् इह ॥

[४५२] राजते वाथ सौवर्णे कांस्ये पात्रे ऽथ वा पुनः ।

शुक्लपुष्पाम्बरयुते सिततण्डुलपूरिते ॥

निधाय राजतं शुक्रं शुचिमुक्ताफलान्वितम् ।

महाश्वेतगवा युक्तं सामगाय निवेदयेत् ॥

नमस् ते सर्वलोकेश नमस् ते भृगुनन्दन ।

मयि सर्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमो ऽस्तु ते ॥

यः स शुक्रोदये कुर्याद् यात्रादिषु च भारत ।

सर्वान् कामान् अवाप्नोति विष्णुलोके महीयते ॥

तद्वद् वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर ।

सुवर्णपात्रे सौवर्णम् अमरेशपुरोहितम् ॥

पीतपुष्पाम्बरयुतं कृत्वा स्नात्वा च सर्षपैः ।

पलाशाश्वत्थभृङ्गेन पञ्चगव्यतिलेन च ॥

पीताङ्गरागवत् सर्वं घृतहोमं तु कारयेत् ।

प्रणम्य च गवा सार्धं ब्राह्मणाय निवेदयेत् ॥

नमस् ते ऽङ्गिरसां नाथ वाक्पते ऽथ बृहस्पते ।

क्रूरग्रहैः पीडितानाम् अमृतौघ नमो नमः ॥

सङ्क्रान्ताव् अपि कौन्तेय यात्रास्व् अभ्य्दयेषु च ।

कुर्वण् बृहस्पतेः पूजां सर्वान् कामान् समश्नुते ॥

अथ कान्तारदीपदानविधिः

तत्र मत्स्यपुराणे

पूर्वम् आश्वयुजे मासि पौर्णमास्यां समाहितः ।

प्रथमे च निशारम्भे मनोवाक्कायसंयुतः ॥

नमः पितृभ्यः प्रेतेभ्यो नमो धर्माय विष्णवे ।

[४५३] नमो धर्माय रुद्राय कान्तारपतये नमः ॥

दद्याद् अनेन मन्त्रेण दीपं श्रद्धासमन्वितः ।

यः कार्तिकं समग्रं तु वर्धते तस्य सम्पदः ॥

दिवाकरे ऽस्ताचलमौलिभूते

	गृहाद् अदूरे पुरुषप्रमाणम् ।

पूषाकृतिं यज्ञियवृक्षदारुम्

	आरोप्य भूमाव् अथ तस्य मूर्ध्नि ॥

पञ्चाङ्गुला मध्यकेन्द्रेण युक्ता

	द्विहस्तदीर्घा अथ पट्टिकास् तु ।

कृत्वा चतस्रो ऽष्टदलाकृतीश् च

	याभिर् भवेद् अष्टमार्गानुसारः ॥

तत्कर्णिकायां तु महाप्रकाशा

	दीपास् तु देया दलगास् तथाष्टौ ।

उदङ्मुखान् दीपवरांश् च तैल-

	घृतार्धयुक्तांश् च यथोपलब्धान् ॥

अनङ्गलग्नं त्व् अथ वस्त्रखण्डं

	नअवं सुरक्तं त्व् अथ वा सुशुक्लम् ।

वर्त्या प्रयोज्यं चषकं च हृद्यं

	स्निग्धं त्व् अखण्डेन्दुसमं प्रशस्तम् ॥

तच् छालिपिष्टोपरि सन्निधाय

	यथा न नश्येन् न च कम्पयेत वा ।

सर्वं प्रकुर्यात् त्रिगुणप्रमाणं

	मध्ये स्थितस्याप्य् अथ दीपराज्ञः ॥

दलेषु शोभार्थम् अतीव कुर्यान्

	मनोरथप्राप्त्युपलब्धये च ।

[४५४] घण्टाष्टकं लम्बितपुष्पदाम-

	वस्त्रोपशोभान्वितम् अत्र पश्चात् ॥

संयोज्य भूमिं त्व् अथ गोमयेन 

	सचन्दनाक्तेन जलेन लिप्त्वा ।

अनेकवर्णैर् अथ मण्डलं तु

	कृत्वाष्टपत्रं कमलप्रमाणम् ॥

फलानि मूलानि तथैक्षवं च

	लाजा दधि क्षीरम् अथान्नपानम् ।

नानाविधं भक्ष्यविशेषकं च

	सनृत्यगीतं मधुरं च वाद्यम् ॥

निवेद्य धर्माय हराय भूमौ

	दामोदरायाप्य् अथ धर्मराज्ञे ।

प्रजापतिभ्यस् त्व् अथ सत्पितृभ्यो

	प्रेतेभ्य एवानुमतः स्थितेभ्यः ॥

नैरृत्यकोणाद् अथ दक्षिणान्तं

	धर्मादिभ्यः प्रेतपर्यन्तकेभ्यः ।

ततो जलं शीतलमानयित्वा

	सर्पिःसमायुक्तम् अतीव हृद्यम् ॥

आपूर्य चाष्टौ कलशांश् च तेन

	नैरृत्यकोणाद् अथ सन्निधाय ।

होमादिपात्रं तिलपूर्णम् एव

	दद्यात् पिध्नं च स दक्षिणाञ्च ॥

गोभूहिरण्यं रजतं च वस्त्रं

	फलानि मूलानियवानि धान्यम् ।

गृहं रथं शयनं वाहनं च 

	यच् चाथ किञ्चिद् धृदये मनोज्ञम् ॥

[४५५] निवेदयेद् ब्राह्मणसत्तमेभ्यो

	नैरृत्यकोणाद् अथ संस्थितेभ्यः ।

एकैकशः प्रीणनं चात्र कुर्याद्

	धर्मादिभ्यः प्रेतपर्यन्तकेभ्यः ॥

एतत् समग्रं विधिवच् च कुर्यात्

	स्वशक्तिम् आदौ स्वधनं विचार्य ।

दीपान् समग्रान् अथ वर्जयित्वा

	सर्वं नयेयुस् त्व् अथ विप्रमुख्याः ॥

प्रदक्षिणीकृत्य चिरं गताश् च

	ततो भवेत् संयतनक्तभोजी ।

इतीदम् इदृग्व्यवहारयुक्तं

	निशामुखे प्रत्यहम् एव कुर्यात् ॥

मासं समग्रं परया च भक्त्या

	समाप्यते कार्तिकपौर्णमास्याम् ।

एवं कृते नाकलोकाद् विशिष्टं

	सुखं भवेत् प्रेतलोकस्थितेभ्यः ॥

अथेदृशं चाश्वयुज्यां सकृद् वा

	पुनस् त्व् अमायां दिवसे ऽथ पैत्र्ये ।

कुर्यान् नतः कार्तिकपौर्णमास्यां

	दिनत्रयं दीपमहोत्सवं च ॥

एको ऽथ वा दीपवरश् च देयो

	रात्र्यागमे कार्तिकपौर्णमास्याम् ।

दरिद्रवेश्मस्व् अथ गोकुलेषु

	श्मशानदेवायतनेषु चैत्ये ॥

नदीतटे चित्रगुहान्तरे वाप्य्

	अथैकलिङ्गे ऽप्य् अथ चैत्यवृक्षे ।

[४५६] अष्टाधिकं तेन सहस्रमात्रं

	विधाय पात्रे सुशुभे शतं वा ॥

पलैर् अथार्धैर् अथ वा तदर्धैः

	प्रमाप्य रिक्तस् त्व् अथ माषकैर् वा ।

हस्तार्धमात्रैश् च चतुर्दशाख्यैः 

	प्रमाप्य वस्त्रं त्व् अथ सूत्रकं वा ॥

प्रज्वालयेत् तत्र निरूप्य धीमान्

	स्त्रीणाम् अलङ्कारशतैः प्रपूज्य ।

देया महावर्तिर् अतीव हृद्या

	पुण्या च सा स्याद् भुवनप्रकाशा ॥

एतन् न कुर्याद् अथ यस् तु मन्दस्

	तस्यान्धकारस्य कुतः प्रशान्तिः ।

[४५७]

१२

अथ गोपरिचर्या

तत्र विष्णुः [२३.५७–६१] ।

गावः पवित्रं मङ्गल्यं गोषु लोकाः प्रतिष्ठिताः ।

गावो वितन्वते यज्ञं गावः सर्वाघसूदकाः ॥

गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना ।

षडङ्गम् एतत् परमं माङ्गल्यं सर्वदा गवाम् ॥

शृङ्गोदकं गवां पुण्यं सर्वाघविनिसूदनम् ।

गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ॥

गवां ग्रासप्रदानेन स्वर्गलोके महीयते ।

गवां हि तीर्थे वसतीह गङ्गा

	पुष्टिस् तथासां रजसि प्रसिद्धा ।

लक्ष्मीः करीषे प्रणतौ च धर्मस्

	तासां प्रणामं सततं च कुर्यात् ॥

वराहपुराणे

प्रस्नवे यो गवां स्नायाद् रोहिण्यां यो नरो द्विजः ।

स सर्वपापजातानि दहत्य् आशु न संशयः ॥

[४५८] लाङ्गूलेनोद्धृतं तोयं मूर्ध्ना गृह्णाति यो नरः ।

सरित्स्व् अनुप्रयान्तीनां स पापेभ्यः प्रमुच्यते ॥

धेनुस्तनाद् विनिष्क्रान्तां धारां क्षीरस्य यः पिबेत् ।

शिरसा प्रतिगृह्णाति स पापेभ्यः प्रमुच्यते ॥

ब्रह्मपुराणे

गावः स्तुत्याश् च पूज्याश् च गावः सेव्याश् च नित्यशः ।

गवां गोष्ठस्थितानां तु यः करोति प्रदक्षिणम् ॥

प्रदक्षिणीकृतं तेन जगत् सदसदात्मकम् ।

तथा

यज्ञोपवीतं तद् वालैः पुच्छोत्थैर् मुनिभिः कृतम् ॥

युद्धे भग्नं तु यच् छृङ्गं दक्षिणं पतितं भुवि ।

निर्मांसं प्राप्य विधिवत् पूरयित्वा जलेन च ॥

स्नानं कृतं च मुनिभिर् देवैः सिद्धैश् च सर्वदा ।

अलक्ष्मीनाशनं धन्यं सर्वसौभाग्यवर्धनम् ॥

ॐ तृणोदकाद्येषु वनेषु मत्ताः

	क्रीडन्तु गावः सवृषाः सवत्साः ।

क्षीरं प्रमुञ्चन्तु सुखं स्वपन्तु

	शीतातपव्याधिभयैर् विमुक्ताः ॥

इमं मन्त्रं सुशुद्धात्मा जपेन् नित्यं समाहितः ।

गच्छन् तिष्ठन् स्वपञ् जिघ्रन् भुञ्जन् क्रीडन् समुच्छ्वसन् ॥

पञ्चविंशो महामन्त्रः पठितस् तु सुरासुरैः ।

श्रुतो ऽनुमोदितो द्यातः कीर्तितः पूजितः क्रमात् ॥

[४५९] तदा रसातलाद् गावः पञ्च पुण्याः समुत्थिताः ।

नन्दा सुनन्दा सुरभी सुशीला सुमना तथा ॥

रत्नान्य् अनेकान्य् आदाय कौस्तुभप्रभृतीनि च ।

प्रदक्षिणीकृतास् ताश् च सर्वैर् देवासुरैः क्रमात् ॥

संस्क्र्ताः पूजिताः सम्यग् दृष्टाः स्पृष्टाश् च वन्दिताः ।

कस्यचित् त्व् अथ कालस्य दिव्यास् ताः कामधेनवः ॥

ब्रह्मस्थानार्चितास् तुष्टा वव्रिरे वरम् उत्तमम् ।

दक्षात् प्रजापतेर् जन्म मरीचं कश्यपं प्रति ॥

शिवलोके च गमनं न भूयो जन्म कुत्रचित् ।

वने वासस् तृणं तोयं भोजनं निष्परिग्रहम् ॥

दृढेन मृदुना बन्धः पाशेनास्तृतवेश्मनि ।

घासग्रासादिकं भूरि निशि दीपं तु भास्वरम् ॥

इतिहासपुराणानां श्रवणं सोपवीणनम् ।

अन्नमुष्टिर् यथाशक्त्या परिचर्या यथाक्रमम् ॥

ताडनाक्रोशखेदाश् च स्वप्ने ऽपि न कदाचन ।

तासां मूत्रपुरीषेषु नोद्वेगः क्रियते क्वचित् ॥

शोधनीयश् च गोवाटः शुष्कैः क्षारादिभिः सदा ।

ग्रीष्मे वृक्षाकुले वेश्म शीततोयविकर्दमे ॥

वर्षासु वाथ शिशिरे सुखोष्णे वातवर्जिते ।

गोकुले रुद्रमुख्याश् च प्रतिष्ठाप्या गणैः सह ॥

जापकैः सर्वमन्त्रैश् च जप्तव्यास् त्व् आत्मशुद्धये ।

उच्छिष्टमूत्रविट्श्लेष्ममलं जह्यान् न तत्र च ॥

रजस्वला न प्रवेश्या नान्यजातिर् न पुंश्चली ।

न ताः परिभवेत् तोये गोकुले तु विशेषतः ॥

[४६०] न लङ्घयेद् वत्सतरीन् क्रीडयेद् गोष्ठसन्निधौ ।

न गन्तव्यं गवां मध्ये सोपानत्कैः सपादुकैः ॥

हस्त्यश्वरथयानैश् च संवितानैः कदाचन ।

दक्षिणोत्तरतः प्रह्वैर् गन्तव्यअं च पदातिभिः ॥

गावः कृशातुराः पाल्याः श्रद्धया पितृमातृवत् ।

गिरिप्रपातसिंहर्क्षशीतातपभयात् तथा ॥

महाकोलाहले घोरे दुर्दिने देशविप्लवे ।

गवां तृणानि देयानि शीतलं च ततो जलम् ॥

तथा

गावः संवत्सरं रक्ष्याः सर्वपापप्रशान्तये ।

ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् च सुसमाहितैः ॥

हारीतः

द्वौ मासौ पाययेद् वत्सं तृतीये द्विस्तनं दुहेत् ।

चतुर्थे त्रिस्तनं चैव यथान्यायं यथाबलम् ॥

ब्रह्मपुराणे

आषाढ्याम् आश्वयुज्यां च पौष्यां चैत्र्यां च सर्वदा ।

न गृह्णीयाद् गवां क्षीरं सर्वं वत्साय निक्षिपेत् ॥

न षण्डं वाहयेद् धेनुं न गां भारेण पीडयेत् ।

युगाद्येषु युगान्तेषु षडशीतिमुखेषु च ॥

दक्षिणोत्तरगे सूर्ये तथा विषुवतोर् द्वयोः ।

सङ्क्रान्तेषु च सर्वासु ग्रहणे चन्द्रसूर्ययोः ॥

पञ्चदश्यां चतुर्दश्यां द्वादश्याम् अष्टमीषु च ।

[४६१] उपचारो गवां कार्यो मासि मासि यथाक्रमम् ॥

लवणस्य च चत्वारि पलान्य् अष्टौ घृतस्य वा ।

परकीयस्य दुग्धस्य तथा देयानि षोडश ॥

द्वात्रिंशच् छीतलस्यापि जलस्यापि पलानि च ।

आदौ विचार्य वै सर्वं परिणामं बलं रुचिम् ॥

आकस्मिकं तु दातव्यं पुण्यार्थं तु गवाह्निकम् ।

प्रभाते लवणं तत्र दीयते च ततो जलम् ॥

ततस् तृणानि भोज्यं च पोषणं मांसवर्जितम् ।

निशि दीपः सतन्त्रीको दिव्या पौराणिकी कथा ॥

एवं कृते रत्नपूर्णां महीं दत्वा भवेत् फलम् ।

गोप्रदानात् तु यत् पुण्यं गवां संरक्षणाद् भवेत् ॥

मनुष्यैस् तृणतोयाद्यैर् गावः पाल्या विशेषतः ।

देयाः पोष्याश् च रक्ष्याश् च पूज्या ग्राह्याश् च सर्वदा ॥

पद्मपुराणे

 सदा गावः प्रणम्यास् तु मन्त्रेणानेन पार्थिव ।

नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ॥

नमो ब्रह्मसुताभ्यश् च पवित्राभ्यो नमो नमः ।

मन्त्रस्य स्मरणाद् एव गोदानफलम् आप्नुयात् ॥

आदित्यपुराणे

लवणं च यथाशक्त्या गवां यो वै ददाति च ।

तेषां पुण्यकृतां लोका ब्रह्मलोके व्रजन्ति ते ॥

यो ऽग्रं भक्त्या किञ्चिद् अप्राश्य दद्याद्

	गोभ्यो नित्यं गोव्रती सत्यवादी ।

[४६२] शान्तो बुद्धो गोसहस्रस्य पुण्यं

	संवत्सरेणाप्नुयाद् धर्मशीलः ॥

भविष्यपुराणे

गाम् आलभ्य नमस्कृत्य कृत्वा चैव प्रदक्षिणम् ।

प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥

गवाम् अस्थि न लङ्घेत मृतगन्धं न वर्जयेत् ।

यावद् आघ्राति तं गन्धं तावत् पुण्येन युज्यते ॥

देवीपुराणे

गोरूपाणां गवां गोष्ठे यस् तु धूमं न कारयेत् ।

मक्षिकाणां च नरके मक्षिकाभिः स भक्ष्यते ॥

मृतवत्सां तु गां यस् तु दमित्वा पिबते नरः ।

ताडिताभिश् चिरं तिष्ठेत् क्षुधार्तो वै नराधमः ॥

महाभारते

गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप ।

उत्पादयति यो विघ्नं तम् आहुर् ब्रह्मघातकम् ॥

कृत्वा गवार्थे शरणं शीतवातक्षमं महत् ।

आसप्तमं तारयति कुलं भरतसत्तम ॥

शपथेषु सुरभीवाक्यम्

बल्वजेन निवापेन कांस्ये भवतु दोहनम् ।

[४६३] दुह्येत परवत्सेन यो मे हरति दुष्कृतम् ॥

स्कन्दपुराणे

कपिला यस्य गोष्ठे स्याद् अनग्नेर् ब्राह्मणस्य च ।

स याति दुस्तरं घोरं नरकं तत् तमोमयम् ॥

ब्रह्मपुराणे

सदोषा गौर् गृहे जाता परिपाल्या सदा स्वयम् ।

दुःशीलो ऽपि द्विजः पूज्यो न तु शूद्रः सुसंयतः ॥

अनाथानां गवां यत्नात् कार्यस् तु शिशिरे मठः ।

पुण्यार्थं तत्र दीयन्ते तृणतोयेन्धनानि च ॥

[४६४]

१३

अथ वृषोत्सर्गः

तत्र विष्णुः [८६.१–२०] ।

    कार्तिक्याम् आश्वयुज्यां वा तत्रादौ वृषभं परीक्षेत् । जीवद्वत्सायाः पयस्विन्या वत्सम् । सर्वलक्षनोपेतम् । नीलम् । लोहितं वा मुखपुच्छपादेषु सर्वशुक्लम् । यूथस्याच्छादकम् । ततो गवां मध्ये सुसमिद्धाग्निं परिस्तीर्य पौष्णं चरुं श्रपयित्वा पूषा गा अन्वेतु न इह रतिर् इति च हुत्वा वृषम् अयस्कारस् त्व् आह्वयेत् । एकस्मिन् पार्श्वे चक्रेणापरस्मिन् शूलेनाङ्कितं च हिरण्यवर्णा इति चतसृभिः शन् नो देवीर् इति च स्नापयेत् । स्नातम् अलङ्कृतं स्नातालङ्कृताभिश् चतसृभिर् वत्सतरीभिः सार्धम् आनीय रुद्रान् पुरुषसूक्तं कूष्माण्डीश् च जपेत् । पिता वत्सानाम् इति वृषभस्य दक्षिणे कर्णे पठेत् । इमं च ।


    	वृषो हि भगवान् दर्मश् चतुष्पादः प्रकीर्तितः ।


    	वृणोमि तम् अहं भक्त्या स मां रक्षतु सर्वतः ॥

[४६५] एतं युवानं पतिं वो ददामि

		तेन क्रीडन्तीश् चरथ प्रियेण ।

	मा हास्महि प्रजया मा तनूभिर्

		मा रधाम द्विषते सोम राजन् ॥


    	वृषं वत्सतरीयुक्तम् ऐशान्यां कारयेद् दिशि ।


    	होतुर् वस्त्रयुगं दद्यात् सुवर्णं कांस्यम् एव च ॥


    	अयस्कारस्य दातव्यं वेतनं मनसेप्सितम् ।


    	भोजनं बहुसर्पिष्कं ब्राह्मणांश् चात्र भोजयेत् ॥


    	उत्सृष्टो वृषभो यस्मिन् पिबत्य् अथ जलाशये ।


    	शृङ्गाग्रेणोल्लिखेद् भूमिं यत्र क्वचन दर्पितः ॥


    	पितॄणाम् अन्नपानं तत् प्रभूतम् उपतिष्ठति ।

ब्रह्मपुराणे

अथ चैत्र्यां वृषोत्सर्गः कार्तिक्यां वा विशेषतः ।

कर्तव्यस् त्व् अथ रेवत्यां त्रिभिर् वर्णैर् द्विजातिभिः ॥

वृषभः कृष्णसारस् तु प्रत्यग्रस् तु त्रिहायनः ।

मनोज्ञो दर्शनीयश् च सर्वलक्षणसंयुतः ॥

अष्टाभिर् धेनुभिर् युक्तश् चतुर्भिर् अथ वा क्रमात् ।

त्रिहायनीभिर् धन्याभिः सुरूपाभिश् च शोभितः ॥

सर्वोपकरणोपेतः सर्वसस्यचरो महान् ।

उत्सृष्टव्यो विधानेन श्रुतिस्मृतिनिदर्शनात् ॥

प्रागुदक्प्रवणे देशे मनोज्ञे निर्जने वने ।

[४६६] न वाह्यो न च तत्क्षीरं पातव्यं केनचित् क्वचित् ॥

स्वधा पितृभ्यो मातृभ्यो बन्धुभ्यश् चापि तर्पयेत् ।

पितृपक्षास् तु ये केचिद् ये चान्ये मातृपक्षजाः ॥

गुरुश्वशुरबन्धूनां ये कुलेषु समुद्भवाः ।

ये प्रेतभावम् आपन्ना ये चान्ये श्राद्धवर्जिताः ॥

वृषोत्सर्गेण ते सर्वे लभन्ते तृप्तिम् उत्तमाम् ।

ददाद् अनेन मन्त्रेण तिलाक्षतयुतं जलम् ॥

पितृभ्यश् च समासेन ब्राह्मणेभ्यश् च दक्षिणाम् ।

ततः प्रमुदितास् तेन वृषभेण समन्विताः ॥

वनेषु गावः क्रीडन्ति वृषोत्सर्गप्रसिद्धिषु ।

अप्रवृत्ते वृषोत्सर्गे दाता वक्रोक्तिभिः पदैः ॥

ब्राह्मणान् आह यत् किञ्चिद् येनोत्सृष्टं तु निर्जने ।

तत् कश्चिद् अन्यो न नयेद् विभाज्यं च यथाक्रमम् ॥

वृषोत्सर्गाद् ऋते नान्यत् पुण्यम् अस्ति महीतले ।

मत्स्यपुराणे [२०७.२–४१] ।

धेनुम् आदौ परीक्षेत सुशीलां लक्षणान्विताम् ।

अव्यङ्गाम् अपरिक्लिष्टां जीवद्वत्साम् अरोगिणीम् ॥

स्निग्धवर्णां स्निग्धखुरां स्निग्धशृङ्गां तथैव च ।

मनोहराकृतिं सौम्यां सुप्रमाणाम् अनुद्धृताम् ॥

[४६७] आवर्तैर् दक्षिणावर्तैर् युक्ता दक्षिणतश् च या ।

वामावर्तैर् वामतश् च विस्तीर्णजघना तथा ॥

मुदुसंहतताम्रोष्ठी रक्तजिह्वा सुपूजिता ।

आस्यावदीर्घा स्फुटितरक्तजिह्वा तथा च या ॥

ताम्राभाविलनेत्रा च शफैर् अविरलैर् दृढैः ।

वैडूर्यमधुवर्णैश् च जलबुद्भुदसन्निभैः ॥

रक्तस्निग्धैश् च नयनै रक्तैश् चैव च नीलकैः ।

सप्तचतुर्दशदन्ता भवेद् अश्यामतालुका ॥

उरः पृष्ठं शिरः कुक्षिः श्रोणी च वसुधाधिप ।

षडुन्नतानि धेनूनां पूजयन्ति विचक्षणाः ॥

कर्णौ नेत्रे ललाटं च पञ्च भास्करनन्दन ।

समायतानि शस्यन्ते पुच्छं सास्ना च सक्थिनी ॥

चत्वारश् च स्तना राजन्न् एवम् अष्टौ मनीषिभिः ।

शिरोग्रीवायुतास् त्व् एते भूमिपाल स्मृता दश ॥

तस्मात् तु तं परीक्षेत वृषभं लक्षणान्वितम् ।

उन्नतस्कन्धककुदं मृदुलाङ्गूलभूषितम् ॥

महाकटितटस्कन्धं वैडूर्यमणिलोचनम् ।

प्रवालवर्णशृङ्गाग्रं सुदीर्घऋतुवालधिम् ॥

नवाष्टदशसङ्ख्यैस् तु तीक्ष्णाग्रैर् दशनैः शुभैः ।

मल्लिकाक्षश् च भोक्तव्यो गृहे ऽपि धनधान्यदः ॥

[४६८] वर्णस् तु ताम्रः कपिलो ब्राह्मणस्य प्रशस्यते ।

श्वेतो रक्तश् च कृष्णश् च गौरः पाटल एव च ॥

इन्द्रनीलाभपृष्ठश् च शबलः पञ्चकालकः ।

पृथुकर्णो महास्कन्धः श्लक्ष्णरोमा च यो भवेत् ॥

रक्ताक्षः कपिलो यश् च रक्तशृङ्गतलो भवेत् ।

श्वेतोदरः कृष्णपृष्ठो ब्राह्मणस्य च शस्यते ॥

स्निग्धरक्तेन वर्णेन क्षत्रियस्य प्रशस्यते ।

काञ्चनाभेन वैश्यस्य कृष्णेनाप्य् अन्त्यजन्मनः ॥

यस्य प्रागायते शृङ्गे स्वमुखाभिमुखे सदा ।

सर्वेषाम् एव वर्णानां स च सर्वार्थसाधकः ॥

मार्जारपादः कपिलो धन्यः कपिललोचनः ।

श्वेतो मार्जारपादस् तु धन्यो मणिनिभेक्षणः ॥

करटः पिङ्गलश् चैव श्वेतपादस् तथैव च ।

स्वच्छपादशिरो यश् च द्विपादश्वेत एव च ॥

कपिञ्जलनिभो धन्यस् तथा तित्तिरिसन्निभः ।

आकर्णमूलाच्छ्वेतं तु मुखं यस्य प्रकाशते ॥

नन्दीमुखः स विज्ञेयो रक्तवर्णो विशेषतः ।

श्वेतं च जठरं यस्य भवेत् पृष्ठं च गोपतेः ॥

वृषभः स समुद्रास्यः सततं कुलवर्धनः ।

मल्लिकापुष्पचित्रस् तु धन्यो भवति पुङ्गवः ॥

[४६९] कमलैर् मण्डलैश् चापि चित्रो भवति भाग्यतः ।

अतसीपुष्पवर्णस् तु तथा धन्यतरः स्मृतः ॥

एते धन्यास् तथाधन्यान् कीर्तयिष्यामि ते नृप ।

कृष्णताल्वोष्ठदशना रूक्षशृङ्गनखाश् च ये ॥

अव्यक्तवर्णा ह्रस्वाश् च व्याघ्रभस्मनिभाश् च ये ।

ध्वाङ्क्षगृध्रसवर्णाश् च तथा मूषिकसन्निभाः ॥

कुण्ठाः काणास् तथा खञ्जाः केकराक्षास् तथैव च ।

विषमश्वेतपादाश् च उद्भ्रान्तनयनास् तथा ॥

नैते वृषा विमोक्तव्या न च धार्यास् तथा गृहे ।

मोक्तव्यानां च धार्याणां भूयो वक्ष्यामि लक्षणम् ॥

स्वस्तिकाकारशृङ्गाश् च मेघौघसदृशस्वनाः ।

महाप्रमाणाश् च तथा मत्तमातङ्गगामिनः ॥

महोरस्का महोच्छ्वासा महाबलपराक्रमाः ।

शिरः कर्णौ ललाटं च वालधिश् चरणानि च ॥

नेत्रपार्श्वे च कृष्णानि तस्यान्ते चन्द्रमास्त्विषः ।

श्वेतान्य् अन्यानि शस्यन्ते कृष्णस्य तु विशेषतः ॥

भूमौ कर्षति लाङ्गूलं प्रलम्बस्थूलवालधिः ।

पुरस्ताद् उन्नतो नीलो वृषभस् तु प्रशस्यते ॥

शक्तिध्वजपताकाभा येषां राजी विराजते ।

अनड्वाहश् च ते धन्या वित्तसिद्धिजयावहाः ॥

[४७०] प्रदक्षिणं निवर्तन्ते स्वयं ते तु निवर्तिताः ।

समुन्नतशिरोग्रीवा धन्यास् ते यूथवर्धनाः ॥

रक्तशृङ्गाग्रनयनः श्वेतवर्णो भवेद् यदि ।

शफैः प्रवालसदृशैर् नास्ति धन्यतरस् ततः ॥

एते धार्याः प्रयत्नेन मोक्तव्या यदि वा वृषाः ।

धारिता यदि वा मुक्ता धनधान्यविवर्धनाः ॥

चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः ।

लाक्षारससवर्णश् च तं नीलम् इति निर्दिशेत् ॥

वृष एव स मोक्तव्यो न सन्धार्यो गृहे वसेत् ।

तदर्थम् एषा चरति लोके गाथा पुरातनी ॥

एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् ।

गौरीं वाप्य् उद्वहेद् भार्यां नीलं वा वृषम् उत्सृजेत् ॥

एवं वृषं लक्षणसम्प्रयुक्तं

	गृहोद्भवं क्रीतम् अथापि राजन् ।

मुक्त्वा न शोचेन् मरणं महात्मा

	मोक्षे मतिं चाहम् अतो ऽभिधास्ये ॥

आदित्यपुराणे

	भानुर् उवाच ।

मुञ्चन्ति वृषभं येत् तु नीलं चैव सुशोभनम् ।

लाङ्गूलाकर्षसर्वाङ्गं शृङ्गयुक्तं मनोहरम् ॥

कार्तिक्यां मुञ्चते यस् तु दत्वा पूजां न संशयः ।

त्रिवर्षास् त्व् अथ गुर्विण्यो दद्याद् गावो वृषस्य च ॥

[४७१] सावित्रीं च जपेत् तत्र तथा चैवाघमर्षणम् ।

कर्णजाप्यं प्रदद्यात् तु वृषभस्य न संशयः ॥

घण्टां लोहकृतां दद्याच् छृङ्गैश् च पटलैः शुभैः ।

रुद्रस्याग्रे भोजयेच् च ब्राह्मणान् वै यथाविधि ॥

यावन्ति रोमकूपानि वृषभस्य भवन्ति वै ।

गवां चैव तु रोमाणि यावत् तिष्ठन्ति वै मुने ।

तावत् कोटिसहस्राणि रुद्रलोके महीयते ॥

यत् किञ्चित् कुरुते पापं पुरुषो वृत्तिकर्षितः ।

ते सर्वे विलयं यान्ति गोपतेः परिमोचनात् ॥

वृषभस्य तु शब्देन पितरः सपितामहाः ।

अवलम्बमाना दृश्यन्ते स्वर्गलोके न संशयः ॥

जले प्रक्षिप्य लाङ्गूलं तोयं चोद्वहते वृषः ।

दशवर्षसहस्राणि पितरस् तेन तर्पिताः ॥

कूले समुद्धृता यावच् छृङ्गे तिष्ठति मृत्तिका ।

भक्ष्यभोज्यमअयैः शैलैः पितरस् तेन तर्पिताः ॥

गवां मध्ये यदा चैवअं वृषभः क्रीडते तु यः ।

अप्सरौघसहस्रेण क्रीडन्ते नित्यम् एव तु ॥

लाङ्गूलम् उद्यम्य यावअत् तोयेषु क्रीडते तु सः ।

अप्सरोगणसङ्घैश् च तृप्यन्ति पितरः सदा ॥

[४७२] सहस्रदत्तमात्रेण कनकेन यथाविधि ।

तृप्तिस् तु या पितृणां वै सा वृषेण समोच्यते ॥

एष्टव्या बहवः पुत्रा यद्य् एको ऽपि गयां व्रजेत् ।

यजेत वाश्वमेधेन नीलं वा वृषम् उत्सृजेत् ॥

शङ्खः

लोहितो यस् तु वर्णेन मुखे पुच्छे तु पाण्डुरः ।

श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥

[४७३]

१४

अथ पुराणश्रवणविधिः

तत्र भविष्यपुराणे

	शतानीक उवाच ।

भगवन् केन विधिना श्रोतव्यं भारतं नरैः ।

चरितं रामभद्रस्य पुराणानि विशेषतः ॥

कथं च वैष्णवा धर्माः शिवधर्मा विशेषतः ।

सौराणां वापि विप्रेन्द्र श्रवणे उच्यतां विधिः ॥

	सुमन्तुर् उवाच ।

हन्त ते कथयिष्ये ऽहं पुराणश्रवणे विधिम् ।

इतिहासपुराणानि श्रुत्वा भक्त्या विशाम्पते ॥

मुच्यते सर्वपापेभ्यो ब्रह्महत्यादिभिर् विभो ।

सायं प्रातस् तथा रात्रौ शुद्धो भूत्वा शृणोति यः ॥

तस्य विष्णुस् तथा ब्रह्मा तुष्यते शङ्करस् तथा ।

[४७४] विधानं वाचकस्येह शृणु तावद् विशाम्पते ॥

शुद्धवासा गृहाद् एत्य स्थानं यत् समयान्वितम् ।

प्रदक्षिणं ततः कृत्वा या तस्मिन् देवतैव हि ॥

नात्युच्चम् आह सर्वेषाम् अशेषं गुरुवन् नृप ।

नमस्काराद् अथ श्राव्यं शिवम् अस्त्व् इति चान्ततः ॥

नान्यतो नृप्शार्दूल सर्वैर् वर्णैर् महीमते ।

शूद्राणां पुरतो वैश्या वैश्यानां क्षत्रियास् ततः ॥

क्षत्रियाणां तथा विप्रा शृण्वन्त्व् एते ऽग्रतः सदा ।

मध्ये स्थितो ऽथ सर्वेषां वाचको वाचय्न् नृप ॥

ये वापि सङ्करा राजन् नरास् ते शूद्रपृष्ठतः ।

ब्राह्मणं वाचकं विद्यान् नान्यवर्णजम् आदरात् ॥

श्रुत्वान्यवर्णजाद् राजन् वाचकान् नरकं व्रजेत् ।

इत्थं हि शृण्वतां तेषां वर्णानाम् अनुपूर्वशः ॥

मासि मासि भवेद् राजन् पारणं कुरुनन्दन ।

श्रेयो ऽर्थम् आत्मनो राजन् पूजयेद् वाचकं नृप ॥

मासि पूर्णे नृपश्रेष्ठ दातव्यः स्वर्णमाषकः ।

ब्राह्मणेन महाबाहो द्वौ देयौ क्षत्रियेण तु ॥

वाचकस्य नृपश्रेष्ठ वैश्येनापि त्रयस् तथा ।

[४७५] शूद्रेणाप्य् अथ चत्वारो दातव्याः स्वर्णमाषकाः ॥

प्रथमे पारणे राजन् वाचकं पूज्य शक्तितः ।

अग्निष्टोमस्य यज्ञस्य फलम् आप्नोति मानवः ॥

कार्तिकादि महाबाहो कार्तिके यावद् एव तु ।

अग्निष्टोमं गोसवं च ज्योतिष्टोमं तथा नृप ॥

सौत्रामणिं वाजपेयं वैष्णवं तथा विभो ।

माहेश्वरं तथा ब्राह्मं पुण्डरीकं च भूपते ॥

आदित्ययज्ञस्य तथा राजसूयाश्वमेधयोः ।

फलम् आप्नोति राजेन्द्र मासैर् द्वादशभिः क्रमात् ॥

इत्थं यज्ञफलं प्राप्ये याति लोकांस् तथोत्तमान् ।

समाप्ते पर्वणि तथा स्वशक्त्या तर्पयेन् नृप ॥

वाचकं ब्राह्मणांश् चैव सर्वकामैः प्रपूजयेत् ।

गन्धमाल्यानि दिव्यानि वस्त्राण्य् आभरणानि च ॥

वाचकाय प्रदद्यात् तु ततो विप्रान् प्रपूजयेत् ।

हिरण्यं रजतं वस्त्रं गावः कांस्योपदोहनाः ॥

दत्वा तु वाचकायेह श्रुतस्य प्राप्नुयात् फलम् ।

[४७६] वाचकः पूजितो येन प्रसन्नास् तस्य देवताः ॥

तस्माद् दानं सदा पूर्वं तस्य देयं विदुर् बुधाः ।

श्राद्धे यस्य द्विजो भुङ्क्ते वाचकः श्रद्धयान्वितः ॥

भवन्ति पितरस् तस्य तृप्ता वर्शशतं नृप ।

विस्पष्टम् अद्भुतं शान्तं स्पष्टाक्षरपदं तथा ॥

कलस्वरसमायुक्तं रसभावसमन्वितम् ।

बुध्यमानः सदात्यर्थं ग्रन्थार्थं कृत्स्नशो नृप ॥

ब्राह्मणादिषु वर्णेषु ग्रन्थार्थं वाचयेन् नृप ।

य एवं वाचयेद् राजन् स विप्रो व्यास उच्यते ॥

अतो ऽन्यथा वाचयानो ज्ञेयो ऽसौ पितृनामकः ।

इत्थम्भूतो वसेद् यस्मिन् वाचको व्याससम्मितः ॥

देशेषु पत्तने राजन् स देशः प्रवरः स्मृतः ।

प्रणम्य वाचकं भक्त्या यत् फलं प्राप्यते नरैः ॥

न तत् क्रतुसहस्रेण प्राप्यते कुरुनन्दन ।

यथैकतो ग्रहाः सर्वे एकतस् तु दिवाकरः ॥

तथैकतो द्विजाः सर्वे एकतस् तु स वाचकः ।

दैवे कर्मणि पित्र्ये च पावनं परमं नृप ॥

वाचकश् च यतिश् चैव तथा विप्रः षडङ्गवित् ।

एते सर्वे नृपश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः ॥

[४७७] त्रिविधं वाचकं विद्यात् सदा च गुणभेदतः ।

श्रावकश् च महाबाहो त्रिविधो गुणभेदतः ॥

द्वाव् एतौ कथ्यमानौ त्वं निबोध गदतो मम ।

अतिद्रुतं तथास्पष्टं विस्वरं रसवर्जितम् ॥

पदच्छेदविहीनं च तथा भावविवर्जितम् ।

अबुध्य्मानो ग्रन्थार्थं लोलश् चोत्साहवर्जितः ॥

ईदृशं वाचयेद् यस् तु वाचकस् तु नरेश्वर ।

क्रोधनो ऽप्रियवादी चाज्ञानाद् ग्रन्थविदूषकः ॥

न च बुध्यति कष्टानि स ज्ञेयो वाचकाधमः ।

विस्पष्टम् अद्भुतं शान्तं स्पष्टाक्षरपदं तथा ॥

कलस्वरसमायुक्तं रसभावविमश्रितम् ।

अबुध्यमानो ग्रन्थार्थं वाचयेद् यस् तु वाचकः ॥

स ज्ञेयो राजसो राजन् निदानीं सात्विकं शृणु ।

ग्रन्थाथं बुध्यमानस् तु समग्रं कृत्स्नशो नृप ॥

ब्राह्मणादिषु वर्णेषु अर्पयन् विधिवन् नृप ।

य एवं वाचयेद् राजन् स ज्ञेयो सात्विको बुधैः ॥

[४७८] श्रद्धाभक्तिविहीनो ऽसौ लोभिष्ठो दूषकस् तथा ।

हेतुवादपरो राजन् तथासूयासमन्वितः ॥

नित्यां नैमित्तिकीं काम्याम् अददद् दक्षिणां नृप ।

वाचकाय महाबाहो शृणुयाद् यद् तु मानवः ॥

स ज्ञेयस् तामसो राजन् श्रावको मानवः सदा ।

न तस्य पुरतो वीर वाचयेत् प्राज्ञ एव हि ॥

प्रसङ्गाच् छृणुयाद् यस् तु श्रद्धाभक्तिविवर्जितः ।

श्रोता कौतुकमात्रस् तु स ज्ञेयो राजसो बुधैः ॥

सन्त्यज्य सर्वकर्माणि भक्तिश्रद्धासमन्वितः ।

सततं पूजयानस् तु वाचकं श्रद्धया नृप ॥

नित्ये नैमित्तिके काम्ये गुरवे च ददत् तथा ।

य एवं शृणुयाद् वीर स ज्ञेयः सात्विको बुधैः ॥

व्यासः पूज्यः श्रावकाणां यथा व्यासवचो नृप ।

तस्मात् पूज्यो नृपश्रेष्ठ प्रथमं वाचको बुधैः ॥

आपत्काले च वृद्धौ च यतश् चासौ गुरुः सदा ।

वैशाख्यां समये वीर तृतीयायां च सुप्रभ ॥

कार्तिक्याम् अथ माघ्यां च सम्पूज्यः प्रथमो भवेत् ।

पर्वस्व् एतेषु च विभो सम्पूज्यो धर्मतः स्मृतः ॥

हिरण्यं च सुवर्णं च धनं धान्यं तथैव च ।

अन्नं वापि तथा पक्वं मांसं च कुरुनन्दन ॥

[४७९] दातव्यं प्रथमं तस्मै श्रावकैः सर्वभक्तितः ।

दत्वा पुष्पं फलं तोयं पत्रम् इन्धनम् एव च ॥

सारभूतं च यच् चान्यत् तस्मै देयं समन्ततः ।

अथ सर्वैस् तथा कार्यं श्रावकैः पूजनं नृप ॥

वाचकस् तु यथा नित्यं सुखम् आस्ते नराधिप ।

न पीड्यते यथा द्वन्द्वैस् (?) तथा कार्यं वरानन ॥

हैमन्ते लोमशं देयं छत्रं प्रावृषि सत्तम ।

उपानहौ कालयोगे काले वै कुशलोमशौ ॥

यदा दातुं न शक्नोति माषकं काञ्चनस्य तु ।

ततस् तस्य तदा दद्याद् राजतं श्रेयसे ऽनघ ॥

तदभावे हिरण्यं तु वित्तशाठ्यं विवर्जयेत् ।

मृत्तिकापि हि दातव्या कुर्वता सफलं श्रुतम् ॥

इत्य् एषा कथिता नित्या मासि मासि भवेत् तदा ।

नैमित्तिकी भवेद् राजन् ग्रहणादिषु पर्वसु ॥

अमले वाससी राजन् गन्धमाल्यविभूषणम् ।

समाप्ते पर्वणि विभो दातव्यं भूतिम् इच्छता ॥

ज्ञात्वा पर्वसमाप्तिं तु पूजयेद् वाचकं बुधः ।

आत्मानम् अपि विक्रीय च इच्छेत् सफलं श्रुतम् ॥

नैमित्तिकीं च नित्यां च दक्षिणां न ददाति यः ।

शृणोति च सदा तात तस्य तन् निष्फलं श्रुतम् ॥

चतुर्गुणा भवेद् राजन् या नित्यं दक्षिणा विभो ।

[४८०] समाप्ते पर्वणि विभो इत्य् आह भगवान् शिवः ॥

इत्य् एष कथितो राजन् पुराणश्रवणे विधिः ।

इति महाराजाधिराजश्रीमद्गोविन्दचन्द्रदेवमहासन्धिविग्रहिकेण

भट्टहृदयधरात्मजेन श्रीलक्ष्मीधरेण विरचिते कृत्यकल्पतरौ

नियतकालकाण्डं समाप्तम्। ॥