०२ गार्हस्थ्यकाण्डम्

[१]

श्रीलक्ष्मीधरविरचितः

कृत्यकल्पतरुः

गार्हस्थ्यकाण्डम्

मङ्गलाचरणम्

ॐ नमो विघ्नराजाय निर्विघ्नफलदायिने ।

प्रतिज्ञा (विषयनिर्देशः)

स्वाध्यायाधिगमो ऽर्थतत्त्वगतये सत्कर्मनिष्पत्तये 

	सा निःशेषमलक्षयाय स पुनर् मोक्षाय यस्याभवत् ।

दत्तानेकपुरद्विजोत्तमवधूसङ्गीतनादोत्सवो

	गार्हस्थ्यं वदति द्वितीयम् अधुना काण्डं स लक्ष्मीधरः ॥

सपल्लवो विवाहो ऽत्र तद्भेदाश् चाधिवेदनम् ।

परिवेदनम् आधानम् आवस्थ्यं च कथ्यते ॥

अग्न्याधानविधिः पश्चात् ततो यजनयाजने ।

विप्राणां वृत्तिकर्माणि विप्रापद्वृत्तयः कृषिः ॥

वाणिज्यं च कुसीदं च तथापद्वृत्तयः पराः ।

क्षत्रविट्वृत्तिकर्माणि शुक्लकृष्णधनान्य् अथ ॥

वृत्तिधर्मौ च शूद्रस्य व्रतानि स्नातकस्य च ।

[२] यमादयः कुलानां च नाशनानि कुलस्थितिः ॥

वाच्यावाच्ये तथा सम्यग् विधिर् यानप्रवेशयोः ।

अनाक्रम्यान्य् अधिष्ठेयान्य् अनालोच्यानि सर्वशः ॥

अथ शूद्राप्रदेयानि क्रोधादिपरिवर्जनम् ।

ऋणापाकरणं ब्रूते धीरो लक्ष्मीधरः क्रमात् ॥

इत्थं गृहस्थकाण्डे ऽस्मिन् पर्वणां सप्तविंशतिः ॥

[३]

अथ गार्हस्थ्यम्

तत्र ब्रह्मचारिधर्मम् अभिधाय संवर्तः

एष धर्मः समाख्यातः प्रथमाश्रमिणि द्विजे ।

अतः परं समावृत्तः कुर्याद् दारपरिग्रहम् ॥

“समावृत्तः” गुरुकुलाद् आगत्य कृतस्नानाख्यसंस्कारः ।

**मनुः **।

वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।

अविलुप्तब्रह्मचर्यो गृहस्थाश्रमम् आविशेत् ॥

वेदान् वेदाव् इत्यादिकः पुरुषशक्त्यपेक्षया विकल्पः । “यथाक्रमम्” यथविहिताध्ययनेतिकर्तव्यतया ।

तथा च यमः

वेदं वेदौ च वेदान् वा ततो ऽधीत्य यथाविधि ।

अविलुप्तब्रह्मचर्यो दारान् कुर्वीत धर्मवित् ॥

[४] एवं विशीर्णब्रह्मचर्यस्याकृतप्रायश्चित्तस्योत्तराश्रमेष्व् अनधिकारः सूचितो भवति ।

तथा

गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।

उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥

“लक्षणान्वितां” शुभसूचकचिह्नयुक्ताम् ।

यमः

गुरुं वा समनुज्ञाय प्रदाय गुरुदक्षिणाम् ।

सदृशीम् आहरेद् भार्यां मातापितृमते स्थितः ॥

वाशब्दो नैष्ठिकापेक्षया । “समनुज्ञय” इति समनुज्ञाप्य इत्यर्थे अन्तर्भावितण्यर्थः ।

नारदः

ब्राह्मणः (?) क्षत्रियविषां शूद्राणां च परिग्रहे ।

सजातिः श्रेयसी भार्या सजातिश् च पतिः स्त्रियाः ॥

“सजातिः” समानजातिः । “श्रेयसी” श्रेष्ठा ।

[५] वसिष्ठः

    गृहस्थो विनीतक्रोधहर्षो गुरुणानुज्ञातः स्नात्वास्मानार्षेयीम् अस्पृष्टमैथुनाम् अवरवयसीं सदृशीं भायां विन्देत ।

गृहस्थ इति भाविनि भूतोपचारः तद्धर्मप्राप्त्यर्थः । तेन अकृतदारो ऽपि गार्हस्थ्यसङ्कल्पवान् आश्रमान्तरात् निवृत्तो गृहस्थधर्मेष्व् अधिक्रियत इति भर्तृज्ञः

बृहस्पतिः

समानाम् उद्वहेत् पत्नीं कुलशीलवयोगुणैः ।

तया सह चरेद् धर्मं श्रौतं स्मार्तं समाहितः ॥

“समानाम्” अनुरूपां वयसा चानुरूपाम् । तच् च,

वर्षैर् एकगुणां भार्याम् उद्वहेत् त्रिगुणः स्वयम् ।

इत्यादिनोक्तम् ।

तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।

[स्रग्विणं तल्प] आसीनम् अर्हयेत् प्रथमं गवा ॥ [मनु ३.३]

“तं” ब्रह्मचारिणम् । “प्रतीतम्” प्रतिनिवृत्तं गृहस्थाश्रमोन्मुखम् । “स्वधर्मेण” दाक्षिण्यादिना । “ब्रह्मदायहरं पितुः” [६] इति । ब्रह्मैव दायो ब्रह्मदायः । पितुः सकाशाद् अधिगतवेदम् इति मुख्यप्राप्त्यर्थानुवादः । “अर्हयेत्” पूजयेत् पित्रादिर् इति शेषः । “गवा” इति मधुपर्कोपलक्षणम् ।

हारीतः

    गुरुणानुज्ञातो ऽलङ्कारादीन् गृह्णीयात् । यथार्थं चैतान् बिभृयाद् आमन्त्र्य विधिवद् दारान् आहृत्याग्नीन् आधायोञ्छसिलाभ्याम् अयाचितोपपन्नं साधुभ्यो याचमानेभ्यो (?) पायजनाद् एव पितृमनुष्यार्थे वृत्त्यादानं कुर्वीत, नात्मार्थे ।

“अलङ्कारादीन्” स्वस्वगृह्योक्तकुण्डलप्रभृतीन् । आदिशब्देन स्रग्गन्धादीन् गृह्यादेशितान्, तेषां समावर्तनकाले ग्रहणं नित्यम् । उत्तरकाले यथार्थं धारणम् । “यथार्थम्” यथाप्रयोजनं समावर्तनाद् ऊर्ध्वं धारयेत् । समावर्तनकाले तु नियमः ।

यमः

    एकं द्वौ त्रीन् वा वेदान् अधीत्य गुरुं परितोष्यानुज्ञातो मुञ्जापनयनं कृत्वा सवर्णां परिणीय ब्राह्मादिना विवाहेन ऋतुकालाभिगामी पुत्रानुत्पाद्यावसथ्याधानं कृत्वातिथीन् पूजयेत् ।

[७] कश्यपः

दाराधीनाः क्रियाः सर्वाः ब्राह्मणानां विशेषतः ।

दारान् सर्वप्रयत्नेन विशुद्धान् उद्वहेत् ततः ॥

देवतानां नमस्कारः प्तिॠणां चोदकक्रिया ।

दारतः सम्प्रवर्तन्ते दाराः स्वर्गस्य सङ्क्रमः ॥

इति एतत् कश्यपमतं ब्रह्मणश् चानुशासनम् ॥

“विशुद्धान्” कुलतः स्वरूपतश् च ।

अथ विवाह्याविवाह्यकन्यकानिरूपणम्

तत्र मनु-शातातपौ

असपिण्डा च या मातुर् असगोत्रा च या पितुः ।

सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥

“मातुर् असपिण्डा” मातुलदुहित्रादिभ्यो ऽन्या ।

अत्र केचिद् आहुः — “दारकर्मणि” दारत्वजनके विवाहे । [८] “मैथुने” मिथुनशब्दवाच्य-स्त्रीपुंससाध्याधानादिकर्मणि, न केवलं स्त्रीसाध्यपाकादिकर्मणि । अपि तूभयसाध्ये ऽपि सा प्रशस्ता स्याद् इत्य् अर्थः । अथ वा “मैथुने” मिथुनसाध्ये धर्म्यपुत्रोत्पत्त्यादाव् इति ।

**गौतमः **।

    असमानप्रवरैर् विवाहः । ऊर्ध्वं सप्तमात् पितृबन्धुभ्यः बीजिनश् च मातृबन्धुभ्यः पञ्चमात् ।

समानप्रवरत्वं च सङ्ख्यासञ्ज्ञयोः साम्ये भवति, तथैव प्रकरणात् । “पितृबान्धवाः” पितृमातुलपितृमातृस्वसृपुत्रादयः । “बीजिनश् च” इत्य् अत्र “ऊर्ध्वं सप्तमाद्” इत्य् अनुवर्तते । “बीजी” यः परक्षेत्रे जातिमात्रोत्पन्नेन (?) शास्त्रेण प्राप्तो बीजम् प्रक्षिपति । “मातृबान्धवाः” मातृमातुलो (?) मातृस्वसृमातृष्वसा वा । एषां यः पञ्चमः तत ऊर्ध्वं विवाहः ।

पैठीनसिः

    असमानार्षेयीं कन्यां वरयेत् पञ्च मातृतः परिहरेत् सप्त पितृतः । त्रीन् मातृतः पञ्च पितृत इति वा ।

अत्र च समानजातीये पञ्च, असमानजातीये त्रीन् इति व्यवस्थितो विकल्पः ।

[९] सुमन्तुः

    पितृष्वसृसुतां मातुलसुतां मातुः सगोत्रां समानार्षेयीं विवाह्य चान्द्रायणं चरेत्, परित्यज्य चैनां बिभृयात् ।

अयं च मातृसगोत्रानिषेधो मातृसम्बन्धित्वेन जन्मपरः जन्मनाम्नोः प्रत्यभिज्ञाने सति ।

तथा च व्यासः

सगोत्रां मातुर् अप्य् एके नेच्छन्त्य् उद्वाहकर्मणि ।

जन्मनाम्नोर् अविज्ञाने उद्वहेद् अविशङ्कितः ॥ इति ।

पैठीनसिः

    कुलोत्पन्नां युक्ताचारां वरयेत् । पितृमातृस्वसृदुहितरो मातुलसुताश् च धर्मतस् ताः भगिन्यो वर्जयेत् । [इति विज्ञायते] ।

अयं च पितृमातृबन्धुत्वेन निषेधे सिद्धे ऽपि पुनर् निषेधो दोषाधिक्यप्रतिपादनार्थः ।

[१०] मनुः

पितृष्वस्रेयीं भगिनीं स्वरीयां मातुर् एव च ।

मातुश् च भ्रातुर् आप्तस्य गत्वा चान्द्रायणं चरेत् ॥

एतास् तिस्रस् तु भार्यार्थे नोपयच्छेत बुद्धिमान् ।

ज्ञातित्वेनानुपेयास् ताः पतति ह्य् उपयन्न् इमाः ॥

इत्य् एतासाम् उपयमने मनुना प्रातित्यकीर्तनात् । “मातुश् च भ्रातुर् आप्तस्य” सोदरस्य दुहितरम् इति शेषः । मातुलसुतानिषेधस्य स्मृत्यन्तरेषूक्तेः ।

**सुमन्तुः **।

    मातृपितृसम्बन्धा आ सप्तमाद् अविवाह्याः कन्या भवन्ति । आ पञ्चमाद् अन्येषाम् । पितृपत्न्यः सर्वा मातरः । तद्भ्रातरो मातुलास् तद्दुहितरश् च भगिन्यस् तदपत्यानि भागिनेयानि । अन्यथा सङ्करकारिण्यः । स्वस्याध्यापयितुर् एतद् एव ।

“आ सपतमाद्” इति मातृसपिण्डविषयम् । “\

मातुः सपिण्डा यत्नेन वर्जनीया द्विजातिभिः ।

इति व्यासवचनात् । [११] “अन्यथा” इति । एषाम् अनन्तरोक्तानां कन्याः विवाहिताः सङ्करधर्मा [कर्म?] रूपाधर्मकारिण्यो भवन्तीत्य् अर्थः ।

मनुः

अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।

तनुलोमकेशदशनां मृद्वङ्गीम् उद्वहेत् स्त्रियम् ॥

“सौम्यनाम्नीं” अनुद्वेगकरनाम्नीम् । “तनुलोककेशदशनां” तनु सूक्ष्मं, लोमादि यस्याः सा तथा ।

शातातपः

हंसस्वनां मेघवर्णां मधुपिङ्गललोचनाम् ।

तादृशीं वरयन् कन्यां गृहस्थः सुखम् एधते ॥

“मेघवर्णां” मेघवत् स्निग्धश्यामवर्णाम् । “मधुपिङ्गललोचनां” मधुवद् ईषत्पिङ्गललोचनाम् । “सुखम् एधते” सुखं यथा भवति तथा वर्धते ।

आश्वलायनः

बुद्धिरूपशीललक्षणसम्पन्नाम् अरोगाम् उपयच्छेत ।

“लक्षणानि” शुभसूचकचिह्नानि । तानि च भविष्यपुराण्द्य्उक्तानि** ।**

**[१२] **प्रतिष्ठिततलाः सम्यक् रक्ताम्भोजसमत्विषः ॥

प्रतिष्ठिततलाः सम्यक्” संलग्नभूभागपादाधर[ग्र?]तलाः ।

तथा । करालैर् अथ निर्मांसै रूक्षैर् अथ शिराततैः ।

दारिद्र्यं दुर्भगत्वं च प्राप्नुवन्ति न संशयः ॥

करालो भयानकः ।

तथा

अङ्गुल्यः संहता वृत्ता ऋज्व्यः श्लक्ष्णनखास् तथा ।

कुर्वन्त्य् अत्यन्तम् ऐश्वर्यं राजभोगं च योषिताम् ॥

“संहताः” अविरलाः । “राजभोगं” राजभोगोपसम्भोगम् ।

ह्रस्वासु जीवितं ह्रस्वं विरला वित्तहानये ।

दारिद्र्यं मूलभुग्रासु प्रेष्यत्वं पृथुलासु च ॥

“मूलभुग्राः” प्रथमपर्ववक्राः । “पृथुलाः” स्थूलाः ।

तथा

परस्परसमारूढैस् तनुभिर् वृद्धपर्वभिः ।

बहून् अपि पतीन् हत्वा दासी भवति वै द्विजाः ॥

[१३] अङ्गुल्योन्नतपर्वाणस् तुङ्गायाः कोमलान्विताः ।

रत्नकाञ्चनलाभाय विपरीता विपत्तये ॥

सुभगत्वं नखैः स्निग्धैर् आताम्रैश् च धनाढ्यता ।

पुत्राः स्युर् उन्नतैर् एभिः सुसूक्षमैश् चापि राजता ॥

पाण्डुरैः स्फुटितै रूक्षैर् नीलैर् धूम्रैस् तथा खरैः ।

निःस्वता भवति स्त्रीणां पीतैश् चाभक्ष्यभक्षणम् ॥

शुक्लाः स्निग्धाश् च वृत्ताश् च समारूढशिरास् तथा ।

यदि स्युन् पुपुरं (?) दध्युर् बान्धवाद्यैः समाप्नुयुः ॥

अशिराः शरकाण्डाभाः सुवृत्ताल्पतनूरुहाः ।

जङ्घाः कुर्वन्ति सौभाग्यं यानं च गजवाजिभिः ॥

क्लिश्यते रोमजङ्घा स्त्री भ्रमत्य् उन्नतपिण्डिका ।

काकजङ्घा पतिं हन्ति वाचाटा कपिला च या ॥

जानुभिश् चैव मार्जारसिंहजान्वनुकारिभिः ।

[१४] श्रियम् आप्य सुभाग्यत्वं प्राप्नुवन्ति सुतांस् तथा ॥

घटाभैर् अध्वगा नार्यो निर्मासैः कुलटाः स्त्रियः ।

शिरालैर् अपि हिंस्राः स्युर् विश्लिष्टैर् धनवर्जिताः ॥

अत्यन्तकुञ्चितै रूक्षैः स्फुटिताग्रैर् गुडप्रभैः ।

अनेकजैस् तथा रोमैः केशैश् चापि तथाविधैः ॥

अत्यन्तपिङ्गला नारी पिषकन्येति निश्चिता ।

सप्ताहाभ्यन्तरे जाया पतिं हन्यान् न संशयः ॥

हस्तिहस्तनिभैर् वृत्तै रम्भाभैः करबोपमैः ।

प्राप्नुवन्त्य् ऊरुभिः शश्वत् स्त्रियः सुखम् अनङ्गजम् ॥

दौर्भाग्यं च निर्मासाभिर् बन्धनं रोमशोरुभिः ।

तनुभिर् वध्म् इत्य् आहुः मध्यच्छिद्रैस् त्व् अनीशता ॥

मध्यावर्तं समं चारु सूक्ष्मरोमाचितं पृथु ।

जघनं शस्यते स्त्रीणां रतिसौख्यकरं द्विजाः ॥

ऊर्ध्वरोम भगे यस्याः समं सुश्लिष्टसंस्थितम् ।

[१५] अपि नीचकुलोत्पन्ना राजपत्नी भवत्य् असौ ॥

अश्वत्थपत्रसदृशः कूर्मपृष्ठो ह्य् अभूतिकः (?) ।

शशिबिम्बनिभश् चापि तथा च शकटाकृतिः ॥

भगः शस्ततमः स्त्रीणां रतिसौभाग्यवर्धनः ।

तिलपुष्पनिभो यश् च यस्याश्वखुरसन्निभः ॥

द्वाव् अप्य् एतौ परप्रेष्यां कुर्वाते च दरिद्रताम् ।

उलूखलनिबैः शोकं मरणं विवृताननैः ॥

निरूपैर् अतिनिर्मांसैर् गजाश्वसमरोमभिः ।

दौःशील्यं दुर्भगत्वं च दारिद्र्यम् अभिगच्छति ॥

कपित्थफलसङ्काशः पीनो बलिविवर्जितः ।

स्फिक् प्रशस्तो हि नारीणां निन्दितो ह्य् अन्यथा द्विजाः ॥

पयोधरभरान् नम्रः प्रबालीत्रिवलीगुरुः (?) ।

मध्यः शुभावहः स्त्रीणां रोमराजीविभूषितः ॥

पणवाभैर् मृदङ्गाबैस् तथा मध्ये यवोपमैः ।

प्राप्नुवन्ति भयायासं दौःशील्यम् अपि चेदृशैः ॥

[१६] सुवक्रम् उल्बणं पृष्ठम् अरोमं सुसमाहितम् ।

नानाप्रस्तरपर्यङ्कं रतिसौख्यकरं परम् ॥

कुब्जम् अद्रोणिकं पृष्ठं रोमशं यदि योषितः ।

स्वप्नान्ते ऽपि सुखं तस्या नास्ति हन्यात् पतिं च सा ॥

विपुलैः सुकुमारैश् च कुक्षिभिः सुबहुप्रजाः ।

मण्डूककुक्षिर् या नारी राजानं सा प्रसूयते ॥

उन्नतैः वलिभिर् वन्ध्याः संवृत्तैः कुलटास्त्रियः ।

जारकर्मरता सा स्यान् न प्रभुत्वम् अवाप्नुयात् ॥

उन्नतावनतैः क्षुद्राः विषमैर् विषमाशयाः ।

आयुरैश्वर्यसम्पन्ना वनिता हृदयैः समैः ॥

सुवृत्तम् उन्नतं पीनम् अदूरोन्नतम् आयतम् ।

स्तनयुग्मं सदा शस्तम् अतो ऽन्यद् असुखावहम् ॥

उन्नतिः प्रथमे गर्भे द्वयोर् एकस्य भूयसी ।

वामे तु जायते कन्य दक्षिणे तु भवेत् सुतः ॥

दीर्घे तु चूचुके यस्याः सा स्त्री धूर्ता रतिप्रिया ।

[१७] आविष्टे तु पुनर् यस्या द्वेष्टि सा पुरुषं सदा ॥

स्तनैः सर्पफणाकारैः श्वजिह्वाकृतिभिस् तथा ।

दारिद्र्यम् अधिगच्छन्ति स्त्रियः पुरुषचेष्टिताः ॥

आरकूटघटैस् तुयैर् भवन्तीह तथा द्विजाः ।

समञ्चमांसलं चारु शिरारोमविवर्जितम् ॥

वक्षो यस्या भवेन् नार्या भोगान् भुङ्क्ते तथेप्सितान् ।

हिंस्रा भवति वक्रेण दौःशील्यं रोमशेन तु ॥

निर्मांसेन तु वैधव्यं विस्तीर्णे कलहप्रिया ।

चतस्रो रक्तगम्भीरा रेखाः स्निग्धाः करे स्त्रियाः ॥

यदि स्युः सुखम् आप्नोति विच्छिन्नाभिर् अनीशता ।

रेखा कनिष्ठिकारभ्य मूला यस्याः प्रदेशिनीम् ॥

शतम् आयुर् भवेत् तस्या ऊनाया न्यूनता क्रमात् ।

संवृत्ताः समपर्वाणस् तीक्ष्णाग्राः कोमलत्वचः ॥

समा ह्य् अङ्गुलयो यस्याः सा नारी भोगवर्धिनी ।

बन्धुजीवारुणैः तुङ्गैर् नखैर् ऐश्वर्यम् आप्नुयात् ॥

नखैर् धूम्रवर्णाभैः श्वेतपीतैर् अनीशता ।

रक्तैर् मृदुभिर् ऐस्वर्यं निच्छिद्राङ्गुलिभिर् द्विजाः ॥

[१८] स्फुटैर् अविरलै रूक्षैः क्लेशं पाणितलैः खरैः ।

सप्त रेखा यवा यासाम् अङ्गुष्ठाङ्गुलिपर्वसु ॥

तासां हि विपुलं सौख्यं धनं धान्यं तथाक्षयम् ।

मणिबन्धो ऽव्य्वच्छिन्नो रेखात्रयविभूषितः ॥

दधाति च चिराद् एव मणिकाञ्चनमण्डितम् ।

श्रीवत्सपद्मशङ्खाङ्कगजवाजिनिवेशनैः ॥

चक्रस्वस्तिकवज्रासिपूर्णकुम्बैर् इवाङ्कुशैः ।

प्रासादच्छत्रमुकुटैर् हारकेयूरकुण्डलैः ॥

शङ्खतोरणनिर्यूहैर् हस्तन्यस्तैर् नृपस्त्रियः ।

यस्याः पाणितले रेखा रक्तो स्रक्कुण्डकुण्डिकाः (?) ॥

दृश्यन्ते चरणे यस्या राजपत्नी भवत्य् असौ ।

वीथ्यापणतुलामानैः तथा मुद्रादिहिः स्त्रियः ॥

भवन्ति वणिजां पत्न्यो रत्नकाञ्चनशालिनाम् ।

दात्रयोक्त्रयुगाबन्धफालोलूखललाङ्गलैः ॥

[१९] भवन्ति धनधान्याढ्याः कृषीवलजनाङ्गनाः ।

अनुद्धतशिरासन्धिपीनं रोमविवर्जितम् ॥

गोपुच्छाकृति नारीणां भुजयोर् युगलं शुभम् ।

निगूढग्रन्थयो यासां कूर्परा रोमवर्जिताः ॥

बहवो लिलिता यासां प्रशस्ता वृत्तकोमलाः ।

उन्नतावनतश् चैव नातिस्थूलो न रोमशः ।

स स्कन्धस् तु सदा स्त्रीणां सौभाग्यारोग्यवर्धनः ॥

स्थूले स्कन्धे वहेद् भारं रोमशे व्याधिता भवेत् ।

वक्रे स्कन्धे भवेद् वन्ध्या कुलटा चोन्नतानते ॥

स्फुटं रेखाद्वयं यस्या ग्रीवायां चतुरङ्गुलम् ।

मणिकाञ्चनमुक्ताढ्यं स दधाति विभूषणम् ॥

अधना स्त्री कृशग्रीवा दीर्घग्रीवा च बन्धकी ।

ह्रस्वग्रीवा स्थिरापत्या स्थूलग्रीवा च दुःखिता ॥

अनुन्नता समांसा च समा यस्याः कृकाटिका ।

सुदीर्घम् आयुस् तस्यास् तु चिरं भर्ता च जीवति ॥

निर्मांसा बहुमांसा च शिराला रोमशा तथा ।

कुटिला विकटा चैव विस्तीर्णा च न शस्यते ॥

[२०] न स्थूलो न कृशो ऽत्यर्थं न वक्रो न च लोमशः ।

हनुर् एवंविधः श्रेयान् अतो ऽन्यो न प्रशस्यते ॥

चतुरस्रमुखी धूर्ता मण्डलास्या समं भवेत् ।

अप्रजा वाजिवक्त्रा स्त्री महावक्रा च दुर्भगा ॥

श्ववराहवृकोलूकमर्कटास्याश् च याः स्त्रियः ।

क्रूरास् ताः पापकर्मिण्यः प्रजाबन्धुविवर्जिताः ॥

मालतीवकुलाम्भोजनीलोत्पलसुगन्धि यत् ।

वदनं मुच्यते नैषां न च ताम्बूलभोजनैः ॥

ताम्राभः किञ्चिद् आनम्रः स्थौल्यकार्श्यविवर्जितः ।

अधरो यदि तुङ्गश् च नारीणां भोगदं सदा ॥

स्थूले कलहशीला स्याद् विवर्णे चातिदुःखिता ।

उत्तरोष्ठेन तीक्ष्णेन वनितात्यन्तकोपना ॥

जिह्वा तनुतरावक्रा ताम्रा दीर्घा च शस्यते ।

स्थूला ह्रस्वा विवर्णान्ता वक्रा भिन्ना च निन्दिता ॥

शङ्खकुन्देन्दुधव्लैः स्निग्धैस् तुङ्गैर् असन्धिभिः ।

मिष्टान्नपानम् आप्नोति दन्तैर् एभिर् अनुन्नतैः ॥

[२१] सूक्ष्मैर् अतिकृशैर् ह्रस्वैः स्फुटितैर् विरलैस् तथा ।

रूक्षैश् च दुःखिता नित्यं विकटैर् विमतिर् भवेत् ॥

सुमृष्टदर्पणाम्भोजपूर्णबिम्बेन्दुसप्रभम् ।

वदनं वरनारीणाम् अदृष्टफलदं शुभम् ॥

स्थूला कृशा नातिवक्रा नातिदीर्घा समुन्नता ।

तादृशी नासिका यस्याः सा धन्या तु शुभङ्करी ॥

उन्नता मृदुतोमाणो रेखाः शुद्धा न सङ्गताः ।

क्रिकार्धतुल्याः सूक्ष्माश् च योषितां तु सुखावहाः ॥

धनुस्तुल्याभिः सौभाग्यं वन्ध्या स्याद् दीर्घरोमभिः ।

पिङ्गला सङ्गता ह्रस्वा दारिद्र्याय न संशयः ॥

नीलोत्पलदलप्रख्यैर् ताम्रैश् चारुपक्ष्मभिः ।

वनिता नयनैर् एभिर् भोगसौभाग्यभागिनीं ॥

शशकाक्षी मृगाक्षी च वराहाक्षी वराङ्गना ।

यत्र तत्र समुत्पन्ना महान्तं भोगम् आप्नुयात् ॥

अगम्भीरैर् असङ्क्षिप्तैर् बहुरेखासमन्वितैः ।

**[२२] **राजपत्न्यो भवन्तीह नयनैर् मधुपिङ्गलैः ॥

वायसाकृतिनेत्राणि दीर्घापाङ्गनि योषिताम् ।

अनाविलानि चारूणि भवन्ति न [हि?] विभूतये ॥

गम्भीरैः पिङ्गलैश् चैव दुःखिताः स्युश् चिरायुषः ।

वयोमध्ये त्यजेत् प्राणान् उन्नताक्षी च याङ्गना ॥

रक्ताक्षी विषमाक्षी च धूम्राक्षी प्रेतलोचना ।

वर्जनीया सदा नारी श्वनेत्रा चैव दूरतः ॥

उद्भ्रान्तकैरवैश् चित्रैर् नयनैर् अङ्गनास् त्व् इह ।

मद्यमांसप्रिया नित्यं चपलाश् चैव सर्वतः ॥

लकाराकृतयः कर्णा नतस्कन्धाग्रसंस्थिताः ।

वहन्ति विकसत्कान्ति हेमरत्नविभूषणम् ॥

खरोष्ट्रनकुलोलूककपोतश्रवणाः स्त्रियः ।

प्राप्नुवन्ति महादुःखं प्रायशः प्रव्रजन्ति वै ॥

ईषदापाण्डुगण्डा याः सुवृत्ताः पार्वणत्विषः ।

प्रशस्ता निन्दितास् त्व् अल्पा रोमकूपकभूषिआः ॥

अर्ध्रेन्दुप्रथनाभोगं रोमशं सुसमाहितम् ।

[२३] भोगसौख्यकरं श्रेष्ठं ललाटं वरयोषिताम् ॥

द्विगुणं परिणाहेन ललाटं त्रिगुणं च यत् ।

शिरः प्रशस्तं नारीणाम् अवन्ध्या हस्तिमस्तकाः ॥

सूक्ष्माः कृष्णा मृदुस्निग्धाः कुञ्चिताग्राः शिरोरुहाः ।

भवन्ति श्रेयसे स्त्रीणाम् अन्ये स्युः क्लेशशोकदाः ॥

हंसकोकिलवीणालिशिखिवेणुस्वराः स्त्रियः ।

प्राप्नुवन्ति बहून् भोगान् भृत्यान् आज्ञापयन्ति च ॥

भिन्नकांस्यस्वना नारी खरकाकस्वरा च या ।

रोगव्याधिभयं शोकं दारिद्र्यं चाधिगच्छति ॥

हंसगोवृषचक्राह्वमत्तमातङ्गगामिनी ।

स्वर्गलभ्या भवेन् नारी महिषी पार्थिवस्य च ॥

श्वशृगालगतिर् निन्द्या या च वायसवद् व्रजेत् ।

दासी मृगगतिर् नारी दुर्भगा स्याच् च बन्धकी ॥

फलिनी रोचना हेमकुङ्कुमत्विष एव च ।

वर्णाः शुभकराः स्त्रीणां यश् च दूर्वाङ्कुरोपमः ॥

मृदूनि मृदुरोमाणि नात्यन्तं स्वेदजानि च ।

सुरभीणि च गात्राणि यासां ताः पूजिताः स्त्रियः ॥

[२४] आश्वलायनः

    दुर्विज्ञेयानि लक्षणान्य् अष्टौ पिण्डान् कृत्वा “ऋतम् अग्नौ प्रथमं यज्न ऋते सत्यं प्रतिष्ठितं यद् इयं कुमार्य् अभिजाता तद् इदम् इह प्रतिपद्यताम् । यत् सत्यं तद् दृश्यताम्” इति पिण्डान् अभिमन्त्र्य कुमारीं ब्रूयाद् एषाम् एकं गृहाणेति ।


    	क्षेत्राच् चेद् उभयतः सस्याद् गृह्णीयाद् अन्नवत्य् अस्याः प्रजा भविष्यतीति विद्यात् । गोष्ठात् पशुमती, वेदिपुरीषाद् ब्रह्मवादिनी । अविनाशिनो ह्रदात् सर्वसम्पन्ना, देवनात् कितवी, चतुष्पथाद् विप्रव्राजिनी, ईरिणाद् अनपत्या, श्मशानात् पतिघ्नी ।

अष्टपिण्डकरणं च वक्ष्यमाण क्षेत्रादिमृत्तिकाभिः । “गोष्ठं” गवाम् अवस्थानदेशः । “वेदपुरीषं” वेदिमृत्तिका । “देवनं” दीव्यते ऽस्मिन्न् इति द्यूतस्थानम् । “विप्रव्राजिनी” भर्तारं विहाय परिव्रजनशीला । “ईरिणं” ऊषरम् ।

[२५] मनुः

मनान्त्य् अपि समृद्धानि गोऽजाविधनधान्यतः ।

स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत् ॥

हीनक्रियं निष्पुरुषं निश्छन्दो लोमशार्शसम् ।

क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥

“महान्ति” बहुजन्यानि । “स्मृद्धानि” सम्पन्नानि वक्ष्यमाणैर् गवादिभिः । “स्त्रीसम्बन्धे” कर्तव्य इति शेषः । “हीनक्रियं” यथाविहितगर्भाधानादिक्रियारहितम् । “निष्पुरुषं” कन्याजन्मबहुलम् । “निश्छन्दो” वेदाभ्यासरहितम् । “लोमशं” अत्युल्बणलोमयुक्तम् । “अर्शसं” अर्शो व्याधियुक्तम् । “श्वित्रि” श्वेतकुष्ठयुक्तम् ।

हारीतः

    श्वित्रिकुष्ट्युदरियक्ष्मामयाव्यपस्मार्य् अनार्षेयम् अब्रह्मसमानार्षेयं चेत्य् एतानि अपतितान्य् अपि कुलानि वर्जनीयानि भवन्ति । कुलानुरूपाः प्रजाः सम्भवन्तीति । आदितः षट् अयज्ञियत्वाद् अनार्षेयाणि । अदैवत्वाद् अब्राह्म**[२६]**णकुलत्वात् समानार्षेयम् इति । तस्मात् सप्त पितृतः परीक्ष्य पञ्च मातृतो नग्निकां श्रेष्ठां भ्रातृमतीं भार्यां विन्देत् ।

आमयाव्य् अत्र उक्तेतरसञ्चारिरोगवान् । अत्र श्वित्र्यादिकुलानि षट् वर्जनीयानीत्य् अत्र हेतुः “कुलानुरूपाः प्रजा भवन्तीति” । इतिकरणं हेतौ । “अनार्षेयं” अस्मर्यमाणगोत्रप्रवरम् । तस्य वर्ज्यत्वं “अयज्ञियत्वात्” । अयज्ञियत्वं च यज्ञेषु चास्मर्यमाणप्रवरस्यानधिकारात् । “अब्रह्म” अविद्यमानवेदाध्ययनम् । तद्वर्ज्यत्वे हेतुः “अदैवत्वाद्” इति । दैवकर्मशून्यत्वात् । “नग्निका” दशवर्षा । “दशवर्षा तु नग्निका” इति भविष्यपुराणवचनात् ।

पुनर् हारीतः

    [सत्यश् च मत्रैवं] तस्मात् कुलनक्षत्रविज्ञानोपपन्नां वरयेत् । पञ्चमीं मातृबन्धुभ्यः सप्तमीं पितृबन्धुभ्यः ।

यमः

चतुर्दश कुलानीमान्य् अविवाह्यानि निर्दिशेत् ।

अनार्षेयं ब्राह्मणानां ऋत्विजां च विवर्जयेत् ॥

अत्युच्चमतिह्रस्वं च अतिवर्णं च वर्जयेत् ।

हीनाङ्गम् अतिरिक्ताङ्गम् आमयाविकुलानि च ॥

[२७] श्वित्रिकुष्टिकुलादीनां कुर्याद् धि परिवर्जनम् ।

सदा कामकुलं वर्ज्यं लोमशानां च यत् कुलम् ॥

अपस्मारिकुलं यच् च यच् च पाण्डुकुलं भवेत् ।

“ऋत्विजो” अत्र निन्द्ययाजकाः । “कामकुलं” कामप्रधानं कुलम् । “अतिवर्णम्” अतिकृष्णम् अतिगौरवं वा ।

मनुः

नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।

नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् ॥

नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।

न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥

यस्यास् तुन् अ भवेद् भ्राता न विज्ञायेत वा पिता ।

नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥

यस्या भ्राता न भवेत् तां पुत्रिकाधर्मशङ्कया नोपयच्छेद् इत्य् अर्थः । पुत्रिकाधर्मश् चायं यत् तत् पुत्रेण कन्यापिता पुत्रवान् जनकः ।

गौतमः

    अभिसन्धिमात्रात् पुत्रिकेत्य् एकेषां तच्छङ्कया नोपयच्छेताभ्रातृकाम् ।

“अभिसन्धिमात्रात्” अस्माद् अयम् एतदीयम् अपत्यम् इत्य् अभिप्रायात् । मात्रशब्देन वह्निं प्रजापतिं चेत्यादि गौतमोक्तपुत्रिकाविधिव्यवच्छेदः ।

कात्यायनः

लोकापवाददुष्टा या दुष्टा सा तु प्रकीर्तिता ।

अन्यत्रासक्तवित्ता या या स्यात् संस्पृष्टमैथुना ॥

“संस्पृष्टमैथुना” क्षतयोनिः ।

नारदः

दीर्घकुत्सितरोगार्ता व्यङ्गा संस्पृष्टमैथुना ।

धृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥

“दीर्घः” चातुर्थिकज्वरादिः । “कुत्सितरोगो” अपस्मारादिः ।

विष्णुपुराणे

नातिकेशाम् अकेशां वा नातिकृष्णाम् अपिङ्गलाम् ।

निसर्गतो ऽधिकाङ्गीं च हीनाङ्गीं चापि नोद्वहेत् ॥

नाविशुद्धां सरोगां वा कुटिलां वातिरोगिणीम् ।

न दुष्टां दुष्टभावां वा व्यङ्गिनीं पितृमातृतः ॥

न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् ।

न घर्घरस्वरां क्षामां तथा काकस्वरां न च ॥

नातिबद्धेक्षणां तद्वद् वृत्ताक्षीं नोद्वहेत् स्त्रियम् ।

यस्याश् च रोमशे जङ्घे गुल्फौ यस्यास् तथोन्नतौ ॥

गण्डयोः कूपकौ यस्या हसन्त्याश् चैव जायते ।

नोद्वहेत् तादृशीं कन्यां प्राज्ञः कार्यविचक्षणः ॥

नातिरूक्षच्छविं पाण्डुकरजाम् अरुणेक्षणाम् ।

आपीतहस्तपादां च न कन्याम् उद्वहेद् बुधः ॥

[३०] न वामनां नातिदीर्घां नोद्वहेत् सन्नतभ्रुवम् ।

न चातिच्छिद्रदशनां न करालमुखीं तथा ॥

“अतिकेशां” बहुकेशाम् । “निसर्गतः” स्वभावतो ऽधिकाङ्गीम् । “व्यङ्गिनीं पितृमातृतः” यस्याः पितरौ व्यङ्गौ भवतः । “श्मश्रुमती” श्मश्रुस्थाने दीर्घरोमा । “व्यञ्जनवती” कुचादियुक्ता । “क्षामा” कृशा । “अतिबद्धेक्षणां” निमीलितप्रायनेत्राम् । “वृत्ताक्षीं” वर्तुलाक्षीम् । “करजं” नखम् । “आपीनं” ईषत्पीतम् । “सन्नतभ्रुवं” संलग्नभ्रुवम् ।

करालमुखीं नोद्वहेद् इत्य् अनुवृत्तौ **ब्रह्मपुराणे **।

अलोमाम् अतिलोमां च वाचाटां केकरेक्षणाम् ।

“केकरेक्षणां” चक्रैकनयनाम् ।

कश्यपः

सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः ॥

वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ।

उदकस्पर्शिता या च या च पाणिगृहीतिका ॥

अग्निं परिगता या च पुनर्भूप्रसवा च या ।

इत्य् एताः **कश्यपेनो**क्ता दहन्ति कुलम् अग्निवत् ॥

“कृतकौतकमङ्गला” कृतकङ्कणबन्धना । “उदकस्पर्शिता” उदकपूर्वं दत्ता ।

[३१] स्मृतिः

    वाग्दत्ता मनोदत्ता, अग्निं परिगता, सप्तमं पदम् आनीता, भुक्ता, गृहीतगर्भा, प्रसूता, सप्तविधा उनर्भूस् तां गृहीत्वा वृथाकारीं न प्र्जां न धर्मं विन्देत् ।

“प्रजां” स्वजातिधर्माम् इति शेषः । धर्मं पत्नीसाध्यम् अग्निहोत्रादि । अत्र च प्रकरणे येषां विधिनिषेधानां दृष्टगुणदोषानुषङ्गो नास्ति, यथा – “असपिण्डा च या मातुर्” इत्य् एवमादीनां तदतिक्रमे भार्यात्वम् एव न भवति । भार्याशब्दस्य तु आहवनीयादिशब्दवत् संस्कारशब्दत्वात् । येषां तु दृष्टगुणदोषदर्शनेन विधिनेषेधौ, यथा –

स्फीताद् अपि न सञ्चारिरोगदोषसमन्वितात् ।

इत्यादि न तदतिक्रमे भर्यात्वाभावः, केवलं नियमातिक्रमात् प्रायश्चित्तमात्रं भवति । ऋक्षवृक्षनाम्न्यादिषु तु दृष्टगुणदोषानुविधायिविधिनिषेधप्रकरणमध्यपातात् । मनुना सपिण्डादि प्रति निषेधस्य च पृथग्विधानाद् अदृष्ट एव दोषः कल्प्यः । परित्यागश् च यथा सगोत्रायाः स्मर्यते – “सगोत्रां चेद् अमत्योप्यच्छेत्, मातृवद् एनां बिभृत्याद्” इति बौधायनवचनात् । न तथा कपिलानदीनाम्न्यादेः । एवं वरे ऽपि परिवेत्तृनपुंसकादाव् अयम् एव न्यायः समानः ।

अथ वरनिरूपणम्

नारदः

उन्मत्तः पतितः क्लीबो दुर्भगस् त्यक्तबान्धवः ।

कन्यादोषौ च यौ पूर्वाव् एष दोषगुणो वरे ॥

“दुर्भगः” स्त्रीद्वेष्यः । “त्यक्तबान्धवः” अदुष्टान् बन्धून् विहाय स्वतन्त्रव्यवहारी । “कन्यादोषौ च यौ पूर्वौ” इति,

दीर्घकुत्सितरोगार्ता व्यङ्गा संस्पृष्टमैथुना ।

धृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥

इत् यत्र श्लोके उक्तौ “पूर्वौ” प्रथमौ दीर्घकुत्सितरोगत्वव्यङ्गत्वरूपौ नारदोक्ताव् एव ।

कात्यायनः

निष्क्रान्तस् तेन विद्विष्टस् तथा त्यक्तः स्वबन्धुभिः ।

अन्यजातिः क्षयी दासो लिङ्गस्थश् चोदरी यदि ॥

उन्मत्तः पतितः कुष्ठी तथा षण्ढः सगोत्रजः ।

चक्षुश् श्रोत्रविहीनश् च तथापस्मारदूषितः ॥

[३३] वरदोषाः स्मृता ह्य् एते कन्यादोषाः प्रकीर्तिताः ।

प्राक् पश्चाद् वा दानं यत्र विवर्जयेत् ॥

“निष्कान्तो” देशान्तरगमनशीलः । “दासः” प्रेष्यः । “लिङ्गस्थश् चोदरी यदि” उदरं भरणार्थं यद्य् आश्रमलिङ्गधारी । “प्राग्” विवाहोपक्रमात् । “पश्चात्” वाग्दानानन्तरम् ।

मनुः

कामम् आ मरणात् तिष्ठेद् गृहे कन्यर्तुमत्य् अपि ।

न त्व् एवैनां प्रयच्छेत गुणहीनाय कर्हिचित् ॥

गुणहीनाय न देयेत्य् अत्र तात्पर्यम्, रजस्वला तु न धार्या ।

यमः

दद्याद् गुणवते कन्यां नग्निकाम् एव शक्तितः ।

न त्व् एव गुणहीनाय नोपरुन्ध्याद् रजस्वलाम् ॥

“शक्तितः” सामर्थ्ये सति । “नग्निकाम् एव” दशवर्षां दद्यात् ।

[३४] मनुः

उत्कृष्टायाभिरूपाय वराय सदृशाय च ।

अप्राप्ताम् अपि तां तस्मै कन्यां दद्याद् यथाविधि ॥

“उत्कृष्टाय” कुलशीलादिभिः । “अप्राप्तां” यावद् वयस्का देयत्वेनोक्ता तावद् वयो ऽप्राप्तवतीम् अपि ।

**आश्वलायनः **।

    कुलम् अग्रे परीक्षेत [ये] “मातृतः पितृतश् च” इति यथोक्तं पुरस्ताद् बुद्धिमते कन्यां प्रयच्छेत् ।

शातातपः

वरो वरयितव्यो ऽर्थी कुलशीलसमन्वितः ।

रूपवान् पण्डितः प्राज्ञो युवा दोषविवर्जितः ॥

कन्यागुणाधिकारे याज्ञवल्क्यः

एतैर् एव गुणैर् युक्तः सवर्णः श्रोत्रियो वरः ।

यत्नात् परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः ॥

[३५] नारदः

परीक्ष्यः पुरुषः पुंस्त्वे निजैर् एवाङ्गलक्षणैः ।

पुमांश् चेद् अविकल्पेन स कन्यां लब्धुम् अर्हति ॥

सुबद्धजरु जान्वस्थिः सुबद्धांसशिरोधरः ।

स्थूलगाढस् तनूजत्वग् अविलग्नगतिश् चरः ॥

रेतो ऽस्य प्लवते चाप्सु छदिमूत्रं च फेनिलम् ।

पुमान् स्याल् लक्षणैर् एभिर् विपरीतैस् तु षण्डकः ॥

चतुर्दशविधः शास्त्रे षण्डो दृष्टो मनीषिभिः ।

चिकित्स्यश् चाचिकित्स्यश् च तेषाम् उक्तो विधिः क्रमात् ॥

निसर्गषण्डो बद्धश् च पक्षषण्डस् तथैव च ।

अग्निशापाद् गुरोः क्रोधाद् देवक्रोधात् तथैव च ॥

[३६] ईर्ष्याषण्डश् च सेव्यश् च वातरेता मुखेभगः ।

आक्षिप्तमोघबीजौ च शालीनो ऽन्यापतिस् तथा ॥

तत्राद्वाव् अप्रतीकारौ पक्षाख्यो मासम् आचरेत् ।

अनुक्रमात् त्रयस्यास्य कालः संवत्सरः स्मृतः ॥

ईर्ष्याषण्डादयो ये ऽन्ये चत्वारः समुदाहृताः ।

त्यक्तव्यास् ते पतितवत् क्षतयोन्यो ऽपि च स्त्रियः ॥

आक्षिप्तमोघबीजाभ्यां कृते ऽपि पतिकर्मणि ।

पतिर् अन्यः स्मृतो नार्या वत्सरार्धं प्रतीक्षते ॥

शालीनस्यापि धृष्टस्त्रीसंयोगाद् भ्रश्यते ध्वजः ।

तं हीनवेगवन्तं स्त्री लालनाभिर् उपाचरेत् ॥

अन्यस्यां यो मनुष्यः स्याद् अमनुष्यः स्वयोषिति ।

लभेत सान्यं भर्तारम् एतत् कार्यं प्रजापतेः ॥

[३७] अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनो नराः ।

क्षेत्रं बीजवते देयं नाबीजी क्षेत्रम् अर्हति ॥

“सुबद्धं” सुश्लिष्टम् । “जत्रुः” ग्रीवास्कन्धयोः सन्धिः । “घाटा” ग्रीवायाः पश्चाद् भागः । “निसर्गषण्ढः” लिङ्गवृषणहीन् एवोत्पन्नः । “बद्धः” गालिताण्डः । “पक्षषण्ढो” यस पक्षान्तरिता रतिशक्तिः । “गुरोर् अभिशापात्” एकः, “देवक्रोधात्” देवनिन्दाजानितात् क्रोधात् । “ईर्ष्याषण्ढः” स्वस्त्रीविषये ईर्ष्यया स्तम्भितरेताः । “सेव्यः” स्त्रिया बहुप्रकारं सेव्यमानो ऽपि गतरिरंसो ऽजातरिरंसः । “वातरेतो” यस्य रताने लिङ्गेन वातनिःसरणमात्रम् । “मुखेभगः” यः परमुख एव भगकार्यं करोति । “आक्षिप्तरेताः” विसर्गसमये यस्य रेतः प्रत्यक् प्रवर्तते । “मोघबीजः” यस्य गर्भाधानसमर्थं रेतो न भवति । “शालीनः” यस्य धृष्टस्त्रीसन्निधानात् लिङ्गपातः । “अन्यापतिः” यस्य स्वभार्याव्यतिरिक्तायाम् एव योषिति पुंस्थ्वम् । “मासम् आचरेत्” मसं यावत् प्रतीक्षेत । एतेभ्यः पूर्वज्ञातेभ्यो न कन्य देया । यदि वाज्ञानाद् दद्यात् तदा चिकित्स्येषु चिकित्सां यावत् प्रतीक्षेत, अचिकिस्येषु तु [तदा दत्ताप्य् आच्छिद्य] अन्यस्मै देयेति ।

[३८]

अथ दारानुकल्पः

तत्र मनुः

सवराण्ग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।

कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशो वराः ॥

शूद्रस्य भार्या शूद्रैव सा च स्वा च विशः स्मृतः ।

ते च स्वा चैव राज्ञस् तु ताश् च स्वा चाग्रजन्मनः ॥

अयम् अर्थः — सजातीयकन्याप्राप्तौ सत्यां सैव प्रशस्ता प्रथमकल्पे । तदलाभे च सकामस्य क्रमेण इमाः क्षत्रविट्शूद्रकन्या विवाह्याः । तत्रापि पूर्वपूर्वाभावे उत्तरोत्तरा विवाह्याः । निष्कामस् तु यद्य् आश्रमे ऽसमर्थः स्नातकव्रतैर् एव वर्तेत ।

तथा च पैठीनसिः

    अलाभे कन्यायाः स्नातकव्रतं चरेत् । अपि वा क्षत्रियायां पुत्रम् उत्पादयेत् । वैश्यायां शूद्रायां वेत्य् अन्य इति ।

यमः

भार्याः स्वान्याश् च सर्वेषां धर्मः प्राथमकल्पिकः ।

[३९] आनुपूर्व्येण भार्याः स्युश् चतस्रो ब्राह्मणस्य तु ॥

क्षत्रियस्यानुपूर्व्येण तिस्रो ज्ञेया वराः स्त्रियः ।

वैश्यस्य चावरे धर्म्ये द्वे भार्ये चाब्रवीन् मनुः ॥

शूद्रः स्वजातिं विन्देत तास्व् अपत्यं समं भवेत् ।

समत्वं च पुत्रोत्पत्तिनिमित्तपैतृकऋणापाकरणाभिप्रायम् ।

अत्र साजात्यानन्तरं नारदः

ब्राह्मणस्यानुलोम्येन स्त्रियो ऽन्यास् तिस्र एव तु ।

शूद्रायाः प्रातिलोम्येन तथान्ये पतयस् त्रयः ॥

द्वे भार्ये क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता ।

वैश्याया द्वौ पती ज्ञेयाव् एको ऽन्यः क्षत्रियः पतिः ॥

“अन्या” अन्यजातीया वैश्यस्य एकानेति शेषः । वैश्याया द्वौ पती ज्ञेयाव् अन्याव् इति शेषः ।

वसिष्ठः

    तिस्रो ब्राह्मणस्य भार्या वर्णानुपूर्वेण, द्वे राजन्यस्य, **[४०]** एकैका वैश्यशूद्रयोः । शूद्रायाम् अप्य् एके मन्त्रवर्जम्, तत्र न तथा कुर्याद् अतो हि ध्रुवः कुलापकर्षः प्रेत्य चास्वर्गः ।

याज्ञवल्क्यः

यद् उच्यते द्विजातीनां शूद्राद् दारोपसङ्ग्रहः ।

नैतन् मम मतं यस्मात् तत्रास्माज् जायते स्वयम् ॥

विष्णुः

द्विजस्य भार्या शूद्रा तु धर्मार्थं न भवत् क्वचित् ।

रत्यर्थम् एव सा तस्य रागान्धस्य प्रकीर्तिता ॥

“रत्यर्थम् एव” इति । न तु सहधर्मचारिणी भवतीत्य् अर्थः ।

मनुः

न ब्राह्मणक्षत्रिययोर् आपद्य् अपि हि तिष्ठतोः ।

कस्मिंश्चिद् अपि वृत्तान्ते शूद्रा भार्योपपद्यते ॥

श्राद्धादिधर्मकार्यार्थम् इति शेषः ।

मनु-विष्णू

हीनजातिस्त्रियं मोहाद् उद्वहन्तो द्विजातयः ।

कुलान्य् एव वहन्त्य् आशु ससन्तानानि शूद्रताम् ॥

मनुः

शूद्रावेदी पतत्य् अत्रेः उतथ्यतनयस्य च ।

गौतमस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥

शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोगतिम् ।

जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥

“उतथ्यतनयस्य” गौतमस्य मतम् इत्य् अध्याहारः सर्वत्र ।

शङ्खः

आपद्य् अपि न कर्तव्या शूद्रा भार्या द्विजेन तु ।

[४२] यस्मात् तस्यां प्रसूतस्य निष्कृतिर् न विधीयते ॥

तपस्वी यज्ञशीलश् च सर्वधर्मभृतां वरः ।

ध्रुवं शूद्रत्वम् आप्नोति शूद्रश्राद्धे त्रयोदशे ॥

नीयते तु सपिण्डत्वं येषां शूद्रः कुलोद्भवः ।

सर्वे शूद्रत्वम् आयान्ति यदि स्वर्गजितस् तु ते ॥

सपिण्डीकरणं कार्यं कुलजस्य तथा ध्रुवम् ।

श्राद्धद्वादशकं कृत्वा श्राद्धे प्राप्ते त्रयोदशे ॥

सपिण्डीकरणानर्हो न च शूद्रस् तथा द्रुवः ।

तस्मात् सर्वप्रयत्नेन शूद्रां भार्यां विवर्जयेत् ॥

यमः

ब्राह्मणो वृषलीं गत्वा त्र्यहं भवति सूतकी ।

अथास्यां गर्भम् आधत्ते ब्राह्मण्याद् एव हीयते ॥

न ब्रह्महा ब्रह्महा वै ब्रह्महा वृषलीपतिः ।

यस् तत्र जायते गर्भः स तेन ब्रह्महा भवेत् ॥

[४३] हारीतः

ब्राह्मणो वृषलीं गत्वा सद्यो गच्छेद् अधोगतिम् ।

अथास्यां गर्भम् आधत्ते पतत्य् आशु न संशयः ॥

ब्रह्महा न भवत्य् अन्यो ब्रह्महा वृषलीपतिः ।

यस् तस्याम् आहितो गर्भः स तेन ब्राह्मणो हतः ॥

उशनाः

निष्कृतिः स्यात् सुरापस्य हत्वा वा ब्रह्मवादिनम् ।

वृषल्यभिप्रजातस्य निष्कृतिर् नोपपद्यते ॥

मनु-यम-हारीताः

वृषलीपीतफेनस्य निश्वासोपहतस्य च ।

तस्यां चैव प्रसूतस्य् निष्कृतिर् न विधीयते ॥

“पीतफेनस्य” पीतमुखासवस्य ।

उशनाः पतति वृषलीपतिर् इत्य् आचक्षते । न पततीत्य् एके । ब्राह्मणकल्पविहिताश् चतस्र आनुपूर्व्येण भार्या भवन्तीति **वसिष्ठ **आह । पतति न पततीति संशयः । वृषल्या पततीति हारीतः । सुतजननात् पततीति **शौनकः **। [४४] तदपत्यैः पततीति गौतमः

हारीतः

    अधो ऽवर्णेषु प्रजायमानः पतति न पततीति संशयः । न क्षत्रियविशोर् यज्ञसंयोगाद् वृषल्यां यः प्रजायते स पतति गमनाद् अधस्तरां वर्णक्षये सर्वान् एव जनयन् न दुष्यति ।

अत्रायं प्रकरणार्थः — द्विजातीनां सजातीयकन्याया अलाभे उत्तरोत्तरविजातीया अपि क्रमेण विवाह्याः । तथा अधिवेदननिमित्ते सति पूर्वभार्यामरणे च सत् सवर्णाया अलाभे सति उत्तरोत्तरा विवाह्याः ।

तद् उक्तं ब्रह्मपुराणे

क्षत्रविऋशूद्रकन्यास् तुन् अ विवाह्या द्विजातिभिः ।

विवाह्या ब्राह्मणी पश्चाद् विवाह्याः क्वचिद् एव तु ॥

“क्वचिद् एव” इति क्वचिद् अधिवेदननिमित्ते दारमरणे वा सति । शूद्रायां त्व् अयं विशेषः — यदीतरासु प्रजाया असम्भवे प्रजोत्पत्तिमात्रार्थं सापि विवाह्या । वर्णक्षये वा [४५] सर्वान् एव जनयन् न दुष्यतीति हारीतवचनम् । सहधर्मचारिणी तु तदापि सा न भवतीति, “धर्मार्थं न भवेद्” इति विष्णुवचनात् । शूद्राविवाहनिषेधस् तु इतरासां लाभे । यस् तु शूद्राविवाहे पुत्रपौत्रजनने च निन्दार्थवादः सो ऽप्य् एवंविधविवाहविषयः । निन्दाविशेषश्रवणं तु दोषभूय्स्त्वप्रतिपादनार्थम् ।

इति दारानुकल्पपर्व

अथ कन्यावरयोः क्रमनिर्णयः

तत्र विष्णुपुराणे

वर्षैर् एकगुणां भार्याम् उद्वहेत् त्रिगुणः स्वयम् ।

मनु-यमौ

त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् ।

त्र्यष्टवर्षो ऽष्टवर्षां वा धर्म सीदति सत्वरः ॥

महाभारते

त्रिंशद्वर्षः षोडशवर्षां भार्यां विन्देत नग्निकाम् ।

एकविंशतिवर्षो वा सप्तवर्षाम् अवाप्नुयात् ॥

[४६] तद् अयम् एषां वचनानाम् अर्थः — अष्टवर्षपर्यन्ता कन्य त्रिगुणवयसैव विवाहिता । उपरि तु द्वादशवर्षपर्यन्ता न्यूनत्रिगुणवयसा वा । द्वादशवर्षोपरि षोडशवर्षपर्यन्ता सार्धद्विगुणत्रिगुणकिञ्चिन्न्यूनत्रिगुणवयसा विवाहिता प्रशस्ततरा भवति । अल्पवयस्कमात्रेण विवाहितापि पत्नी भवति । न तु सम्यक् प्रजार्थं भवति । धर्म ऽपि सीदति सति सत्वरो ऽपि यवीयसीत्वमात्रादरेण विवाहं कुर्याद् इति ।

अथ कन्यादातृनिरूपणम्

तत्र याज्ञवल्क्यः

पिता पितामहो भ्राता सकुल्यो जननी तथा ।

कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥

विष्णुः

    पिता पितामहो भ्राता सकुल्यो मातामहो माता चेति कन्याप्रदाः । पूर्वपूर्वाभावे प्रकृतिस्थः परः परः । इति ।

[४७] “प्रकृतिस्थः” पातित्योन्मादादिदोषरहितः ।

**कात्यायनः **।

स्वयम् एवौरसीं दद्यात् पिताभावे स्वबान्धवाः ।

मातामहस् ततो ऽन्यां हि माता वा धर्मजां सुताम् ॥

“बान्धवाः” अत्र स्मृत्यन्तरोक्ताः कन्याप्रदानाधिकारिणः पितामहादयो विवक्षिताः । “अन्यां” अनौरसीं । “धर्मजां” नियोगोत्पादिताम् ।

तथा

दीर्घप्रवासमुक्तेषु पोगण्डेषु च बन्धुषु ।

माता तु समये दद्याद् औरसीम् अपि कन्यकाम् ॥

“पोगण्डो” व्यवहारासमर्थः । “समये” कन्यादानोचिते कले ।

अथ कन्यास्वयंवरः

तत्र नारदः

यदा तु नैव कश्चित् स्यात् कन्य राजानम् आव्रजेत् ।

अनुज्ञया तस्य वरं परीक्ष्य वरयेत् स्वयम् ॥

[४८] सवर्णम् अनुरूपं च कुलरूपवयःश्रुतैः ।

सह धर्मं चरेत् तेन पुत्रांश् चोत्पादयेत् ततः ॥

“ततः” तस्मात् वरात् ।

**याज्ञवल्क्यः **।

गम्यं त्व् अभावे दातॄणां कन्य कुर्यात् स्वयंवरम् ।

“गम्यं” कुलशीलादिभिर् गमनार्हम् ।

मनुः

त्रीणि वर्षाण्य् उपासीत कुमार्य् ऋतुमती सती ।

ऊर्ध्वं तु कालाद् एतस्माद् विन्देत सदृशं पतिम् ॥

अदीयमाना भर्तारम् अधिगच्छेत् स्वयं तथा ।

नैनः किञ्चिद् अवाप्नोति न च यं साधिगच्छति ॥

अलङ्कारं नाददीत पितृदत्तं स्वयंवरा । 

मातृतो भ्रातृदत्तं वा स्तेयं स्याद् यदि तं हरेत् ॥

पित्रे न दद्याच् छुल्कं तु कन्याम् ऋतुमतीं हरन् ।

स हि स्वाम्याद् अतिक्रामेद् ऋतूनां प्रतिरोधनात् ॥

[४९] “एनः” बन्धकीत्वनिबन्धनम् ।

**बौधायनः **।

त्रीणि वर्षाण्य् ऋतुमती काङ्क्षेत पितृशासनम् ।

ततश् चतुर्थे वर्षे तु विन्देत सदृशं पतिम् ॥

अविद्यमाने सदृशे गुणहीनम् अपि श्रयेत् ।

विष्णुः

ऋतुत्रयम् उपास्यैव कन्य कुर्यात् स्वयंवरम् ।

ऋतुत्रये व्यतीते तु प्रभवत्य् आत्मनः सदा ॥

पिट्देश्मनि या कन्य रजः पश्यत्य् अस्ंस्कृता ।

सा कन्य वृषली ज्ञेया हरंस् तां न च दुष्यति ॥

गौतमः

    त्रीन् कुमार्य् ऋतून् अतीत्य स्वयं युज्येतानिन्दितेनोत्सृज्य पित्र्यान् अलङ्कारान् । प्रदानं प्राग् ऋतोः अप्रयच्छन् दोषी । प्राक् वाससः प्रतिपत्तेर् इत्य् एके । 

[५०] यमः

कन्य द्वादश वर्षाणि याप्रदत्ता वसेद् गृहे ।

भ्रूणहत्या पितुस् तस्याः सा कन्या वरयेत् स्वयम् ॥

एवं चोपनतां पत्नीं नावमन्येत् कदाचन ।

तां कन्यां बन्धकीं विद्यान् मनुः स्वायम्भुवो ऽब्रवीत् ॥

इदं च वर्षत्रयप्रतीक्षणं पित्रादीनां केनचित् कारणेन यत्नवताम् अपि दानासम्पत्तौ, ऋतुत्रयप्रतीक्षणं यथोक्तवरसम्पत्ताव् अपि पित्रादिनाम् उपेक्षायाम्, “तुल्यैः सकामाम् अपि याच्यमानाम्” इत्यादिवसिष्ठवचनात् ।

तथा

कन्य नर्तुम् उपेक्षेत बान्धवेभ्यो निवेदयेत् ।

न ते दद्युश् च तां सर्वे ते स्युर् भ्रूणहभिः समाः ॥

“भ्रूणो” ऽत्र गर्भः ।

वसिष्ठः

पितुः प्रमादात् तु यदीह कन्य

[५१] वयःप्रमाणं समतीत्य तिष्ठेत् ।

सा हन्ति दातारम् अदीयमाना

	कालातिरिक्ता गुरुदक्षिणेव ॥

“कालातिरिक्ता” अतिक्रान्तदानकाला यथा गुरोर् दक्षिणा अदीयमाना दातारं हन्ति पापोत्पत्तिनिमित्तं भवति तथेत्य् अर्थः ।

तथा

प्रयच्छेन् नग्निकां कन्यां ऋतुकालभयात् पिता ।

ऋतुमत्यां हि तिष्ठत्यां दोषः पितरम् ऋच्छति ॥

यावत् तु कन्याम् ऋतवः स्पृशन्ति

	तुल्यैः सकामाम् अपि याच्यमानाम् ।

भ्रूणानि तावन्ति हतानि तासां

	मातापितृभ्याम् इति धर्मवादः ॥

“तुल्यैः” कुलादिना ।

बौधायनः

दद्या गुणवते कन्यां नग्निकां धर्मचारिणीम् ।

[५२] अपि वा गुणहीनाय नोपरुन्ध्याद् रजस्वलाम् ॥

“गुणहीनाय” कुलीनशीलरूपवत्त्वादिभिर् गुणैर् रहितायापि तथापि (?) ।

तथा

त्रीणि वर्षाण्य् ऋतुमतीं यः कन्यां न प्रयच्छति ।

स तुल्यं ब्रह्महत्याया दोषम् ऋच्छत्य् असंशयम् ॥

“ऋच्छति” प्राप्नोति ।

न याचते चेद् एवं स्याद् याचते चेत् पृथक् पृथक् ।

एकैकस्मिन् ऋतौ दोषं पातकं **मनुर्** अब्रवीत् ॥

अयम् अर्थः — यदि कश्चिद् अपि कन्यां न याचते, तदा वर्षत्रयेण भ्रूणहत्या । अथ तुल्यरूपाय याचमानाय न ददाति, तदा प्रत्यृतु ब्रह्महत्या । पातकं चात्र भ्रूणहत्यादोष एवेति ।

अत्रि-कश्यपौ

पितुर् गेहे तु या कन्य रजः पश्येद् असंस्कृता ।

भ्रूणहत्या पितुस् तस्याः सा कन्य वृषली स्मृता ॥

यस् तु तां वरयेत् कन्यां ब्राह्मणो ज्ञानदुर्बलः ।

अश्रद्धेयम् अपाङ्क्तेयं तं विद्याद् वृषलीपतिम् ॥

[५३] पैठीनसिः

    यावन् नोद्भिद्यतः स्तनौ तावद् एव देया । अथ ऋतुमती भवति दाता प्रतिग्रहीता च नरकं प्राप्नोति । पिता पितामहश् चेति विष्ठायां जयते कृमिः । तस्मान् नग्निका दातव्या ।

अङ्गिराः

अनवाप्तरजा गौरी प्राप्ते रजसि रोहिणी ।

अव्यञ्जनकुचा श्यामा कुचहीना तु नग्निका ॥

“अव्यञनकुचा” इति । अविद्यमानौ व्यञ्जनकुचौ यस्याः सा तथा । अनुद्भिन्नरोमस्तनेत्य् अर्थः ।

तथा

व्यञ्जनेषूपयुक्तेषु सोमो भुङ्क्ते तु कन्यकाम् ।

पयोधरे तु गन्धर्वो वह्निर् भुङ्क्ते रजस्वलाम् ॥

तस्माद् अव्यञ्जनोपेताम् अरजस्कपयोधराम् ।

अनुपभुक्तां सोमाद्यैर् दद्याद् दुहितरं पिता ॥

“व्यञ्जनानि” उद्भूतव्यञ्जनानि लोमानि ।

[५४] संवर्तः

रोमकाले तु सम्प्राप्ते सोमो भुञ्जीत कन्यकाम् ।

रजःकाले तु गन्धर्वो वह्निर् भुङ्क्ते रजस्वलाम् ॥

तस्माद् उद्वाहयेत् कन्यां यावन् नर्तुमती भवेत् ।

विवाहस् त्व् अष्टवर्षायाः कन्यायाः शस्यते बुधैः ॥

**कश्यपः **।

सप्तवर्षा भवेद् गौरी दशवर्षा तु कन्यका ।

सम्प्राप्ते द्वादशे वर्षे कुमारीत्य् अभिधीयते ॥

भुञ्जीत व्यञ्जने सोमो गन्धर्वास् तु पयोधरे ।

वलिमार्गागमे वायू रजस्य् अग्निः प्रतिष्ठितः ॥

तस्माद् अव्यञ्जनोपेताम् अरजस्कपयोधराम् ।

नोपभुक्तां तु सोमाद्यैर् दद्याद् दुहितरं पिता ॥

व्यज्ञनेषु कुलं हन्यात् पितॄन् हन्यत् पयोधरे ।

हन्याद् इष्टं च पूर्तं च प्राप्ते रजसि कन्यका ॥

भविष्यपुराणे

अप्राप्तरजसा गौरी प्राप्ते रजसि रोहिणी ।

अव्यञ्जनकुचा कन्य कुचहीना तु नग्निका ॥

[५५] सप्तवर्षा भवेद् गौरी दशवर्षा तु नग्निका ।

द्वादशे तु भवेत् कन्य अत ऊर्ध्वं रजस्वला ॥

सप्तवर्षैव गौरी च मुख्या । “अनवाप्तरजा गौरी” इत्य् एतद् अप्य् एतत्परम् ।

विवाहस् त्व् अष्टवर्षायाः कन्यायाः शस्यते बुधैः ।

इति संवर्तवचनम् अपि सप्तमस्यैव गर्भाष्टमत्वात् तत्परम् एव । “नग्निका तु मुख्या, प्राग् वाससः प्रतिपत्तेर्” इति गौतमवचनात् परिधानानभिज्ञा । दशवर्षा कुचहीना च सा विवाहे दोषाभावप्रतिपादनार्थं परिभाषीता । प्रशस्यते तु पूर्वोक्तैव ।

अतो ऽप्रवृत्ते रजसि कन्यां दद्यात् पिता सकृत् ।

महद् एनः स्पृशेद् एनम् अन्यथैष विधिः सताम् ॥

रजःप्रवृत्तेः पूर्वं देयेति “सतां विधिः” धर्मः । “अन्यथा” रजःप्रवृत्तौ दानाद् एनं दातारं महत् पापं स्पृशेद् इत्य् अर्थः ।

[५६] मनु-कात्यायन-बृहस्पतयः

सकृद् अंशो निपतति सकृत् कन्य प्रदीयते ।

सकृद् आह ददामीति त्रीण्य् एतानि सकृत् सकृत् ॥

यथा “अंशो” दायभागः “सकृन् निपतति” क्रियते, यथा च गवादिद्रव्यम् प्रयच्छन् ददानीति सकृद् आह, एवं कन्यादाने ऽपि ।

नारदः

ब्राह्मादिषु विवाहेषु पञ्चस्व् एष विधिः स्मृतः ।

गुणापेक्षं भवेद् दानम् आसुरादिषु च त्रिषु ॥

अयम् अर्थः — “ब्राह्मादिषु” सगन्धर्वेषु “एष” सकृद्दानरुपप्रकारः । आसुरराक्षसपैशाचेषु तु विवाहिताप्य् आच्छिद्यान्यस्मै देयेत्य् अर्थः ।

[५७] तथा

कन्यायां प्राप्तशुल्कायां श्रेयांश् चेद् चर आव्रजेत् ।

धर्मार्थकामसंयुक्तं वाक्यं तत्रानृतं भवेत् ॥

“शुल्कम्” मूल्यम्, आसुरविवाहविषयम् एतत्, विवाहत्रयोपलक्षणं चैतत् शुल्कस्य सर्वत्रासम्भवात् । “धर्मार्थकामसंयुक्तं वाक्यं” इयं कन्य तुभ्यं मया दातव्येति । प्रतिश्रव इति पाठान्तरम् । “धर्म चार्थे च कामे च नातिचरितव्यम्” इति एवम् एतत् ।

याज्ञवल्क्यः

सकृत् प्रदीयते कन्य हरंस् तां चौरदण्डभाक् ।

दत्ताम् अपि हरेत् पूर्वं श्रेयांश् चेद् वर आव्रजेत् ॥

तथा

दत्तां कन्यां हरन् दण्ड्यः व्ययं दद्याच् च सोदयम् ।

“श्रेयान्” वक्ष्यमाणवरदोषरहितः । “सोदयं” सलाभम् ।

मनुः

न दत्वा कस्यचित् कन्यां पुनर् दद्याद् विचक्षणः ।

[५८] दत्वा पुनः प्रयच्छंस् तु प्राप्नोति पुरुषानृतम् ॥

एवं च न परे चक्रुर् नापरे जातु साधवः ।

यद् अन्यस्याभ्यनुज्ञाय पुनर् अन्यस्य दीयते ॥

“पुरुषानृतम्” च पुरुषविषये अनृतवचनेन यत् पापम् ।

शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ।

इत्य् अत्रोक्तम् । “अभ्यनुज्ञाय” दातुं प्रतिज्ञाय ।

**कश्यपः **।

पिता वा यदि वा माता भ्राता वा यदि देवरः ।

कन्यानृतकरा मूढा यां गतिं यान्ति तां शृणु ॥

अनिवर्ती यथा श्येनो गच्छत्य् एव यथानिलः ।

एवं नरकम् आयान्ति कन्यानृतकरा नराः ॥

“इतरो” ऽत्र दानाधिकारी । “कन्यानृतकराः” कन्यादानविषये असत्यवादिनः ।

**कात्यायनः **।

अनेकेभ्यो ऽपि दत्तायाम् अनूढायां तु यत्र वै ।

वरागमश् च सर्वेषां लभेतादिवरस् तु ताम् ॥

पश्चाद् वरेण यद् दत्तं तस्याः प्रतिलभेत यः ।

[५९] अथ गच्छेद् अनूढाया दत्तं पूर्वं वरो हरेत् ॥

अनेकेभ्यो धनग्रहणपूर्वकं दातुं प्रतिज्ञाय तस्याम् अनूढायां यत्र बहूनां वराणाम् आगमः तत्र सर्वेषां आद्यो यः प्रथमो वरः स तां कन्यां लभेत । अन्ये तु वरं दत्तं मलयं (?) लभेरन्न् इत्य् अर्थः ।

नारदः

प्रतिगृह्य च यः कन्यां नरो देशान्तरं व्रजेत् ।

त्रीन् ऋऊन् समतिक्रम्य सा चान्यं वरयेद् वरम् ॥

“प्रतिगृह्य” वाग्दत्तां स्वीकृत्य ।

कात्यायनः

प्रदाय शुल्कं गच्छेद् यः कन्यायाः स्त्रीधनं तथा ।

धार्या सा वर्षम् एकं तु देयान्यस्मै विधानतः ॥

अथ प्रवृत्तिर् आगच्छेत् प्रतीच्छेत समात्रयम् ।

अत ऊर्ध्वं प्रदातव्या कन्यान्यस्मै यथेच्छतः ॥

पूर्वं दात्ता तु या कन्य अन्येनोढा यदा भवेत् ।

[६०] संस्कृतापि प्रेदेया स्याद् यस्मै पूर्वं प्रतिश्रुता ॥

अन्यदत्ता तु या कन्य वरेणोढा यदा भवेत् ।

कालेन विधिना तां तु संस्कृतां लभते **भृतुः** ॥

“स्त्रीधनं” मुद्रिकादि । “प्रवृत्तिः” क्षेमवार्त्ता । इदं च विवाहिताया अपि पूर्ववराय पुनर् दानम् अनन्तरोक्तप्रतीक्षणकालाद् अर्वाग् बोद्धव्यम् ।

यमः

वाचा दत्ता तु या कन्य यदि तस्या वरो मृतः ।

न च मन्त्रोपपन्ना या कन्यका पितुर् एव सा ॥

अत्र मन्त्रोपपत्तिः पाणिग्रहणम् एव संस्कारः ।

वसिष्ठः

अद्भिर् वाचा च दत्तायां म्रियेतोर्ध्वं वरो यदि ।

[६१] न च मन्त्रोपनीता स्यात् कुमारी पितुर् एव सा ॥

मनुः

कन्यायां दत्तशुक्लायां म्रियते यदि शुक्लदः ।

देवराय प्रदातव्या यदि कन्य तु मन्यते ॥

नियोगविध्यनन्तरं **मनुः **।

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।

ताम् अनेन विधानेन निजो विन्देत देवरः ॥

यथाविध्य् अधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।

मिथो भजेताप्रसवात् सकृत् सकृद् ऋताव् ऋतौ ॥

“यथाविधि” यथागृह्यशास्त्रम् । “शुचिव्रतत्वं” वागादिनियमः ।

अथ नारदः

प्रतिगृह्य तु यः कन्याम् अदुष्टाम् उत्सृजेन् नरः ।

विनेयः सो ऽप्य् अकामो ऽपि कन्यां ताम् एव चोद्वहेत् ॥

कन्यादोषे ऽफलं दानं दातुः षण्णवतिर् दमः ।

[६२] शुल्कप्रदानस्य च तथा कन्यायाश् च निवर्तनम् ॥

गूहयित्वात्मनो दोषान् अर्थतो द्विगुणो ऽत्ययः ।

वरस्य दत्तनाशश् च भवेत् स्त्री च निवर्तते ॥

“अत्ययः” दण्डः । “दत्तनाशो” दत्तशुल्कस्य नाशः ।

अत्र कात्यायनः

वरो दोषम् अनाख्याय पाणिं गृह्णाति यो नरः ।

याचनं वा प्रकुर्वीत तद् दत्तं नाप्नुयात् सुतः ॥

कन्यादोषे ऽप्य् अयं धर्मो दाता दण्ड्यो वरस् तथा ।

दद्याद् गृहीतं दाता च न त्व् एवाभिप्रजातयोः ॥

“दाता दण्ड्यो वरस् तथा” इति कन्यादोषे ऽनाख्याते दाता दण्ड्यः, वरदोषे वरो दण्ड्य इत्य् अर्थः । “अभिप्रजातयोः” प्रस्तुतयोः ।

सुमन्तुः

    कन्या कुत्सितान्यजातिकर्मशीलव्याध्युपहता परि**[६३]**णीतापि अक्षतयोनिश् चेत् परित्यक्तव्या । क्षतयोनिस् तु भर्तव्या । वरो ऽप्य् एभिर् एव दोषैर् युक्तः परित्यक्तव्यो भवति ।

“कुत्सिता” लक्षणादिहीना । “अन्यजातिः” वरापेक्षया । “कर्मोपहता” पातकदुष्टा । “शीलोपहता” दुःशीला । “व्याधुपहता” कुष्टादियुक्ता ।

नारद-कात्यायनौ

नादुष्टां दूषयेत् कन्यां नादुष्टं दूषयेद् वरम् ।

दोषे सति न दोषः स्याद् अन्योन्यं त्यजतोस् तयोः ॥

“दोषे” कुष्ठादौ । “दोषः” पापम् ।

मनुः

विधिवत् प्रतिगृह्यापि त्यजेत् कन्यां विगर्हिताम् ।

व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥

“विधिवत्” उदकादिपूर्विकाम् । “विगर्हितां” दुर्लक्षणाम् । “विप्रदुष्टां” अन्यगतभावाम् । “छद्मना” अन्यकन्योपदर्शनपूर्वकान्यकन्यादानादिप्रकारेण ।

[६४] तथा

पाणिग्रहणिका मन्त्राः कन्यास्व् एव प्रतिष्ठिताः ।

नाकन्यासु क्वचिन् नॄणां लुप्तमन्त्रक्रिया हि ताः ॥

उन्मत्ता या न कुष्ठिन्या न च या स्पृष्टमैथुना ।

पूर्वदोषान् अविख्याप्य प्रदाता दण्डम् अर्हति ॥

“प्रतिष्ठिताः” विनियुक्ताः संस्काराद्यैः । “अकन्यासु” दोषवतीषु ।

अथ स्त्रीपुरुषसम्बन्धः

तत्र नारदः

स्त्रीपुंसयोस् तु सम्बन्धाद् वरणं प्राग् विधीयते ।

वरणाद् ग्रहणं पाणेः सम्बन्धो हि द्विलक्षणः ॥

“सम्बन्धात्” पाणिग्रहणलक्षणात् । “वरणं” –

सुहृदः समवेतान् मन्त्रवतो वरान् प्रहिणुयात्,

इत्य् आपस्तम्बगृह्योक्तम् । “द्विलक्षणः” द्विप्रकारः ।

**तथा **।

तयोर् अनियतं प्रोक्तं वरणं दोषदर्शनात् ।

[६५] पाणिग्रहणिका मन्त्र नियतं दारलक्षणम् ॥

“अनियतं” तयोः भार्यात्वनियमापादकम् । “दोषदर्शनात्” क्लीबादिदोषाणां कन्याप्रत्यावृत्तेः शास्त्रे दर्शनात् । “पाणिग्रहणिका मन्त्राः” विवाहप्रयोगाङ्गभूताः “गृह्णामि ते सौभगत्वाय हस्तम्” इत्यादयः ।

मनुः

मङ्गलार्थं स्वस्त्ययनं यज्ञश् चासां प्रजापतेः ।

प्रपूज्यन्ते विवाहेषु प्रदानं स्वाम्यकारणात् ॥

“स्वस्त्ययनं” – “स्वस्ति भवन्तो ब्रुवन्तु” इत्यादि, “दशास्यां पुत्रान् आधेहि पतिम् एकादशं कृधि” इत्यादि च । “प्रजापतेर् यज्ञः” प्रजापतिदेवताकं कर्म । “विवाहेषु” विवाहे यत् क्रियते मङ्गलार्थम् अशुभलक्षणदोषनिरासार्थम् । “प्रदानं स्वाम्यकारकम्” इति । प्रदानेनैव कन्यावरयोः स्वस्वामिसम्बन्धो जायते । पितुश् च स्वाम्यं निवर्तते ।

[६६] अत्र मनु-कात्यायनौ

पाणिग्रहणिका मन्त्र नियतं दारलक्षणम् ।

तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥

“निष्ठा” परिसमाप्तिः । समाप्तिश् चात्र भार्यात्वनिष्पादकत्वरूपा । “सप्तमे पदे” सप्तमं पदं प्राप्तवत्यां कन्यायाम् इत्य् अर्थः ।

अत्र यमः

नोदकेन नव् आ वाचा कन्यायाः पतिर् उच्यते ।

पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे ॥

“उदकेन” उदकपूर्वदानेन । “वाचा” वाग्दानेन ।

**हारीतः **।

    आसनाभिवादनोत्थानार्घ्यातिथ्यानि धर्मसाधनानि साधूनाम् एतेषां प्रदानं कन्याया अतिक्रमो न विद्यते, अन्यत्र याथातथ्यात् । क्लीबपतितप्रोषितप्रव्रजित-प्रमीतेषु मीमांसन्ते नोदकेन न वाचेति **प्रजापतिः** । स्नात्वा चेत् प्रतिगृह्णीयात् तस्य दद्याद् इत्य् <span style="text-decoration:underline;">एके मन्यन्ते</span>, तत्राकृत्स्नविधानात् सङ्ख्यायोगात् । पाणिग्रहणमन्त्रैर् <span style="text-decoration:underline;">अपरे</span> । तद् अप्य् आद्यानाम् अधोवर्णेषु त्रिषु शरप्रतोदयष्टिशान्तग्रहणात् **[६७]** सिद्धम् । तत्रापि न पाणिग्रहणेन जायात्वं, कृत्स्नं हि जानीयात् सप्तमे पदे जायापतित्वम् । 

“आसन”इत्यस्यायम् अर्थः — कन्यावरणार्थम् आगतानाम् अर्घ्यादिप्रदाने । “कन्याया अतिक्रमः” कन्यात्वस्य निवृत्तिः, वरान्तरदानानर्हत्वं न भवति । “अन्यत्र याथातथ्याद्” इति । याथातथ्यात् कन्यादानविषयसत्यवचनाद् अन्यत्र । अन्यत्र क्लीबादिषु सत्यवचने ऽपि कृते अतिक्रमो नास्तीत्य् उक्तम् “क्लीब”इत्यादिना । एतेषु च उदकपूर्वदाने, वाग्दाने च कन्यात्वनिवृत्तिः । यत् तु “अद्भिर् एव द्विजाग्राणाम्” इत्यादि, तद् दानोपक्रममात्रम् इति प्रजापतेर् मतम् । अन्ये तु विधिपूर्वकप्रतिग्रहेण दाननिष्पत्तिर् इति मन्यत इत्याह “स्नात्वा”इत्यादि । तद् अपि दूषयत् – “तत्र” इत्यादि । “अकृत्स्नविधानात्” विधेर् असम्पूर्णत्वात् । तत्र हेतुः – “सङ्ख्यायोगाद्” इति । स चोक्तो नारदेन [१२.२]:

वरणाद् ग्रहणं पाणेः स विवाहो द्विलक्षणः । इति ।

एवम् अप्य् अकृत्स्न इत्य् आह “पाणिग्रहण”इत्यादि ।

पाणिग्रहणिका मन्त्र नियतं दारलक्षणम् ।

इति मनौ [८.२२७] नियतशब्दप्रयोगात् पाणिग्रहणानन्तरं विवाहसम्पत्तिर् इत्य् अपरे । “तद् अप्य् आद्यानाम्” इत्यादि । आद्यानां ब्राह्मणानाम्, “अधोवर्णेषु” क्षत्रियादिषु यदि प्रतोदः । एतेषु पाणिग्रहनाभावे शङ्का न कार्या । पाणिग्रहणं कार्यम्, शरादिग्रहणस्य विधानात् सिद्धं पाणिग्रहणम् । एवम् अपि जायापतित्वं न सम्पूर्णम्, यथा सम्पूर्णं भवति तद् इदानीम् आह – “कृत्स्नं हि” इत्यादि । एतेन वरेण कन्यायाः सप्तमपदपर्यन्तनयनं मन्त्रवत् पाण्यादिग्रहणविशिष्टं द्विजाईनां [६८] प्रधानं विवाहकर्म । एत देव च जायात्वापादकम् । शूद्रस्य एतद् एवामन्त्रकम् ।

मनुः

पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।

असवर्णास्व् अयं ज्ञेयो विधिर् उद्वाहकर्मणि ॥

शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।

वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥

यमः

पाणिग्रहणसंस्कारह् सवर्णासु विधीयते ।

विवर्णासु यथा दृष्टं तथा वक्ष्याम्य् अनुक्रमम् ॥

वैश्या प्रतोदं गृह्णाति गृह्णाति क्षत्रिया शरम् ।

दशां गृह्णाति वै शूद्रा करान् वै वरवर्णिनी ॥

[“दशां” वस्त्रप्रान्तः । “करार्थे” पाणिग्रहणकार्ये ।]

अग्निपरिक्रमो ब्राह्मणस्योक्तः । राजन्यवैश्ययोर् आचार्यपरिक्रम इति । “परिकर्मः” प्रदक्षिणीकरणम् ।

[मनुः]

अद्भिर् एव द्विजाग्र्याणां कन्यादानं प्रशस्यते ।

[६९] इतरेषां तु वर्णानाम् इतरेतरकाम्यया ॥

“इतरेतरकाम्यया” कन्यावरयोः परस्परानुरागेण ।

पैठीनसिः

    साङ्गुष्ठं ब्राह्मण्याः पाणिं गृह्णीयात् । क्षत्रियायाः सशरम् । सप्रतोदं वैश्यायाः । शूद्राया [वस्त्रदशाम्] ।

बह्वृचगृह्यपरिशिष्टम्

कन्यां वरयमाणानाम् एष धर्मो विधीयते ।

प्रत्यङ्मुखा वरयन्ति प्रतिगृह्णन्ति प्राङ्मुखाः ॥

उभयस्यापि पक्षस्य पितापुत्रीम् अनुक्रमेत् ।

कन्यां ददति ये तत्र पिता पुत्री तथैव च ॥

“उभयस्यापि” पक्षस्य मातृपक्षस्य पितृपक्षस्य च । “अनुक्रमेत्” तृतीयपुरुषाद् आरभ्य क्रमेण कीर्तयेत् । “कन्यां ददति” इति । न केवलं यः कन्यां प्रार्थयिता स उभयपक्षस्य पितापुत्रीम् अनुक्रमेत्, किं तु ये ऽपि कन्यां ददति कन्यादातारस् ते ऽपि तथैव उभयपक्षस्य पितापुत्रीम् अनुक्रमेरन्न् इत्य् अर्थः ।

[७०]

अथ विवाहभेदाः

तत्र मनुः

चतुर्णाम् अपि वर्णानां प्रेत्य चेह हिताहितान् ।

अष्टाव् इमान् समासेन स्त्रीविवाहान् निबोधत ॥

“स्त्रीविवाहान्” इति स्त्रियाः संस्कार्यत्वाभिधानाम् ।

नारदः

अष्टौ विवाहा वर्णानां संस्कारार्थं प्रकीर्तिताः ।

ब्राह्मस् तु प्रथमस् तेषां प्राजापत्यस् तथैव च ॥

आर्षश् चैवाथ दैवश् च गान्धर्वश् चासुरस् तथा ।

राक्षसो ऽनन्तरस् तस्मात् पैशाचश् चाष्टमो ऽधमः ॥

एषां तु धर्म्याश् चत्वारो ब्राह्माद्याः समुदाहृताः ।

साधारणः स्याद् गान्धर्वस् त्रयो धर्म्यास् तथापरे ॥

[७१] “साधारणः” नोत्कृष्टो नापकृष्टः ।

नारदक्रमेण विवाहानन्तरं गौतमः

चत्वारो धर्म्याः प्रथमाः, षड् इत्य् एके ।

**हारीतः **।

    अथाष्टौ विवाहाः सम्भवन्ति । ब्राह्मो दैवो गान्धर्व आसुरो राक्षसः पैशाचो मानुषः क्षात्रश् चेति । तेषां पूर्वे सप्तोभयतः । तेषां विन्देतालाभे मानुषम् । 

“तेषां पूर्वे” इति । तेषां मध्ये पूर्वे आद्यास् त्रयो विवाहाः । “उभयतो” मातृपितृवंशजान् सप्त् सप्त तारयन्ति इति शेषः । “तेषां” त्रयाणाम् । “अल्श्भे मानुषं” लभेत ।

पुनर् हारीतः

एतेषाम् एकतमेनोढां धर्मपत्नीं प्राहुः ।

अत्र च यद्य् अपि सर्ववर्णानां सर्वविवाहानर्हता, तथापि यस्य यो विशेषेण विहितस् तेन तस्य धर्मपत्नी भवति ।

वसिष्ठः

षड् विवाहाः – ब्रह्मो दैव आर्षो गान्धर्वः क्षात्रो मानुषश् चेति ।

ब्राह्मार्षदैवगान्धवासुरराक्षसविवाहान् उक्त्वा आपस्तम्बः ।

तेषां त्रयः आद्याः प्रशस्ताः पूर्वः पूर्वः श्रेयान् ।

मनुर् यमश् च आद्ये ।

ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः ।

गान्धर्वो राक्षसश् चैव पैशाचश् चाष्टमो ऽधमः ॥

यो यस्य धर्म वर्णस्य गुणदोषौ च यस्य यौ ।

तद् वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥

षड् आनुपूर्व्या विप्रस्य क्षतस्य चतुरो ऽवरान् ।

विट्शूद्रयोस् तु तान् एव विद्याद् धर्म्यान् (?) अराक्षसान् ॥

चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।

राक्षसं क्षत्रियस्यैकम् आसुरं वैश्यशूद्रयोः ॥

पञ्चानां तु त्रयो धर्म्या द्वाव् अधर्म्ये (?) स्मृताव् इह ।

पैशाचश् चासुरश् चैव न कर्तव्यौ कदाचन ॥

पृथक् पृथग् वा मिश्रौ वा विवाहौ पूर्वचोदितौ ।

गान्धर्वो राक्षसश् चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥

[७३] “प्रसवे” अपत्ये । “गुणागुणान्” गुणदोषान् । “आनुपूर्व्या” उद्दिष्टक्रमेण । “प्रशस्तान्” विशिष्टादृष्टजनकान् । “अवरान्” आसुरगान्धर्वपैशाचान् अधस्तनान् । “पृथक् पृथक्” एकैकशः । “मिश्रौ” उभयलक्षणसङ्कीर्णौ । यथा कन्यावरयोर् अन्योन्यानुरागे च सत्य् एव पित्रा कन्यायाम् अदीयमानायां प्रसह्य हरणेन विवाहो गान्धर्वराक्षसयोः सङ्कीर्णत्वम् ।

पतिठीनसिः

    ब्राह्मप्राजापत्यार्षदैवा ब्रह्मणस्य, गान्धर्व आसुरो राजन्यस्य, राक्षसो वैश्यस्य, पैशाचः शूद्रस्य, सर्वेषाम् आर्षे प्रमाणम् ।

“आर्षं” देववाक्यम् ।

नारदक्रमेण विवाहाभिधानानन्तरं देवलः

एतान् सशुल्कान् सामान्यान् विवाहांश् चतुरो विदुः ।

केवलं क्षत्रियस्यैव प्रशस्तत्वाच् च राक्षसः ॥

[७४] तथैव बौधायनः

    तेषां चत्वारः पूर्वे ब्राह्मणस्य तेष्व् अपि पूर्वः पूर्वः श्रेयान् । इतरेषाम् उत्तरोत्तरः पापीयान् । तत्रापि षष्ठसप्तमौ क्षत्रधर्मानुगतौ तत्पूर्वकत्वात् क्षत्रस्य । पञ्चमाष्टमौ वैश्यशूद्रयोः । अयन्त्रितकलत्रा हि वैश्यशूद्रा भवन्ति । कर्षणशुश्रूषाधिकृतत्वात् । गान्धर्वम् अप्य् एके प्रशंसन्ति सर्वेषां स्नेहानुभवत्वात् । यथायुक्तो विवाहस् तथायुका प्रजा भवतीति विज्ञायते ।

“चत्वारः” प्रशस्ता इति शेषः । पूर्वपूर्वस्” त्व् अतिशयेन प्रशस्त इत्य् अर्थः । “इतरेषां” गान्धर्वादीनां उत्तरो ऽप्रशस्तः । “षष्ठसप्तमौ” आसुरराक्षसौ, “क्षत्रधर्मानुगतौ” क्षत्रियधर्मानुसारिणौ, तद्धर्मश् च धर्मप्रदानबलसम्पत्तिरूपः । स च पूर्वभूतो ऽरथः क्षत्रियस्यास्तीति विवाहद्वयसम्भवस् तस्य । “पञ्चमाष्टमौ” गान्धर्वपैशाचौ वैश्यशूद्रयोः । “अयन्त्रितकलत्राः” असङ्कोचितस्त्रीकाः । कलत्रम् अत्र स्त्रीमात्राणाम् । एतेन तयोः कन्य गान्धर्वपैशाचविवाहयोग्या भवन्ति । असङ्कोचितकलत्रत्वं च तयोः कर्षणशुश्रूषाधिकृतत्वात् । स्नेहानुगतत्वात् । सर्वेषां वर्णानां “यथायुक्तः” येन गुणेन दोषेण वा सम्बन्धः । “तथायुक्ता” तद्गुणदोषवती ।

[७५] मनुः

अनिन्दितैः स्त्रीविवाहैर् अनिन्द्या भवति प्रजा ।

निन्दितैर् निन्दिता नॄणां तस्मान् निन्द्यान् विवर्जयेत् ॥

अत्रेयं व्यवस्था नारदोक्ता — प्राजापत्यार्षदैवब्राह्माः ब्राह्मणस्य प्रशस्ताः । गान्धर्वस् तु तस्यैव धर्माविरोधी । आसुरस् तु यद्यपि तस्यैव **मनुना **धर्म उक्तः, तथापि गान्धर्वान् न्यूनः अत्यन्तापदि कार्यः,

पैशाचश् चासुरश् (?) चैव न कर्तव्यौ कथञ्चन ।

इति मनुनैवोक्तेः । राक्षसपैशाचौ तु ब्राह्मणेन कदाचिद् अपि न कर्तव्यौ, “षड् आन्य्पूर्व्या विप्रस्य” इत्य् अभिधानात् । यत् तु बौधायनेनार्षस्य दैवात् श्रेष्ठत्वम् उक्तम्, तत् सहधर्मचारितव्मात्रेण प्रजायाम्, तत्र **मनुना **दैवस्य श्रैष्ठ्याभिध्नात् । हारीतोक्तं तु गान्धर्वश्रेष्ठत्वं सर्वान् प्रति स्वयंवरगान्धर्वाभिप्रायम् । “स्वयं कन्य वरयेत् स गान्धर्वः” इति गान्धर्वाभिध्नात् । यस् तत्र पैठीनसि-हारीत-महाभारेतेषु राक्षसासुरक्षात्रपैशाचशब्दैर् बलाद् आहृतकन्याहरणाद् विवाहः प्रशस्त [७६] इत्य् उक्तम्, स क्षत्रियस्यैव । ब्राह्मदैवौ तु ब्राह्मणस्यैव नेतरेषाम्, महाभारते ब्राह्मविवाहम् अभिधाय

ब्राह्मणानां सताम् एष प्रोक्तो धर्मो युधिष्ठिर ।

इत्य् अभिधानात्, दैवस्य ऋत्विक्सम्प्रदानकत्वात्, क्षत्रियादीनां आर्त्विज्यासम्भवात् । पैशाचस् तु वैश्यशूद्रयोः । यत् तु वैश्यस्य राक्षसश्रैष्ठ्याभिधानं तद् आसुराभिप्रायम्, “शुक्लेन पाणिं त्व् आददतो राक्षसः” इति पैठीनसिवचनात् । आर्षपाजापत्यगान्धर्वाणां तु सर्वसाधारण्यं, अनिन्दितत्वात् योग्यत्वात् । सङ्करजातानां तु ब्राह्मदैवव्यतिरिक्तास् तत्तद्वर्णसम्बन्धेनेतरे विवाहाः इति ।

अथ ब्राह्मलक्षणम्

तत्र मनुः

आच्छाद्य चार्ह्यित्वा च श्रुतशीलवते स्वयम् ।

[७७] आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥

“आच्छाद्य” वस्त्रयुगं परिधाप्य ।

देवलः

ततो विनीतां कल्याणीं कन्यां कुलवयोन्विताम् ।

अलङ्कृत्यार्हते दद्याद् विवाहो ब्रह्म उच्यते ॥

“कल्याणीम्” उक्तकन्यादोषरहिताम् । “अर्हते” उक्तवरलक्षणयुक्ताय ।

व्यासः

आच्छाद्यालङ्कृतां कृत्वा त्रिः परिक्रम्य पावकम् ।

नामगोत्रे समुद्दिश्य दद्याद् ब्राह्मो विधिस् त्व् अयम् ॥

**संवर्तः **।

अलङ्कृत्य त्व् अलङ्कारैर् वराय सदृशाय च ।

ब्राह्मेण तु विवाहेन कन्यां दद्यात् सुपूजिताम् ॥

“सुपूजितां” पुष्पचन्दनादिसम्मानिताम् ।

यमः

अद्भिर् या दीयते कन्य ब्रह्मदेयेति तां विदुः ।

[७८] “ब्रह्मदेया” इति सञ्ज्ञा श्राद्धे । ततो जातस्य पङ्क्तिपावनत्वव्यवहारार्थम् ।

हारीतः

    अनिन्दन्न् अन्यैर् अवितर्कयन् विधिवद् वस्त्रयुगं दत्वा सह धर्मस् चर्यताम् इति ब्राह्मः । 

“अनिन्दन्” दोषाभिधानम् अकुर्वन् । “अन्यैर् अवितर्कयन्” अन्यैः सह दोषम् अनाशङ्कमानः । “विधिवत्” मधुपर्कादिपूर्वकम् ।

आपस्तम्बः

    ब्राह्मे विवाहे बन्धुशीलश्रुतारोग्याणि बुद्ध्वा प्रजां सहत्वकर्मभ्यः प्रतिपादयेच् छक्तिविषयेणालङ्कृत्य ।

“सहत्वकर्मभ्यः” इत्यादि । सहत्वेन सहभावित्वेनेष्टा धानादिकर्मस्व् अधिक्रियते, तादर्थ्येन इत्थम्भूतं प्रतिपादनं कुर्याद् इत्य् अर्थः ।

बौधायनः

    श्रुतशीले विज्ञाय ब्रह्मचारिणे ऽर्थिने देयेति स ब्राह्मः ।

[७९] “ब्रह्मचारिणे” असञ्जातस्त्रीसम्पर्काय । “अर्थिने” इच्छते ।

शङ्खलिखितौ

    तत्र सवर्णः सवर्णाय विदितो विदिताय नग्निकां दद्यात् स ब्राह्मः ।

“विदितः” कुलादिभिः ।

पैठीनसिः

तस्मान् नग्निकां कन्यां सहिरण्यां दद्यात् अयं ब्राह्मो विवाह इति ।

श्रेष्ठवरानुवृत्तौ ब्रह्मपुराणे

सदृशाय कदा कन्यां ददध्वं श्रद्धयानिविताः ।

अलङ्कृत्य यथाशक्त्या पूरयित्वा धनेन च ॥

“अलङ्कृत्य” वरम् अलङ्कृत्य । “धनेन” गोहिरण्यादिना । “पूरयित्वा यथाशक्त्या” इत्य् उभयत्र योज्यम् ।

ब्राह्मानुवृत्तौ **संवर्तः **।

स कन्यायाः प्रदानेन श्रेयो विन्दति पुष्कलम् ।

[८०] सद्भिर् इत्य् उच्यते साधुः कीर्तिं चाप्नोति पुष्कलाम् ॥

“इति”करणः साधुशब्दात् परो द्रष्टव्यः ।

तथा

ज्योतिष्टोमातिरात्राणां शतं शतगुणीकृतम् ।

प्राप्नोति पुरुषीं दत्वा होममन्त्रैस् तु संस्कृताम् ॥

“पुरुषीं” कन्याम् । अत्र गृह्येषु दानानन्तरं होमविधानाद् अर्थाद् दत्वा होममन्त्रैः संस्कृताम् इत्य् अवधातव्यम् ।

कश्यपः

अनडुहां सहस्राणां दशानां धुर्यवाहिनाम् ।

सुपात्रे विधिवद् दानं कन्यादानं च तत्समम् ॥

यस् तु सत्येन धर्मेण पिता स्पर्शयते सुताम् ।

स प्रेत्य लभते स्थानं यथा दक्षः प्रजापतिः ॥

“सत्येन” छद्मादिरहितेन । “स्पर्शयते वरेण संयोजयति ।

[८१] आदित्यपुराणे

श्रुत्वा कन्याप्रदानं तु पितरः सपितामहाः ।

मुक्ता वै सर्वपापेभ्यो ब्रह्मलोकं व्रजन्ति ते ॥

देवलः

तिस्रः कन्या विधिवद् दत्वा

[यथान्यायं पालयित्वा निवेद्य च ।

न पिता नरकं याति नारी वा स्त्रीप्रसूतिनी ॥

“स्त्रीप्रसूतिनी” कन्याप्रसूतिनी ।

स्मृतिः

नाग्निहोत्रादिभिस् तत् स्यात् ब्रह्मतो ब्राह्मणस्य वा ।

यत् कन्यां विधिवद् दत्वा] फलं प्राप्नोति मानवः ॥

ब्राह्मानुवृत्तौ संवर्तः

तां च दत्वा पिता कन्यां भूषणाच्छादनासनैः ।

पूजयन् स्वर्गम् आप्नोति नित्यम् उत्सववृद्धिषु ॥

इति ब्राह्मलक्षणम्

[८२]

अथ दैवलक्षणम्

तत्र मनुः

यज्ञे तु वितते सम्यक् ऋत्विजे कर्म कुर्वते ।

अलङ्कृत्य सुतादानं दैवं धर्म प्रचक्षते ॥

“सम्यक्” यथार्थम् अस्खलितम् इति यावत् । कर्म कुर्वते ऋत्विजे ।

देवलः

अन्तर्वेदि समानीय कन्यां कनकमण्डिताम् ।

ऋत्विजे तु ददात्य् एष विवाहो दैवसञ्ज्ञकः ॥

यमः

स ऋत्विजम् अलङ्कृत्य विवाहो दैव उच्यते ।

हारीतः

वेद्यन्ते मिथुने दत्वा स दैवः ।

“वेद्यन्ते” वेद्या एकदेशे गोमिथुनं वराय देयम्, स्वीयम् एव वराय दत्वा न तु वराद् उपात्तम् आर्षत्वप्रसङ्गात् ।

[८३] बौधायनः

    दक्षिणासु नीयमानास्व् अन्तर्वेदि ऋत्विजे स दैवः । 

दानार्थं दक्षिणासु नीयमानासु ऋत्विजे यद् दान मित्य् अर्थः ।

आदित्यपुराणे

दैवेन तु विवाहेन यस् तु कन्यां प्रयच्छति ।

कृत्वा द्वारं तु विपुलं भानुसोपानम् उत्तमम् ॥

आदित्यलोकाद् ऊर्ध्वं तु गमनं प्रतिपद्यते ॥

अथार्षलक्षणम्

तत्र मनुः

एकं गोमिथुनं द्वे वा वदाद् आदाय धर्मतः ।

कन्याप्रदानं विधिवद् आर्षो धर्मो ऽयम् उच्यते ॥

“धर्मतः” इत्य् आनृशंस्यार्थं न तु शुल्कबुद्ध्या । गोमिथुनग्रहणं च कन्यादातुः स्वयम् अधिकदानासमर्थस्य कन्योपकाराधिक्यम् इच्छतो वेदितव्यम् ।

देवलः

प्रदानं यत् तु कन्यायाः सह गोमिथुनेन च ।

[८४] शस्ताय वासगोत्राय तम् आर्षम् ऋषयो विदुः ॥

“सह गोमिथुनेन” इति । वराद् उपादत्तेन सह गोमिथुनेन सहितम् इत्य् अर्थः । “शस्ताय” यथोक्तलक्षणोपेताय ।

शङ्खलिखितौ

गोमिथुनेन वस्त्र्युगलेन चार्षः, सर्वेष्व् अलङ्कारः स्त्रीधनं च देयम् इति ।

“स्त्रीधनम्” इति अलङ्काराधिकम् अन्यद् अपि किञ्चित् ।

बौधायनः

पूर्वे लाजाहुतीर् दत्वा गोभ्यां आर्षः ।

पूर्वे चतसृणां मध्ये द्वे आद्ये । “गोभ्याम्” इति । गोमिथुनेन सह देयेत्य् अनुषङ्गः ।

अथ प्राजापत्यलक्षणम्

तत्र मनुः

सहोभौ चरतां धर्मम् इति वाचानुभाष्य च ।

[८५] कन्याप्रदानम् अभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥

कन्यादाने सह अन्योन्याव्यभिचारेण उभौ चरतां धम्म इत्य् अनेन वाक्येन समयं कृत्वा यः कन्यादानं स प्राजापत्यः ।

देवलः

सहधर्मक्रियाहेतोर् दानं समयबन्धनात् ।

अलङ्कृत्यैव कन्याया विवाहः स प्रजापतेः ॥

“समयबन्धनं” सहोभौ चरताम् इति सङ्केतकरणम् ।

गौतमः

संयोगमन्त्रः प्राजापत्ये “सहधर्मश् चर्यताम्” इति ।

विष्णुः

प्रार्थितप्रदानं प्राजापत्यः ।

प्रार्थिताय प्रदानं प्रार्थितप्रदानम् ।

[८६]

अथासुरलक्षणम्

तत्र मनुः

ज्ञातिभ्यो द्रविणं दत्वा कन्ययै चैव शक्तितः ।

कन्याप्रदानं स्वाच्छन्द्याद् आसुरो धर्म उच्यते ॥

“आप्रदानम्” आदानं ग्रहणम् इति यावत् । “स्वाच्छन्द्यात्” स्वेच्छया, न तु कन्यापितुः पारतन्त्र्येण ।

देवलः

शुल्कं प्रदाय कन्यायाः सुप्रदानं विधानतः ।

वित्तहेतुर् विवाहो ऽयम् आसुरः षष्ठ उच्यते ॥

वित्तं हेतुर् यस्य स तथा।

पैठीनसिः

शुल्केन पणित्वा ददत आसुरः ।

“पणित्वा” विक्रिञ ।

**हारीतः **।

दम्भछद्मभ्यां परैस् तर्किताय यद् दीयते प्रतिपद्य वा स आसुरः ।

[८७] “परैः” अन्यैः । “दम्भधद्मभ्यां” दाम्बिकत्वेन छाद्मिकत्वेन वान्यैः ज्ञाताय वराय स्वयम् एवादाम्भिकत्वं छाद्मिकत्वं च प्रतिपाद्य ज्ञात्वा यत्र दानं स आसुरः ।

पुनर् **हारीतः **।\

शुल्केन मानुषः ।

इदं चासुरस्यैव सञ्ज्ञान्तरम् ।

वसिष्ठः

    पणित्वा धनक्रीती स मानुषः तस्माद् दुहितृमते ऽधिरथं शतं देयम् इति ह क्रयो विज्ञायते ।

“धनक्रीती” इत् यत्र भवतीति शेषः । “अतिरथं” रथाधिकं गोशतं देयम् इत्य् अर्थः । “इति ह” शब्देन या पराय क्रीता सत्य् एता अन्यैश् चरतीति ह चातुर्मास्येष्व् इह क्रयप्रधानार्थं श्रुत्युपन्यासः ।

कश्यपः

क्रीता द्रव्येण या नारी न सा पत्नी विधीयते ।

[८८] न सा दैव न सा पित्र्ये दासीं तां कश्यपो ऽब्रवीत् ॥

आपस्तम्बः

दानं विक्रयधर्मश् चापत्यस्य न विद्यते ।

मनुः

न कन्यायाः पिता विद्वान् गृह्णीयाच् छुक्लम् अण्व् अपि ।

गृह्णन् हि शुल्कं लोभेन स्यान् नरो ऽपत्यविक्रयी ॥

आददीत न शूद्रो ऽपि शुल्कं दुहितरं ददन् ।

शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ॥

यमः

नानुशुश्रुम जात्व् एतत् पूर्वेष्व् अपि हि जन्मसु ।

शुल्कसञ्ज्ञेन मूल्येन पापं दुहितृविक्रयम् ॥

[८९] आर्षे गोमिथुनं शुल्कं केचिद् आहुर् मृषैव तत् ।

स्वल्पो ऽप्य् एवंविधो वापि तावान् एव स विक्रयः ॥

स्त्रीधनानि तु ये मोहाद् उपजीवन्ति बान्धवाः ।

नारीयानानि वस्त्रं वा ते पापा यान्त्य् अधोगतिम् ॥

आर्षासुर्योर् धनग्रहणम् उक्तम् । तत्र चायं निषेधः श्रूयते — न च धनग्रहणं विना आर्षासुरयोस् सम्भवः । तत्रेयं व्यवस्था — आत्मार्थं धनग्रहणे दोषः । कन्यार्थं तु धनग्रहणे विक्रयदोषः । “स्त्रीधनानि” इत् प्रसङ्गाद् अभिधानम् । “उपजीवन्ति” उपभुञ्जते । एतेन कन्यार्हणार्थदत्तधनोपजीविनाम् अपि तद्बान्धवानां दोषभागिता, तस्माद् गृहीतं स्वयं नोपजीव्यम् ।

कश्यपः

शुल्केन ये प्रयच्छन्ति स्वसुतां लोभमोहिताः ।

आत्मविक्रयिणः पापा महाकिलिबिषकारकाः ॥

पतन्ति नरके घोरे घ्नन्ति चासप्तमं उलम् ।

[९०] गमनागमने चैव सर्वशुल्को विधीयते ।

“गमनागमने” कन्याप्रार्थनार्थं कन्यापितुर् गमनागमने ।

**मनुः **।

यासां नाददते शुल्कं ज्ञातयो न स विक्रयः ।

अर्हणं तत् कुमारीणाम् आनृशंस्यं च केवलम् ॥

“आनृशंस्यम्” अनुकम्पा ।

आपस्तम्बः

    विवाहे दुहितृमते दानं काम्यं धर्मार्थं श्रूयते । तस्माद् दुहितृमते अधिरथं शतं देयं तस्मिन् मिथुनी कुर्याद् इति । तस्य क्रयशब्दः संस्तुतिमात्रं धर्माद् धि पञ्चधा ।

अयम् अर्थः — दानं क्रयश् चापत्यस्य न विद्यत इत्य् उक्तम् । तत् कथम् आर्षविवाहे गोमिथुनादिग्रहणम् इत्य् आशङ्क्याह “विवाहे” इत्यादि । विवाहे यत् कन्यापित्रे दानं तत् काम्यम् । नात्र ऋषितुल्यपुत्रोत्पत्तिविषयता, “यथायुक्तो विवाहस् तथायुक्ता प्रजा भवति” इति वचनात् । “तन् मिथुनीकुर्यात्” इति । तद् दत्तं रथादिकं गोशतं मिथुनीकुर्याद् इति । [९१] जायापतित्वम् आपादयेद् इत्य् अर्थः । मिथुनशब्दान् मिथो ऽर्थान्तरस्याविभक्तेः छान्दसो ऽयादेशः । यस् तु तस्याम् आर्षविवाहोढायां स्मृत्यन्तरे क्रयशब्दः, स शब्दमात्रम्, न वास्तवस् तत्र क्रयः । अत्र हेतुः “धर्माद् धि सम्बन्धः” इति । धर्मनिमित्तो ह्य् अशौल्क इति ।

अथ गार्धर्वलक्षणम्

तत्र मनुः ।

इच्छयान्योन्यसंयोगः कन्यायाश् च वरस्य च ।

गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसम्भवः ॥

“अन्योन्यसंयोगः” कन्यावरयोः समयबन्धः । “मैथुन्यः” मिथुनस्य कर्म मैथुन्यं तस्मै हितः ।

देवलः ।

विविक्ते स्वयम् अन्योन्यं स्त्रीपुंसोर् यः समागमः ।

प्रीतिहेतुः स गान्धर्वो विवाहः पञ्चमो मतः ॥

गौतमः ।

** **अलङ्कृत्य इच्चन्त्या स्वयं संयोगो गान्धर्वः ।

[९२] “अलङ्क्र्त्य” आत्मानम् इति शेषः ।

विष्णुः

द्वयोः सकामयोर् मातृपितृदानरहितो गान्धर्वः ।

मातृपितृनैरपेक्ष्येण आत्मानं अलङ्कृत्येति शेषः । “मातृपितृदानरहितः” इति स्वयंवरगाधरविषयम् ।

हारीतः

स्वयं कन्या वरयेत् स गान्धर्वः ।

वसिष्ठः

सकामां कामयमानः सदृशीं यो निरुन्ध्यात् स गान्धर्वः ।

आश्वलायनः

मिथः समयः कृत्वोपयच्छेत् स गान्धर्वः ।

अथ राक्षसलक्षणम्

तत्र मनुः

हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।

[९३] प्रसह्य कन्यां हरतो राक्षसो विधिर् उच्यते ॥

“हत्वा” ताडयित्वा । कन्यासम्बन्धिन इति शेषः । “क्रोशन्तीं” भयात् स्वजनम् आह्वयन्तीम् ।

देवलः

विक्रमेण प्रसह्य स्यात् कुमारीहरणं पुनः ।

वीर्यहेतुर् विवाहः स राक्षसः सप्तमो मतः ॥

“प्रसह्य” अभिभूय ।

आश्वलायनः

हत्वा भित्त्वा च शीर्षाणि रुदन्तीं रुदद्भ्यो हरेत् स राक्षसः ।

“रुदद्भ्यः” कन्यासम्बन्धिभ्य इति शेषः ।

हारीतः

राजाश्रयेण वधदण्डाभिघातभयविशेषाद् राक्षसः ।

राजानम् आश्रित्य यद् वधदण्डादिभयम् उत्पाद्य कन्याहरणं स राक्षस इत्य् अर्थः ।

वसिष्ठः

यस्मिन् बलेन हरन्ति स क्षात्रः ।

[९४] **हारीतः **।

अलङ्कृताम् अभिजयन् क्षात्रः ।

विवाहार्थम् अलङ्कृतां कन्याम् उद्दिश्य युद्धे विजयमानस्य कन्याप्राप्तिः स क्षात्र इत्य् अर्थः ।

अथ पैशाचलक्षणम्

तत्र मनु

सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।

स पापिष्ठो विवाहानां पैशाचः प्रथितो ऽष्टमः ॥

“रहः” एकान्ते । “उपगच्छति” आलिङ्गनादि करोति न तु उपभुङ्क्त एव । क्षतयोनित्वे पाणिग्रहणसंस्काराभावप्रसङ्गात् ।

देवलः

सुप्तान् मत्ताच् च कन्यायाः हरति व्यसनाद् अपि ।

प्रमादहेतुः पैशाचः विवाहो ऽष्टम उच्यते ॥

[९५] “सुप्तात्” स्वप्नात् । “मत्तात्” मद्यपानेन मत्तत्वात् । “व्यसनात्” राजाद्युपद्रवात् । [कन्यावताम् इति शेषः । “सुप्तानां प्रमत्तानां पैशाच” इत्य् आश्वलायनवचनात्] ।

याज्ञवल्क्यः

पैशाचः कन्यकाच्छलात् ।

“कन्यकाच्छलात्” कन्याप्रतारणात् ।

हारीतः

स्त्रीपानमद्यबोगसम्प्रयोगात् पैशाचः ।

कन्यापित्रादीनां स्त्रियां पाने मद्ये भोगे च गीतनृत्यादौ सम्प्रयोगाद् आसक्तेः ।

अथ वसिष्ठ-बौधायनौ

बलाच् चेत् प्रहृता कन्या मन्त्रैर् यदि न संस्कृता ।

अन्यस्मै विधिवद् देया यथा कन्या तथैव सा ॥

एतच् च मन्त्रसंस्कारात् पूर्वं कन्याप्रत्याहरणम्, कुलशीलादिवरान्तरप्राप्तौ बोद्धव्यम् ।

[९६] यमः

वरश् चेत् कुलशीलाभ्यां न युज्येत कथञ्चन ।

न मन्त्राः कारणं तत्र न च कन्यानृतं भवेत् ॥

समाक्षिप्य हृतां कन्यां बलाद् अकृतयोनिकाम् ।

पुनर् गुणवते दद्याद् इति **शातातपो** ऽब्रवीत् ॥

“क्नयानृतं” कन्यादानान्यथाकरणपापम् । “समाक्षिप्य” आच्छिद्य ।

शातातपः

हीनस्य कुलशीलाभ्यां हरन् कन्यां न दोषभाक् ।

न मन्त्राः कारणं तस्य न च कन्यानृतं भवेत् ॥

समाक्षिप्य बलात् कन्यां पापाद् अक्षतयोनिकाम् ।

कुलशीलवते दद्याद् इति **शातातपो** ऽब्रवीत् ॥

उद्वाहिता तु या कन्या सम्प्राप्ता न च मैथुनम् ।

भर्तारं पुनर् अभ्येति यथा कन्या तथैव सा ॥

“पापात्” पुरुषात् अरूपवतः ।

अत्र कात्यायनः ।

स वा यद्य् अन्यजातीयः पतितः क्लीब एव वा ।

[९७] विकर्मस्थः सगोत्रो वा दासो दीर्घामयो ऽपि वा ॥

क्लीबो वा यदि वा भर्ता विसृष्टः पुंस्त्वकारणैः ।

ऊढापि देया सान्यस्मै सप्रावरणभूषणा ॥

गन्धर्वादिविवाहचतुष्टयानन्तरं देवलः

प्राप्तेषूर्ध्वं विवाहेषु विधिर् वैवाहिकः स्मृतः ।

 कर्तव्यश् च त्रिभिर् वर्णैः समयेनाग्निसाक्षिकः ॥

“वैवाहिको विधिः” विवाहाङ्गभूतो जालहोमादिः ।

बह्वृचपरिशिष्टम्

ब्राह्मेष्व् आर्षेषु दैवेषु प्राजापत्येषु याज्ञिकैः ।

पूर्वं होमविधिः प्रोक्तः पश्चात् परिणयः स्मृतः ॥

गान्धर्वासुरपैशाचा विवाहो राक्षसश् च यः ।

पूर्वं परिणयस् तेषां पश्चाद् धोमो विधीयते ॥

अथ विवाहगुणागुणौ

तत्र **मनुः **।

ये यस्यैषां विवाहानां **मनुना** परिकीर्तिता गुणाः ।

सर्वं शृणुत तं विप्राः सम्यक् कीर्तयतो मम ॥

[९८] दश पूर्वान् परान् वंश्यान् आत्मानं चैकविंशकम् ।

ब्राह्मीपुत्रः सुकृतकृन् मोचयत्य् एनसः पितॄन् ॥

दैवोढजासुतश् चैव सप्त सप्त परावरान् ।

आर्षोढजासुतस् त्रींस् त्रीन् षट् षट् कायोढजासुतः ॥

दशशब्दः पूर्वापरशब्दाभ्यां प्रत्येकम् अभिसम्बध्यते, “एकविंशकम्” इत्य् अभिधानात् । “ब्राह्मी” ब्राह्मविवाहोढा । “एनसः” पापात् । “पितॄन्” इति पुत्रादयो ऽप्य् अजहत्स्वार्थलक्षणया वृत्या पितृशब्देनोपादीयन्ते । “दैवोढजासुतः” दैवेन विवाहेनोढा दैवोढा, तस्यां जाता दैवोढजा तस्याः सुतश् च । “ँँङ्यापोः सञ्ज्ञाच्छन्दसोर् बहुलम्ँँ” इति ह्रस्वत्वम् । क्वचित्पाठः “दैवोढायाः सुतः” इति ।

प्राजापत्यविवाहम् उक्त्वा याज्ञवल्क्यः

स कायः पावयेत् तज्जः षट् षड् वंश्यान् सहात्मना ।

गौतमः

पुनन्ति साधवः पुत्रास् त्रिपुरुषम् आर्षाद् दश दैवाद् दशैव प्राजापत्यात् ।

[९९] आश्वलायनः

    द्वादशावरान् द्वादश परान् पुनात्य् उभयतः । दशावरान् दश परान् पुतात्य् उभयतः । अष्टावरान् अष्ट परान् पुनात्य् उभयतः । सप्तावराग्न् सप्त परान् पुनात्य् उभयतः ।

“अवरान्” अधस्तनान् स्ववंश्यान् । एतच् च वाक्यचतुष्टयं ब्राह्मदैवप्राजापत्यार्षविषयं यथाक्रमम्, तदनन्तरम् अभिधानात् ।

शङ्खलिखितौ

    सप्ताद्यन्तयोर् आत्मानं च प्राजापत्यः । पञ्चार्षः । त्रीन् दैवो, नोत्तरेषु क्रियाप्राधान्यम् ।

प्नातीत्य् अनुवृत्तौ विष्णुः

प्राजापत्यपुत्रश् चतुरः ।

ब्रह्मादिविवाहचतुष्टयाभिधानानन्तरं देवलः

चतुर्धैतेषु दत्तायाम् उत्पन्नास् तनयाः स्त्रियाम् ।

दातुः प्रतिग्रहीतुश् च पुनन्त्य् आसप्तमङ्कुलम् ॥

[१००] मनु-यमौ

ब्राह्मादिषु विवाहेषु चतुर्ष्व् एवानुपूर्वशः ।

ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः ॥

रूपवन्तो गुणोपेता धनवन्तो यशस्विनः ।

पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥

इतरेष्व् अनुविष्टेषु नृशंसानृतवादिनः ।

जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥

विवाहानुवृत्तौ आश्वलायनः

    अत ऊर्ध्वम् अक्षारलवणाशिनौ ब्रह्मचारिणाव् अनलङ्कुर्वाणौ अधःशायिनौ स्याताम्, त्रिरात्रं द्वादशरात्रं संवत्सरं वा ।

ब्रह्मपुराणे

कृते विवाहे वर्षं तु वस्तव्यं ब्रह्मचारिणा ।

यद्य् अष्टवर्षा कन्या स्यात् तथात्र त्रिगुणः पुमान् ॥

“त्रिगुणः” चतुर्दशवर्षः ।

[१०१] तथा

अथ वा द्वादशाहानि त्रिंशद्वर्षेण सर्वदा ।

यदि द्वादशवर्षा स्यात् कन्या त्रूपगुणान्विता ॥

द्वात्रिंशद्वर्षपूर्णेन यदि षोडशवार्षिकी ।

लब्धा तदा तु षड्रात्रं वस्तव्यं संयतेन तु ॥

विंशत्यब्दा यदा कन्या वस्तव्यं तत्र वै त्र्यहम् ।

अत ऊर्ध्वम् अहोरात्रं वस्तव्यम् अपि संयतैः ॥

इति श्रीभट्टहृदयधरात्मजमहासन्ध्विग्रहिक-

भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

गृहस्थकाण्डे विवाहभेदाः ॥

[१०२]

अथाधिवेदनम्

तत्र मनुः

मद्यपासत्यवृत्ता च प्रतिकूला च या भवेत् ।

व्याधिताप्य् अधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा ॥

“मद्यपा” अत्र द्विजातिस्त्री बोद्धव्या । “असत्यवृत्ता” असाध्वाचारा । “प्रतिकूला” भर्तुर् अनिष्टकारिणी । “व्याधिता” गृहकृत्यासामर्थ्यापादकव्याधियुक्ता । “हिंस्रा” पुत्रदास्यादिताडनशीला । “अर्थघ्नी” उपेक्षादिना अर्थविनाशकारिणी । “सर्वदा”इत्य् अस्यासत्यवृत्तादिभिर् अन्वयः ।

याज्ञवल्क्यः

सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्य् अप्रियंवदा ।

स्त्रीप्रसूश् चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥

अधिविन्ना तु भर्तव्या महद् एनो ऽन्यथा भवेत् ।

[१०३] “धूर्ता” वण्चनप्रधाना । “स्त्रीप्रसूः” स्त्रीमात्रजननी ।

शङ्खलिखितौ

अप्रियशीलां पुरुषद्वेषिणीम् अनुकूलां वाधिविन्देत् ।

“अप्रियशीला” भर्तुर् अप्रीतिकरशीलवती । “पुरुषद्वेषिणी” पतिं या द्वेष्टि ।

**मनुः **।

वन्ध्याष्टमे ऽधिवेद्याब्दे दशमे तु मृतप्रजा ।

एकादशे स्त्रीजननी सद्यस् त्व् अप्रियवादिनी ॥

अत्र अधिवेत्तव्येति शेषः ।

देवलः

आकाङ्क्षेताष्ट वर्षाणि भर्तातिप्रसवां स्त्रियम् ।

दश वन्द्यां च विन्ध्यां च द्वादश स्त्रीप्रसूतिनीम् ॥

ततो विन्देत विधिना पुत्रार्थीं धर्मतः स्त्रियम् ।

पुत्रलाभात् परं लोके नास्त्य् अतिप्रसवाहि ताः ॥

[१०४] एकासुध्रु (?) पुरुषभाषणशीला ।

हारीतः

अप्रजा नवमे वर्षे दशमे तु मृतप्रजा ।

एकादशे स्त्रीजननी सद्यस् त्व् अप्रियवादिनी ॥

एकाम् उद्वाह्य कामार्थम् अन्यां लब्धुं य इच्छति ।

समर्थस् तोषयित्वार्थैः पूर्वोढाम् अपरां वहेत् ॥

एका शूद्रस्य वैश्यस्य द्वे तिस्रः क्षत्रियस्य च ।

चतस्रो ब्राह्मणस्य स्युर् भार्या राज्ञो यथेच्छतः ॥

“अतिप्रसवा” प्रसवः पुष्पं रजस् तद्योग्यकाले ऽप्य् अतिक्रान्तं यथा । “विन्ध्या” छिद्रादियुक्ता । “प्रसवा” अपत्यानि । “समर्थः” तत्तोषणार्थार्थदान इति शेषः । अष्टवर्षादिकालप्रतीक्षाविकल्पो वयःशक्त्यपेक्षया व्यवस्थितो बोद्धव्यः । येषु तु अधिवेदननिमित्तेषु न कालविशेषः श्रूयते तेषु यावता कालेन तद्दोषविश्चयो भवति, तावन्तं कालं प्रतीक्षेत । यथा दीर्घरोगे ऽधिविन्देत । पूर्वस्त्रीविवाहाद् उपरि स्त्र्यन्तरविवाहं कुर्यात् ।

मनुः ।

या रोगिणी स्याद् दुहिता सम्पन्ना चैव शीलतः ।

[१०५] सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हिचित् ॥

याज्ञवल्क्यः

अधिविन्नस्त्रियै दद्याद् आधिवेदनिकं समम् ।

न दत्तं स्त्रीधनं यस्यै दत्ते त्व् अर्धं प्रकीर्तितम् ॥

“आधिवेदनिकम्” अधिवेदनप्रयोजनम् अलङ्करणादि यावद् एकस्या दीयते, तावद् एवाधिविन्नाया अपि दातव्यम् इत्य् अर्थः ।

मनुः

अधिविन्ना तु या नारी निर्गच्छेद् रुषिता गृहात् ।

सा सद्यः सन्निरोद्धव्या त्याज्या वा कुलसन्निधौ ॥

नारदः ।

अनुकूलाम् अवाग्दुष्टां रक्षां साध्वीं प्रजावतीम् ।

त्यजन् भार्याम् अवस्थाप्यो राज्ञा दण्डेन भूयसा ॥

इत्य् अधिवेदनपर्व ॥

[१०६]

अथ परिवेदनविधिः

तत्र मनु-शातातपौ यम-बौधायनौ च द्वितीये ।

दाराग्निहोत्रसंयोगं कुरुते यो ऽग्रजे स्थिते ।

परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥

परिवित्तिः परिवेत्ता यया च परिविद्यते ।

सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥

याजकश् चात्र विवाहाङ्गभूते होमे आधानेषु च ऋत्विक् ।

अत्र [हारीतः] ।

    ज्येष्ठे अनिर्विष्टे कनीयान् निर्विशन् परिवेत्ता भवति परिविन्नो ज्येष्ठः । परिवेदिनी कन्या परिदायिनी परिकर्ता याजकः सर्वे ते पतिताः ।

“अनिर्विष्टे” अकृतविवाहे । निष्ठानिर्देशाद् अनिष्पन्ने ज्येष्ठविवाहे वर्तमाने ऽपि करिष्ठस्य विवाह नाधिकारः ।** [१०७]** तस्मात् सहविवाहो ऽपि न कार्यः । भातृपदेन सोदर्य एवोच्यते । सापत्न्यादौ एककारणत्वगुणयोगाद् अपि भ्रातृशब्दप्रयोगोपपत्तेर् नाभिधाशक्तिकल्पना । एतन्न्यायार्थवादिनी च “पितृव्यपुत्रान्” इत्यादि **शातातपस्मृतिः **।

**छन्दोगपरिशिष्टे कात्यायनः **।

दाराधिगमनाधाने यः कुर्याद् अग्रजाग्रतः ।

परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥

परिवित्तिपरिवेत्तारौ नरकं गच्छतो ध्रुवम् ।

आचीर्णप्रायश्चित्तौ तौ पादोनफलभागिनौ ॥

पातकफलस्य नरकस्य पादोनफलभागिनाव् इत्य् अर्थः ।

**तथा **।

धनवार्धुषिकं राजसेवकं कर्षकं तथा ।

प्रोषितं च परीक्षेत वर्षत्रयम् अपि त्वरन् ॥

प्रोषितं यद् यश् च एवास्त्व् अब्दाद् इति समाचरेत् (?) ।

आगते तु ततस् तस्मिन् पादं वा शुद्धये चरेत् ॥

[१०८] “अपि त्वरन्” इति । त्वरन्न् अपीति योज्यम् । यदि धनवार्धुषिकादिदेशान्तरे वर्तमानं शृणुयात् तदा विवाहे “त्वरन्” त्वरमाणो ऽपि वर्षत्रयं प्रतीक्षेत । यदि तु तं प्रोषितादृष्ट एवाब्दं प्रतीक्ष्य विवाहम् आचरति, तदा आगते तस्मिन् परिवेदनप्रायश्चित्तपादं कुर्यात् ।

**गौअमः **।

    नष्टे भ्रातरि ज्यायसि षड्वार्षिकं क्षपणम्, श्रूयमाणे ऽभिगमनम्, प्रव्रजिते तु निवृत्तिः, प्रसङ्गात् तद्द्वादशवर्षाणि ब्राह्मणस्य विद्यासम्बन्धे भ्रातरि चैवं ज्यायसि यवीयान् कन्याग्न्युपयमेषु षड् इत्य् एके ।

ज्येष्ठे सोदरे ऽकृतविवाहे अनाहिताग्नौ च प्रोषिते । कनीयान् एवं द्वादशाष्टवर्षकम् । षड्वर्षप्रतीक्षणं कुर्याद् अश्रूयमाणे ज्येष्ठे विवाहाग्न्याधाने कारयितुम् अभिसुसगमनम् । प्रव्रजिते च तस्मिन् गमननिवृत्तिः । ब्राह्मणस्य विद्यार्जनार्थं [१०९] गतस्य द्वादशवर्षप्रतीक्षणम् । षड्वर्षप्रतीक्षणं वा एकेषां मतम् । वर्षस्य सर्वसङ्ख्यायाः प्रतीक्षणे वयःशक्त्यपेक्षया विकल्पः ।

**वसिष्ठः **।

    अष्टौ दश द्वादशवर्षाणि ज्येष्ठे भ्रातरम् अविनिष्टम् अप्रतीक्षमाणः प्रायश्चित्ती भवति ।

	तत्र श्लोकौ भवतः ।

द्वादशैव तु वर्षाणि ज्यायान् धर्मार्थयोगतः ।

न्याय्यः प्रतीक्षितुं भ्राता श्रूयमाणः पुनः पुनः ॥

उन्मत्तः किल्बिषी कुष्ठी पतितः क्लीबः एव वा ।

राजयक्ष्मामयावी च न न्याय्यः स्यात् प्रतीक्षितुम् ॥

“आमयावी” रोगातिशयवान् । “सर्वत्रामयस्योपसङ्ख्यानम्” इति दीर्घः । अतिरोगिणं प्रति छन्दोगपरिशिष्टवचनात् । मत्वर्थीयस्य च इतिप्रत्ययस्यातिशायने ऽपि स्मरणात् ।

**शातातपः **।

क्लीबे देशान्तरगते पतिते भिक्षुके ऽपि च ।

योगशास्त्राभियुक्ते च न दोषः परिविन्दतः ॥

[११०] खञ्जवामनकुब्जेषु गद्गदेषु जडेषु च ।

जात्यन्धबधिरे मूके न दोषः परिवेदने ॥

पितृव्यपुत्रान् सापत्न्यान् परनारीसुतांस् तथा ।

दाराग्निहोत्रसंयोगे न दोषः परिवेदने ॥

“गद्गदो” अस्पष्टवाक् । “जडः” पुनः पुनर् अध्याप्यमानो ऽपि ग्रहणासमर्थः । परनारीषु (?) दत्तकृत्तिमादयो भ्रातरः । योगशास्त्राभियोगेन विरक्तं लक्ष्यते ।

छन्दोगपरिशिष्टे कात्यायनः

देशान्तर्स्थक्लीबैकवृषणान् असहोदरान् ।

वैश्याभिशस्तपतितशूद्रतुल्यातिरोगिणः ॥

जडमूकान्धबधिरकुब्जवामनकुण्ठकान् ।

अतिवृद्धान् कुदर्यांश् च कृषिशाक्तान् नृपस्य च ॥

धनवृद्धिशस्तांश् च कामतः कारिणस् तथा ।

कुलटोन्मत्तचौरांश् च परिविन्दन् न दुष्यति ॥

“एकवृषणः” एकाण्डः षण्डविशेषः । “शूद्रतुल्याः” गोरक्षणादिकर्मपराः,

[१११] गोरक्षकान् वाणिजकान् तथा कारुकुशीलवान् ।

प्रेष्यान् वार्धुषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥

इति मनुवचनात् । “कुण्ठकः” पाणिरहितः । “आचार्यान् नृपस्य” इति नृपस्य आचरणीयान् इत्य् अर्थः ।

अत्रेयं व्यवस्था — द्वादशवर्षपरीक्षणवचनं कनिष्ठस्य धर्मः । धनविद्यार्थे प्रोषिते पुनः पुनः श्रूयमाणे ज्येष्थे दशाष्टवर्षप्रतीक्षणं तु वयःसामर्थ्यापेक्षया देशान्तरस्थवार्ताश्रवणात्तया वा । षड्वर्षप्रतीक्षणं तु **गौतमीयं** धर्मधनविद्यार्थप्रोषिते सर्वथा अश्रूयमाणे । वर्षत्रयप्रतीक्षणं तु धर्मधनयोर् उक्तत्वात् पारिशेष्यात् कामासक्ते प्रोषिते राजसेवके, कृष्यासक्ते च ज्येष्ठे अतित्वरमाणस्य कनिष्ठस्य ।

अत्र चाग्निहोत्राधानवद् आवसथ्याधाने ऽपि ज्येष्ठेनाकृते कनिष्ठेन क्रियमाणे परिवेत्तृत्वं भवत्य् एव, **कात्यायनेन्**आधानशब्देनाधानमात्रोपादानात् । “कान्याग्न्युपयमेष्व्” इति **गौतमेना**ग्निमात्रस्वीकारोपादानात् समाचाराच् च । 

हारीतः ।

सोदर्याणां तु सर्वेषां परिवेत्ता कथं भवेत् ।

दारैस् तु परिविन्द्यन्ते नाग्निहोत्रेण चेज्यया ॥

आधानापेक्षया दारपरिवेदने दोषाधिक्यप्रतिपादनपरम् एतत्, न तु पर्याधाने दोषाभावार्थम्,

[११२] दाराग्निहोत्रसंयोगं कुरुते यो ऽग्रजे स्थिते ।

परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥

इति मनुना तत्रापि दोषप्रतिपादनात्, पर्याधाने च पृथक् प्रायश्चित्ताभिधानात् । एतेनैव सप्ताग्नयः परिविन्दन्ति इत्य् अपि व्याख्यातम् ।

तथा च **आपस्तम्बेन**


    अभिनिर्मुक्ताभ्युदितकुनखीश्यावदन्ताग्राविधिश्रुदिधिषुपतिपर्याहित-परीष्टपरिवित्तिपरिवेदनेषु चोत्तरोत्तरस्मिन्न् अशुचिकरनिर्वेदो गरीयान् ।

इति वदता पर्याधानापेक्षया दारपरिवेदनस्याधिकदोषत्वम् उक्तम् । एवम् एवावसथ्याधाने ऽपि गौतमेन “यवीयान् कन्याभ्युपगमेषु” इति अविशेषेणाग्निमात्रोपादानात् ।

शाताअपः

नाग्नयः परिविन्दन्ति न वेदा न तपांसि च ।

न च श्राद्धं कनिष्थस्य विफला या च कन्यका ॥

इति हृदयधरात्मजभट्टश्रीलक्ष्मीधर्विरचिते

कृत्यकल्पतरौ गृहकल्पकाण्डे प्रैवेदनपर्व ॥

[११३]

**अथावसथ्याधानम् **

अत्र छन्दोगपरिशिष्ठे कत्यायनः ।

यस्य दत्ता भवेत् कन्या वाचा सपदि केनचित् ।

सो ऽन्त्यां समिधम् आधास्यन् नादधीतैव नान्यथा ॥

“सपदि” तत्काले । “अन्त्यां समिधम्” समावर्तनकालीनाम् । एतद् उक्तम् भवति — यत्कृते ब्रह्मचर्यावस्थायाम् एव कन्यापित्रा कन्या दातुं प्रतिज्ञाता भवति, स तस्मिन्न् एव काले ऽग्निम् आधाय तस्मिन्न् अग्नौ समावर्तनाद्युदीच्यम् अग्निसाध्यं कर्म कुर्यात् । स आधाद्यन्न् अन्त्यां समिधम् आदधीतैवेत्य् अव्यवधानेन वाक्यं योजनीयम् ।

तथा च गोभिलगृह्यम्

    यदैवान्यां समिधम् अभ्यादधाति जायायाः पाणिं जिघृक्षन् जुहोति तम् अभिसंयच्छेत् स एवास्य गृह्यो ऽग्निर् भवति ।

[११४] तथा

अनूढैव तु सा कन्या पञ्चत्वं यदि गच्छति ।

न तथा तन्त्रलोपो ऽस्य तेनैवान्यां समुद्वहेत् ॥

तन्त्रशब्देनात्र प्रक्रमाद् आवसथ्याधानानुष्ठानम् उपात्तम् । “तेनैव” अर्थाद् आहितेनाग्निना ।

तथा

अथ चेन् न लभेतान्यां याचमानो ऽपि कन्यकाम् ।

तम् अग्निम् आत्मसात्कृत्वा क्षिप्रं स्याद् उत्तराश्रमी ॥

“आत्मसात् कृत्वा” आत्ममयं कृत्वा मन्त्रेणात्मन्य् आरोप्येति यावत् ।

पारस्करः

आवसथ्याधानं दारकाले कायाद्यकाल एकेषाम् ।

“दायाद्यकाले” दायभागादानकाले ।

**पैठीनसिः **।

    वैवाहिकम् अग्निम् इन्धीत सायं प्रति यथाकालं समिधो ऽभ्यादध्यात् । “अग्नये प्रजापतये ऽनुमतये” इति सायम्, “सूर्याय प्रजापतये ऽनुमतये” इति प्रातःकाले ।

[११५] हारीतः

    औद्वाहिकग्रहणात् गृह्यविधानाच् च गृहस्थः । तस्माद् गृहोषित इति । गृहपतियजनाद् गार्हस्थ्यधर्माः प्रवर्तन्ते । 

दारान् आहृत्याग्नीन् आधायेत्य् उक्त्वा पञ्च यज्ञा अन्ये च धर्माः श्रौताधानोत्तरकालम् अनुष्ठेयत्वेनोक्ताः । तानि श्रौताधानात् प्राग् अपि भवन्तीत्य् अनेनोच्यते । अतस् ते गृहस्थस्यानुष्ठेयाः । स च “औद्वाहिकग्रहणात् गृह्यविधानाच् च गृहस्थः” । “औद्वाहिको” वैवाहिको ऽग्निः । गृह्यविधानं गृह्योक्तकर्मकर्तृकत्वेन विधानम्, तस्मात् तदनन्तरोक्तकारणद्वयात् “गृहोषित इति” गृहस्थः सन् ततः प्रभृति पाकयज्ञैर् यजते । तत एवारभ्य गार्हस्थ्यधर्माः प्रवर्तन्ते ।

मनु-विश्वामित्रौ

वैवाहिके ऽग्नौ कुर्वीत गृह्यकर्म यथाविधि ।

[११६] पञ्चयज्ञविधानं च पक्तिर् अन्वाहिकीं गृही ॥

“वैवाहिके” विवाहकालपरिगृहीते । “गृह्यकर्म” पाकयज्ञादि । “पक्तिः” पाकः । “अन्वाहिकी” प्रत्यहं या क्रियते ।

बौधायनः

भार्योद्वाहादिर् अग्निस् तस्मिन् कर्मकरणं प्राग् अग्न्याधेयाद् इति ।

आपस्तम्बाद्यनुसारेण सर्वाधानपक्षे लौकिके गृह्यकर्मप्राप्त्यर्थम् ।

याज्ञवल्क्यः

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।

दायकालाहृते चापि स्मार्तं वैतानिकाग्निषु ॥

वैतानिकः वितानो यज्ञस् तत्प्रयोजनः ।

[११७]

अथाग्निहोत्राधानादि

तत्र वसिष्ठः

    अवश्यं ब्राह्मणो ऽग्नीन् आदधीत दर्शपूर्णमासाग्रहनेष्टिचातुर्मास्य-पशुसोकैश् च यजेत । नैयमिकं ह्य् एतत् ऋणसंस्तुतं च ।

“नैयमिकम्” नियमे भवं नित्यम् इत्य् अर्थः । “ऋणसंस्तुतम्” ऋणापाकरणरूपेण कीर्तितं “जायमानो वै ब्राह्मणः” इत्यादिना ।

शङ्खलिखितौ

    दारान् आहृत्याग्न्याधेयपुनराधेयाग्निहोत्रदर्शपौर्णमासदाक्षायण-चातुर्मास्यपशसौत्रामण्यन्तैः हविर्यज्ञैः सप्तभिर् यजेत् ।

“पुनराधेयः” आधानप्रकारविशेषः । “दाक्षायणः” पञ्चदशवर्षाविधितया दर्शपूर्णमासयोर् एव प्रतिपर्वावृत्यानुष्ठानेन प्रकारविशेषो याज्ञिकप्रसिद्धः ।

[११८] पैठीनसिः

    अग्निर् वै देवता मनुष्याणां तस्माद् अग्निम् आदधीत अग्निमुखाः हि देवताः । हव्यं वहति देवानां कव्यं पितॄणां सायं प्रातर् बलिहरणम् । दर्शपूर्णमासौ नवेष्टिः अष्टका पशुबन्धः पितृयज्ञ इति पाकयज्ञाः ।

“हव्यं वहति देवानाम्” इत्य् अत्राग्निर् इति शेषः । “कव्यम्” इत्य् अत्र वहतीति शेषः ।

**हारीतः **।

पाकयज्ञान् यजेन् नित्यं हविर्यज्ञांश् च नित्यशः ।

सौम्यांश् च विधिपूर्वेण य इच्छेद् धर्मम् अव्ययम् ॥

सौम्यः अष्टम्याम् अनुष्ठानम् ।

पक्षादिकरणम् अमावास्यादि श्राद्धम् । श्रवणकर्म आग्रयणी क्रिया । आश्वयुजीकर्म चैत्रीविधानम् अग्न्याधानम् अग्निहोत्रम्, दर्शपूर्णमासश् चातुर्मास्यकर्म पशुबन्धः सौत्रामणीकरणम् अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयो ऽतिरात्रम् अप्तोर्याम इति सोमयागान् अनुतिष्ठेत् ।

[११९] अमावास्यादीत्यादिशब्देनाष्टकादिश्राद्धोपसङ्ग्रहः ।

देवलः

    हुतः प्रहुत अहुतः शूलगवो बलिहरणं प्रत्यवरोहणम् अष्टकाहोम इति पाकयज्ञसंस्थाः सप्त । अग्निहोत्रम् अग्न्याधेयं दर्शपूर्णमासौ आग्रयणम् अयनयज्ञश् चातुर्मास्यानि सौत्रामणीति इमा हविर्यज्ञसंस्थाः सप्त । अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशी । वाजपेयो ऽतिरात्रो अप्तोर्यामः इतीमाः सोमसंस्थाः सप्त । एकविंशतिविधो यज्ञश् चाध्वरवेदोक्तः । वाजपेयाश्वमेधराजसूय-पौण्डरीकगोसवादयो महायज्ञाः क्रतवः ।

एतावद् इति कालम् उद्दिश्य यज्ञो ऽयं व्रतदानाद्यनुष्ठानं सत्त्रं (?) प्रक्रान्तेन पञ्चपदायज्ञान्दायज्ञप्रवृत्तिर् इति यज्ञः “कृतः” (हुतः?) । देवोद्देशेन होमः “प्रहुतः” । ब्राह्मणाय पाकाग्निदानम् “अहुतः” । वास्तुपालभूतेभ्यो बलिहरणम् । “शूलगवः” रुद्रदैवतः पुङ्गवयागः स्थालीपाकाङ्गकः । “बलिहरणं” सर्पः (?) । “प्रत्यवरोहणम्” मार्गशीर्ष्यां प्रत्यवरोहणम् इत्याद्युक्तास्तमिते स्थालीपाकस्य जुहुयुर् इत्याद्य्आश्वलायनोक्तम् । “अयनयज्ञः” निरूढपशुयागः । एतावद् इति [१२०] कालम् उद्दिश्येति । द्वादशरात्रादिसहस्रदिनपर्यन्तं सत्त्राङ्गं कालम् उद्दिश्येत्य् अर्थः “पञ्चपदा” पञ्चस्थालीपाकयज्ञसंस्थाः हविःसंस्थाः सोमसंस्थाः, महायज्ञाः सत्त्ररूपाः करोतीति यावत् ।

बौधायनः

    अग्न्याधेयप्रभृत्य् अथेमान्य् अजस्राणि भवन्ति । यथैतद् अग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमासाग्रयणम् उदगयनदक्षिणायनयोः पशुश् चातुर्मास्यान्य् ऋतुमुखे षड्ढोता वसन्ते ज्योतिष्टोमेन इत्य् एवं क्षेमप्रापणम् ।

“अजस्राणि” स्वकाल आवश्यकानीत्य् अर्थः । “षड्ढोता” “वाग्धोता” इत्यादिमन्त्रेण षडृतुमुखेष्व् आहुतिः । क्षेमप्रापणम् अकरणनिमित्तप्रत्यवायपरिहारः ।

मनुः

अग्निहोत्रं च जुहुयाद् आद्यन्ते द्युनिशोः सदा ।

दर्शेण चार्धमासान्ते पूरणमासेन चैव हि ॥

सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजो ऽध्वरैः ।

पशुना त्व् अयनस्यान्ते समान्ते सौमिकैर् मखैः ॥

नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः ।

नवान्नम् अद्यान् मासं वा दीर्घम् आयुर् जिजीविषुः ॥

[१२१] नवेनान्नेन चानिष्ट्वा पशुहव्येन चाग्नयः ।

प्राणान् एवात्तुम् इच्छन्ति नवान्नामिषगर्हिताः ॥

“आद्यन्ते द्युनिशोः” इति । सायम्प्रातः सन्ध्ययोर् इत्य् अर्थः । “ऋत्वन्ते” ऋतुक्षये । चतुर्षु मासेषु अध्वरैश् चातुर्मास्ययागैः । “पशुहव्येन” पशुहविषा ।

हारीतः

    अग्निहोत्रे च यज्ञाभिजितम् अश्नीयान् नान्याभिजितम् एनस्त्वग्दारुभिर् इन्धनो वानस्पत्यम् अभिजयत्य् अद्भिर् आपः पयआदिभिः । पय आज्यादि (?) । व्रीहियवाभ्याम् ओषधयः, पशूनां पशून् ।

“यज्ञाभिजितं” यज्ञेन कृत्वा पुरुषेणाभिजितम् अभिजिताद् अभ्यस्य एतस्वापात् (?) । नन्व् एवं वृक्षफलादीनां महिषादिपयसः सविकारस्य, मृगाणां चायज्ञियत्वात् भक्षणे [१२२] कथम् अदोषः । तत्राह — दारुभिरित्यादि । “वानस्पत्यं” वनस्पतिभवं फलादि । “अद्भिर्” इति । पाकादिकाले प्रतिषेकोपयुक्ताभिः यज्ञोपयुक्तैर् गव्यैः । आदिशब्देन दध्यादीनां ग्रहणम् । “पशुना” छागादिना यज्ञोपयुक्तेन । न ग्राम्यान् आरण्यान् अभिजयतीति सम्बन्धः ।

याज्ञवल्क्यः

प्रतिसंवत्सरे सोमः पशुः प्रत्ययनं तथा ।

कर्तव्या आग्रयणेष्टिः चातुर्मास्यानि चैव हि ॥

एषाम् असम्भवे कुर्याद् इष्टिं वैश्वानरीं द्विजः ।

हीनकल्पं न कुर्वीत सति द्रव्ये ऽफलप्रदम् ॥

“वैश्वानरी” चानुकल्पः । “सति द्रव्ये” इति । विद्यमाने प्रथमकल्पसम्पादके धने, “हीनकल्पं न कुर्वीत” इत्य् अत्र हेतुः — “अफलप्रदम्” इति यत इति शेषः ।

यजेत इत्य् अनुवृत्तौ विष्णुः

शरद्ग्रीष्मयोश् चाग्रयणेन । व्रीहियवयोः पाके च ।

[१२३] जाबालः

सायं प्रातः सदाभ्यस्तं वैतानं जुहुयाद् द्विजः ।

दर्शेन चार्धमासान्ते पूर्णमासेन चैव हि ॥

सस्यपक्तौ नवेष्ट्या तु चातुर्मास्यैर् ऋतोर् मुखे ।

अयनादौ निरूढेन पशुना वत्सरे ऽपि वा ॥

समान्ते सोमयागेन त्व् इष्ट्वा मुक्तो न संशयः ।

यमः

यजेद् अप्य् अग्निहोत्रेण गृहमेधी दिवानिशम् ।

दर्शेन पूर्णमासेन यजेत पितृदेवताः ॥

हारीतः

नाग्निहोत्रात् परो धर्मो नाग्निहोत्रात् परं तपः ।

नाग्निहोत्रात् परं दानं नाग्निहोत्रात् परो दमः ॥

नाग्निहोत्रात् परं श्रेयो नाग्निहोत्रात् परं यशः ।

[१२४] नाग्निहोत्रात् परा सिद्धिर् नाग्निहोत्रात् परा गतिः ॥

नाग्निहोत्रात् परं स्थानं नाग्निहोत्रात् परं व्रतम् ।

निर्द्वन्द्वा निर्यशस्कारा यम् उपासन् मनीषिणः ॥

सो ऽयं सूक्ष्मो ऽग्निहोत्रेषु गूढो ऽग्निर् इव दारुषु ।

शुक्रियेषु रहस्येषु निषत्सूपनिषत्सु च ॥

अधीयते महात्मानः सो ऽग्निहोत्रे प्रकाशते ॥

“शुक्रियेषु” प्रवर्ग्यकाण्डेषु । “रहस्येषु” अघमर्षणादिसूक्तेषु । [सूक्ष्मं परमात्मानं शुक्रियादिषु पठन्ति । सो ऽग्निहोत्रे प्रकाशत इत्य् अन्वयः ।]

तथा

अग्निहोत्रादिभिः पूतो नियतो विजितेन्द्रियः ।

सूक्ष्मात् सूक्ष्मम् अवाप्नोति गगने सुषिरं यथा ॥

सुहुतान्य् अग्निहोत्राणि नयन्ति परमां गतिम् ।

अत्र स्वर्गश् च मोक्षश् च यथा यो गन्तुम् इच्छति ॥

“सूक्ष्मात् सूक्ष्मं” परं ब्रह्म । “गगने सुषिरं यथा” इति । महाकाशे सुषिराद् आनीयते (?) यथेत्य् अर्थः ।

[१२५] [जाबालः]

सन्तोषामृतम् आस्वाद्य तन्मना धर्मविन् नरः ।

कामेन चाग्निहोत्रस्य होता स्वज्योतिर् आप्नुयात् ॥

अत्र पैठीनसिः

    अग्निम् एवोपासीत नान्यदैवतम्, अग्निर् भूयाम् इति विज्ञायते । न प्रवसेत्, यदि प्रवसेद् उक्तम् उपस्थानं प्रवसितस्य प्राशितम् अग्न्याधेयं जुहुयात् ।

नवेष्ट्याम् एवम् औपासनस्योक्तं कल्पसूत्रोक्तम् उपस्थानम् । कर्तव्यम् इति शेषः । “प्राशितम्” यजमानप्राशनीयो भागः । एवम् आवसथ्यसम्बन्धिन्यां नवेष्ट्यां प्रोषितस्य यजमानभागम् अग्नौ प्रक्षिपेत् ।

अङ्गिराः

लौकिकं वैदिकं वापि यज् जुहोति यथाविधि ।

वैदिकात् स्वर्गम् आप्नोति लौकिकं स्वर्गसाधनम् ॥

“लौकिकम्” स्मार्तम् । “वैदिकं” श्रौतम् । “स्वर्गम् आप्नोति” [मोक्षम् आप्नोति] ।

[१२६] देवलः

नाग्निहोत्रं समाधाय जीवितार्थम् अपि त्यजेत् ।

सर्वे वेदास् तदर्था हि लोके ब्राह्मणजन्म च ॥

मनुः

न च कन्या न युवतिर् नाल्पविद्यो न बालिशः ।

होता स्याद् अग्निहोत्रस्य नार्तो नासंस्कृतस् तथा ॥

नरकं हि पतन्त्य् एते जुह्वतः स च यस्य यत् ।

तस्माद् वैतानकुशलो होता स्याद् वेदपारगः ॥

“अल्पविद्यः” प्रतिनिधिप्रायश्चित्ताद्यनभिज्ञः । “बालिशः” षोडशवर्षाद् अर्वाचीनः । “आर्तो” रोगादिपीडितः । “असंस्कृतः” गर्भाधानादिसंस्काररहितः । “यस्य” अग्निहोत्रिणः । तदग्निहोत्रम् इति शेषः । “वैतानकुशलः” अग्नित्रयसाध्यकर्मकरणकुशलः । कन्यादीनां चात्राग्निहोत्रे ऋत्विक्प्रतिनिधित्वेन प्राप्तानां प्रतिषेधः ।

छन्दोगपरिशिष्टे कात्यायनः ।

असमक्षं तु दम्पत्योर् होतव्यं नर्त्विगादिना ।

[१२७] द्वयोर् अप्य् असमक्षे हि भवेद् द्धुतम् अनर्थकम् ॥

विहायाग्निं सभार्यश् चेत् सीमाम् उल्लङ्घ्य गच्छति ।

होमकालात्यये तस्य पुनर् आधानम् इष्यते ॥

अरण्यात्ययनाशाग्निदाहे ह्य् अग्निं समाहितः ।

पालयेद् उपशान्ते ऽस्मिन् पुनर् आधानम् इष्यते ॥

“सीमा” अग्न्याधानादिसीमा । पत्नीयजमानयोः सीमान्तरगतयोर् होमकालातिक्रमे पुनर् आधानम् इत्य् अर्थः । “नाशः” अदर्शनम् । “समाहितः” सम्यगग्निरक्षणयत्नवान् ।

अत्र शङ्खलिखितौ

अवाप्य वृत्तिं धर्मेण नित्यस्नायी प्रियातिथिः ।

अग्निहोत्रपरः सम्यक् गृहस्थो वावसीदति ॥

[हारीतः]

    अस्कन्नपाकयज्ञः सर्वसूनाकृतेभ्यः पापेभ्यः पूतो भवति । यथा प्रजानाम् अशनम् एवम् अग्नेर् अग्निहोत्रम् इति श्रुतिः । यथा अनश्नन्त्यः प्रजाः पापीयस्त्वम् उपयान्ति, प्रमीयन्ते वा, एवं विच्छिन्नाग्निहोत्राग्नयः क्रतुनोपपन्नेनाप्य् अवसीयस्त्वम् उपयान्ति प्रमीयन्त इति । तस्माद् **[१२८]** भृत्यै [धृत्यै?] वाग्नेर् अप्रजाः । पापीयस्त्वम् उपयान्ति प्रमापयन्तीति चाग्निहोत्रम् इति श्रुतिः ।


    	आयुष्कृद् यजमानः आयुर् एव प्राणाग्निहोत्रं यथा तृप्ताः समर्था भवन्ति, एवम् अविच्छिन्नाग्निहोत्राद् अग्नयः तृप्ताः प्रीताः क्रतुषु सम्भवन्ति । जरामर्यायैव सत्त्राय दीक्षितो यो दर्शपूर्णमासारम्भणीयं करोति, स पौर्णमासेन हविषौषधिसान्नाय्यपशुषु सम्भवित्वात् सोमम् आमावास्येन दर्शेन यत्राप्याययति स सोमयाजी, तस्माद् दर्शसंस्थौ दर्शपूर्णमासबुधत्य (?) प्रथमम् एव पूतो ऽमृतत्वं गच्छन्त्य् अतिरेकाद् अन्यैः । स द्विविधो द्रव्येज्यान आत्मेज्यानश् च । यो ऽस्त्व् एवम् एव द्रव्यम् इति फलम् अभिसन्धाय सोपधं वा यजेत सा द्रव्येज्या ।


    	अथ यः श्रुतिस्मृत्यात्मज्ञानवान् अमृतवद् धविर् भूताधि**[१२९]**दैवताध्यात्मभूतं वैश्वानरं यजति स आत्मेज्या । तद् अप्य् एतद् ऋचोक्तम् – “वैश्वानरम् अतिथिम् आददानम् अन्तर्विधौ परमे व्योमन्य् आत्मन्य् आत्मानम् अभिसंविदानः । प्रतिसायम् अरतिर् याति विद्वान् सम्यग् वीरम् अतिथिं रोचयन्ति इमांल् लोकान् अमृताः सञ्चरेम” इति । 

“अस्कन्नपाकयज्ञः” अस्खलितपाकयज्ञः । अस्कन्नपाकयज्ञ इति पूर्वोक्तानुवादो ऽयं फलप्रदर्शनार्थः । “यथा प्रजानाम् अशनम्” इत्यादिना “श्रुतिर्⌈ इत्यन्तेन लौकिकाशनदृष्टान्तेनाग्निहोत्रस्यावश्यकर्तव्यताम् आह । “अनश्नन्त्यः” भोजनम् अकुर्वत्यः । “पापीयस्त्वं” कार्श्यम् । “क्रतुनोपपन्नेन” दर्शपूर्णमासादिना प्रसिद्धेन । “अवसीयस्त्वम्” अश्रेष्ठत्वम् । “धृत्यै” स्वरूपावस्थानाय । “गुप्त्यै” रक्षणाय । “आयुष्कृद् यजमानः” इत्यादिना “सम्भवन्ति” इत्यन्तेन (?) प्राणाग्निहोत्रदृष्टान्तेनाग्निहोमतृप्तानाम् उत्तरक्रतुषु सामर्थ्यं प्रदर्श्यते । “आयुष्कृत्” प्राणाग्निहोत्रकृत् । अयुःशब्देन आयुर्वर्धनहेतुत्वात् प्राणादिदेवताकम् अग्निहोत्रं लक्ष्यते । “तृप्ताः” समर्थाः । “जरामर्याय” जरामरणावधितया । “जरामर्यायैवम्” इत्यादिना “अत्रेकाद् अन्यैर्” इत्यन्तेन “आरम्भणीयेत्य्” उपक्रमेण प्रथमम् एव दर्शपूर्णमासौ प्राप्य पूतो भवति । अन्यैस् तु द्वितीयादिप्रयोगैर् जरामरणपर्यन्तैर् [१३०] अतिरेकाद् अनुष्ठानभूयस्त्वाद् अमृतत्वम् उपगच्छतीत्य् उक्तम् । औषध्यादिषु सोमस्य सम्भवित्वात् । सोमयागेन सोमम् आप्याययति । “स द्विविधः” इत्यादिना “सञ्चरेम” इत्यन्तेन याग एवाधिकारिविशेषेण फलविशेष उक्तः । “सोपधं” नैमित्तिकाद्युपाधिसहितम् । “श्रुत्यादीत्य्” अत्र ज्ञानशब्दः प्रत्येकं श्रुत्यादिभिः सम्बध्यते । “अमृतं” ब्रह्म । “हविर्भूतं” हविरात्मकम् । अधिदैवतात्मकम् । “अध्यात्मभूतं” यजमानभूतम् । “वैश्वानरं” वैश्वानरतपनहेतुम् । एवं भावापत्तौ यद् यजनं सात्मेज्या । “वैश्वानरम् अतिथिम्” इत्यादि वैश्वानरम् अतिथिरूपम् । “आददानम्” आदरेणोपचरन्तम् । “अन्तर्विधौ” अन्तर्यजने । “आत्मनि” परमात्मनि । “आत्मानं” जीवात्मानम् । “अभिसंविदानः” ध्यानाभ्यासेनैकत्वेनोपलभमानः । “अरतिः” अपगतबाह्यविषयरतिः । “परमे व्योमनि” परमाकाशे परमार्थे वियति, परमात्मनीति यावत् । तदेकत्वं प्राप्नोति ब्रह्मीभावम् अनुभवतीत्य् अर्थः । “प्रतिसायं” प्रतिसन्ध्यायां होमकाल इत्य् अर्थः । इदं नित्यकर्म कालोपकरणार्थम् ।

पुनर् हारीतः

    अक्षराद् ब्रह्म भवति ततः कर्म ततः ऋतुः ततः पर्जन्यस् ततो ऽन्नं ततो भूतानि जज्ञिरे ।

[१३१] यज्ञात् प्रजा विश्वतः सम्भवन्ति यज्ञो धारयति प्रजाः ।

यज्ञाद् भूतम् इदं सर्वं यज्ञो मेध इमास् तनूः ॥

यजमानस्य ये निन्दां प्रवदन्त्य् अबुधा जनाः ।

यज्ञापोढं तु नैतस्य पापं गृह्णन्त्य् अ[चेत]सः ॥

नास्त्य् अयज्ञस्य लोको वै नायज्ञो विन्दते सुखम् ।

अनिष्टयज्ञो ऽपूतात्मा भ्रश्यते शुष्कपर्णवत् ॥

यज्ञेन लोका विमला विभान्ति

	यज्ञेन देवा अमृतत्वम् आप्नुवन् ।

यज्ञेन पापैर् बहुभिर् विमुक्तैः

	प्राप्नोति लोकान् परमस्य विष्णोः ॥

“अक्षरात्” परमात्मनः । ब्रह्मविदो भवति प्रथमत उपलभ्यते, “निःश्वसितम् इदं यद् ऋग्वेद” इत्यादिश्रुतिदर्शनात् । “ततो” वेदात् । “कर्म” क्रिया । “क्रतुः” यागः । “विश्वतः” सर्वतः । “तनूः” शरीराणि । “यज्ञापोढं” यज्ञेनापहृतम् ।

**वायुपुराणे **।

दर्शं अ पौर्णमासं च ये यजन्ति द्विजातयः ।

[१३२] न तेषां पुनर् आवृत्तिः ब्रह्मलोकात् कदाचन ॥

पुनर् **हारीतः **।

दिव्यां गतिम् अवाप्नोति ।

[तथा]

    अहर् अहर् अग्निहोत्रदर्शपूर्णमासाग्रयणचातुर्मास्येष्टिपशुबन्धप्रभृतिभिः विधिवत् वृत्यतिरेकाद् अग्निष्टोमाद्यैः प्रवृत्तिः ।

“प्रवृत्तिः” अनुष्ठानम् इत्य् अर्थः ।

वसिष्ठः

    श्रद्धाशीलो ऽस्पृहयालुः अलसो ऽग्न्याधेयाय, नानाहिताग्निः स्यात् । अलं च सोमाय नासोमयाजी ।

“अस्पृहयालुः” परवित्तानुपलोलुपः । “अलं” समर्थः । सामर्थ्यं च धनविद्यादिसम्पत्तिः ।

मनुः

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।

[१३३] अधिकं वापि विन्देत स सोमं पातुम् अर्हति ॥

अतस् त्व् अल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ।

स पीतसोमपूर्वो ऽपि न तस्याप्नोति तत् फलम् ॥

“त्रैवार्षिकं” वर्षत्रयं येन वर्तनं भविष्यतीति । “भृत्याः” अवश्यपोष्याः ।

याज्ञवल्क्यः

त्रैवार्षिकाधिकान्नो यः स सोमं पिबति द्विजः ।

प्राक्सौमिकीः क्रियाः कुर्याद् यस्यान्नं वार्षिकं भवेत् ॥

“प्राक्सौमिकीः” सोमात् प्राक् तत्र भवाः चातुर्मास्यादिक्रिया । एतच् च नित्यविषयम् अपि, “सोमं पिबति” इत्यविशेषोपादानात् । त्रैवार्षिकाधिकान् प्रत्यश्चानरी न (?) प्रतिसंवत्सरं सोमम् इत्य् एवम् उक्ता, तत्तदभावे वैश्वानरी याज्ञवल्क्येनाप्य् उक्ता यतः ।

मनुः

इष्टिं वैश्वानरीं नित्यं निर्वपेद् अब्दपर्यय्ते ।

[१३४] कॢप्तानां पशुसोमानां निष्कृत्यर्थम् असम्भवे ॥

“कॢप्तानां” आवश्यकत्वेन बोधितानाम् । “निष्कृतिः” तदकरणप्रत्यवायनिर्गमनम् । “असम्भवे” पूर्वोक्तधनपश्वाद्यसम्भवे ।

तथा

पुण्यान्य् अन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।

न त्व् अल्पदक्षिणैर् यज्ञैर् यजेतेह कथञ्चन ॥

इन्द्रियाणि यशः स्वर्गम् आयुः कीर्तिं प्रजाः पशून् ।

हन्त्य् अल्पदक्षिणो यज्ञस् तस्मान् नाल्पधनो यजेत् ॥

प्राजापत्यम् अदत्वाश्वम् अग्न्याधेयस्य दक्षिणाम् ।

अनाहिताग्निर् भवति ब्राह्मणो विभवे सति ॥

“ब्राह्मणो विभवे सति अन्यानि पुण्यानि” अत्यन्तधनसाध्यानि दानादीनि । “अल्पधनैर्” इत्य् अल्पत्वं विहितद्वादशशतादिसङ्ख्यापेक्षया । “अश्वः प्राजापत्यः” स्वभावाद् एवाश्वस्य प्रजापतिदेवताकत्वात् । “अनाहिताग्निर् भवति” आधानफलं न प्राप्नोतीत्य् अर्थः ।

[१३५] राजधर्मेषु शङ्खलिखितौ

    नाल्पसम्भारो यजेत नास्तीति संवत्सरवृत्तिर् अनिष्टं हि राष्ट्रे निपतत्य् अनिष्टं यज्ञसवनं यजमानं छादयति ।

“अनिष्टं” अनर्थस्यायजनम् । “यज्ञसवनं” यज्ञः स हि तं “छादयति” पापेन सम्बध्नाति ।

पुनः शङ्खलिखितौ

ऋत्विक् मन्त्रसमायुक्तः यस् त्व् औषधिगुणान्वितः ।

यज्ञेन देवान् आप्नोति यावन् नाप्नोति दक्षिणाम् ॥

प्रत्याश्रमं स्थिता वर्णाः कर्मभिर् व्यक्ततां गताः ।

नियमाचारधर्माणां ब्राह्मणस् तत्र देशकः ॥

सम्पूज्यः सो ऽर्चनीयश् च गुरुः संस्कारकर्मकृत् ।

अग्नयस् तन्मुखाः सर्वे देवाश् चाग्निमुखाः स्मृताः ॥

ऋचो यजूंषि सामानि अथर्वाङ्गिरसानि च ।

तानि विप्रेष्व् अधीतानि ते यज्ञा आप्तदक्षिणाः ॥

सम्यग्वित्ताद्याप्ता दक्षिणा यैस् ते आप्तदक्षिणाः । अनेन च ब्राह्मणद्वारेण सम्पूर्णदक्षिणादानं प्रतिपाद्यते ।

[१३६] छन्दोगपरिशिष्टे कात्यायनः

नैकयापि विना कार्यम् आधानं भार्यया द्विजः ।

अकृतं तद् विजानीयात् सर्वा अन्वारभन्ति यत् ॥

वर्णज्येष्ठेन बह्वीभिः सवर्णाभिश् च यत्नतः ।

कार्यम् अग्निच्युतेर् आभिः साध्वीभिर् मन्थनं पृथक् ॥

न तु शूद्रां नियुञ्जीत न द्रोहद्वेष्यकारिणीम् ।

नाशासनस्थाम् अन्येन पुंसा च सह सङ्गताम् ॥

ततः शक्ततरा पश्चाद् आसाम् अन्यतमैव या ।

उपेतानां चान्यतमा मन्थेद् अग्निं निकामतः ॥

अर्था भवन्ति सहाधिकारं प्रतिपद्यन्ते । एतेनैतद् उक्तम् — बहुपत्नीकेनैकस्या अपि पत्न्या असन्निधाने आधानं न कर्तव्यम् इति । बह्वीषु अनेकवर्णासु सर्वज्येष्ठैवाग्निमन्थनं कुर्यात् । सर्वाभिर् अपि सवर्णाभिः साध्वीभिः पृथङ्मन्थनं कार्यम् । “अग्नुच्युतेः” यावद् अरणीभ्याम् अग्निनिःसरणम् । “अशासनस्थां” भर्तुर् आज्ञोल्लङ्घनकरीम् । “ततो” मन्थनात् । “आसां” भर्याणां मध्ये “या शक्ततरा” सा अग्नेः परिचरणं कुर्यात् । “शक्ततरा” अग्निशुश्रूषादिकरणक्षमा । “उपेतानां” समीपस्थितानां मध्ये एका काचिद् यथेच्छातो ऽग्निं परिचरेत् ।

[१३७] याज्ञवल्क्यः

दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ।

आहरेद् विधिवद् दारान् अग्निं चैवाविलङ्घयन् ॥

“वृत्तवतीं” यथोक्तस्वधर्माचारवतीम् । “विधिवत्” यथोक्तविवाहप्रकारेण ।

स्त्रीधर्मानन्तरं मनुः

एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् ।

दाहयेद् अग्निहोत्रेण यज्ञपात्रैश् च धर्मवित् ॥

भार्यायै पूर्वमारिण्यै दत्वाग्नीन् अन्त्यकर्मणि ।

पुनर् दारक्रियां कुर्यात् पुनर् आदानम् एव च ॥

“अन्त्यकर्मणि” दाहकर्मणि ।

छन्दोगपरिशिष्टे कात्यायनः

ज्येष्ठा चेद् बहुभार्यस्य अभिचारेण गच्छति ।

पुनर् आधानम् अत्रैक इच्छन्ति न तु **गौतमः** ॥

[१३८] दाहयित्वाग्निभिर् भार्यां सदृशीं पूर्वसंस्थिताम् ।

पात्रैश् चाथाग्निम् आदध्यात् कृतदारो ऽविलम्बितः ॥

“अभिचारः” व्यभिचारः । “पूर्वसंस्थितां” पूर्वमृताम् । एतच् चाग्निहोत्रग्रहणं स्मार्ताग्नेर् अप्य् उपलक्षणार्थम् । अयम् आचारः सवर्णज्येष्ठपत्नीमात्रमरणविषयः । भार्यादिशब्दैर् अविशेषेण भर्यामात्रोपादानात् । न चाग्नये वाप्य् एते पत्न्यां मृतायाम् [आद्रि]यन्त इत्य् अग्निक्रतौ अविशेषेण ज्येष्ठपत्नीमात्रमरणे अग्नीनाशावाग्नित्वेनत्त्य (?) ज्य[त्व]प्रतिपादनात् (?) ।

यानि तु,

मृतायाम् अपि भार्यायां वैदिकाग्निं न हि त्यजेत् ।

उपाधिना हि तत् कर्म यावज्जीवं समापयेत् ॥

यो दहेद् अग्निहोत्रेण स्वेन भार्यां कथञ्चन ।

सा स्त्री सम्पद्यते न स्त्री दाही तु न पुमान् भवेत् ॥

द्वितीयायां च भार्यायां दहेद् वैतानिकाग्निभिः ।

[१३९] जीवन्त्यां पूर्वभार्यायां सुरापानसमं हि तत् ॥

मृतायां तु द्वितीयायां यो ऽग्निहोत्रं समुत्सृजेत् ।

ब्रह्मोज्झं तं विजानीयात् यश् च कामान् समुत्सृजेत् ॥

बर्हिस्तरणमन्त्रेण पश्चाद् अग्नेर् अनेकस्येति श्रुतानि वचनानि बर्हिस्तरणम् इत्य् अतो ऽन्यानि (?) तावत् सन्दिग्धमूलानि असवर्णद्वितीयपत्नीमरण[मात्र]विषयाणि ।

[१४०]

अथ यजनयाजने

तत्र बौधायनः

    अथाग्न्याधेये “यद् देवा देवहेडनं यद् अदीव्यन्न् ऋणम् अहं बभूव आयुष्टे विश्वतो दधत्” इति पूर्णाहुतिं हुत्वाग्निहोत्रम् आरिप्समानो दशहोतारं कृत्वा, दर्शपूर्णमासाव् आरप्स्यमानश् चतुर्होतारम्, चातुर्मास्यम् आरप्स्यमानः पञ्चहोतारं कृत्वा, पशुबन्धे षड्ढोतारं सोमे सप्तहोतारम् इति विज्ञायते । कर्मादिष्व् एतैर् जुहुयात् पूतो देवलोकं समश्नुत इति हि ब्राह्मणम् ।

उक्ताग्न्याधेयादिकर्मारम्भेषु दशहोत्रादयः “चितिः स्रुक्” इत्यादयो मन्त्रविशेषाः ।

अत्र आपस्तम्बः

    पाणिग्रहणाद् अधि गृहमेधिनोः वृत्तं कालयोर् भोजनम् अतृप्तिश् चान्नस्य, पर्वसु चोभयोर् उपवासः औपवस्तम् एव कालान्तरे भोजने तृप्तिश् चान्नस्य यच् चैतयोः प्रियं स्यात् तद् एतस्मिन्न् **[१४१]** अहनि भुञ्जीयाताम् अधश् च शयियातां मैथुनवर्जम् । श्वोभूते स्थालीपाकस् तस्योपचारः पार्वणेन व्याख्यातः । नित्यं लोक उपदिशति । यत्र क्वचनाग्निम् उपसमाधास्यन् स्यात् तत्र प्राचीर् उदीचीश् च तिस्रस् तिस्रो लेखा लिखित्वाद्भिर् अवोक्ष्याग्निम् उपसमिन्ध्याद् उत्सिच्योदकम् उत्तरेण पूर्वेण वान्यद् उपदध्याद् अद्भिर् अशून्यानि स्युः ।

“पाणिग्रहणाद् अधि” पाणिग्रहणोपरि । “गृहमेधिनोः” दम्पत्योः । “कालयोः” सायं प्रातश् च । “अतृप्तिः” अत्यशननिवृत्तिः । “अन्नस्य” इति सुहितार्थयोगे करणे षष्ठी । “पर्वसु” पौर्णमास्यमावास्ययोः । “उभयोः” जायापत्योः । उपवासो ऽत्रानशनं कृत्वोपवस्तव्यम् एव । (?) औपरभञ्चयग्राम्यारण्यं ध्रुवन्त्य् अक्त्वा गार्हपत्याहवनीयवसनं तद् एव च भोजनं कालान्तरे, भोजनं त्व् अग्न्याधानानन्तरम् एव सायं प्रातः कालयोर् वा । किं तु “अपराह्णे व्रतोपायनीयम् अश्नीत” इत्यादि कात्यायनवचनात् “तृप्तिश् चान्नस्य” इति आपस्तम्बशाखिनाम् अमावास्याविषयम् । पौर्णमास्याम् एवोपवत्स्यन्तौ नातिसुहिताव् इति कल्पसूत्रवचनात् ।

[१४२] यच् चैतयोः प्रियं स्यात् विहितानाम् आज्यदध्यादीनाम् अन्यतमम् । एतस्मिन्न् अहनि न तु पूर्वदिने । “अधः” न पर्यङ्कादौ । “श्वो भूते” प्रतिपदि । “उपचारः” फलीकरणादिः । “पार्वणेन” पर्वभवेन स्थालीपाकेन । “उपसमिन्ध्यात्” दीपयेत् । “उत्सिच्योदकं” यस्यां कस्यां दिशि । “अन्यत्” उदकान्तरम् । उपधानानि च समादीनि ॥”नित्यं” यावत् प्रयोगकालम् ।

हारीतः ।

    देवपित्रर्थे श्वोभूते अप्य् औपवस्तं नैवातिकामम् अश्नीयात् ।

“श्वो भूते” दर्शपूर्णमासाभ्याम् अन्यत्रापि देवपितृकार्ये श्वोभाविनि सति । “औपवस्तम्” भोजननियमविशेषाः, “अमाषम् अमांसं बहुसर्पिष्कं व्रतं व्रतयति” इत्य् एतद्वचनविहितम् ।

पैठीनसिः

    औपवसथ्ये ऽहनि भक्तं हविष्यम् इत्य् उक्तम्, न क्रुद्धो नानृतं वदेत् । न वृथा जनैः सह सम्भाषेत । शुचिर् दान्तो ऽप्रमत्तो दक्षो जितेन्द्रियो यजेत् । मध्याह्नस्योपरिष्टाद् **[१४३]** धविष्यं भुक्त्वा बर्हिर् इध्मं सन्नभ्याग्निपरिग्रहं कृत्वा न प्रवसेद् अधः शयीत कामं तु वा यजेत् । पौर्णमास्यां कृत्तश्मश्रुर् अलङ्कृतो ऽभ्यक्तो गन्धपुष्पादि सेवेत । पितरो ह वै शुचिकामा श्राद्धकल्पेन ब्राह्मणतर्पणं व्याख्यातम् इति ।

“औपवसथ्ये ऽहनि” यागदिनात् पूर्वदिने । “भक्तं” भक्ष्यम् । “अग्निपरिग्रहः” अत्राग्न्यादिदेवतानां यष्टव्यत्वेन सङ्कल्पः । “अभ्यक्तो” घृतादिना । “ब्राह्मणतर्पणं” पौर्णमास्यमावास्ययोः । “श्राद्धकल्पेन” श्राद्धप्रकारेण बहून् भोजयेद् इत्य् अर्थः ।

बौधायनः

    अहतवाससां शुचिर् इति तस्माद् यत् किञ्चेज्यादिसंयुक्तं **[१४४]** स्यात् सर्वं तद् अहतैर् वासोभिः कुर्यात् प्रक्षालितोपवातान्य् अक्लिष्टानि वासांसि पत्नीयजमानाव् ऋत्विजश् च परिदधीरन्न् एवं प्रक्रमाद् ऊर्ध्वं दीर्घसोमेषु । सर्वत्रैव ऋत्विजो यथा समाम्नातं स्यात् । यथैतद् अभिचरणीयेष्टिपशुमेधेषु लोहितोष्णीषाः लोहितवाससश् चर्त्विजः प्रचरेयुश् चित्रवाससश् चित्रसङ्ख्या वृषाकपाव् इति ।

तथा

    क्षौमाणि वासांसि तेषाम् अलाभे कार्पासिकान्य् और्णिकानि भवन्ति ।

वाससां मध्ये अहतं वासः श्रेष्ठम्, तद् दधता क्रियमाणो यज्ञः शुचिः । “उपवातानि” शुष्काणि । “अक्लिष्टानि” अच्छिद्राणि । “दीर्घसोमेषु” दीर्घकालव्यापिषु सोमेषु । ऋत्विजस् तु सर्वाणि कर्माणि यथाविहितम् । यादृशं विहितं तादृशं वासः । तद् एव दर्शयति — “तथैतद्” इत्यादिना । “अभिचरणीयम्” अभिचारसाधनं श्येनादि । “चित्रवाससः” विचित्रवस्त्राः । “वृषाकपौ” प्रक्रम्यमाने । “क्षौमाणीत्य्”आदिना पत्नीयजमानयोर् एव प्रकृतत्वात् । आधने वसोन्तरविधानम् एतत् ।

**[१४५] यमः **।

कृष्णाजिनं ब्राह्मणस्य वैयाघ्रं क्षत्रियस्य तु ।

बस्ताजिनं तु वैश्यस्य शाणं क्षौमं तु सर्वतः ॥

बौधायनः

    उत्तरत उपचारो विहारः । तथापवर्गः । विपरीतं पित्र्येषु । पदोपहतं प्रक्षालयेत् । अङ्गम् उपस्पृश्य सिचं वा अपः स्पृशेत् । एवं छेदनभेदन-खननदहननिरसनपित्र्यराक्षसनैरृतरौद्राभिचारिकेष्व् अप उपस्पृशेद् इति विज्ञायते ।


    	न मन्त्रवता यज्ञाङ्गेनात्मानम् अभिपरिहरेत् । अभ्यन्तराणि यज्ञाङ्गानि । बाह्या ऋत्विजः । पत्नीयजमानौ ऋत्विग्भ्यो ऽब्यन्तरतरौ । यज्ञाङ्गेभ्य आज्यम् आज्याद् धवींषि, हविर्भ्यः पशुः, पशोः सोमः, सोमाद् अग्नयः ।


    	यथ कर्मर्त्विजो न विहाराद् अभिपर्यावर्तेरन् । प्राङ्मुखो दक्षिणम् अंसम् अभिपर्यावर्तते । प्रत्यङ्मुखः सव्यम् । अन्तरेण चात्वालोत्करौ यज्ञस्य तीर्थम् । अचात्वाल आहवनीयो**[१४६]**त्करौ । ततः कर्तारो यजमानः पत्नी च प्रपद्येरन् । विसंस्थिते । संस्थिते च सञ्चरो ऽनूत्करदेशात् । नाप्रोक्षितम् अप्रपन्नं क्लिन्नं काष्ठं समिधं वाग्नाव् आदध्यात् । अग्रेणाहवनीयं ब्रह्मयजमानौ प्रद्येते । जघनेनाहवनीयम् <span style="text-decoration:underline;">इत्य् एके</span> । दक्षिणेनाहवनीयं ब्रह्मायतनं, अपरेण यजमानस्य । उत्तरां श्रोणिम् उत्तरेण होतुः । उत्कर आग्नीध्रस्य । जघनेन गार्हपत्यं पत्न्याः । तेषु काले काल एव दर्भसंस्तरणम् । एकैकस्य चोदककमण्डलुर् उपात्तः स्याद् आचमनार्थे । व्रतोप्रेतो दीक्षितः स्यात् । न परापवादं वदेन् न क्रुध्येन् न रोदेत् मूत्रपुरीषे नाभिवीक्षेत । अमेध्यं दृष्ट्वा जपति — “अबद्धं मनो दरिद्रं चक्षुः सूर्तो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीर्” इति ।

विह्रियत इति विहारः विहृतो ऽग्निः । स “उपरत उपचारः” उत्तरस्मिन् भागे उपचारः प्रवेशोपक्रमो यस्य स तथोक्तः । “अपवर्गः” कर्मसमाप्तौ निर्गमनम् । सो ऽपि तथा उत्तरतः । “पित्र्येषु” पिण्डपितृयज्ञदिषु । एतद् द्वयम् अपि विपरीतं विरहितम् एतस्मिन् विहारस्य दक्षिणभाग इत्य् अर्थः । “पदोपहतम्” पादेन स्पृष्टम् । यज्ञाङ्गं स्रुवाति “अङ्गं उपस्पृश्य [१४७] स्वाङ्गम् अङ्गम् अत्र नाभेर् ऊर्ध्वम्, “ऊर्ध्वं वै पुरुषस्य नाभेर् मेध्यम् अवाचीनम् अमेध्यम्” इति तैत्तिरीयश्रुतेः । “सिक्” वस्त्रप्रान्तः । उदकस्पर्शनं कार्यम् । “मन्त्रवता” मन्त्रवद् यत् कर्म यज्ञे क्रियते ऽत्र यत् साधनं स्रुवादि, तेनात्मानम् अभिपरिहरेत् । नात्मशरीराद् अन्यत्रे तस्मिन् काले तद् धारयेत् ।

अत्रैव हेतुः — “आभ्यन्तराणि यज्ञाङ्गानि बाह्याः” अनभ्यन्तरङ्गाः । “यज्ञाङ्गेभ्यः” स्रुवादिभ्यः । (?) “आज्यं हवींषि” पुरोडाशरूपाणि । “यथाकर्म” इति । यत्र यत्र कर्मणि य ऋत्विक् स तत् कर्म परिसमाप्तिकालं यस्मात् तस्माद् विहारदेशात् स्वेच्छया आवश्यककार्यार्थं विनान्यत्र न गच्छेद् इत्य् अर्थः । “प्राङ्मुखः” यदा पर्यावर्तेत तदा । “दक्षिणं” अङ्गम् अभिदक्षिणम् इत्य् अर्थः । प्रत्यङ्मुखः सन् यजमानो नाभिपर्यावर्तेत । तदा सव्यम् अङ्गम् अपि प्रदक्षिणम् इत्य् अर्थः ।

“अन्तरेण” इति चत्वालोत्करमध्ये । “यज्ञतीर्थम्” यज्ञार्थम् ऋत्विगादीनां प्रवेशं आहुः । “अचात्वाले” चात्वालरहिते दर्शपूर्णमासादौ । “आहवनीयोत्करौ” अन्तरेण यज्ञतीर्थम् इत्य् अनुषङ्गः ।

“ततः” तेन मार्गेन । “कर्तारः” ऋत्विजः । “प्रतिपद्येरन्” प्रविशेयुः । “संस्थिते” समाप्ते यज्ञे । “सञ्चारः” सञ्चरणं नोत्करदेशाद् बहिर् इति शेषः । “अप्रपन्नम्” अप्रयत्नप्राप्तम् । “जघनेन” पश्चात् । “तम् अपरेण” तस्माद् ब्रह्मणः पश्चिमेन “उत्तरां श्रोणिं” वेदेर् इति शेषः । “उत्करः” आग्निध्रियस्य आयतनम् **[१४८]** इत्य् अनुषङ्गः । “जघनेन गार्हपत्यं पत्न्याः” गार्हपत्यात् पश्चिमे प्रदेशे । अत्राप्य् आयतनम् इत्य् अनुषङ्गः । “तेषु” आयतनेषु कालेषु “दीक्षितः” दीक्षावान् “व्रतोपेतो” भवेत् । तान्य् एवाह – “परापवादं” विरुद्धं परस्य कृते न ब्रूयाद् इत्य् अर्थः । “अमेध्यं” मूत्रपुरीषे । “अबद्धम्” इत्यादि “मा मा हासीः” इत्यन्तो मन्त्रः ।

**हारीतः **।

    देवतोत्तारणार्थं संस्कारेण संस्कृते देवानां समानतां समानलोकतां सायुज्यतां गच्छति । तेन देवसम्मितम् एवाहिताग्निं प्राहुः । स ऋग्युजुःसामसु लोकेषु ज्योतिःषु देवेषु ब्रह्मणि वा हितो भवति । स ह्य् एतां सायम्प्रातर् अहर् अहः प्रीणाति । तं ह्य् एते सायम्प्रातर् अहर् अहः पावयन्ति । तस्याहर् अहर् अग्निमुखाः सायम्प्रातर् हव्यायावतिष्ठन्ते । तस्माद् धविर्विदाम् अप्य् अनाहिताग्नीनाम् आहिताग्निः पुण्यतमो भवति । तस्मान् नोपविष्टाग्निहोत्री स्यात् ।


    	यथा वै ब्राह्मणान् आहूय नियुज्य तस्यान्नं नाश्नीयाद् एवं **[१४९]** यद् अहुते ऽश्नाति तस्माद् अभिजितम् अश्नीयात् । नानृतं ब्रूयान् नाश्लीलं नानियतो नाशुचिः स्यात् नान्यदारान् गच्छेत् न तैस् तिष्ठेन् नाविष्टो ऽपः पिबेन् नाशुचिः क्लिन्नपूतिभिर् वा दारुभिर् अग्निम् इन्धीत नाग्निवेलयोः प्रवसेत् । पर्वसु चापत्सु प्रोषितो वेलायां वाग्यतः । प्रतिदिनम् अग्निहोत्रं मनसा ध्यात्वावस्थाय मन्त्रतो हुतं ज्ञात्वा व्रतं ये दम्पत्योपस्थायाम् अभिभाषेत (?) निम्रुक्ते वाचं यच्छेद् ओदयाद् आ होमाद् उभयतः । स्वयम् अग्निहोत्रं जुहुयाद् अन्यत्रोपासीत । सायम् अप्य् उपस्थाय परीत्य नमस्कृत्य प्रसरेत् तथा । प्रातर् नादर्भो ऽग्निं परिध्वरेत नायज्ञियैर् जुहुयाद् धुतशेषं ब्राह्मणाय दद्यात् ।

रूढो युवा न न बालिशो वा प्रदोषे ऽग्निं जुहुयात् । “देवसम्मितं” देवतुल्यम् । उपविष्टाग्निहोत्री उपविष्टं होमवधशून्यं (?) अग्निहोत्रं यस्य स तथा । “आहूय” नियुज्य । श्राद्धभोजनार्थम् उपविश्य तस्य सम्बन्धि यत् तद् आत्मनाश्नीयात् । [१५०] एवम् एवासौ यो हुतं अश्नाति । “अभिजितं” हुतपूर्वकं, “अश्लीलं” असभ्यं न ब्रूयाद् इत्य् अनुषङ्गः । “अनियतः” असंयतेन्द्रियः । नाविष्टः एकाधारः । “अग्निवेला” होमदानकालः । पर्वसु च न प्रविशेद् इत्य् अनुषङ्गः । यदि च प्रवसेत् विधानम् अकृत्वा आपत्काले कार्यतारतम्येन प्रवसेत् । तदा प्रतिदिनम् अग्नीन् मनसा ध्यात्वा उपस्थानं कृत्वा मन्त्रतो हुतं ज्ञात्वा “व्रतयेत्” भुञ्जीत । “एत्य” प्रवासाद् आगत्य उपस्थाय अभिभाषेत । अग्न्युपस्थानम् अकृत्वा न किञ्चिद् ब्रूयाद् इत्य् अर्थः । “निम्रुक्ते” अस्तमिते । “आ उदयात्” आसूर्योदयात् । “आ होमात्” सायंहोमसमाप्तिपर्यन्तम् । अयं चोदयपर्यन्तं वाङ्नियमः असमशिष्टत्वात् फलविशेषार्थिनो बोद्धव्यः । “उभयतः” सायं प्रातश् च । “स्वयं” आत्मनैव । “अन्यत्र” इति । अन्यस्मिन् अग्निहोत्रहोमकारिणि । “स्वयम् अग्निम् उपासीत” ध्यायन् समीपे तिष्ठेद् इत्य् अर्थः । नित्यं कर्तव्यान्त्रम् आह — अपहृत्य प्रदक्षिणम् अकृत्वा प्रातर् अप्य् उपस्थानादित्रयं कुर्यात् । “अदर्भं” दर्भस्य दक्षिणहस्तसम्बन्धं विना । “अयज्ञियैः” माषादिभिः ।

पुनर् **हारीतः **।

    माषमसूरमधुमांसपरान्नमैथुनानि व्रत्ये ऽहनि वर्जयेत् । **[१५१]** व्र्ता(?)येनाकाले वाचं विसृजेत् । नवसस्यम् अश्नीयाद् दीर्घसत्रे ऋतौ जायाम् उपेयात् । न मध्व् अश्नीयात् पय आदिहविःशेषं वा दीक्षितो दीक्षितनियमान् वा यजमाननियमान् इष्ट्वा वेष्टिनियमान् ।


    	दीक्षितः क्षौमवासा जटी मेखली यज्ञोपवीती उष्णीषी कृष्णाजिन आसीत । वाग्विसर्गाश्रुविदलनावगाहनमेहनविवृतशायनदर्शनविस्मितदन्तधावन-निष्क्रमणानि च दीक्षितो विवर्जयेत् । विजृम्भमाणो हसित्वा पाणिना पिदध्यात् । मूत्रपुरीषनिष्ठीवनं चातपे न कुर्यात् इति दीक्षितनियमाः ।


    	क्रोधाहङ्कारभयविषादकार्पण्यलोभान् यजमानो वर्जयेत् । आहितुभिर् देवान् यजेत् । अत्राद्येन दक्षिणाभिश् च ब्राह्मणान् इति यजमाननियमाः ।


    	स एष योनिनानासङ्गविष्ठा(वि)वर्जयेत् (?) । जलाग्निवायुसोमसूर्याणाम् अशुचिभिर् अर्थैर् नोपचरेद् इतीष्टिनियमाः ।


    	न पशुं सञ्ज्ञप्यमानम् ईक्षेत, न स्पृशेद् यूपशूलान् इति **[१५२]** नियतं सङ्कीर्णप्रतितो यज्ञः । स्रवत्य् अनुयज्ञं यजमान आर्तीर् उपैति सर्वयोनिष्व् आगच्छति आयुषो वावरुध्यते । तस्मात् कुलश्रुतशीलवृत्तसम्पन्नान् ऋत्विजो वृणुयात् । तस्य सर्वकामदुहं यज्ञं दक्षिणाभिः कुर्वन्ति । अनुयज्ञं यजमानः अनुयजमानं प्रजाः पशूनां दद्याद् ओषधिपशुसोमैर् हुतं यज्ञं दक्षिणाभिः सम्पादयन्ति । दक्षिणाहत एव हतः । तस्य सर्वकामदुहं यज्ञं दक्षिणाभिः सम्पादयन्तीति दक्षिणां ददाति चन्दमसस् तेन लोकं यजति । यद् धोत्रे ऽग्निलोकं यद् उद्गात्रे पर्जन्यलोकं तेन यद् धोत्रासंसिभ्यः दिशस् तेन यद् वसु अनुग्रहकर्तृभ्य इदं तेन लोकं यच् छुश्रूषवे अनूचानाय स्वर्गं तेन लोकं यावत् ददाति क्षेत्रम् आर्त्तीश् च तेन यजति । यत् पापीयस ददाति, तद् अनया दक्षिणया निष्क्रीणामीति ।


    	चन्द्रमा वै ब्रह्मा तद् यावच् चन्द्रमा न क्षीयते तावद् अस्येष्टं दत्तम् अक्षयं भवति । होतर् वाचं ते ददामि तम् अनया दक्षिणया निष्क्रीणामि चेत्य् अग्निर् होता तद् यावद् अग्निर् न क्षीयते, तावद् अस्येष्टं दत्तम् अक्षयं भवति । उद्गातः श्रोत्रं ते ददामि तद् अनया दक्षिणया निष्क्रीणामि पर्जन्यो वै श्रोत्रं पर्जन्य उद्गाता तद् यावत् पर्जन्यो न क्षीयते, तावद् अस्येष्टं दत्तम् अक्षयं भवति । अध्वर्यो चक्षुस् ते ददामि तद् अनया दक्षिणया **[१५३]** निष्क्रीणामि इत्य् अग्निर् असौ वा आदित्यश् चक्षुर् असाव् आदित्यो ऽध्वर्युस् तद् यावद् असाव् अदित्यो न क्षीयते, तावद् अस्येष्टं दत्तम् अक्षयं भवति । होत्राशंसिनः अङ्गानि वो ददाम्य् अनया दक्षिणया निष्क्रीणामिति दिशो वै होत्राशंसिनो दिशो ऽङ्गानि तद् यावद् दिशो न क्षीयते तावद् अस्येष्टं दत्तं अक्षयं भवति । अथाप्य् अत्रोदाहरन्ति —


    	ब्रह्मयज्ञो ब्राह्मणेष्व् अन्वतिष्ठत्


    		तस्मात् तस्य ब्राह्मणाः पावितारः ।


    	तस्मात् तेषां यज्ञभागार्हकाणां


    		यज्ञे विप्राणां दक्षिणा साधु देया ॥


    	त्रयो यज्ञस् तृतीयस् तस्य प्राणाः


    		प्राणैर् यज्ञस् त्व् आयते (?) कर्मयोगात् ।


    	तस्माद् ऋत्विग्भ्यो भूयसीं दक्षिणां वै


    		दद्यात् प्राज्ञो यज्ञभूयस्त्वम् इच्छन् ॥


    	यजुर् यज्ञं व्यभजद् भागशो वै


    		मध्यद्यत्तं (?) न तु ते कर्मयोगात् ।

[१५४] यजुष्व् एते महिमानं विदित्वा

    		यजुर्विद्भ्यः कर्तृधनं च देयम् ॥


    	वर्णैर् मात्राभिर् अक्षरैश् च स्वरैश् च 


    		पादैः पादैर् अर्धर्चैर् विरामैः ।


    	होत्रैः स्तोत्रैः कालकर्मप्रयोगैः


    		ये वोढारो भाग्यदानं तु तेषाम् ॥


    	धर्मो यज्ञो धर्मतो धर्मविद्भिः


    		धर्मो भूतः क्रियते कर्महेतोः ।


    	धर्मो लोकांस् त्रायते तत्र विप्राः


    		तस्मात् तद्विद्भ्यो धर्मधनं प्रदेयम् ॥


    	सूर्यः स्वर्भानुस् तमसा नाशयेद् यत्


    		ततो लोका नाविर् आसन् न यज्ञः ।


    	न सत्रिरत्वाय शान्नमः


    		तस्माद् यज्ञश् चत्रिधनं प्रचक्षुः (?) ॥


    	सुहृन् मित्रं बान्धवाः कारिणश् च


    		नानायोगैः सम्भवन्ते मखं वै ।

[१५५] ततो यज्ञस् त्रायते नासहायस्

		तस्माद् विद्वान् पूजयेन् नान्यथावत् ॥

	न्यायाद् द्रव्याद् ऋत्विग्भिश् चैव शुद्धै

		रत्नत्यागाद् दक्षिणाभिश् च यज्ञः ।

	इष्टान् लोकान् सर्वकामोपपन्नान्

		नयेद् विराजं ब्रह्मलोकं प्रतिष्ठाम् ॥

	विष्णुं यज्ञं प्रवदन्तीह तज्ज्ञा

		यज्ञस्याग्निम् अतिथिं चैव वदन्ति ।

	तस्माद् यज्ञे विविधैर् द्रव्ययोगैस्

		त्रयो भूत्वा तर्पयेद् वै हुताशम् ॥

	अग्निं रुद्रम् उत कालं वदन्ति

		यस्येमे मोहानुभूताः प्रजा वै ।

	तर्पयित्वैवैनम् अमृता भवन्ति

		नैनं ये विदुस् ते ऽन्नम् इवास्य कॢप्ताः ॥

	अग्निः पिता ह्य् उत मातात्र न भ्राता

		अग्निर् गोप्ता रक्षिता दुष्कृताच् च ।

[१५६] अग्निर् दाता पुत्रपत्नीश्रियां हि

		सर्वस्माद् दुर्गात् तारणं चाग्निम् आहुः ॥

	देवा देवत्वम् अग्निनैवाप्तवन्तः

		सर्वान् लोकान् अमृतत्वं तथैव ।

	तपस् तप्त्वैवाग्निनैवाग्निलोकान् 

		जित्वा ऋषयो ब्रह्मभूयाय गच्छन् ॥

	तस्माद् वीरः शुश्रुवान् न्यायवृत्तिः

		चिन्वानो ऽग्नीन् विधिम् आस्थाय भक्त्या ।

	क्षान्तो दान्तो निर्मलो वीतशोको

		गच्छेल् लोकान् ऋषिदेवानुयातान् ॥

	सुखसौम्यान् सर्वकालोपपन्नान्

		स्वस्थो गच्छेत् खेचरैर् वन्द्यमानः ।

	ऋद्धः श्रीमान् सुसुगन्धिर् घृतात्मा

		मृत्योर् मुक्तो ब्रह्मलोकं प्रयाति ॥ इति ।

“व्रत्ये” पौर्णमास्यादौ । “व्रतोपेतः” कृतवाङ्नियमः । “अकाले” हविःकृतात् कालादेर् अर्वाक् । “अग्निम् उपेत्य” अग्नि**[१५७]**समीपं गत्वा । “न पर्यावर्तेत” पर्वर्तनम् अग्निपराङ्मुखत्वम् ।

“बिभ्रद्व्रतकामवद्भ्याम्” इत्यादि । यदा वासो बिभृयात् तदा “त्वम् अग्ने व्रतपा असि,” “तुभ्यन्ता अङ्गिरस्तम” इत्य् एताभ्यां व्रतकामशब्दयुक्ताभ्याम् उपस्थायान्यत्र वसेत् ।

पुनर् इत्यादेर् अयम् अर्थः — भयेनान्यत्र वसेत् । “मनो ज्योतिर् जुषताम्” इति, “त्वम् अग्ने व्रतपा असि” इति द्वाभ्यां मन्त्राभ्याम् अस्तमयात् प्राक् प्रथमोदिते च सूर्ये उपस्थानं कृत्वा दर्शादियागं कुर्यात् ।

इष्ट्वा नवसस्येनैव नवसस्यम् अश्नीयान् नवान्नम् अश्नीयाद् इत्य् अर्थः । “दीर्घसत्रेषु” शतरात्रादिषु । “पय आदिहविःशेवं वा” इति । पयोदध्यादियागशेषभूतं वाश्नीयाद् इत्य् अनुषङ्गः ।

यजमानो दीक्षितश् चादीक्षितश् च । वाग्विसर्गः “दीक्षितवाचं विसृजस्व” इति प्रश्नोत्तरकालम् । “उदितेषु” नक्षत्रेषु । “विवृतशयनं” पत्नीशालातो बहिःशयनम् । “विस्मितं” विस्मयः । “पाणिना पिदध्यात्” आस्यम् इति शेषः ।

छन्दोगपरिशिष्टे कात्यायनः

निक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजं तथा ।

प्रवसन् कार्यवान् विप्रो मृषैव न चिरं क्वचित् ॥

[१५८] मनसा नैत्यकं कर्म प्रवसन्न् अप्य् अतन्द्रितः ।

उपविश्य शुचिः सर्वं यथाकालम् उपाचरेत् ॥

“निक्षिप्य” इति परिचरणार्थं समर्प्य । [“विकलय्य”] व्यवस्थाप्य । “परिकल्प्यर्त्विजम्” अग्निहोत्रादिकारिणं क्षीरहोमादिकार्यार्थम् अवस्यभर्तव्यभरणयोग्यधनार्थं क्षेमार्थं च । “मृषा” विना कार्यम् । कार्यार्थम् अपि “न चिरं” तत् तत् कल्पसूत्रोक्तप्रवासकालम् इत्य् अर्थः ।

वसिष्ठः

    नाग्निं चित्वा कृष्णवर्णां रामाम् उपेयात् । कृष्णवर्णा या रामा रमणायैव न धर्मायेति ।

“अग्निं चित्वा” अग्निचयनवन्तं यागं कृत्वा । “कृष्णवर्णीयां” शूद्रजातीयां स्वविवाहिताम् अपि न गच्छेद् इत्य् अर्थः ।

हारीतः

तामसेन तु द्रव्येण ऋत्विग्भिस् तामसैस् तथा ।

तामसं भावम् आस्थाय तामसो यज्ञ उच्यते ॥

तामसेन तु यज्ञेन दानेन तपसा तथा ।

[१५९] निरये जन्म चेद् एवं ऋद्धिं विद्यात् तु तामसीम् ॥

राजसेन तु द्रव्येण ऋत्विग्भी राजसैस् तथा ।

राजसं भावम् आस्थाय राजसो यज्ञ उच्यते ॥

राजसेन तु यज्ञेन दानेन तपसा तथा ।

निरयस्वर्गयोर् जन्म क्रूरं राज्यं श्रिया युतम् ॥

सात्विकेन तु द्रव्येण ऋत्विग्भिः सात्विकैस् तथा ।

सात्विकं भावम् आस्थाय सात्विको यज्ञ उच्यते ॥

सात्विकेन तु दानेन यज्ञेन तपसा तथा ।

देवलोके ध्रुवं वासो देवसायुज्यम् एव च ॥

“तामसं” कृष्णम् ।

पार्श्विकद्यूतचौर्यादिप्रतिरूपकसाहसैः ।

व्याजेनोपार्जितं यच् च तत् कृष्णं समुदाहृतम् ॥

इति नारदोक्तम् । ऋत्विजां च तामसभावदोषेण यज्ञे प्रचरणाद् दानतपसोर् अपि तामसत्वम् अनन्तरोक्तप्रकारम् एव बोद्धव्यम् । “तामसी ऋद्धिः” म्लेच्छाधिपत्यादिरूपा । “राजसं द्रव्यम्” शबलम् । तच् च,

कुसीदकृषिवाणिज्यशुल्कशिल्पानुवृत्तिभिः ।

कृतोपकाराद् आप्तं च राजसं समुदाहृतम् ॥

[१६०] इति नारदोक्तम् । राज्यस्य क्रूरत्वम् अहिंस्यहिंसादिना । “सात्विकं द्रव्यं” शुद्धम् । तच् च,

श्रुतशौर्यतपःकन्याशिष्ययाज्यानुपागतम् ।

धनं सप्तविधं शुद्धम् ज्ञेयम् इत्यादि सात्विकम् ॥

इति नारदोक्तम् ।

मनुः

न यज्ञार्थं धनं शूद्राद् द्विजो भिक्षेत धर्मवित् ।

यजनार्थो हि भिक्षित्वा चाण्डालः प्रेत्य जायते ॥

यज्ञार्थम् अर्थं भिक्षित्वा यो न सर्वं प्रयच्छति ।

स याति भासतां विप्रः काकतां वा समाप्नुयात् ॥

यज्ञकरणार्थं द्रव्यं शूद्रात् स्वीकृत्य न तेन यज्ञं कुर्याद् इत्य् अर्थः । ब्राह्मणादिभ्यो ऽपि यज्ञार्थम् आर्जितं धनं सर्वम् एव देयम् । अदाने तु भासः काको वा भवेत् । “भासः” गोष्ठकुक्कुटः । “समाः” वर्षाणि ।

[१६१] हारीतः

    असद्द्रव्यप्रणीतो यज्ञः प्रस्रवति अनृत्विक्प्रणीतः च्यवते ऽविद्वत्प्रणीतो ऽभावुकः । सङ्कीर्णप्रणीतो ऽसिद्धार्थो ऽकृत्स्नो ऽज्योतिर् विधिहीनो यातयामः । छद्मो ऽध्रुवः सोपधो ऽल्पफलो (न च ?) उपदिशति अदक्षिणो ऽनृत इत्य् एते यज्ञोपसर्गाः, यैर् उपसृष्टो यज्ञो ऽभावुको भवति ।

“असद्द्रव्यम्” असद्वृत्त्यार्जितम् । “स्रवति” निष्फलतां गच्छति । “अनृत्विजः” अनूचानत्वादिलक्षणरहिताः । “अविद्वान्” यज्ञकर्मानभिज्ञः यजमानो ऽपि । “अभावुकः” अरक्षकः । “सङ्कीर्णः” सङ्कराख्यपापकारी । “असिद्धार्थः” असिद्धप्रयोजनः । “अकृत्स्नः” असम्पूर्णः अङ्गयागहीनः । “अज्योतिः” अतेजस्कः, प्रभावहीन इति यावत् । “विधिहीनः” अङ्गप्रधानेतिकर्तव्यतारहितः । “छद्म” दम्भः । “अध्रुवः” अल्पकालफलदायी । “सोपधः” इष्टकीर्त्याद्यर्थम् अनुष्ठितः । “उपदिशति” उपक्षीणो भवति । “उपसृष्टः” उपसर्गाख्यदोषसम्बद्धः ।

[१६२] मनुः

ये शूद्राद् अधिगम्यार्थम् अग्निहोत्रम् उपासते ।

ऋत्विजस् ते ऽपि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥

तेषां सततयज्ञानां वृषलाग्न्युपसेविनाम् ।

पदा मस्तकम् आक्रम्य दाता दुर्गाणि सन्तरेत् ॥

“ब्रह्मवादिनो” वेदवादिनः । “वृषलः” शूद्रः ।

अत्र **छागलेयः **।

यः शूद्राद् अधिगम्यार्थम् अग्निहोत्रम् उपावसेत् ।

दाता न फलम् आप्नोति कर्ता च नरकं व्रजेत् ॥

मनुः

यज्ञश् चेत् प्रतिरुद्धः स्याद् एकेनाङ्गेन यज्वनः ।

ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥

यो वैश्यः स्याद् बहुपशुर् हीनक्रतुर् असोमपः ।

[१६३] कुटुम्बार्तस्य (?) तद् द्रव्यम् आहरेद् यज्ञसिद्धये ॥

आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः ।

न हि शूद्रस्य यज्ञेषु कश्चिद् अस्ति परिग्रहः ॥

यो ऽनाहिताग्निः शतगुर् अयज्वा च सहस्रगुः ।

तयोर् अपि कुटुम्बाभ्याम् आहरेद् अविचारयन् ॥

आदाननित्याच् चादातुर् आहरेद् अप्रयच्छतः ।

यथा यज्ञो ऽस्य प्रथते धर्मश् चैव विवर्धते ॥

“प्रतिरुद्धः” आरब्धः न विलम्बितः । “एकाङ्गेन” एकेनाङ्गेन दक्षिणादिना । “आहरेत्” तेनादीयमानं तदङ्गभूतं द्रव्यं तस्माद् गृह्णीयाद् इत्य् अर्थः । वैश्यासम्भवे तु त्रीण्य् अङ्गानि द्वे वा अङ्गे शूद्राद् अपि ग्राह्याणि “शूद्रस्य वेश्वमः” इति वाभिधानात् । बलात् शूद्रगृहाद् आच्छेदनीयम्, “न हि शूद्रस्य” इत्य् अनेन प्रकारेण शूद्रधनस्य यज्ञानुपयुक्तत्वम् आह । “अयज्वा” सोमयागरहितः । “आदाननित्यः” निन्दितानिन्दितप्रकारेणार्थार्जनतत्परः । “अदाता” अदानशीलः । अदातुर् अप्रयच्छत इत्य् उभयोपादानात् । त्रैवर्णिकः प्रथमं याचनीयः । याचितश् चेन् न ददाति तदा आहरेद् अविचारयन् ।

गौतमः

    द्रव्यादानं विवाहसिद्ध्यर्थं धर्मतन्त्रप्रसङ्गे च शूद्राद् **[१६४]** अन्यत्रापि शूद्राद् बहुपशोर् अहीनकर्मणः । शतगोर् अनाहिताग्नेः । सहस्रगोर् असोमात् । सप्तमीं चाभुक्त्वानिचयायाप्य् अहीनकर्मणा आचक्षीत राज्ञा पृष्टस् तेन भर्तव्यः । श्रुतशीलसम्पन्नश् चेद् धर्मतन्त्रपीडायां तस्याकरणे दोषः ।


    	द्रव्यस परकीयस्य अननुज्ञातस्यापि स्वीकरणं यावता विना विवाहो न निष्पद्यते तावतः । इदं च विवाहकालातिक्रमसम्भावनायां कन्यादातुः । धर्मतन्त्रस्य अग्निहोत्रादेः प्रवृत्तस्य प्रसङ्गो विच्छेदः । चकारः सिद्ध्यर्थम् इत्य् अस्यानुकर्षणार्थः । अत्रापि यावता धनेन तत् सिध्यति तावद् एवापहृत्य स्वीकर्तव्यम्, अधिकस्वीकरणे स्तेयापत्तेः ।

कुतस् तत् स्वीकर्तव्यम् अत आह — “शूद्रात्” । शूद्राद् अलाभे शूद्राद् अन्यतो ऽपि वक्ष्यमाणात् त्रैवर्णैकात् । “अहीनकर्मा” धनसाध्यादृष्टार्थकर्मशून्यः । गोग्रहणं तन्मूल्यस्याप्य् उपलक्षणार्थम् । परद्रव्यादाने अपरं निमित्तान्तरम् आह — “सप्तमीं चाभुक्त्वा” इति । सायं प्रातर् भोजनसङ्ख्यया [यद्भोजनादिक्रमे सप्तमभोजनवेलायाम् अनिचयाय] यावद् भोजनमात्रार्थं न तु सञ्चयाय । चौर्यनिमित्तं च यदि राज्ञा गृह्यते, तदा “आचक्षीत” कथयेन् न तु भयान् न ब्रवीत (?) । “धर्मतन्त्रपीडायां” **[१६५]** तस्य धर्मतन्त्रपीडावतः । अनन्तरोक्तनिमित्तत्रयवतः प्रधानकारणे ।

अङ्गिराः

खलक्षेत्रगतं धान्यं वापीकूपगतं जलम् ।

अभोज्याद् अपि तद् ग्राह्यं यच् च गोष्ठगतं पयः ॥

विच्छिन्नेषु तु पक्षेषु हविषां श्रपणेषु च ।

इष्टिं त्व् अविकृतां कुर्यात् सुकृतं तु न लोपयेत् ॥

“अभोज्यात्” शूद्रादेः । एतच् च धान्यादि यज्ञविच्छेदशङ्कायां तत्परिमाणपूरणायैव ग्राह्यम् । “अविकृताम्” इति । बह्वन्नत्वादिविकाररहिताम् ।

अत्र बौधायनः

    अमेध्याद्याधाने समारोप्य निर्मथित्वा पवमानेष्टिः । शौचदेशमन्त्राच् च द्रव्यसंस्कारकालभेदेषु पूर्वप्राधान्यम् अग्निषु ।


    	अमेध्यप्रक्षेपे तम् अग्निम् अरण्योः समारोप्य निर्मथनं कृत्वा पवमानेष्टिः कार्येत्य् अर्थः ।

अत्र पैठीनसिः

    काण्डमूलपर्णपुष्पफलप्ररोहरसगन्धादीनां सादृश्येन **[१६६]** प्रतिनिधिं कुर्यात्, सर्वालाभे यवः प्रतिनिधिर् भवति ।

आपस्तम्बः

    नानूचानम् ऋत्विजं वृणीते न पणमानम् । अयाज्यो ऽनधीयानः ।

अमुकेन दक्षिणाकल्पेनैव त्वां याजयामीति यः पणते, स पणमानः । “अनधीयानो” यद्य् अपि यज्ञविद्भ्यो धनवान् ।

अत्र शङ्खः

वृत्तं तु न त्यजेद् विद्वान् पूर्वम् एव सदर्जितम् ।

कर्मणा जन्मना शुद्धम् इज्ययाध्ययनेन च ॥

एतैर् एव गुणैर् युक्तं धर्मार्जितधनं यदा ।

याजयेत तदा विप्रो ग्राह्यस् तस्मात् प्रतिग्रहः ॥

पूर्वम् आधानकाल एव यथोक्तधर्मादिसम्पन्नम् ऋत्विजं परित्यज्योदीच्यदर्शादियागादौ ऋत्विगन्तरं च न कुर्याद् इत्य् अर्थः ।

इति भट्टहृदयधरात्मजमहासन्ध्विग्रहिक-

श्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

गृहस्थकाण्डे गार्हस्थ्यपर्वपल्लवः ॥

[१६७]

अथ ब्राह्मणकर्मधर्मवृत्तयः

तत्र मनुः

एतद् वो विहितं कृत्स्नं विधानं पाञ्चयज्ञिकम् ।

द्विजातिमुख्यवृत्तीनां विधानं श्रूयताम् इह ॥

हारीतः

अध्यापयेद् अधीयीत याजयेत् यजेत च ।

प्रतिगृह्णीत दद्याच् च षट्कर्मा ब्राह्मणः स्मृतः ॥

याजनाध्यापनादिभ्यस् तथा दानप्रतिग्रहैः ।

विराजः स्वर्गम् आयान्ति विमानैः संयुता द्विजाः ॥

“विराजः” शोभमानाः । “याजनाध्ययनादिभ्यः” इति हेतौ पञ्चमी । अत्र आदिशब्देन यजनाध्ययनयोर् ग्रहणम् ।

मनुः

अध्यापनम् अध्ययनं यजनं याजनं तथा ।

दानं प्रैग्रहश् चैव षट्कर्माण्य् अग्रजन्मनः ॥

[१६८] षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका ।

याजनाध्यापने चैव विशुद्धश् च प्रतिग्रहः ॥

“विशुद्धो” यदीयप्रतिग्रहे विशेषतो न प्रायश्चित्तं समाम्नातम् ।

वृत्त्यधिकारे आपस्तम्बः

दायाद्यं शिलोञ्छौ अन्याच् चापरिगृहीतम् ।

“दायाद्यं” दायम् आदत्त इति दायादः पुत्रादिः, तस्य कर्मणा यद् धनग्रहणम् । “अपरिगृहीतम्” अस्वामिकं नीवारादि ।

हारीतः ।

    द्विविधम् एव गृहस्थं प्राहुः – शालीनं यायावरं च । शालीनात् पुण्यतरो यायावरः श्रेयान् ।


    	सर्वारम्भेषु बह्व्यो ऽस्य शाला इत् शालीनः । **[१६९]** शालावान् आत्मवृत्तिभिः लीनः इति वा शालीनः । स द्विविधः – गृह्यशालीनस् त्रेताशालीनश् च । गृह्यशालीनो जातपुत्रायाधानं संवत्सराद् वा शुश्रूषावान् यः, स एव द्विविधः – सम्पन्नवृत्तिर् असम्पन्नवृत्तिश् च । तयोर् असम्पन्नवृत्तिः श्रेयान्, स व्याख्यातः । सम्पन्ना याजनवृत्तिः कृषिवृत्तिश् च ।

शाला गृहाणि । शालावान् शय्यां सुखासिकाम् । “गृह्यशालीनः” गृह्यशालावान् । “त्रेताशालीनः” गार्हपत्याग्नित्रयशालावान् । “जातपुत्रायाधानं” कुर्युर् इति शेषः । जातपुत्रायाधानम् इत्य् अत्र जातपुत्रशब्दः प्रथमाबहुवचनान्तः, शाकल्यमताश्रयेण याकारपाठः । संवत्सराद् वा शुश्रूषावान् यः । यः शुश्रूषावान् गृह्याग्निपरिचरणवान् भवति । संवत्सराद् ऊर्ध्वम् आधानं कुर्याड् इत्य् अर्थः । सकृदाधानो ऽसम्पन्नः शिलोञ्छादिवृत्तिः । “स व्याख्यातः” सो ऽपि सम्पन्नवृत्तिर् दारान् आहृत्याग्नीन् आधायेत्यादिना कथितः । “सम्पन्नः” सम्पन्नवृत्तिः ।

पुनर् **हारीतः **।

ऋतामृतोपहितम् अध्यापनात् सन्नवृत्त्यापद्वृत्तयो भवन्ति ।

“ऋतम्” उञ्छशिलं भैक्षम् । “अमृतम्” अयाचितोपपन्नं सद्भ्यः । अध्यापनाच् छिष्योपहितवृत्तिः । अर्थवृत्तिः सन्न**[१७०]**वृत्तिः । आसां पूर्वाः श्रेयस्यो भवन्ति । “अध्यापनाद्” इति च यथाविहितवृत्त्युपलक्षणम् ।

**मनुः **।

अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः ।

या वृत्तिस् तां समास्थाय विप्रो जीवेद् अनापदि ॥

यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिर् अगर्हितैः ।

अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम् ॥

ऋतामृताभ्यां जीवेत् तु मृतेन प्रमृतेन तु ।

सत्यानृताभ्याम् अपि वा न श्ववृत्त्या कथञ्चन ॥

ऋतम् उञ्छशिलं ज्ञेयम् अमृतं स्याद् अयाचितम् ।

मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥

सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते ।

सेवा श्ववृत्तिर् व्याख्याता तस्मात् तां परिवर्जयेत् ॥

“द्रोहः” परपीडनम्, न हिंसा, अतिनिषिद्धत्वात् । “यात्रा” प्राणवृत्तिः । मात्रशब्देन भोगायर्थं धनादानं व्यवस्थिते (?) ।

ऋताद् इत्य् अनुवृत्तौ यमः

आद्याश् चतस्रः श्रेष्ठाः स्युः ब्राह्मणानां च वृत्तयः ।

ब्राह्मणस्येत्य् अनुवृत्तौ गौतमः

[१७१] कृषिवाणिज्ये वा स्वयङ्कृते कुसीदं च ।

“कुसीदं च” वृद्ध्यर्थं धनप्रयोगः । पृथक्ग्रहणं चास्य स्वयङ्कृतस्याप्य् अनुज्ञानार्थे “कुसीदवृत्तिः धर्म्या” इति प्रदेशान्तरे ऽभिधानात् ।

हारीतः

    अग्नीन् आधायोञ्छशिलाभ्याम् अयाचितोपपन्नं साधुभ्यो याजनात् सद्भ्यो वा याचनाद् देवपितृमनुष्यार्थे वृत्त्यादानं कुर्वीत ।

पैठीनसिः

अथ गृहस्थधर्मांश् चरिष्यन्न् अलोपेन धर्मस्य वृत्तिम् उपपाददीत ।

मनुः

कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।

त्र्यहैहिको वापि भवेद् अश्वस्तनिक एव च ॥

चतुर्णाम् अपि चैतेषां द्विजानां गृहमेधिनाम् ।

ज्यायान् परः परो ज्ञेयो धर्मतो लोकवित्तमः ॥

षट्कर्मैको भवत्य् एषां त्रिभिर् अन्यः प्रवर्तते ।

[१७२] द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्रेण जीवति ॥

“कुसूलधान्यकः” कोष्टिकापरिमितधान्यवान् । “कुम्भी” मृद्भाण्डविशेषः । “त्र्यहैहिकः” ईहा तस्यां भवम् ऐहिकं धान्यम्, त्र्याह्म् ऐहिकं यस्य स तथा । श्वोभवं स्वस्तनं धान्यं, “श्वसस्तुट् च” इत्य् तुट् तद् अस्यास्तीति श्वस्तनिकः । न श्वस्तनिको ऽअश्वस्तनिकः, सद्यः प्रक्षालक इत्य् अर्थः ।

कुसूलकुम्भीपरिमाणं तु – एकदिने स्वकुटुम्बवर्तनोचितधान्यस्वीकर्तुः श्वस्तनापेक्षया त्र्यहैहिकदिनत्रैगुण्यदर्शनात् तदनुसारेणैव । कुसूलधान्यककुम्भीधान्यकयोर् अप्य् उत्तरोत्तरं दिनत्रैगुण्येन बोद्धव्यम् । अयं च वृत्तिविशेषपरिग्रहो धर्मातिशयार्थं गृहस्थमात्रविषयः, न यायावरविषयः । अनन्तरम् एव चतुर्णाम् एव तेषाम् उत्तरोत्तरश्रेष्ठत्वम् अभिधाय “षट्कर्मैको भवत्य् एषाम्” इत्य् अभिधानात् । षड्वृत्तयो ऽत्र वाणिज्यान्तर्भावेन, पूर्वोक्तानाम् उञ्छावृत्तीनां परित्यागकारणाभावात् ।

न च वाणिज्यं यायावरस्य विहितम्, षट्कर्माणि उञ्छशिलायाचितकृषिवाणिज्यरूपाणि । “त्रिभिः” उञ्छशिलायाचितैः । “द्वाभ्याम्” उञ्छशिलाभ्याम् । “ब्रह्मसत्रेण” उञ्छेन । ब्रह्मसत्रशब्दः ब्राह्मणानां सततं त्रायमाणत्वेनोञ्छपरः ।

[१७३] याज्ञवल्क्य–विश्वामित्रौ

कुसूलकुम्भीधान्यो वा त्र्यैहिको ऽश्वस्तनो ऽपि वा ।

जीवेद् वापि शिलोञ्छेन श्रेयान् एषां परः परः ॥

[हारीतः]

    शीलेनात्मवृत्तियापनाद् वर इति यायावरः ।


    	दश दश वा रात्रीः वसन् प्रयातीति यायावरो स्वराष्ट्रस्ववृत्तिषु वरया वरयात्मानं यापयतीति यायावरः । स द्विविधः – कृतप्रस्थानो ऽकृतप्रस्थानश् च ।


    	यस्य विधिवद् वपनं कारयित्वा आग्नेय्यां प्रातर् उदिते वैश्वानर्येष्ट्या मन्त्रतो दिग्द्रव्यादीन् प्रतिष्ठापयन्ति स कृतप्रस्थानः । अथ यस्य विधिवद् वपनं कृत्वा प्रातर् उदिते वैश्वदेव्येष्ट्या मन्त्रतो दिग्द्रव्यादीन् प्रवर्तयन्ति सो ऽकृतप्रस्थानः ।


    	ब्रह्मवद् अस्य ऋषित्वं सम्पद्यते स प्रथमया एनसो **[१७४] **– विमुच्यते । द्वितीयया देवेभ्यः प्रकाशः समानलोकश् च भवति । तृतीयया ब्रह्मर्षित्वं सम्पद्यते । परे च ब्रह्मणि स्थितो भवति । तस्माद् ब्रह्मणि स्थितो नामन्त्रतः शयनासनाहारविहारोत्थानदानोपप्रदानः स्यात् ।


    	तस्य पर्वसु चयनं चाग्निपरिचरणं स्वयं होमो यथास्थानं वोपहृत्य गार्हपत्याय निवेदनम् । यथोक्तानां बलिहोमानां कारणं स्वाश्रयविशेषाणाम् अख्यापनं धर्मोपरोधिनाम् अर्थानां वर्जनम् ।


    	अथाष्टौ वृत्तयो भवन्ति । उञ्छशिलायाचितोपपन्नसन्दर्शनबभ्रु-स्कन्नकुद्दालकापोतीत्य् एतासाम् एकतमया वृत्या वरयावरया यत्र यया वार्तया यजेत् । अयोनिकण्डनस्थानगोस्थानधान्यकरणलवणम् इति पञ्च उञ्छस्थानानि । लूनं शीर्णम् अनुज्ञातं शिलम् इत्य् आहुः । ब्राह्मणक्षत्रियविड्भ्यो ऽयाचितोपपन्नां शूद्रेभ्यो ऽप्य् एके । आपदि सन्दर्शयन्न् आत्मार्थे गृह्णीयात् सन्दर्शी भिक्षेतेत्य् एवम् उदाहरन्ति ।


    	पर्णशाखया पञ्च सीरा वाहयेत् । बभ्रुस्कन्ध आका**[१७५]**लात् । कुद्दाली राज्ञो भागं दद्याद् अन्यत्र वार्थविशेषो ऽस्योपवृत्त्युपपत्तौ सोमेनेष्ट्वा अग्निं चित्वा सर्वस्वं दत्वा अङ्गुष्ठानामिके संयम्य ग्रीवायाम् आसज्य कपोतवद् एकैकं गृह्णीयाद् भिन्नाद् भिन्नवृत्तिर् इत्य् एके । इत्य् एताभिर् वृत्तिभिर् आहृत्य पूर्ववत् कुर्यात् ।

षण्मासान् कृच्छ्रं प्रत्याहृतात्मा यमनियमम् इति “यायावरः” । परं ब्रह्मामृतम् आप्नोति यद् गत्वा नेह जायते । “यापनात्” सङ्कोचनात् ।

“अष्ट” वक्ष्यमाणाः उञ्छाद्या वृत्तयः । वापनम् आग्नेयी चेष्टिः पूर्वेद्युः कर्या । प्रातर् उदिते तु वैश्वानर्येष्ट्या इमां दिशं व्रहेद् एव द्रव्यं व्रीहीन् यवान् आहरतेति ।

यस्य दिग्द्रव्यादीन् प्रतिष्ठापयन्ति व्यवस्थापयन्ति ऋत्विजः स कृतप्रस्थानः ।

अकृतप्रस्थानस् तु यस्य पूर्ववद् वापनादि करयित्वा प्रातर् उदिते वैश्वदेवेष्ट्या अस्यां दिशि तिष्ठतेदं व्रीह्यादिद्रव्यम् आहार्यं त्वयेति दिग्द्रव्यादीन् प्रवर्तयन्ति आदिशन्ति ऋत्विजः ।

स तथा प्रममाग्नेयी, द्वितीया वैश्वानरी, तृतीया वैश्व**[१७६]**देवी, देवेभ्यः प्रकाशो द्योतमानो भवतीत्य् अर्थः ।

अमन्त्रत इति तृतीयार्थे तसिः । विना मन्त्रेण न शयनादि कुर्यात् । “उपादानं” प्रतिग्रहः । तस्य पर्वस्व् इति आहिताग्नित्वेन प्राप्तानां वपनादीनां पुनर्वचनं नियमार्थम् । 

गार्हपत्ये निवेदनं च प्राप्तम् एवास्य विधीयते । अथाश्रमविशेषाः यायावरत्वादयः । “अथाष्टौ वृत्तयः” इति “एकतमया” इति वृत्तिसङ्करनिषेधार्थम् । “यापयेत्” गमयेत् कालान् इति शेषः । गोस्थानं यत्र गोभ्यो यवादिकं दीयते । धान्यकरणं खलम्, लवनं क्षेत्रं लूयते ऽस्मिन्न् इति व्युत्पत्या । अनुज्ञातम् अत्र स्वाम्युपेक्षितम् । “सन्दर्शयन्न्” इति सन्निहिते स्वामिनि तद् उपेक्षितम् अपि धान्यादि सन्दर्शयन्न् एव गृह्णीयात् । “आत्मार्थम्” इति । वृत्तिमात्रोपयोगिनो भोगार्थं सन्दर्शी भिक्षेतेत्यादिद्रव्यस्वाम्य् अग्रे आत्मानं दर्शयन् भिक्षेत । न तु शब्देन याचत इत्य् अर्थः । बभ्रुस्कन्धं वाहयेत् । “पर्णशाखया” इत्यादि । पर्णः पलाशः, तस्य शाखया यावान् बभ्रुवर्णवृषस्कन्धो आयस्ता ववृतः (?) । पञ्चाङ्गुलमात्रं वहयेत् । अर्थप्राप्तां भुवम् । केचित् तु चतुर्विंशतिसीता इति पठन्ति । “एतच् च वाहनम्” आकालाद् बीजवपनकालं यावत् । अन्यत्र वा कुद्दालाद् अन्यत्र बभ्रुस्कन्धे भागदाने **[१७७]** विकल्पः । कापोतीम् आह — “अन्नविशेषेभ्यः” इत्यादि । अयाचितादिलाभेनान्नविशेषातिरेके सति सोमयागादि कृत्वा उक्तप्रकारां कापोतीम् अनुतिष्ठेत् । ग्रीवायाम् आसज्य प्रवेशिकादि पात्रम् इति शेषः ।

“भिन्नाद् (?) भिन्नवृत्तिर् इत्य् <span style="text-decoration:underline;">एके</span>” सति (?) सा कापोत्य् एव भिन्नाद् विदीर्णाद् गोण्यादेर् यद् एकैकबीजादानं सा भिन्नाभिन्नवृत्तिः इत्य् <span style="text-decoration:underline;">एके मन्यन्ते</span> । तेनात्रापि सर्वस्वादानादीतिकर्तव्यता तुल्यैव । कापोतीविशेषत्वाद् एव चास्य तदनन्तरम् अभिधानम् । पूर्ववत् गार्हपत्यादिनिवेदनादि षण्मासान् कृच्छ्रान् कुर्याद् इत्य् अनुषङ्गः । कृच्छ्रः विशेषानुपादानात् प्राजापत्याः । प्रत्याहृतात्मा यमनियमान् । अत्रापि कुर्याद् इत्य् अनिषङ्गः । प्र्त्याहृतो विषयेभ्यो निवर्तित आत्मा येन स प्रत्याहृतात्मा ।

बौधायनः

    अथ शालीनचक्रचरयायावरधर्माकाङ्क्षिणां नविभिः वृत्तिभिर् वर्तमानानां तेषां तद्वर्तनात् वृत्तिर् इत्य् उच्यते ।


    	शालाश्रयत्वाच् छालीनत्वम् । अनुक्रमचरणाच् चक्रचरत्वम् । वृत्या वरया यातीति यायावरत्वम् । ता अनुव्या**[१७८]**ख्यास्यामः । षण्णिवर्तनी कौद्दाली ध्रुवा सम्प्रक्षालिनी समूला पालिनी शिलोञ्छा कापोती सिद्धेच्छेति नवैताः । तासाम् एवान्यापि दशमी वृत्तिर् भवत्य् आ नवमवृत्तेः । तासाम् एव चान्यापि दशमी वृत्तिर् भवत्य् आ नवमवृत्तेः ।


    	केशश्मश्रुलोमनखानि वापयित्वोपकल्पयेत् – कृष्णाजिनं कमण्डलुं यष्टिं वीरुधं कुथहारिम् इति । त्रैधातवीयेन इष्ट्वा प्रस्थास्यति, वैश्वानर्या वा । प्रातर् उदिते आदित्ये यथासूत्रम् अग्निं प्रज्वाल्य गार्हपत्य आज्यं विलाप्योत्पूय स्रुक्द्रुवं निष्टप्य स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये वास्तोष्पत्यं जुहोति – “वास्तोष्पते प्रतिजानीह्य् अस्मान्” इत्य् अनुद्रुत्य “वास्तोष्पते शग्मया संसदा त” इति जुहोति । सर्व एवाहिताग्निर् इत्य् एके । तद् भूयः स्रुक्स्रुवं निष्टप्य स्रुचि च कृत्य **[१७९]** ग्रामान्ते ग्रामसीमान्ते वा तिष्ठति । तत्र कुटीं मठं वा करोति कृतं वा प्रविशति । कृष्णाजिनादीनाम् उपकॢप्तानां यस्मिन्न् अर्थे येन यत् प्रयोजनं तेन तत् कुर्यात् ।


    	प्रसिद्धम् अग्नीनां परिचरणम्, प्रसिद्धं दर्शपूर्णमासाभ्यां यजनम्, प्रसिद्धम् आग्रयणम्, प्रसिद्धं पञ्चानां महयज्ञानाम् अनुप्रयोग उत्पन्नानाम् ओषधीनां निर्वापणं दृष्टं भवति । “विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामि” इति तूष्णीं वा । अथैता अद्भिः प्रोक्षति “विश्वेभ्यो देवेभ्यो जुष्टं प्रोक्षामि” इति वा तूष्णीं वा । ताः संस्कृत्य साधयन्ति । तस्याध्यापनयाजनप्रतिग्रहा निवर्तन्ते अन्ये च यज्ञक्रतव इति । हविष्यं च व्रतोपायनीयम् । तद् यथा — सर्पिर्मिश्रं दधिमिश्रम् अपिशितम् अक्षारलवणम् पर्युषितम् । ब्रह्मचर्यम् ऋतौ वा गच्छति । पर्वणि पर्वणि केशश्मश्रुलोमनखवापनं शौचविधिश् च ।

“धर्मकाङ्क्षिणाम्” इति । अत्र धर्मकाङ्क्षी चक्रचरो ऽभिमतः । यायावराद् अपि तस्य धर्मातिशयकाङ्क्षित्वा । अनुक्रमेण वृत्तीनां स्वीकरणात् । “उपकल्पयते” उत्पादयति । “वीवधो” भारयष्टिः । “कुशहारः” स्वधितिखनित्रादिः । “प्रस्थास्यति” इति । यदा प्रस्थास्यति तदा वास्तोष्पतीयम् उक्तेतिकर्तव्यताकं कुर्यात् । “अनुद्रुत्य” अनूद्य । “दृष्टं भवति” यथा दर्शपूर्णमासयोर् दृष्टं तथा भवतीत्य् अर्थः । “व्रतोपायनीयम्” वर्तार्थम् उपहरणीयम् । बह्वतीति शेषः । “अपिशितम्” मांसवर्जम् । शौचविधिः बाह्यो मृज्जलादिना । “आन्तराः” सत्यदमादिना ।

[१८०]

पुनर् बौधायनः

    यथैतत् षण्निवर्तनीति, षड् एव निवर्तनानि निरुपहतानि करोति । भूमिस्वामिने भागम् उत्सृजत्य् अनुज्ञातं वा गृह्णाति । प्राक् प्रातराशात् कर्षी स्याद् अस्यूननासिकाभ्यां समुष्काभ्याम् अतुदन्न् आरया मुहुर् मुहुर् अभ्युच्छन्दयन् । यत्रैतेन विधिना षण्णिवर्तनानि करोतीति षण्णिवर्तनी ।


    	कौद्दालीति जलाभ्यासे कुद्दालेन फालेन वा तीक्ष्णकाष्ठेन वा खनति बीजान्य् आवपति, कन्दमूलफलशाकौषधीर् निष्पादयति । कुद्दालेन करोतीति कौद्धाली ।


    	ध्रुवायां वर्तमानः शुक्लेन वाससा शिरो वेष्टयति । “भूत्यै त्वा शिरो वेष्टयामि” इति । “ब्रह्मवर्चसम् असि ब्रह्मवर्चसाय त्वा” इति कृष्णाजिनम् आदत्ते । अब्लिङ्गाभिः पवित्रम् । “बलम् असि बलाय त्वा” इति कमण्डलुम् । “धान्यम् असि पुष्ट्यै त्वा” इति वीवधम् । “सखा मा गोपाय” इति दण्डम् ।


    	अथोपनिष्क्रम्य । व्याहृतीर् जपित्वा दिशाम् अनुमन्त्रणम् जपति —


    		पृथिवी चान्तरिक्षं च धौश् च नक्षत्राणि च या दिशः ।


    		अग्निर् वायुश् च सूर्यश् च पान्तु मां पति देवताः ॥ इति ।


    	मानस्तोकीं च जपित्वा ग्रामं प्रविश्य गृहद्वारे गृहद्वार आत्मानं वीवधेन सह दर्शनात् सन्दर्शनीत्य् आचक्षते ।

[१८१] वृत्तेर् वृत्तेर् अवार्तायाम् अवार्तायां तथैव च ।

    		तस्यां ध्रुवं वर्तमाना ध्रुवेति परिकीर्तिता ॥


    	सम्प्रक्षालनीति । उत्पन्नानाम् ओषधीनां प्रक्षेपणं निक्षेपणम् नास्ति निचयो वा भाजनानि सम्प्रक्षाल्य न्युब्जतीति सम्प्रक्षालनी ।


    	समूहेति । अवारितस्थानेषु पथि वा क्षेत्रेषु वाप्रतिहतावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्र तत्र समूहन्या समूह्य ताभिर् वर्तयतीति समूहा ।


    	पालनीति । अहंसिकेत्य् एवेदम् उक्तं भवति । तुषविहीतांस् तण्डुलान् इच्छति सज्जनेभ्यो बीजानि वा पालयतीति पालनी ।


    	शिलोञ्छेति । अवारितस्थलेषु वा पथि वा क्षेत्रेषु वाप्रतिहतावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्र तत्रैकैकं कणिशम् उञ्छयित्वा काले काले शिलैर् वर्तयतीति शिलोञ्छा ।


    	कापोतेति । अवारितस्थानेषु पथि वा क्षेत्रेषु वाप्रतिहतावकाशेषु वा यत्र यत्रौषधयो विद्यन्ते तत्र तत्राङ्गुलिभ्यां **[१८२]** एकैकाम् ओषधिम् उञ्छयित्वा सन्दर्शनात् कपोतवद् इति कापोती ।


    	सिद्धेच्छेति । वृत्तिभिः श्रान्तो वृद्धत्वाद् धातुक्षयाद् वा सज्जनेभ्यो सिद्धम् अन्नम् इच्छतीति सिद्धेच्छा ।


    	तस्यात्मसमारोपणं विद्यते सन्न्यासिवद् उपचारः पवित्रकाषायवासोवर्जम् ।


    	वान्यापि वृक्षगुल्मलतावल्ल्योषधीनां च तृष्णौषधीनां च श्यामाकनीवारजर्त्तिलादीनां वान्याभिर् वर्तयतीति वान्या । यद्य् एतासु वृत्तिष्व् आस्थापनं ताभ्यो ऽवसीदतीति । अथाप्य् उदाहरन्ति —


    		परां वृत्तिम् उपाश्रित्य परां पश्चाद् उपाश्रितः ।


    		परिव्राज्ये स्थितो मूढः स इच्छेद् गृहमेधिताम् ॥ इति ।

“निवर्तनी” दशहस्तेन दण्डेन त्रिंशद्दण्डपरिमिता भूमिः निवर्तनम् । तद् धस्तात् त्रिर् उपहतानि स्वकृष्टानि । “भूमिस्वामिने” भूमिर् अस्यास्तीति व्रीह्यादिदर्शणाद् इनिः । “प्राक् प्रातराशेति” अव्ययीभावः । तेन दिवाभोजनात् पूर्वं कर्षेद् इत्य् अर्थः । अस्तु मस्ति नाम (?) । “समुष्कः" साण्डः । “अभ्युच्छन्दयन्” विश्रामयन् । “करोति” संस्करोति । “वृत्ते” आद्रव्यतेव्य (?) अतिक्रान्ते । “अवार्तायाम् अवारायम्” इति वीप्सा नैरन्तर्यप्रदर्शनार्थम् । “प्रक्षेपणम्” कुसूलादौ धान्यादेर् निक्षेपणम् । परहस्ते धारणं स प्रकारान्तरेणापि कर्तव्य इत्य् अर्थः । “अप्रतिहता**[१८३]**वकाशेषु” अनिवारितप्रसरेषु सन्दर्शनेनैव ग्रहणात् । तस्य समारोपणं सस्यसिद्धोञ्छवृत्तेर् अग्नीनाम् आत्मनि समारोपणम् भवति ।

मनुः

वर्तयंश् च शिलोञ्छाभ्याम् अग्निहोत्रपरायणः ।

इष्टीः पार्वायनान्तीयाः केवला निर्वपेत् सदा ॥

न लोकवृत्तं वर्तेत वृत्तिहेतोः कथञ्चन ।

अजिह्माम् अशठां शुद्धां जीवेद् ब्राह्मणजीविकाम् ॥

सन्तोषं परम् आस्थाय सुखार्थी संयतो भवेत् ।

सन्तोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥

“पार्वायनान्तीयाः” पर्व च अयनान्तश् च तयोर् भावः । स्तार्किकर्मणं (?) कृत्वा ँँवृद्धाच्छःँँ (वृद्धोञ्चः?) कर्तव्यः । “लोकवृत्तं” धनिकस्तुत्यादि । “अजिह्मां” काउटिल्यवर्जिताम् । “अशठां” गर्वादिरहिताम् । “शुद्धां वृत्तिं” सङ्करवर्जिताम् । “जीवेत्” ब्राह्मणजीविकां कुर्यात् ।

[१८४]

अथापद्वृतिः

तत्र मनुः

शिलोञ्छम् अप्य् आददीत विप्रो जीवन् यतस् ततः ।

प्रतिग्रहाच् छिलः श्रेयान् ततो ऽप्य् उञ्छः प्रशस्यते ॥

मुख्यया वृत्त्या जीवनाभावे यतस् ततो ऽपकृष्टाद् अपि शिलोञ्छाव् आददीत, न तु प्रतिग्रहम् । यस्मात् प्रतिग्रहापेक्षया शिलोञ्छौ प्रशस्तौ । तयोर् अभावे प्रतिग्रहाद् अप्य् उपाददीत ।

मनुः

वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः ।

परधर्मेण जीवन् हि सद्यः पतति जातितः ॥

[१८५] शङ्खलिखितौ

    तस्य स्वधर्म एव श्रेयान् स्वल्पो ऽप्य् अनुष्ठितो नावरसेवितः । जघन्यसेवी ह ब्राह्मणो जघन्येषूपपद्येत । तस्मात् प्रशस्तसमयाचारः सर्वतः प्रतिगृह्णीयात् । नात्मनस् ततस् तृप्तिम् इच्छेत् । कामं त्रयाणां वर्णानां याजनं कुर्वीत । धर्मेण तेभ्यो वृत्तिम् आदाय धर्मकृत्येषूपहरेत् ।

“तस्य” ब्राह्मणस्य । “स्वधर्मः” स्ववृत्त्युपायः । “स्वल्पो ऽपि” यथाकथञ्चिद् अनुष्ठितो ऽपि । “अवरः” क्षत्रियादिः । प्रशस्तानां शिष्टानां समयः सिद्धान्तः तम् आचरतीति “प्रशस्तसमयाचारः” । “सर्वतः” शूद्रादेर् अपि गृह्णीयात् । “ततः” शूद्रादिप्रतिग्रहेण । “तृप्तिं” भोगाकारम् अवरं (?) । “धर्मेण” शास्त्रतः ।

अत्रापत्कल्पे ब्राह्मणस्येत्य् अनुवृत्तौ गौअमः

    याजनाध्यापनप्रतिग्रहाः सर्वेषाम् । पूर्वः पूर्वो गुरुः । तदलाभे क्षत्रवृत्तिः, तदलाभे वैश्यवृत्तिः ।

“सर्वेषाम्” अप्रशस्तानाम् अपि । “गुरुः” दोषावहः । यच् च मनुवचनम् “प्रतिग्रहः प्रत्यवरः” इति प्रतिग्रहनिन्दा, सा प्रशस्तयाजनापेक्षया ।

वसिष्ठः

    कामं वा स्वयं कृष्योत्पाद्य तिलान् विक्रीणीरन्न् अनृणत्वेनायाज्ययाजनं प्रसिद्धम् इति ग्रहो ऽस्तीति । अथाप्य् उदाहरन्ति । \
अग्नय इव दीप्यन्ते जपहोमैर् द्विजोत्तमाः ।


    	प्रतिग्रहेण शाम्यन्ति उदकेनाग्नयो यथा ॥ ।

“प्रतिग्रहेण” निषिद्धेनेति शेषः ।

शङ्खलिखितौ

    आपत्काले ब्राह्मणस्य मातापितृमतो बहुभृत्यस्यानन्तरिका वृत्तिर् इति विकल्पः ।

[१८७] यत्र ब्राह्मणे मातापितृषु चरित्रगुणसम्पन्नेषु वृत्तेर् दौर्बल्यम् आख्येयम् ।

    यद् ब्रूयुस् ते स धर्मः, क्षात्रे ऽभिनिवेशस् त्रयाणां ब्राह्मणकर्मणां व्यावृत्तौ याजनाध्यापनप्रतिग्रहाणाम् । एवम् अप्य् अजीवन् वैश्यवृत्तिम् एवोपजीवेत् ।

“विकल्पो” विमर्शः । “क्षात्रे ऽभिनिवेशः” क्षत्रियवृत्तिनिष्ठत्वम् ।

शिलोञ्चाद्यनन्तरं बुधः

    तदसम्भवे क्षत्रवृत्त्या वैश्यवृत्त्या वा । आपत्कल्पे असाधुभ्यः प्रतिगृह्णीयात् । वृत्तिसङ्करं न कुर्यात् कर्म, वर्णसङ्करं कुलशुद्ध्यर्थम् ।

“आपत्कल्पे” वैशवृत्त्यसम्भवे । असाधुर् अत्र यदीयप्रतिग्रहस्य कृष्याद्यपेक्षयापकर्षः । “श्रेयान् स्वधर्मो विगुणः” इत्य् प्रतिग्रहादेः श्रेयत्वाभिधानं शूद्रादिप्रतिग्रहविषयम् ।

याजनाध्यापनप्रतिग्रहानुवृत्तौ बौधायनः

    तदशक्तौ क्षत्रधर्मेण जीवेत्, प्रत्यनन्तरत्वात् । नेति **गौतमः** । हास्यार्थम् अपि ब्राह्मणः आयुधं नाददीत । अत्युग्रो हि क्षत्रधर्मो ब्राह्मणस्य ।

[१८८] अथाप्य् उदाहरन्ति ।

    	ब्राह्मणार्थे गवार्थे वा वर्णानां चापि सङ्करे ।


    	गृह्णीयातां विप्रविशौ शस्त्रं धर्मव्यपेक्षया ॥

वैश्यवृत्तिर् अनुष्ठेया । क्षत्रधर्मेण शस्त्रधारणव्यतिरिकेनेति बोद्धव्यम्, ब्राह्मणस्य धर्मार्थम् एव शस्त्रधारणविधानात् ।

याज्ञवल्क्यः

क्षात्रेण धर्मेणाजीवेद् विशां वाप्य् आपदि द्विजः ।

निस्तीर्यार्थे समुत्सृज्य पाव्यात्मानं भवेत् पथि ॥

“निस्तीर्ये” आपदम् इति विपरिणत्यानुषङ्गः ।

नारदः

आपद्य् अनन्तरा वृत्तिर् ब्राह्मणस्य विधीयते ।

वैश्यवृत्तिस् ततश् चोक्ता न जघन्या कदाचन ॥

न कथञ्चन कुर्वीत ब्राह्मणः कर्म वार्षलम् ।

वृषलः कर्म वा ब्राह्मं पतनीये हि ते तयोः ॥

[१८९] उत्कृष्टं चावकृष्टं च तयोः कर्म न विद्यते ।

मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥

आपदं ब्राह्मणः तीर्त्वा क्षत्रवृत्त्यार्जिते धने ।

उत्सृजेत् क्षत्रवृत्तिं तां कृत्वा पावनम् आत्मनः ॥

तस्याम् एव तु यो वृत्तौ ब्राह्मणो रमते रसात् ।

काण्डपृष्ठश् च्युतो मार्गात् सो ऽपाङ्क्तेयः प्रकीर्तितः ॥

[काण्डपृष्ठो ब्राह्मणाधमः]

बौधायनः

कुसीदकृषिवाणिज्यं प्रकुर्वीत स्वयं कृतम् ।

आपत्कल्पे ऽन्यथा कुर्वन्न् एनसा युज्यते द्विजः ॥

लब्धकामः पितॄन् देवान् ब्राह्मणांश् चापि पूजयेत् ।

ते तुष्टाः तस्य तं दोषं शमयन्ति न संशयः ॥

[१९०] वणिक् कुसीदी दद्यात् तु वस्त्रगोकाञ्चनादिकम् ।

कृषीवलो ऽन्नपानानि यानशय्यासनानि च ॥

पणेभ्यो विंशकं दत्वा पशुस्वर्णादिकं शतम् ।

वणिक् कुसीद्य् अदोषः स्याद् ब्राह्मणानां च भोजने ॥

महाभारते

स्थूलाच् छुल्काच् च वचनात् मृदुस्निग्धाच् च भोजनात् ।

अपरप्रेष्यभावाच् च भूय इच्छन् व्रजत्य् अधः ॥

अत्र सर्ववाक्येषु ब्राह्मणस्यापदि वैश्यवृत्त्यनुवृत्तिर् द्रष्टव्या ।

[१९१]

१०

अथ कृषिः

तत्र मनुः

वैश्यवृत्त्यापि जीवंस् तु ब्राह्मणः क्षत्रियो ऽपि वा ।

हिंसाप्रायं पराधीनां कृषिं यत्नेन वर्जयेत् ॥

कृषिं साध्व् इति मन्यन्ते सा वृत्तिः सद्विगर्हिता ।

भूमिं भूमिशयांश् चैव हन्ति काष्ठम् अयोमुखम् ॥

इयं च कृषिर् विगर्हिता इतरवैश्यवृत्त्यसम्भवे द्रष्टव्या ।

बौधायनः

कृषिर् वेदविनाशाय वेदः कृषिविनाशकः ।

शक्तिमान् उभयं कुर्याद् अशक्तस् तु कृषिं त्यजेत् ॥

हारीतः

    सहसूनं लाङ्गलम् । तत् ब्राह्मणे न विद्यते । आपद्य् आचरितताद् यदि कुर्याद् यथार्थं कुर्यात् ।

“यथार्थं” यावतार्थेनापन् निस्तीर्यते तावतो ऽनतिक्रमेण ।

[१९२] बौधायनः

    प्राक् प्रातराशात् कर्षी स्यात् । अस्यूतनासिकाभ्यां समुष्काभ्याम् अतुदन्न् आरया मुहुर् मुहुर् अभ्युच्छन्दयन् ।

पैथीनसिः

    क्षेत्रं साण्डाभ्याम् अनडुभ्यां कृषीत निदाघे च यः । प्रयच्छंस् तिलान् वपेद् इत्य् अरिवल्लरी लाङ्गलमिति विज्ञायते । परीरो अस्येन्दु । सुशेवं कल्याणनासिकं सोमो बाह्यस्य प्राप्नोतीति सोमेपित्सतु (? सोमपित्सरु) । तद् उत्कृषति गां वा [? जाविवांशवज] प्राप्नोति । तस्मात् कृषति तिलान् वपेद् इति अन्नार्थं वचनम् । परीरवल् लाङ्गलम् इत्यादिकम् अर्थवादः । कर्षणः सैव अजाज्ययाजनप्रतिषिद्धप्रतिग्रहाभ्यां कृषिस् तूत्पन्नम् ।

**वसिष्ठः **।

    तस्मात् साण्डाभ्याम् अनडुद्भ्याम् अनस्यूताभ्यां प्राक् प्रातराशकर्षी स्यात् । निदाघे ऽपः । प्रयच्छेल् लाङ्गलं पवीरवं सुशेवं **[१९३]** सोमपित्सरु । तद् उद्वपति गाम् अविं चानान् अश्वान् अश्वतरखरोष्ट्रांश् च प्रफव्य च पीवरीम् । प्रस्थावद् रथवाहनम् इति । लाङ्गलं पवीरत् वीरवत् सुमनुष्यवद् अनडुद्वत् । सुशेवं कल्याणनासिकं कल्याणी हि अस्य नासिका नासिकयोद्वपति दूरे ऽपविध्यति । सोमपित्सरु सोमो ह्य् अस्य प्राप्नोति तत्सरु । तद् उद्वपति । गां चाविम् अजान् अश्वान् अश्वतरखरोष्ट्रांश् च । प्रफर्व्यं च पीवरीं दर्शनीयां कल्याणीं प्रथमयुवतीम् ।

परीवत् परीरं फालः तद्वल् लाङ्गलं परिः शल्यो भवति, “यद् धि पुनाति भूमिं तद्वत् परीरवम्” इति निरुक्तकारवचनात् । परीरवद् इत्य् अस्य प्रदर्शनार्थम् आह वसिष्ठः: “मनुष्यवद् अनडुद्वद्” इति । “सुशेवं” सुमुखम् । “नासिका” हलाग्रभागः । “अपविध्यति” मदम् उत्सादयति । “सोमपी” इति सोमम् आप्नोतीति णिनिप्रत्ययान्तम् । धात्वाकारस्य छान्दसो लोपः, सोमो यवादिः, “अन्नं वै सोमः” इति शतपथश्रुतेः । “त्सरुः” यस्मिन् स्थाने वृत्या वाह्यते । “तद् उद्वपति” उत्पादयति । “प्रफर्व्यां” प्रकृष्टपर्ववतीं छान्दसो वर्णविकारः ।

हारीतः

    आपत्सु च कृषिं प्राहुः कृषेद् य आयोजनवद् आयोज्य बालवृद्धकृशार्तादीन् वर्जयन्न् अदीर्घेण प्रतोदेन शनैर् वाहयेद् **[१९४]** यष्टिमुष्टिलोष्टारत्नि-जानुयोक्त्रैः द्रावणाक्रोशनप्रभृतिभिर् नाभिनिघ्नीत । न पर्वसु (?) न सन्धिवेलयोर् वाहयेत् । द्विहलकृते वा परियोगो ऽवमृज्य मोक्षणम् । मृदुवच् छायायां पानाहारादीन् दद्यात् । कृमिकीटकिलीतकदंशमशकमक्षिकानिवृत्ति-सृमरशीतवातोष्णवर्षेषु उद्धरणकर्णकण्डूयनधूमाग्निनिवात-प्रच्छन्नसमुपस्तीर्णादिषु च गोपायेत् । सन्नभग्नविलग्नार्त्तानौषधयवस-लवणस्नेहादिषु यथार्थं पवनलवनमर्दनपवनातिहारेषु बलिहोमादि कुर्यात् ।

देवलः

    स्नात्वानडुहो ऽलङ्कृत्य ब्राह्मणान् भोजयेत् सौरभेयाणां पुण्यम् इति । षड्भागं राज्ञे दत्वा पञ्चमाद् ब्राह्मणान् दत्वा तोषयेत् ।


    अथाप्य् अत्रोदाहरन्ति ।


    	यूपो ऽयं निहितो मध्ये मेधिनाम् इह कर्षकैः ।


    	तस्माद् अतन्द्रितो दद्याद् अन्नधान्यार्थदक्षिणाः ॥


    	भूमिं भित्वौषधीः छित्त्वा हत्वा कीटपिपीलिकान् ।


    	पुनन्ति खलयज्ञेन कर्षका नात्र संशयः ॥

[१९५] “आयोनजवत्” आयोजनं अग्निचयने गृह्ये चोक्तम् तद्वत् । “अरत्निः” प्रसृताङ्गुलिर् हस्तः । “द्रावणम्” उद्वासनम् । “द्विहलकृते” पुनःकर्षणाय । “परियोगो” हले संयोजनम् । पर्वादाव् अपि कुर्याद् इत्य् अर्थः । “अवमृज्य” हस्तादिना धूलिकर्दमादीन् अपनीय । “मृदुवत्” अक्रुध्यन् । “किलीतकः” गवादिस्तनादिदेशे यो भवति रक्तपः कीटविशेषः । “निवृत्तयः” चमराः । “सृमराः” क्षुद्रमक्षिका गणचारिण्यः । कृमिकीटादिष्व् एतेषूप्द्रवेषु यथायोगं समुद्धरणादिना गोपायेत् । “सन्नः” अवसन्नः । “विलग्नः” पङ्कादौ मग्नः । “यथार्थं” एतान् आर्तान् औषधयवसादिषु भोजयेद् इत्य् अर्थः । “पवनं” श्रमापनयनम् । “अतिहारः” खलाद् गृहानयनम् । “सौरभेयाणां पुण्यं” कल्याणम् अस्त्व् इति ब्राह्मणान् भोजयेद् इत्य् अर्थः ।

बृहस्पतिः

राज्ञे दत्वा च षड्भागं देवतानां च विंशकम् ।

त्रिंशद्भागं तु विप्राणां कृषिं कृत्वा न दोषभाक् ॥

हारीतः

अष्टगवं धर्महलं षड्गवं जीवितार्थिनाम् ।

[१९६] चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥

**तथा **।

बालानां दमनं चैव वाहनं न च शस्यते ।

वृद्धानां दुर्बलानां च **प्रजापति**वचो यथा ॥

देवलः

पुंस्त्वोपघातं नास्ये वा वाहनानां न कारयेत् ।

वृद्धं युग्मे न युञ्जीत जीर्णं व्याधितम् एव च ॥

ब्रह्मपुराणे

ब्रह्मा विष्णुश् च रुद्रश् च कश्यपः सुरभी तथा ।

इन्द्रः प्रचेताः पर्जन्यः शेषचन्द्रार्कवह्नयः ॥

बलदेवो हलं भूमिः ऋषभौ रामलक्षणौ ।

रक्षोघ्नौ जानकी सीता युगं गमनम् एव च ॥

एते द्वाविंशतिः प्रोक्ताः प्रजानां पतयः शुभाः ।

गा मङ्गलेषु सम्पूज्याः कृष्यारम्भे महोत्सवे ॥

[१९७] अर्घ्यैः पुष्पैस् तथा धूपैर् माल्यै रत्नैः पृथक् पृथक् ।

सदक्षिणैर् विधानेन होमैर् ब्राह्मणतर्पणैः ॥

ततः शकुनिभुक्तेन वाद्यशब्देन भूरिणा ।

हलेन वाहयेद् भूमिं स्वयं स्नातः स्वलङ्कृतः ॥

पूर्वोत्तरां दिशं गच्छेत् क्रमात् पौरन्दरीं शुभाम् ।

कृत्वा प्रदक्षिणावर्तम् ऐशान्याभिमुखस् ततः ॥

विमुच्य वृषभौ बीजं पुरुषो लक्षणान्वितः ।

हृष्टः सुवासाः स्रग्वी च सुवर्णजलसेचितम् ॥

सुवर्णपात्रसंयुक्तं प्राङ्मुखो निर्वपेद् भुवि ।

उप्त्वा बीजं च तत्रैव भोक्तव्यं बन्धुभिः सह ॥

उत्सवश् चैव कर्तव्यो गीतवाद्यसमाकुलः ॥

तथा

न षण्डं वाहयेद् धेनुं न गां भारेण पीडयेत् ।

न वाहनीयाः शिशिरे वृषभा यत्र कुत्रचित् ॥

देवीपुराणे

सुदृष्टं पृष्ठदेशे तु स्कन्धदेशे तु यो वृषम् ।

वाहयेद् गुरुभारेण स तु भारशतं वहेत् ॥

[१९८] रामायणे

यो दुर्बलं परिश्रान्तं बालिशं पापनिर्भयः ।

वाहयिष्यत्य् अनड्वाहं स गोघ्नः पापम् आप्स्यति ॥

शतं समर्थं बलिनं यो वृषं वाहयिष्यति ।

ग्रासोपहारसंयुक्तं न स पापम् अवाप्स्यति ॥

तत्र सर्ववाक्येष्व् आपदि वैश्यवृत्तिषु ब्राह्मणाधिकारो द्रष्टव्यः ।

[१९९]

११

अथ वाणिज्यम्

तत्र मनुः

इदं तु धर्मवैकल्यात् त्यजतो धर्मनैपुणम् ।

विट्पण्यम् उद्धृतोद्धारं विक्रेयं वृत्तिवर्धनम् ॥

सर्वान् रसान् अपोहेत कृतान्नं तु तिलैः सह ।

अश्मनो लवणं चैव पशवो ये च मानवाः ॥

सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च ।

अप् चेत् स्युर् अरक्तानि फलमूले तथौषधीः ॥

अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः ।

आरण्यांश् च पशून् सर्वान् दंष्ट्रिणश्च वयांसि च ।

[२००] मद्यं नीलीं च लाक्षां च सर्वांश् चैकशफांस् तथा ॥

त्रपु सीसं तथा लौहं तैजसानि च सर्वशः ।

बालांश् चर्म तथास्थीनि वसाः स्नावानि रोचनाम् ॥

“विट्पण्यं” विशां पण्यम् । “उद्धृतोद्धारं” उद्ध्रियत इति उद्धारो मांसादि तदुद्धृतम् । “रसाः” अत्र माधुर्यादिषड्रसप्रधानानि द्रव्याणि । “अपोहेत” त्यजेत् । “कृतान्नं” पक्वान्नम् । “अश्मानः” पाषाणाः पद्मरागाद्याः । रसत्वेन लवणादीनां निषेधे सिद्धे पुनर् निषेधो दोषातिशयज्ञापनार्थः । “स्नावानि” स्नायूनि ।

याज्ञवल्क्यः

फलोपलक्षौमसोममनुष्यापूपवीरुधः ।

तिलौदनरसक्षारदधिक्षीरघृतं जलम् ॥

शस्त्रासवं मधूच्छिष्टं मधुलाक्षाश्मबर्हिषः ।

मृच्चर्मपुष्पकुतपकेशतक्रविषक्षितीः ॥

[२०१] कौशेयनीललवणं मांसैकशफसीसकम् ।

शाकान्य् औषधिपिण्याकपशुगन्धांस् तथैव च ॥

वैश्यवृत्त्यापि जीवंस् तु विक्रीणीत न जातुचित् ।

“वीरुधः” गुडूच्यादयः । “क्षाराः” यवक्षारादयः ।

कुसुम्भं नालिकेरं च वृन्ताकं पूतिकं तथा ।

सोमः श्लेष्मातको यज्ञस् तोयं धर्मश् च सर्वशः ॥

शङ्खलिखितौ

    एवम् अप्य् अजीवन् वैश्यवृत्तिम् एवोपजीवेत् तत्र संवत्सरसत्राणाम् आधारम् उद्धृत्य शेषेण द्रव्यम् आहरेत् । अन्यत्र पुष्परसगन्धमद्यमांसौदन-तिलशाकदधिपयःसोमजलमधुनीलकौशेयपानभक्ष्यजतुलोहपाषाण-कुतपशत्रविषमानुषक्षौमकृष्णाजिनैकशफप्रभृतिभ्यः ।

“संवत्सरसत्राणाम्” इति संवत्सरं यावत् अवश्यकर्तव्यधर्मार्थं धनम् अवस्थाप्य “शेषेण” वाणिज्येन (?) वाणिज्यं कुर्यात् ।

[२९२] ब्राह्मणानुवृत्तौ गौतमः

    तस्यापण्यं गन्धरसकृतान्नतिलमांसक्षौमाजिनानि रक्तानि निर्णिक्ते वाससी क्षीरं सविकारं मूलफलम् औषधं मधुमांसतृणोदकापथ्यानि, पशवश् च हिंसासंयोगे पुरुषवशाकुमारीवेहतश् च नित्यं भूमिव्रीहियवाजाव्य-ऋषभधेन्वनडुहश् चैके ।

“अपथ्यं” विषादि । “वशा” वन्ध्या गौः । “कुमारी” अल्पवयस्का गौर् एव । “वेहत्” गर्भघातिनी गौः ।

अपण्यम् इत्य् अनुवृत्तौ वसिष्ठः

    ग्राम्यपशूनाम् एकशफाः । केशिनश् च सर्वे चारण्याः पशवो वसांसि दंष्ट्रिणश् च ।

[२०३] आपस्तम्बः

    अविहिता वाणिज्या ब्राह्मणस्य । यदि व्यवहरेत् पण्यानाम् अपण्यानि व्युदस्यन् । मनुष्यान् रसान् नागान् गन्धान् अन्नं चर्म गवां वशां श्लेष्मोदके तोक्मकिण्वे पिप्पलीमरीचे धान्यं मांसम् आयुधं सुकृताशां च । तिलतण्डुलांस् त्व् एव धान्यस्य विशेषेण न विक्रीणीयात् ।

“पण्यानाम् अपण्यानि व्युदस्यन्” पण्यानां व्रीह्यादीनां अपण्यानि व्युदस्यन् अपनयन् । “शेष्म” चर्मादिसन्धानहेतुर् वृक्षनिर्यासः । “तोक्म” ईषद्विरूढं बीजम् । “किण्वं” सुराकारणद्रव्यम् । “सुकृता” सद्विहिता । धान्यस्य मध्ये तिलतण्डुला इत्य् अर्थः ।

पैठीनसिः

विद्या पूर्तम् इष्टं गावः शङ्खश् चोर्णा चेत्य् अविक्रेयाणि ।

अविक्रेयाणि ब्राह्मणेन इत्य् उपक्रम्य उशनाः

    शुक्तिविषतुषकुतपसलिलसोमगन्धक्षौमरक्तवस्त्रकौशेयचर्मकम्बल-प्रभृतीति ।

“कुतपो” नेपालकम्बलः ।

बौधायनः

    पितॄन् वा एष विक्रीणीते यस् तिलान् विक्रीणीते । प्राणान् वा एष विक्रीणीते यस् तण्डुलान् विक्रीणीते । सुकृतानंशान् वा एष विक्रीणीते यः पणमानो दुहितरं ददाति ।

अपण्यम् इत्य् अनुवृत्तौ **वसिष्ठ-मनु-पैठीनसि-बौधायनाश् **च श्लोके धान्यानां तिलान्

आहुः ।

अथाप्य् उदाहरन्ति ।

भोजनाभ्यञ्जनादानाद् यद् अन्यत् कुरुते तिलैः ।

कृमिर् भूत्वा स विष्ठायां पितृभिः सह मज्जति ॥

**यमः **।

रसगन्धतिलानां च लाक्षालवणसर्पिषाम् ।

भूगोऽग्निक्षीरमेषाणां तैलाश्वजलवाससाम् ॥

मांसकृष्णाजिनानां च विक्रेता सर्वविक्रयी ।

स्नेहद्रव्यरसानां च सत्वानां जीवताम् अपि ॥

[२०५] विक्रेता दानपुण्यानां प्रोच्यते भ्रूणहा बुधैः ।

वक्ता च दानपुण्यानां शपथे सो ऽपि विक्रयी ॥

त्रपुसीसायसानां च धातूनाम् अपि सर्वशः ।

वज्रशुक्तिप्रवालानां मणीनां माक्षिकस्य च ॥

प्रतिरूपककर्ता च भ्रूणहा सो ऽपि कथ्यते ।

“स्नेहद्रव्यम्” तिलादि । “सत्वानां” प्राणिनाम् । “शपथे” शपथकरणे । दानपुण्यानां वक्तेत्य् अन्वयः ।

महाभारते

विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः ।

ये वैनं क्रीणते तात ये च विक्रीणते जनाः ॥

ते वै वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः ।

छागलेयः

न वेदविक्रयं कुर्याद् अग्निविक्रयम् एव च ।

यो धर्मविक्रये पुंसां नरकः स प्रजायते ॥

तस्मान् न विक्रयो वेदे अग्निहोत्रे तथैव च ।

प्रख्यापनं प्राध्ययनं प्रश्नपूर्वः प्रतिग्रहः ॥

[२०६] याजनाध्यापने वादः षड्विधो वेदविक्रयः ।

अनन्तरश्लोके **व्यासो **“पि ।

“अग्निहोत्रशब्दः” अत्र त्रेताग्निपरः । “याजनाध्यापने” चात्र भृतिपूर्वके । “वादः” अत्र पणपूर्वकः ।

भविष्यपुराणे

वेदविक्रयजं नेष्टं स्त्रिया यच् चार्जितं धनम् ।

न देयं पितृदेवेभ्यो यच् च क्षीबात् खगाधिप ॥

अनुयोगेन यो दद्याद् ब्राह्मणाय प्रतिग्रहम् ।

स पूर्वं नरकं याति ब्राह्मणस् तदनन्तरम् ॥

वेदाक्षराणि यावन्ति नियुज्यन्ते ऽर्थकारणात् ।

तावतीर् भ्रूणहत्यास् तु वेदविक्रय्य् अवाप्नुयात् ॥

यमः

गवां विक्रयकारी तु गवि रोमाणि यानि तु ।

तावद् वर्षसहस्राणि गवां गोष्ठे कृमिर् भवेत् ॥

शङ्खलिखितौ

    न विक्रीणीयाद् अविक्रेयाणि तिलदधिक्षौद्रलवणलाक्षामद्यमांसकृतान्नस्त्री-पुरुषहस्त्यश्वगोवृषगन्धरसक्षौमकृष्णाजिनसोमोदकनीलविक्रयात् सद्यः पतति ब्राह्मणः ।

[२०७] “नीलं” नीलवर्णवस्त्रम् ।

**हारीतो **“पि । मनु-वसिष्ठ-शातातपाश् च श्लोके ।

न त्व् एवानविक्रेयविक्रयी स्यात् ।

एवं त्व् आह ।

सद्यः पतति मांसेन लाक्षया लवणेन च ।

मनुः

इतरेषाम् अपण्यानां विक्रयाद् इह कामतः ।

ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥

“इतरेषां” लाक्षालवणमांसक्षीरेभ्यो ऽन्येषाम् । “नियच्छति” प्राप्नोति ।

हारीतः

यस् तु सम्भृत्य सम्भारं दुर्भिक्षं समुदीक्षते ।

[२०८] हीनार्घमानदाता वै प्रोक्तो दुर्भिक्षकण्टकः ॥

हीनसङ्करमानैस् तु यश् चैव हरते मलम् ।

स मलः प्रोच्यते प्राज्ञैः प्रजानां मलहारकः ॥

“हीनार्घमानदाथा” हीनार्घेन मानेन बहुमूल्यम् आदाय विक्रेतेत्य् अर्थः । “दुर्भिक्षकण्टकः” दुर्भिक्षे जनानां कण्टकः शत्रुः । “हीनसङ्करमानैः” हीनेनाल्पेनाधिकं “सङ्करेण” अपद्रव्यमिश्रीकरणेन । “मानेन” इति विशेषणेन मेयद्रव्याल्पत्वहेतुना । एतैर् यो हरते मलं मलिनं द्रव्यम्, पापहेतुत्वात् ।

अथ लाङ्गलस्य गवादिहेतुप्रतिपादकं मन्त्रम् अभिधाय, वसिष्ठः

कथं हि लाङ्गलम् उद्वपेत् अन्यत्र दान्यविक्रयात् ।

“उद्वपेत्” उत्पादयेत् गवादीन् इति शेषः ।

मनुः

कामम् उत्पाद्य कृष्यां तु स्वयम् एव कृषीवलः ।

विक्रीणीत तिलान् शुद्धान् धर्मार्थम् अचिरस्थितान् ॥

“अचिरस्थितान्” अर्घाधिक्यार्थं चिरम् अनवस्थितान् । “धर्मार्थं” धनसाध्यावश्यकर्मसिद्ध्यर्थम्,

अशक्तौ भेषजस्यार्थे यज्ञहेतोस् तथैव च ।

[२०९] यद्य् अवश्यं च विक्रेयाः तिला धान्येन तत्समाः ॥

इति नारदवचनात् ।

तथा

रसा रसैः निमातव्या न त्व् एवं लवणं रसैः ।

कृतान्नं चाकृतान्नेन तिला धान्येन तत्समाः ॥

“कृतान्नम्” ओदनं सक्त्वादि । “अकृतान्नं” व्रीह्यादि । “निमातव्याः” परिवर्तयितव्याः ।

गौतमः

    नियमनं रसानां रसैः । पशूनां च । लवणकृतान्नयोर् तिलानां च । समेनामेन तु पक्वस्य सम्प्रत्यर्थे ।

“पशूनां च” पशुभिर् इत्य् अर्थः । “सम्प्रत्यर्थे” आमस्य तत्कालोपयोगे; यस्यैव पक्वान्नविक्रयो निषिद्धस् तं प्रत्य् एव प्रतिप्रसवात् ।

न तिलास् तैलतां यान्ति न गावो यान्ति क्षीरताम् ।

रसस् तेषाम् अविक्रेयो यथा गावस् तथा तिलाः ॥

[२१०] हारीतः

नियमस् तु रसादीनां विक्रयो नैव दुष्यति ।

यज्ञार्थं दक्षिणानां च **प्रजापति**वचो यथा ॥

रसादीनां नियमो न दुष्यति । यज्ञार्थं दक्षिणानां विक्रयो ऽपि न दुष्यतीत्य् अर्थः ।

वसिष्ठः

    रसा रसैः समतो हीनतो वा निमातव्या न त्व् एव लवणं रसैः । तिलतण्डुलपक्वान्नविद्यामनुष्याश् च विहिताः परिवर्तकेन ।

“समतो” हीनतो वा इति तृतीयान्तात् तसिः । तेन समैर् न्यूनैर् वा परिवर्तनीया रसाः, न त्व् अधिकं ग्राह्यम् इत्य् अर्थः ।

तिलतण्डुलानुवृत्तौ आपस्तम्बः

    विहितश् चैषां मिथो नियमो ऽन्नेन चान्नस्य मनुष्याणां च मनुष्यै रसानां च रसैर् गन्धानां च गन्धैर् विद्यया च विद्यानाम् अक्रीतपण्यैर् व्यवहरेत् । मुञ्जबल्वजैस् तृणकाष्ठैर् अविकृतैर् नात्यन्तम् अन्ववस्येत् तत्र वृत्तिं प्राप्य विरमेत् ।

“अक्रीतपण्यैः” क्रयव्यतिरिक्तप्रकारोपपन्नैः । मुञ्ज**[२११]**बल्वजयोस् तृणशब्देनोपात्तयोर् अपि विक्रयाभ्यनुज्ञानार्थम् उपादानम् । “अन्ववस्येत्” आसक्तो भवेत् । “वृत्तिं” मुख्याम् इति शेषः ।

बौधायनः

तृणकाष्ठम् अविकृतं विक्रेयम् । अथाप्य् उदाहरन्ति ।

	पशवश् चैकतोदन्ता अश्मा च लवनोद्धृतः ।

	एतद् ब्राह्मणतो ऽपण्यं तन्तुश् चारजनीकृतः ॥ इति ।

“अश्मा” पाषाणाः । “लवणोद्धृतः” लवणाद् अन्यः । अयं चाश्मनो विक्रयो ऽत्यन्तापदि बोद्धव्यः, स्मृत्यन्तरे विक्रयनिषेधात् । “अरजनीकृतः” कुसुम्भादिभिः न रक्तीकृतः ।

नारदः

ब्राह्मणस्य तु विक्रेयं सूक्ष्मं दारु तृणानि च ।

[२१२] गन्धद्रव्यैर् एरका च गुरुतूलकुशाद् ऋते ॥

स्वयं शीर्णं च विदलं फलानां बदरेङ्गुदे ।

रज्जुः कार्पासिकं सूत्रं तच् चेद् अविकृतं भवेत् ॥

“एरका” तृणविशेषः । “तूलं” शाल्मल्यादिः । “विदलं” वल्कलम् ।

**शङ्खलिखितौ **।

सुद्धकाष्ठबदरेङ्गुदबिल्वकार्पासिकसूत्रैर् अविकृतैर् द्रव्यम् आहरेत् ।

हारीतः

    पूर्ववृत्तिषु अजीवन् शुष्ककाष्ठतृणविक्रयं वा कुर्यात् । गा एव वा रक्षेत् ।

शङ्खलिखितौ

    आपद्गतो ब्राह्मणः कामं जिजीविषुः एकान्तरितां वृत्तिम् आस्थाय पण्यं पण्यम् इति ब्रूयात् । सकृद् एवैकं मूल्यम् इच्छेत् ।

[२१३]

अथ पाशुपाल्यम्

तत्र शङ्खलिखितौ ।

    गावो रक्षेत् । तासु नापीतासु पिबेत् । न तिष्ठन्तीषूपविशेत् । न स्वयम् उत्थापयेत् शनैर् आर्द्रशाखया पृष्ठतो ऽभिहन्यात् । नातीर्थेन विषमेनाल्पोदके चावतारयेत् । बालवृद्धरोगार्ताः शान्ता उपासीत । शक्तितः प्रतीकारं च कुर्यात् । गवाम् एव धर्मो ऽन्यथा विप्लवः ।

“उपासीत” उपचरेत् । गवाम् एव धर्मो नाजादीनाम् ।

ब्रह्मपुराणे

परिभूयाथ गां मोहाद् अवीचि नरके नरः ।

गोभिर् निश्वासनिर्भिन्नो दह्यते नरकाग्निना ॥

तस्मान् मार्गं नयेताशु क्षीरिवृक्षोत्थवल्कलैः ।

हे श्रीमातस् त्वम् आयाहि वत्सायेति ब्रुवन् वचः ॥

गोब्राह्मणानां सङ्ग्रामे निहतः शाङ्करं पदम् ।

यो ऽपि कश्चिन् नरो याति किं पुनर् ब्राह्मणादयः ॥

[२१४]

१२

अथ कुसीदम्

अत्र वाक्येष्व् आपद्गतब्राह्मणाधिकारो द्रष्टव्यः । तत्र नारदः

आपदं निस्तरेद् वैश्यः कामं वार्धुषिकर्मणा ।

आपत्स्व् अपि हि कष्टासु ब्राह्मणानां न वार्धुषम् ॥

**वसिष्ठः पैठीनसिश् **च श्लोके ।

ब्राह्मणराजन्यौ वार्धुषिकं न दद्याताम् । अथाप्य् उदाहरन्ति ।

	समर्घं धनम् उद्धृत्य महार्घं यः प्रयच्छति ।

	स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥

अन्वन्यया (?) कलया उद्धृत्य ऋणं गृहीत्वा ।

[२१५] तथा च बौधायनः

समर्घं धनम् उद्धृत्य महार्घं यः प्रयच्छति ।

स हृहीतवर्णे महार्घं यः प्रयच्छति (?) ॥

यमः

समर्घं यः समादाय महार्घं यः प्रयच्छति ।

स वै वार्धुषिको नाम ये तु वृद्ध्या प्रयुञ्जते ॥

“समर्घम्” अत्रानुज्ञातं यथाप्रचरन् मूल्यम् । “महार्घम्” चात्र शास्त्रानुज्ञातमूल्यातिरिक्तं मूल्यम् । वाणिज्यमात्रस्यापदि ब्राह्मणस्यानुज्ञानात् । “वृद्ध्या प्रयुञ्जते” अन्नम् इति शेषः ।

बृहस्पतिः

भोगो यद् द्विगुणाद् ऊर्ध्वं चक्रवृद्धिश् च गृह्यते ।

मूलं च सोदयं पश्चाद् वार्धुषं तद् विगर्हितम् ॥

“भोगः” द्विगुणीभूतधनाद् अधिकवृद्धिग्रहणम् । “चक्रवृद्धिः” कलायाम् एव या कला । “सोदयम्” यावन् मूल्यं ग्राह्यत्वेन व्यवस्थापितं तावतो ऽधिकम् ।

[२१६] नारदः

वृद्धिस् तु योक्ता धान्यानां वार्धुष्यं तद् उदाहृतम् ।

पैठीनसिः

वार्धुष्यं परिहरेत् । अथाप्य् उदाहरन्ति ।

	वार्धुषिर् भ्रूणहा चैव तुलायाम् अवरोपितौ ।

	आतिष्ठद् भ्रूणहा कोट्यां वार्धुषिः समकल्पत ॥ इति ।

वार्धुषिकः पूर्वम् उक्तः ।

बृहद्वृद्ध्यनन्तरं हारीतः

ब्रह्मघ्नं वृद्धिजीवं च तुलायां समधारयत् ।

आतिष्ठेद् ब्रह्महा कोट्यां वृद्धिजीवस् त्व् अकल्पत ॥

छागलेयः

न कुर्याद् ब्राह्मणो वृद्धिं भ्रूणघाताद् विशिष्यते ।

भ्रूणहत्यां च वृद्धिं च तुलायां समतोलयत् ॥

न पापं भ्रूणहन्तॄणां न पापं वृxअलीपतेः ।

न पापम् अग्निदातॄणां न पापं गुरुहिंसके ॥

सर्वपापाधिकां वृद्धिं भ्रूणघा समतोलयत् ।

मनुः

ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् ।

[२१७] कामं तु सुखधर्मार्थं दद्यात् पापीयसे ऽल्पकम् ॥

“वृद्धिम्” निन्दिताम् । “धर्मार्थम्” अवश्यकृत्यार्थम् । “पापीयसे” हीनजातीयाय । “अल्पकम्” यावत्या धनवृद्ध्या आवश्यकं कर्म सिद्ध्यति तावत्या ।

ब्राह्मणराजन्यानुवृत्तौ वसिष्ठः

कामं वा परिलुप्तकृत्याय पापीयसे दद्याताम् ।

पैठीनसिः

    कामं तु पापीयसे दद्याद् दश <span style="text-decoration:underline;">इत्य् एके</span> । न ज्यायसीं वृद्धिम् उपाददीत । न त्व् एव कनीयसीम् ।

दशपणसङ्ख्यया एकैकस्मै पापीयसे दद्याद् इत्य् अर्थः । शास्त्रविहितकलापेक्षया वृद्धेर् न्यूनत्वम् अधिकत्वं च ज्ञेयम् ।

वसिष्ठः

**वसिष्ठ**वचनप्रोक्तां वृद्धिं वार्धुषिके शृणु ।

पञ्च माषास् तु विंशत्या एवं धर्मो न हीयते ॥

विंशतिकार्षापणानां पञ्चमाषा वृद्धिर् ग्राह्या,

माषो विंशतिभागश् च ज्ञेयः कार्षापणस्य तु ।

इति नारदवचनात् । “पञ्च माषा” अशीतिभागतुल्या भवन्ति । इयं च वृद्धिः प्रतिमासं ग्राह्या,

अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते ।

इति मनुवचनात् ।

**बृहस्पतिः **।

अशीतिभागो वर्धेत लाभो द्विगुणताम् इयात् ।

प्रयुक्तं सप्तभिर् वर्षैस् त्रिभागोनैर् न संशयः ॥

व्यासः

सबन्धे भाग आशीतिः साष्टभागः सलग्नके ।

निराधाने द्विकशतं मासलाभ उदाहृतः ॥

“आशीतिः” अशीतितमः । अयम् एव च सलग्नके स्वकीयाष्टमभागसहितः साष्टभागः । “निराधाने” बन्धकरहिते ।

मनुः

द्विकं शतं प्रगृह्णीयात् सतां धर्मम् अनुस्मरन् ।

[२१९] द्विकं शतं हि गृह्णानो न भवत्य् अर्थकिल्बिषी ॥

यथा [अशीतिभागं गृह्णानो न भवत्य् अर्थकिल्बिषी तथा] द्विकम् अपि शतं गृह्णानो न दोषभाक् । अत्र च सबन्धकविषयतया व्यवस्था । “सबन्धे भाग आशीतिः” इत्यादिव्यासवचनानुसारात् ।

हारीतः

    पुराणपञ्चविंशत्यां मासे अष्टपणा वृद्धिर् एवं षड्भिर् मासैश् चतुर्भिर् वर्षैर् द्विपर्यागतं सन्तिष्ठते । एषा वृद्धिर् धर्मवृद्धिर् नानया धर्मात् च्यवते ।

“पुराणम्” षोडश पणाः । पणः काकिणीचतुष्टयम्, तथैव प्रसिद्धेः । “द्विपर्यागतम्” द्विगुणीभूतम् । “सन्तिष्ठते” व्यवतिष्ठते न पुनर् वर्धत इति यावत् ।

मनुः

द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् ।

मासस्य वृद्धिं गृह्णीयाद् वर्णानाम् अनुपूर्वशः ॥

[२२०] “द्विकं” द्विवृद्धिर् दीयते यस्मिन् मूले तत् । एवं त्रिकाद्य् अपि । “समं” मात्रयाप्य् अनधिकम् ।

याज्ञवल्क्यः

अशीतिभागो वृद्धिः स्यान् मासि मासि सबन्धके ।

वर्णक्रमाच् छतं द्वित्रिचतुष्पञ्चकम् अन्यथा ॥

“अन्यथा” अबन्धके ।

अथ वसिष्ठः

    अथोत्तमर्णो ऽधमर्णकाद् यथा दत्तम् अर्थं गृह्णीयाद् द्विकं त्रिकं चतुष्कं पञ्चकं शतं वर्णानुक्रमेण प्रतिमासम् ।

गौतमः

नातिसांवत्सरीम् <span style="text-decoration:underline;">एके</span> ।

मनुः

नातिसांवत्सरीं वृद्धिं न वादृष्टां पुनर् हरेत् ।

चक्रवृद्धिः कलावृद्धिः कारिता कायिका च या ॥

मासाद् आरभ्य संवत्सरं यावत् वृद्धिः परिमाणतो ऽपि निरूपयितव्या । मासेन य वर्दते संवत्सरेण तद् इत्य् एवं [२२१] प्रयोगः कर्तव्यो न त्व अधिकस्य । “अदृष्टाम्” शास्त्रेणादृष्टां पञ्चकाद् अधिकां वृद्धिं गृहीयाद् इत्य् अर्थः । चक्रवृद्ध्यादिवृद्धयो ऽपि न ग्राह्याः ।

तत्स्वरूपं तु याज्ञवल्क्योक्तम् । तथा च

वृद्धेर् वृद्धिश् चक्रवृद्धिः प्रतिमासं तु मासिका ।

इच्छाकृता कारिता स्यात् कायिका कायकर्मणी ॥

बृहस्पतिः

बहवो वर्तनोपाया ऋषिभिः परिकीर्तिताः ।

सर्वेषाम् अपि चैतेषां कुसीदम् अधिकं विदुः ॥

अनावृष्ट्या राजभयान् मूषिकाद्यैर् उपद्रवैः ।

कृष्यादिके भवेद् धानिः सा कुसीदे न विद्यते ॥

शुक्लपक्षे तथा कृष्णे रजन्यां दिवसे ऽपि वा ।

उष्णे वर्षे निशीथे वा वर्धनं न निवर्तते ॥

दिशं गतानां या वृद्धिर् नानापण्योपजीविनाम् ।

कुसीदं कुर्वतः सम्यक् सास्मिन् तस्यैव जायते ॥

[२२२]

१३

अन्या आपद्वृत्तयः

अथान्या आपद्वृत्तयः । तत्र मनुः

विद्या शिल्पं भृतिः सेवा गोरक्षं विपणिः कृषिः ।

धृतिर् भैक्षं कुसीदं च दश जीवनहेतवः ॥

“विद्या” वेदविद्याव्यतिरिक्ता गारुडादिविद्या । “शिल्पम्” चित्रादिकर्म । “भृतिः” वेतनम् । “विपणिः” वाणिज्यम् । “धृतिः” सन्तोषः ।

याज्ञवल्क्यः

कृषिः शिल्पं धृतिर् विद्या कुसीदं शकटं गिरिः ।

सेवानूपं नृपो भैक्ष्यम् आपत्तौ जीवनानि तु ॥

[२२३] बृहस्पतिः

जात्याणे (?) शकटारागमयाब्जावृद्धिर् वणिक् कृषिः ।

अनूपं पर्वतो राजा विपत्तौ जीवनानि तु ॥

“वणिक्” वाणिज्यम् ।

छागलेयः

शकटं शाकिनी गावो जालम् अस्पन्दनं वनम् ।

अनूपं पर्वतो राजा दुर्भिक्षे नव वृत्तयः ॥

“शकटम्” धान्यादिवहनभाटकद्वारेणोपजीव्यम् । “शाकिनी” शाकवाटिका । “जालम्” मत्स्याहरणेन । “अस्पन्दनम्” एकत्रावस्थानम्, व्ययाधिक्यविरहात् तृणादिलाभाच् च । “वनम्” फलमूलाद्याहरणेन । “अनूपम्” बहूदको देशः बिसशालूकाद्याहरणेन । “पर्वतः” गौरिकाद्याहरणेन ।

हारीतः

    युक्तभरम् अयोगक्षेमं पञ्चसूनम् अनो मन्यन्ते दशसूनं रात्रौ शतसूनं वर्षासु तस्मान् नानसा रात्रौ चरेत् न वर्षासु । मासेनानोवृत्तिः पततीति धर्मविदो ऽग्निदेवतातिथिगृहयज्ञोपकरणम् अनेन भवतीत्य् आहुः ।

शतमूलम् इक्षुपत्रं तद् यज्ञार्थं कुर्यात् । “भरः” अत्र उपरि स्थाप्यमानो व्रीह्यादिसमूहः । “अयोगक्षेमम्” अयोगशाकटिकान्वितत्वेन । “अनः” शकटम् । सयोगक्षेमम् अपि रात्रौ दशमूलम् । एवं शतमूलं वर्षासु । अग्न्युपकरणसमित्पुष्पयवस-व्रीह्याद्याहरेणेन । अनेन निष्पापः यज्ञार्थे कुर्यान् न वृत्त्याद्यर्थम् ।

गौतमः

    सर्वथा वृत्तिर् अशक्ताव् अशौद्रेण । तद् अप्य् <span style="text-decoration:underline;">एके</span> प्राणसंशये । तद्वद् वर्णसङ्कराभक्ष्यनियमस् तु । प्राणसंशये ब्राह्मणो ऽपि शस्त्रम् आददीत ।

“सर्वथा” प्रतिषिद्धविक्रयवृत्तिसङ्करादिभिः । “अशक्तौ” नित्यनैमित्तिकानुष्ठानासम्पत्तौ । “अशौद्रेण” शूद्रकर्मव्यतिरिक्तेन उच्छिष्टभक्षणशिल्पादिना । “तद् अपि” शौद्रकर्मापि । “प्राणसंशये” आत्मनो ऽवश्यभर्तव्यानां चेति शेषः । “तद्वद् वर्णसङ्करः” सहासनादिः । “अभक्ष्यम्” लशुनादि । “नियमः” निवृत्तिः । “शस्त्रम् आददीत” प्राणधारणार्थम् इति शेषः ।

अङ्गिराः

व्याधितस्य दरिद्रस्य कुटुम्बात् प्रच्युतस्य च ।

अध्वानं वा प्रपन्नस्य भिक्षाचर्या विधीयते ॥

इदं व्याधितत्वादि सर्वप्रकारपाकासम्भवोपलक्षणपरम् ।

[२२५] हारीतः

चातुर्वर्णं तु वा भैक्ष्यम् एकान्नं वा द्विजादिषु ।

भैक्षम् एव प्रशंसन्ति न त्व् एकान्नं द्विजातिषु ॥

स्वकर्मोपार्जितं भैक्ष्यं विधिना त्व् अनसूयया ।

वायुतुल्यं प्रशंसन्ति ऋषयो धर्मकोविदाः ॥

“स्वकर्मणा” यथोकाध्ययनादिप्रयोजनेन । “विधिना” यावदर्थम् अमाययेत्यादिनिरूपितप्रकारेण । “वायुतुल्यम्” शुद्धत्वेन ।

मनुः

तथैव सप्तमे भक्ते भक्तानि षड् अनश्नता ।

अश्वस्तनविधानेन कर्तव्यं हीनकर्मणः ॥

खलात् क्षेत्राद् अगाराद् वा यतो वाप्य् उपलभ्यते ।

आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ॥

ब्रह्मस्वं न च हर्तव्यं क्षत्रियेण कदाचन ।

[२२६] दस्युनिष्क्रिययोस् तु स्वम् अजीवन् हर्तुम् अर्हति ॥

“अश्वस्तनविधानेन” एकदिनोपयोगेन । “दस्युः” चौरः । “निष्क्रियो” नित्यनैमित्तिकक्रियारहितः । तयोर् ब्राह्मणयोर् अपि हर्तव्यम् इत्य् अर्थः ।

याज्ञवल्क्यः

बुभुक्षितस् त्र्यहं स्थित्वा धान्यम् अब्राह्मणाद् धरेत् ।

प्रतिगृह्य तद् आख्येयम् अभियुक्तेन धर्मतः ॥

“प्रतिगृह्य” गृहीत्वा ।

द्रव्यादीनाम् इत्य् अनुवृत्तौ गौतमः

    सप्तमीं चाभुक्तानि च (?) वाद्याप्य् [चाभुक्त्वानिचयाय अपि] अहीनकर्मभ्य आचक्षीत राज्ञा पृष्टः ।

“सप्तमीं” भोजनवेलाम् इति शेषः ।

[२२७] हारीतः

    आरोग्यवृत्तिः चिकित्सितम् उपपतिवृषवैश्योपजीवनं चैतस्या वणिक् कैराटी वार्धुषिकी अनृती कितववृत्तिः विवादप्रैष्यवृत्तिस् तार्किकाश्ववृत्तिः राजपौरुष्यं दम्भजीवनं कल्कवृत्तिः । परस्वापहरणं स्तेयवृत्तिः । वधबन्धोपजीवनप्रभृतयश् चैताः किल्बिषवृत्तयो भवन्ति । किल्बिषवृत्तयो निरयानुशिष्टाः पापयोनिषु जायन्ते तस्मान् नासद्वृत्तिः स्यात् ।

“उपपत्युपजीवनम्” भार्याजारोपजीवनम् । गवाश्वादेर् वृषभस्य मूल्येन तत्स्त्रीषूत्सर्जनम् एषा तस्या नाम वृषवृत्तिः । “वणिक्” पण्यविक्रयी । “किराटी” घृततैलतण्डुलाद्यविक्रेयविक्रयी । कुसीदवृत्त्युपजीवित्वम् “वार्धुषिकवृत्तिः” । एषानृतवृत्तिः । “कितववृत्तिता” द्यूतवृत्तित्वम् । “विवादवृत्तिः” कलहशौण्डतया जीवनम् । “प्रैष्यवृत्तिः” सेवकः । “तार्किको” हेतुवादजीवी छलादिकुशलः सद्विद्योपमर्दनेन यो जीवति । एषा चतुःप्रकाराश्ववृत्तिः । “राजपौरुष्यम्” राजभयोपदर्शनेनोत्कोचग्रहणम् । दम्भस्य व्यक्ताकल्कताच्छलेन परस्वापहरणं स्तेयवृत्तिः । “निरयानुशिष्टाः” नरकयातनां लम्भिता इत्य् अर्थः ।

[२२८] देवलः

चिकित्स्यां ज्योतिषं रूपं शकटं तिलपीडनम् ।

सुरां तुलां च नाजीवेत् पुत्राचार्यत्वम् एव च ॥

लाक्षामाञ्जिष्ठमांसानि मधुलोहविषाणि च ।

अजीवन् वृषलो ऽप्य् आर्यः कर्मणा तेन वर्जितः ॥

“रूपम्” वेश्यादीनाम् इव जीवनोपायः । “पुत्राचार्यता” आचार्यतया पुत्राद् धनादानम् ।

शङ्खलिखितौ

    नान्तरितां नाविशिष्टां नाधिकां न समां न हीनां न कुत्सितां नानर्थकरीं वृत्तिं लिप्सेत् ।

“अन्तरिता” व्यवहिता । यथा क्षत्रियस्य शूद्रवृत्तिः । “अवशिष्टा” विशुद्धप्रतिग्रहसम्भवे सत्य् अविशुद्धप्रतिग्रहादिरूपा । “अधिका” स्वोत्कृष्टवर्णसम्बन्धिनी । “समा” आवश्यककर्म-भृत्यभरणे ऽप्य् असमर्था । “हीना” हीनवर्णसम्भन्धिनी । “कुत्सिता” निन्दितकर्मार्जिता । “अनर्थकरी” अहिता ।

मनुः

नेहेतार्थं प्रसङ्गेन न निषिद्धेन कर्मणा ।

[२२९] न कल्प्यमानेष्व् अर्थेषु नार्त्याम् अपि यतस् ततः ॥

“प्रसङ्गेन” गीतवाद्यादिप्रसक्त्या । “कल्प्यमानेषु” पित्रादिकर्मागतेषु वृत्तिसमर्थेषु धनेषु सत्सु । “यतस् ततः” अभिशस्तपतितादेः ।

याज्ञवल्क्यः

न स्वाध्यायविरोध्यर्थम् ईहेत न यतस् ततः ।

न विरुद्धप्रसङ्गेन सन्तोषी च भवेत् सदा ॥

लघुहारीतः

अधिकारी तु यो यस्य स दासस् तस्य कीर्तितः ।

तस्माद् द्विजोत्तमेनैव न कार्यं कर्म कर्हिचित् ॥

अधिकारी तु यः पूर्वम् इष्टं वा कर्म कारयेत् ।

स गच्छेन् नरके घोरे यस्यार्थस् तस्य तत् फलम् ॥

“यस्यार्थस् तस्य तत्फलम्” इति । वृत्त्यर्थदत्तधनव्यतिरिक्तेन स्वामिधनेन धर्मं कुर्याद् इत्य् अर्थः ।

बृहस्पति-व्यासौ

वृद्धौ मातापितरौ साध्वी भार्या सुतः शिशुः ।

[२३०] अप्य् अकार्यशतं कृत्वा भर्तव्या मनुर् अब्रवीत् ॥

“अकार्यशतम्” अत्र निन्दिता वृत्तयः ।

दक्षः

तृतीयेष्व् एव भागेषु पोष्यवर्गार्थसाधनम् ।

माता पिता गुरुर् भार्या प्रजा दीनः समाश्रितः ॥

अभ्यागतो ऽतिथिश् चाग्निः पौष्यवर्ग उदाहृतः ।

ज्ञातिर् बन्धुजनः क्षीणः तथानाथः समाश्रितः ॥

अन्यो ऽपि धनयुक्तस्य पोष्यवर्ग उदाहृतः ।

ज्ञानविद्भ्यश् च दातव्यम् अन्यथा नरकं व्रजेत् ॥

तस्मात् सर्वप्रयत्नेन पोष्यवर्गं सदा भरेत् ।

भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ॥

नरकं पीडने चास्य तस्माद् यत्नेन तं भरेत् ।

स जीवति पुमान् एको बहुभिर् यो ऽनुजीव्यते ॥

जीवन्तो ऽपि मृतास् त्व् अन्ये पुरुषाः स्वोदरम्भराः ।

बह्वर्थे जीव्यते कैश्चित् कुटुम्बार्थे तथापरैः ॥

आत्मार्थे ऽन्यैः न शक्नोति स्वोदरेणापि दुःखितः ।

“अर्थसाधनम्” धर्मार्जनम् । “दीनः समाश्रितः” दीनः सन् समाश्रितो न पुनः सर्वः । “अभ्यागतः” असम्बन्धी [२३१] ग्रामान्तराद् आगतः । “ज्ञातिः” पितृबन्धुः । “बन्धुः” मातृबन्धुः । “अनाथः” पित्रादिपोषकरहितः । “ज्ञानवित्” वेदशास्त्रवित् ।

अथ प्रतिग्रहविधिः

तत्र व्यासः

द्विजातिभ्यो धनं लिप्सेत् प्रशस्तेभ्यो द्विजोत्तम ।

अपि द्विजातिमात्रेभ्यो न तु शूद्रात् कथञ्चन ॥

राजतो धनम् अन्विच्छेत् संसीदन् स्नातकः क्षुधा ।

याज्यान्तेवासिनोर् वापि न त्व् अन्यत इति स्थितिः ॥

याज्ञवल्क्यः

राजान्तेवासियाज्येभ्यः सीदन्न् इच्छेद् धनं क्षुधा ।

दम्भिहैतुकपाषण्डिबकवृत्तींश् च वर्जयेत् ॥

“हैतुकाः” हेतुवादरताः त्रयीबाह्याः ।

नारदः

अर्थानां भूरिभावाच् च देवत्वाच् च महात्मनाम् ।

श्रेयान् प्रतिग्रहो राज्ञां नान्येषां ब्राह्मणाद् ऋते ॥

ब्राह्मणश् चैव राजा च द्वाव् एवैतौ धृतव्रतौ ।

[२३२] नैतयोर् अन्तरं किञ्चित् प्रजाधर्माभिरक्षणात् ॥

धर्मज्ञस्य कृतज्ञस्य रक्षार्थं शासतो ऽशुचीन् ।

मेध्यम् एव धनं प्राहुस् तीक्ष्णस्यापि महीपतेः ॥

शुचीनाम् अशुचीनां तु सन्निपातो यथाम्भसाम् ।

समुद्रे समतां याति तद्वद् राज्ञो धनागमः ॥

यथाग्नौ संस्थितं दीप्तं शुद्धिम् आयाति काञ्चनम् ।

एवं धनागमाः सर्वे शुद्धिम् आयान्ति राजनि ॥

स्वधर्मे ब्राह्मणस् तिष्ठन् वृत्तिम् आहारयेन् नृपात् ।

नासद्भ्यः प्रतिगृह्णीयाद् ब्राःमणो विभवे सति ॥

अशुचिर् वचनाद् यस्य शुचिर् भवति पूरुषः ।

शुचिश् चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥

विदुर् य एनं देवत्वं राज्ञो ह्य् अमिततेजसः ।

तस्य ते प्रतिगृह्णन्ति न लिपय्न्ते कथञ्चन ॥

“अशुचीन्” कृतापराधान् । “देवत्वम्” अष्टलोकपालरूपत्वेन मन्वादिभिः संस्कृतत्वात् ।

शिलोञ्छवृत्त्यनन्तरं मनुः

सीदद्भिः कुप्यम् इच्छद्भिर् धनं वा पृथिवीपतिः ।

याच्यः स्यात् स्नातकैर् विप्रैर् अदित्संस् त्यागम् अर्हति ॥

[२३३] अकृतं च कृतात् क्षेत्राद् गौरजाविकम् एव च ।

हिरण्यं धान्यम् अन्नं च पूर्वं पूर्वम् अदोषकृत् ॥

“कुप्यं” हेमरजताभ्याम् अन्यत् कांश्यादिधनम् । “स्नातकैः” विप्रैः । “अन्यत्” कांस्यादि । “धनं” कुप्याद् अन्यत् सुवर्णादि । “अदित्सन्” दातुम् इच्छारहितः । “त्यागम् अर्हति” तस्या राष्ट्रे न वस्तव्यम् इति मेधातिथिः । “अकृतम्” अकृष्टम् । “अन्नम्” पक्वम् ।

बौधायनः

    तस्य वृत्तिः ब्राह्मणक्षत्रियवैश्यरथकारेषु आमं लिप्सेत् । भिक्षेत वाग्यतस् तिष्ठन् ।

“रथकारो” माहिष्येण करण्यां जातः । “लिप्सेत” अयाचितम् इति शेषः ।

शङ्खलिखितौ

    भिक्षमाणो निमित्तान्तरं ब्रूयात् । न रङ्गावतारं कुर्यान् न स्त्रीं नाप्राप्तव्यवहारं नापर्याप्तसन्निधानम् अनुद्दिश्यान्नं भिक्षेत । यदर्थं भिक्षेत तम् एवार्थं कुर्यात् । शेषम् ऋत्विग्भ्यो निवेदयेत् । यो वान्यः साधुतमस् तस्मै दद्यात् ।

“निमित्तं” भिक्षाप्रयोजकं विवाहादि । “रङ्गो” नृत्यादिस्थानम्, तत्रावतारो भिक्षार्थं तत्प्रदेशगमनम् । “अप्राप्त**[२३४]**व्यवहारः” ऊनषोडशवर्षः । “अपर्याप्तसन्निधानः” दानायोग्यदेशकालस्थितः । “अनुद्दिश्य” अनिर्दिश्य । “अन्यम्” अकृताद् अर्थान्तरम् । “भिक्षेत” इति न स्त्रीम् इत्यादिभिः सम्बध्यते ।

मनुः

न राज्ञः प्रतिगृह्णीयाद् अराजन्यप्रसूतितः ।

सूनाचक्रध्वजवतां वेशेनैव जिवताम् ॥

दशसूनासमं चक्रं दशचक्रसमो ध्वजः ।

दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥

दशसूनासहस्राणि यो वाहयति सौनिकः ।

तेन तुल्यः स्मृतो राजा घोरस् तस्य प्रतिग्रहः ॥

यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः ।

स पर्यायेण यातीमान् नरकान् एकविंशतिम् ॥

तामिस्रम् अन्धतामिस्रं महारौरवरौरवौ ।

नरकं कालसूत्रं च महानरकम् एव च ॥

सञ्जीवनं महावीचीं तपनं सम्प्रतापनम् ।

सङ्घातं च सकाकोलं कुड्मलं पूतिमृत्तिकम् ॥

[२३५] लोहसङ्कुम् ऋतीक्षं च पन्थानं शाल्मलीं नदीम् ।

असिपत्रवनं चैव लोहाङ्गारकम् एव च ॥

एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः ।

न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयो ऽभिकाङ्क्षिणः ॥

“सूनी” मांसविक्रयी । “चक्री” तैलिकः । “ध्वज्वान्” शौण्डिकः । “वेश्या” गणिका ।

यमः

अराजन्यप्रसूतस्य राज्ञः स्वच्छन्दवर्तिनः ।

घोरः प्रतिग्रहस् तस्य मध्वास्वादो विषोपमः ॥

राजकिल्बिषदग्धानां विप्राणाम् अकृतात्मनाम् ।

स्विन्नानाम् इव बीजानां पुनर् जन्म न विद्यते ॥

तस्मात् प्रतिग्रहं राज्ञो वर्जय्हन्ति मनीषिणः ।

देवतान्नैर् द्विजान्नैश् च पुनर् आप्याययन्ति ते ॥

तथैव राजमहिषी राजामात्यपुरोहिताः ।

पापेनार्धेन संयुक्ताः सर्वे ते राजधर्मिणः ॥

“अकृतात्मानः” निन्दितराजप्रतिग्रहानुष्ठानेन । “देवतान्नैर् [२३६] द्विजान्नैश् च पुनर् आप्याययन्ति ते” देवस्वब्रह्मस्वाभ्याम् अपि वरम् आत्मानम् आप्याययन्ति, न तु राजप्रतिग्रहं कुर्वन्तीति तात्पर्यार्थः ।

**हारीतः **।

दशसूनासहस्राणि अह्ना राजा करोति वै ।

तान्य् एव कुरुते रात्रौ घोरस् तस्य प्रतिग्रहः ॥

अर्धार्धं तु ततो ऽमात्याः सेनानीदण्डनायकौ ।

ततो ऽअर्धार्धम् अथार्धार्धम् आश्रितेषु च जायते ॥

अङ्गिराः

षण्मासान् यो द्विजो भुङ्क्ते शूद्रान्नं च विगर्हितम् ।

जीवेत् स तु भवेच् छूद्रो मृतः श्वा चाभिजायते ॥

एते दोषा भवन्त्य् अत्र शूद्राद् एव प्रतिग्रहैः ।

गुर्वर्थम् अतिथीनां च भृत्यानां च विशेषतः ॥

शूद्रान्नं प्रतिगृह्णीयान् न तु भुङ्क्ते स्वयं ततः ।

[२३७] अनुग्रहप्रवृत्तस्य न दोषो “ङ्गिरसो मतम् ॥

“अनुग्रहप्रवृत्तस्य” वक्ष्यमाणगुर्वाध्यनुग्रहप्रवृत्तस्य ।

यमः

अनिर्दशाहे प्रेतस्य प्रतिगृह्णन्ति ये द्विजाः ।

समा शतसहस्रं ते नरकं पर्युपासते ॥

“अनिर्दशाहे प्रेतस्य” मृतकाशौचमध्य इत्य् अर्थः ।

अङ्गिराः

संस्कारैः शुध्यति ह्य् आमं धान्यं तेन शुचि स्मृतम् ।

तस्माद् आमं ग्रहीतव्यं मृतसूतान्तरेष्व् अपि ॥

पक्वान्नं वर्जयेद् विप्रो गोधान्यं क्षत्रिये तथा ।

वैश्येभ्यः सर्वधान्यानि शूद्राद् ग्राह्याः पणास् तथा ॥

“संस्कारैः” खण्डनदलनादिभिः । “पणः” ताम्रकः कार्षिकः पणः । एतच् च सर्वम् आपद्गत्सय्स् बोद्धव्यम् । शूद्रस्य सर्वथा अप्रतिग्राह्यधनस्य शौचे पणग्रहणाभ्यनुज्ञानात् ।

[२३८] अपाङ्क्तेयानुवृत्तौ शूद्रयाजकानन्तरं मनुः

वेदविच् चापि विप्रो ऽस्य लोभात् कृत्वा प्रतिग्रहम् ।

विनाशं व्रजति क्षिप्रम् आमपात्रम् इवाम्भसा ॥

हारीतः

    पतितदुष्कृतेभ्यः प्रतिगृहीतम् अस्वर्ग्यम् अयज्ञियं न तेन (?) पुण्यार्थान् आप्नोति देवादार्थाभ्यनार्थानर्थो ब्राह्मणम् अभिजित्य तामसम् अन्यस्मै दीयमानं प्रतिषिध्य स्वयं प्रतिगृह्णन् तस्य दुष्कृतम् आप्नोति । आऋण्यार्थे प्रतिगृह्य तेभ्यो ऽकृत्वोपयोगानां स्तैन्यम् असत्कार्यार्थे मज्जत्य् आत्मार्थे निबध्नाति । एतैः प्रतिग्रहोपशयैः प्रतिगृह्णन् निरयाय कल्पते ।

बृहस्पतिः

असतो ऽपि समादाय साधुभ्यः सम्प्रयच्छति ।

[२३९] धनस्वामिनम् आत्मानं सन्तारयति दुस्तरात् ॥

यमः

यस् तु लब्धं पुनर् दद्यात् प्रतिगृह्य यतस् ततः ।

यः स पृच्छति राजानं केषां भवति दक्षिणा ॥

जानताजानता वापि यत् किञ्चिद् दुष्कृतं भवेत् ।

सर्वं तरति धर्मात्मा प्रतिगृह्य पुनर् ददत् ॥

सक्ताः प्रतिग्रहे ये तु न तु दाने कदाचन ।

तेषां वैवस्वतः प्राह न तूर्ध्वं गमनं क्वचित् ॥

“सक्ताः” आसक्ताः ।

याज्ञवल्क्यः

देवातिथ्यर्चनकृते गुरुभृत्यादिवृत्तये ।

सर्वतः प्रतिगृह्णीयाद् आत्मवृत्त्यर्थम् एव च ॥

“आत्मवृत्तिः” आत्मप्राणयात्रारूपा ।

मनुः

गुरून् भृत्यांश् चोज्जिहीर्षन्न् अर्चिष्यन् देवतातिथीन् ।

सर्वतः प्रतिगृह्णीयान् न तु तृप्येत् स्वयं ततः ॥

[२४०] गुरुषु त्व् अभ्यतीतेषु विना वा तैर् गृहे वसन् ।

आत्मनो वृत्तिम् अन्विच्छन् गृह्णीयात् साधुतः सदा ॥

एतेष्व् अपि च कार्येषु समर्थः सन् प्रतिग्रहे ।

नादद्यात् कुलटाषण्ढपतितेभ्यस् तथा द्विषः ॥

“गुरवः” पित्रादयः । “उज्जिहीर्षन्” क्षुधाद्यवसन्नान् उद्धर्तुम् इच्छन् । “अर्चिष्यन्” देवतातिथीन् । आवश्यककर्मसम्पत्यर्थम् इत्य् अर्थः । “सर्वतः” साध्वसाधुभ्यः । “न तु तृय्प्येत् स्वयं ततः” इति । प्राणयात्रामात्रातिरिक्तं भोगादि तेन न कुर्याद् इत्य् अर्थः । “विना वा तैर् गृहे वसेत्” जीवत्स्व् अपि गुर्वादिषु प्रकारान्तरेण सम्भवद्वृत्तिषु, आत्मवृत्त्यर्थं साधुभ्यो धार्मिकेभ्य एव प्रतिगृह्णीयाद् इत्य् अर्थः ।

गौतमः

    एधोदकमूलफलमध्वभयाभ्युद्यतशय्यासनावसथयानपयोदधि-धानासर्षपप्रियङ्गुमार्गशाकान्य् अप्रणोद्यानि सर्वेभ्यः । पितृदेवगुरुभृत्यभरणे वान्यवृत्तिश् चेन् नान्तरेण शुद्रात् ।

“अभ्युद्यतम्” अभिमुखं दातुम् आनीतम् एधादिभ्यो ऽन्यद् अपि । पयोदधिधानानि तु अनभ्युद्यतान्य् अपि दातुर् [२४१] गृहादिवर्तीनि । अयाचितदत्तानि न प्रत्याख्येयानि । “आवसथम्” गृहम् । “मार्गम्” मृगमांसम् । “पितृदेवगुरुभृत्यभरणे चान्यद्” इति श्राद्धाद्यर्थम् अन्यद् अपि दत्तम् अप्रत्याख्येयम् इत्य् अर्थः ।

सुमन्तुः

    अभोज्यान्नानाम् अपि पुष्पफलमूलशाकतृणकाष्ठधान्यानि क्षेत्रस्थान्य् अम्बु तडागे गोष्ठस्थं पयश् चाददताम् अदोषः ।

“क्षेत्रम्” अत्रोत्पत्तिस्थानम् ।

आपस्तम्बः

    मध्व् आमं मार्गं मांसं भूमिर् मूलफलानि रक्षा गव्यूतिर् निवेशनं युग्यं वासश् चोग्रतः प्रतिग्राह्याणि । एतान्य् अपि अन्तेवास्युद्धृतानीति ।

“रक्षा” त्राणम् । “गव्यूतिः” गोमार्गः । “उग्रः” उच्छास्त्रवर्ती । “अन्त्रेवास्युद्धृतानि” अन्तेवासिना शिष्येण नीतानि ।

हारीतः

    आमं वा गृह्णीरन् कृतान्नस्य वा विरसस्य न सुभिक्षाः **[२४२]** स्युः । स्वयम् अप्य् अवृत्तौ सुवर्णं दत्वा पशुं वा भुञ्जीत नात्यन्तम् अवस्येत् वृत्तिं प्राप्य विरमेत् ।

“आमं” व्रीहितण्डुलादि । “कृतान्नस्य” इति षष्ठीनिर्देशात् कृतान्नस्य वा विरमस्य लवणादिरसरहितस्य स्तोकं यावद् भृत्यभरणार्थं तावद् उग्रतो ऽपि प्रतिग्राह्यम् । “न सुभिक्षाः स्युः” यदि न लोकाः सुखेन याचितान्नदातारो भवेयुस् तदा दुर्भिक्ष इत्य् अर्थः ।

आदित्यपुराने

अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः ।

प्र्थिवीं नान्यद् इच्छन्ति पावनं ह्य् एतद् उत्तमम् ॥

मनुः

एधोदकं मूलफलम् अन्नम् अभ्युद्यतं च यत् ।

सर्वतः प्रतिगृह्णीयान् मध्व् अथाभयदक्षिणाम् ॥

शय्यां गृहं कुशान् गन्धान् अपः पुष्पं मणीन् दधि ।

धाना मत्स्यान् पयो मांसं शाकं चैव न निर्नुदेत् ॥

[२४३] अभयस्य मुख्यदानासम्भवाद् दृष्टान्तार्थम् उपादानम् । “मणयो” रत्नानि ।

अङ्गिरो-बौधायनौ प्रथमे ।

खलक्षेत्रगतं दान्यं वापीकूपगतं जलम् ।

अभोज्याद् अपि तद् ग्राह्यं यच् च गोष्ठगतं पयः ॥

विच्छिन्नेषु च पक्षेषु हविष्व् आग्रयणेषु च ।

इष्टिं त्व् अविकृतां कुर्यात् सुकृतं च न लोपयेत् ॥

पक्वान्नवर्ज्यं विप्रेभ्यो गोधान्यं क्षत्रियाद् अपि ।

वैश्यात् तु सर्वधान्यानि शूद्राद् ग्राह्यं न किञ्चन ॥

यत् तु क्षेत्रगतं धान्यं खले वासगृहाद् बहिः ।

सर्वकालं ग्रहीतव्यं शूद्रेभ्यो ऽप्य् **अङ्गिरो**मतम् ॥

प्रतिवर्णम् इदं दृष्टं प्रतिग्राह्यं द्विजोत्तमैः ।

तथापि च पयः पेयं द्विजेभ्यो ऽप्य् **अङ्गिरो**मतम् ॥

“विच्छिन्नेषु च” पक्षादिकरणकालेषु । तथा “आग्रयणेषु” [२४४] इति सम्पूर्णेष्टिसम्पत्तिर् यावता भवति तावत् सम्पत्त्यर्थम् अभोज्यान्नाद् अपि यथोक्तं धान्यादि प्रतिग्राह्यम् इत्य् अर्थः । “पयः” पानीयम् अत्र ।

तथा

यत् तु राशीकृतं धान्यं खलक्षेत्रे ऽथ वा भवेत् ।

सर्वकालं ग्रहीतव्यं शूद्रेभ्यो ऽप्य् **अङ्गिरो**मतम् ॥

सुपात्रे यत् तु विन्यस्तं दुग्धं तच् छुचि नित्यशः ।

पात्रान्तरगतं ग्राह्यं शूद्रात् स्वगृहम् आगतम् ॥

शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि ।

निवृत्तेन न भोक्तव्यं शूद्रान्नं तद् अपि स्मृतम् ॥

आमं मांसं मधु घृतं धानाः क्षीरम् अथौषधम् ।

गुडतक्ररसा ग्राह्या निवृत्तेनापि शूद्रतः ॥

शाकमत्स्यमृणालानि कम्बूकाः सक्तवस् तिलाः ।

इक्षुः फलानि पिण्याकं प्रतिग्राह्याणि सर्वतः ॥

“सर्वकालम्” सूतकादाव् अपि सर्ववर्णानां चेत्य् अर्थः । “रसा” लवणादयः । “कम्बूकाः” तण्डुलानां कणाः ।

[२४५] याज्ञवल्क्यः

कुशाह् काशं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः ।

मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥

अयाचितं हृतं ग्राह्यम् अपि दुष्कृतकर्मणः ।

अन्यत्र कुलटाषण्ढपतितेभ्यस् तथा द्विषः ॥

जाबालः

अभ्युद्यतं गृहे भक्ष्यं ग्राह्यं तत् सर्वतः स्वयम् ।

आत्मन्य् एव शुभायातं नियुञ्ज्याद् भृतके परम् ॥

“शुभायातम्” अनिन्दितप्रकारलब्धम् एवात्मोपयोगी कुर्यात्, निन्दितप्रकारायातं तु अवश्यभरणीयोपयोगि कुर्याद् इत्य् अर्थः ।

मनुः

आहृताम् उद्यतां भिक्षां पुरस्ताद् अप्रचोदिताम् ।

मेने प्रजापतिर् ग्राह्याम् अपि दुष्कृतकर्मणः ॥

नाश्नन्ति पितरस् तस्य दश वर्षाणि पञ्च च ।

[२४६] न च हव्यं वहत्य् अग्निर् यस् ताम् अभ्यवमन्यते ॥

चिकित्सककृत्घ्नानां शल्यहर्तुस् तु वार्धुषेः ।

षण्ढस्य कुलटायाश् च उद्यताम् अपि वर्जयेत् ॥

“शल्यहर्ता” शस्त्रवैद्यः ।

यमः

चिकित्सकस्य मृगयोर् वैश्यायाः कितवस्य च ।

षण्ढसूतकयोश् चैव उद्यताम् अपि वर्जयेत् ॥

उद्यताम् आहृतां भिक्षां पुरस्ताद् अप्रचोदिताम् ।

भोज्यां प्रजापतिर् मेने अपि दुष्कृतकर्मणः ॥

श्रद्दधानस्य भोक्तव्यं चौरस्यापि विशेषतः ।

न त्व् एव बहुयाज्यस्य यश् चोपनयते बहून् ॥

तथा

चिकित्सकस्य मृगयोः शल्यकर्तुश् च पाशिनः ।

षण्ढस्य कुलतायाश् च उद्यातापि न गृह्यते ॥

[२४७] वसिष्ठः

शस्त्रं विषं सुरा चाप्रतिग्राह्याणि ब्राह्मणस्य ।

शङ्खलिखितौ

न मद्यं दद्यान् न प्रतिगृह्णीयाद् वा ।

आदित्यपुराणे

किं करिष्यत्य् असौ विप्रो गृह्णन्न् उभयतोमुखीम् ।

सहस्रं वारुणाः पाशाः क्रूरधाराग्निसन्निभाः ॥

पूर्णवर्षसहस्रेण पाश एकः प्रमुच्यते ।

एताम् अवस्थां प्राप्नोति गृह्णन्न् उभयतोमुखीम् ॥

याज्ञवल्क्यः

विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः ।

गृह्णन् प्रदातारम् अधो नयत्य् आत्मानम् एव च ॥

[२४८] मनुः

न द्रव्याणाम् अनुज्ञाय विधिं धर्म्ये प्रतिग्रहे ।

प्रातः प्रतिग्रहं कुर्याद् अवसीदन्न् अपि क्षुधा ॥

हिरण्यं भूमिम् अश्वं गाम् अन्नं वासस् तिलान् घृतम् ।

अविद्वान् प्रतिगृह्णानो भस्मीभवति दारुवत् ॥

हिरण्यम् आयुर् अन्नं च भूर् गौश् चाप्य् ओषतस् तनुम् ।

अश्वश् चक्षुस् त्वचं वासो घृतं तेजस् तिलाः प्रजाः ॥

अतपास् त्व् अनधीयानः प्रतिग्रहरुचिर् द्विजः ।

अम्भस्य् अश्मप्लवेनैव सह तेनैव मज्जति ॥

तस्माद् अविद्वान् बिभ्याद् यस्मात् तस्तात् प्रतिग्रहात् ।

स्वपकेनापि गृह्णन् हि पङ्के गौर् इव सीदति ॥

प्रतिग्रहसमर्थो ऽपि प्रसङ्गं तत्र वर्जयेत् ।

प्रतिग्रहेण ह्य् अस्याशु ब्रह्मतेजः प्रशाम्यति ॥

“प्रतिग्रहे धर्म्यो विधिः” प्रतिग्रहे इतिकर्तव्यता । हिरण्यान्ने चायुर् ओषतो दहत इत्य् अर्थः । “यस्मात् तस्मात्” यतः कुतश्चिद् अविशुद्धाद् अपि । “प्रसङ्गः” अत्यासक्तिः ।

[२४९] याज्ञवल्क्यः

प्रतिग्रहसमर्थो ऽपि नादत्ते यः प्रतिग्रहम् ।

ये लोका दानशीलानां स तान् आप्नोति पुष्कलान् ॥

यमः

सर्वदेवताभिगमनात् सर्वयज्ञनिषेवणात् ।

गवां कोटिप्रदानाच् च श्रेयांस् तस्यापर्तिग्रहः ॥

व्यासः

यश् च याचनको नित्यं न स स्वर्गस्य भाजनम् ।

उद्वेजयति भूतानि यथा चौरस् तथैव सः ॥

महाभारते

धर्मार्थं यस्य वित्तेहा तस्यानीहा गरीयसी ।

[२५०] प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥

“धर्मार्थम्” इति आवश्यककर्मातिरिक्तधर्माभिप्रायम् ।

प्रयागप्रतिग्रहे तीर्थस्य निष्फलत्वम् अभिधाय मत्स्यपुराणे

तस्मात् तीर्थे न गृह्णीयात् पुण्येष्व् आयतनेषु च ।

निमित्तेषु च सर्वेषु अप्रमत्तो भवेद् द्विजः ॥

इति प्रतिग्रहविधिः ॥

[२५१]

१४

अथ क्षत्रियवैश्यकर्मवृत्तयः

तत्र मनुः

त्रयो धर्मा निवर्तन्ते ब्राह्मणाः क्षत्रियं प्रति ।

अध्यापनं याजनं च तृतीयश् च प्रतिग्रहः ॥

वैश्यं प्रति तथैवेते निवर्तेरन्न् इति स्थितिः ।

न तौ प्रति हि तान् धर्मान् मनुर् आह प्रजापतिः ॥

शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुक्ēषिर् विशः ।

आजीवनार्थं धर्मस् तु दानम् अध्ययनं यजिः ॥

वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य तु रक्षणम् ।

वार्ता कर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥

ब्राह्मणस्य इमे “ब्राह्मणाः” । “वार्ता” कृषिपशुपाल्यवाणिज्याः । “विशिष्टानि” श्रेष्टानि ।

पराशरः [१.६७.७०] ।

क्षत्रियेण प्रजाः पाल्याः शत्रपाणिः प्रचण्डवान् ।

[२५२] निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत् ।

लौहकर्म तथा रत्नपशूनां परिपालनम् ।

वाणिज्यं कृषिकर्मान्तं वैश्यवृत्तिर् उदाहृताः ॥

“प्रचण्डवान्” वीरपुरुषोपेतः ।

दानम् अध्ययनं यज्ञ इत्य् अनुवृत्तौ शङ्खलिखितौ

    पूर्वधर्म एव क्षत्रियः । शत्रार्जनक्षतत्राणव्यवहारदण्डरक्षणानु-शासनम् इति वृत्तयः ।


    पूर्वधर्म एव वैश्यः । कृषिः पशुपाल्यं वाणिज्यं योनिपोषणं वृद्धिप्रयोग इति वृत्तिः । 

“पूर्वधर्मः” अध्ययनयज्ञदानानि । शस्त्रेणार्जनं “शस्त्रार्जनम्” । क्षतात् त्राणं “क्षतत्राणम्” । “व्यवहारो” वादिप्रतिवादिनोः सन्देहहरणम् । “अनुशासनं” वर्णाश्रमाणां स्वधर्मे व्यवस्थापनम् । “योनिपोषणं” वृद्ध्यर्थे गवादिपालनम् । “पशुपाल्यं” वेतनेन पशुरक्षणम् ।

हारीतः

    धनुर्वेदो व्रतस्नातः क्षत्रियो ऽध्ययनयजनदानधर्मा**[२५३]**शिष्टनिग्रहतो ऽभिजितषड्भागवृत्तिः । वेदव्रतैकदेशी । वैश्यो ऽध्ययनयजनदानधर्मा कृषिपशुपाल्यवणिग्वृत्तिः । वेदव्रतैकदेशी । वैश्यो ऽध्ययनयजनदानधर्मा कृषिपशुपाल्यवणिग्वृत्तिः ।

“धनुर्वेदः” स्नानाधिगतशत्रविद्यः । एवं वेदव्रतयोर् अपि । अभिजितानां शत्रोर् भूम्यादीनां षष्ठभागग्रहणम् । “वेदव्रतौकदेशी” वेदव्रतयोर् एकदेशेनापि कृतार्थः ।

ब्रह्मादधाद् इत्य् अनुवृत्तौ बौधायनः

    क्षत्रबलम् अध्ययनयजनदानशस्त्रकोशभूतरक्षणसंयुक्तं क्षत्रस्य वृद्ध्यै । विट्स्व् अध्ययनयजनदानकृषिवाणिज्यपशुपालनसंयुक्तं कर्मणो वृद्ध्यै ।

पैठीनसिः

    अध्ययनं यजनं दानं तेजः सङ्ग्रामे चापलायनम् ईश्वरभावश् च धर्मः क्षत्रियस्य । 

“तेजः” प्रतापित्वम् । “ईश्वरभावः” अपरवशत्वम् ।

आपस्तम्बः

    स्वकर्म ब्राह्मणस्याध्ययनम् अध्यापनं यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं शिलोञ्छो ऽन्यच् चापरिगृहीतम् । 


    	एतान्य् एव क्षत्रियस्याधापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धाधिकानि ।

[२५४] क्षत्रियवद् वैश्यस्य दण्डयुद्धवर्जं कृषिगोरक्षवाणिज्याधिकम् ।

द्विजातीनाम् अध्यनेज्यादानम् इत्य् अनुवृत्तौ “राज्ञो ऽधिकं रक्षणं सर्वभूतानाम्” इत्यादि प्रक्रम्य **गौतमः **।

क्षत्रियश् चेद् अन्यः तमुपजीवेत् तद्वृत्त्या ।

“अन्यः” जातिमात्रसम्बद्धः । “तम्” राजानम् । “तद्वृत्त्या” शस्त्रधारित्वेन ।

देवलः

    क्षत्रधर्मो ऽध्ययनेज्यादानैर् देवपितृपूजनम् । ब्राह्मणशुश्रूषणं वैश्यशूद्रपरिपालनम् । बलिकरशुल्कषड्भागोपजीवनम् । वर्णाश्रमसंस्थापनम्, पापनिग्रहो गुणवत्परिग्रहो व्यवहारवर्जनम् । धर्मचारित्रानुपालनं हस्त्यश्वरथप्रहरणशिक्षाभ्यासः । शास्त्रोपायाश्रयत्वं कोशदण्डावेक्षणं परचक्रापणाटवीतस्करदूष्य-मान्याप्तकुलीनाध्यक्षप्रतिषेधलब्धशूरनिजैश्वर्यधैर्यम् उत्साहशौर्यं शक्तत्वम् अयाचनम्** [२५५]** इति । वैश्यधर्मो ऽध्ययनयजनप्रदानैः धर्मानुष्ठानं, ब्राह्मणक्षत्रियशुश्रूषा, पापवर्जनम्, कलत्रपोषणम्, कर्षणम्, पशुपालनम्, भारोद्वहनपण्यव्यवहारनर्तनगायन-तालावतरणरङ्गोपजीवनं चेति ।

“बलिः” उपायनम् । “करः” कारुकृषीवलेभ्यो नियतधनादानम् । “शुल्कः” तरादिपण्यम् । “षड्भागोपजीवनम्” धान्यादीनाम् इति शेषः । “संस्था” मर्यादा । “शिक्षा” शास्त्रम् । “उपायाः” सामादयः ।”“गायनम्” अत्र गीतम् । “तालावतरणम्” अत्र वादनम् । “रङ्गो” मल्लयुद्धभूमिः । इह तु मल्लविद्योपलक्ष्यते ।

बौधायनः

वैश्यः कुसीदम् उपजीवेत् । पञ्चविंशतिस् त्व् एव पञ्चमाषिकी स्यात् ।

“पञ्चविंशतिः” कार्षापणानाम् ।

मनुः

वैश्यस् तु कृतसंस्कारः कृत्वा दारपरिग्रहम् ।

वार्तायां नित्ययुक्तः स्यात् पशूनां चैव रक्षणे ॥

प्रजापतिर् हि वैश्याय सृष्ट्वा परिददे पशून् ।

ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥

[२५६] न च वैश्यस्य कामः स्यान् न रक्षेयं पशून् इति ।

वैश्ये चेच्छति नान्येन रक्षितव्याः कथञ्चन ॥

मणिमुक्ताप्रवालानां लौहानां तान्तवस्य च ।

गन्धानां च रसानां च विद्याद् अर्घबलाबलम् ॥

बीनानाम् उप्तिविच् च स्यात् क्षेत्रबीजगुणस्य च ।

मानयोगांश् च जानीयात् तुलायोगांश्च सर्वशः ॥

सारासारं च भाण्डानां देशानां च गुणागुणम् ।

लाभालाभं च पण्यानां पशूनां च विवर्धनम् ॥

भृत्यानां च भृतिं विद्याद् भाषाश् च विविधा नृणाम् ।

द्रव्याणां स्थानयोगांश् च क्रविक्रयम् एव च ॥

धर्मेण च द्रव्यवृद्धाव् आतिष्ठेद् यत्नम् उत्तमम् ।

दद्याच् च सर्वभूतानाम् अन्नम् एव प्रयत्नतः ॥

“लौहाः” ताम्रादयः । “बलाबले” न्यूनाधिके । “बीजानाम् उप्तिवित्” सम्यक् सस्योत्पत्त्यनुकूल-घनविरलबीजवपनवेत्ता, स्वक्षेत्रबीजगुणस्य वेत्ता स्याद् इति शेषः । “मानयोगाः” मानप्रकाराः । “तुलायोगाः” तुलाधारणप्रकाराः । “भाण्डानां” विक्रेयाणाम् । “सारम्” अत्र तद्रूपम् एव चिरकालस्यापि । “भृत्याः” कर्मकराः । “भृतिः” कर्मानुरूपं वेतनम् । “स्थानयोगात्” तद्रूपावस्थानोपायात् ।

ब्राह्मणस्य वैश्यवृत्तिविधानानन्तरं मनुः

जीवेद् एतेन राजन्यः सर्वेणाप्य् अयनं गतः ।

[२५७] न त्व् एव ज्यायसीं वृत्तिम् अभिमन्येत कर्हिचित् ॥

“अयनं गतः” आपद्गतः । “अभिमन्येत” अङ्गीकुर्यात् ।

तथा

वैश्यो ऽजीवन् स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् ।

अनाचरन्न् अकार्याणि निवर्तेत च शक्तिमान् ॥

“अकार्याणि” उच्छिष्टाद्यपसारणादीनि ।

तथा

यो लोभाद् अधमो जात्या जीवेद् उत्कृष्टकर्मभिः ।

तं राजा निर्धनं कृत्वा क्षिप्रम् एव प्रवासयेत् ॥

“उत्कृष्टः” अत्र ब्राह्मणः ।

कालिकापुराणे

कृषिगोरक्षवाणिज्यं किल वैश्यस्य सम्मतम् ।

तथाप्य् अनडुद्भ्यां (?) कृषिं नैव समाचरेत् ॥

पुङ्गवाभ्यां द्विषद्द्वाभ्यां प्रहरार्धप्रमाणतः ।

द्वौ द्वौ योज्यान्तरेकैकं कारयेद् धर्मतो द्विजः ॥

पिण्याकं तृणतोये तु तेषां यत्नात् प्रकल्पयेत् ।

धूमकं रूपनं चैव कृत्वैवं कारयेत् ततः ॥

[२५८] वैणवीम् अपि भूमिं तु अधोमूत्रगमाय च ।

कुर्वन्न् एव न सीदेत् तु कृषिं वैश्यो महामुने ॥

राज्ञः षड्भागम् उत्सृज्य पञ्चमं कर्षकस्य च ।

शिल्पिनः प्रकृतीश् चैव दायाद्यांस् तत्र तर्प्य च ॥

शेषम् आत्मनि युञ्जीत खलक्षेत्रेषु वृद्धिमान् ।

पशूनां पालनं कुर्यान् निवातं च निवेशनम् ॥

विविक्तं च समं शूभ्रं स्तम्भैर् युक्तम् अकर्कशैः ।

अजाविकांश् च गौरीणां महिषीणां च सङ्ग्रहम् ॥

कुर्याद् यन् न विरोधि स्याद् अन्येषां वै कदाचन ।

श्वसूकरखरोष्ट्राणां मार्जारनकुलादिषु ॥

स्वधर्मम् आचरन् वैश्यो नैव कुर्यात् प्रतिग्रहम् ।

लवणं मधु मद्यं च तिलं दधि घृतं पयः ॥

मधूच्छिष्टं तथा लाक्षां चर्म नीलीं तथा विषम् ।

शस्त्रं मांसं तथा हिङ्गु त्रेधां वा वर्णिकां तथा ॥

गुडपिण्याकसिद्धान्नं वृन्ताकादिफलानि च ।

शस्त्रास्त्रम् उदकं देवान् शुक्तानि विविधानि च ॥

शैलेयान् कुतपान् वैश्यस् त्व् एवमादि न विक्रयेत् ॥

महाभारते

तिलधान्यरसांश् चैव न विक्रीणीत वै क्वचित् ।

वाणिज्यार्थम् उपासीत वैश्यः सत्पथम् आश्रितः ॥

[२५९]

१५

अथ द्रव्याणां धर्माधर्मस्वत्वानि

तत्र मनुः

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।

प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥

“वित्तागमाः” धनोपायाः । “दायः” अन्वयागतं धनम् । “लाभो” निध्यादेः । “जयः” अत्र सम्ग्रामे शत्रोर् अभिभवः । “प्रयोगः” कुसीदम् । “कर्मयोगः” कृषिवाणिज्यादि ।

गौतमः

    स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु च । ब्राह्मणस्याधिकं लब्धम्, क्षत्रियस्य विजितम्, निर्विष्टं वैश्यशूद्रयोः ।

“स्वामी” भवतीति शेषः । “क्रयम्” क्रीतं धनम् । “संविभागः” मित्रदाय इति भर्तृयज्ञः । “परिग्रहः” अनन्यपूर्व आरण्यमहिषादेः । “अधिगमः” आकरादिभ्यो लब्धम्, [२६०] एतानि सर्ववर्णसाधारणानि धर्म्याणि । “ब्राह्मणस्याधिकम्” असाधारणम् प्रतिग्रहादिलब्धम् । “विजितम्” सङ्ग्रामे ऽधिकं क्षत्रियस्य । “निर्विष्टम्” कर्मकरणोपात्तम् ।

नारदः [४.४३–५५] ।

धनमूलाः क्रियाः सर्वा यत्नः तस्यार्जने मतः ।

रक्षणं वर्धनं भोगस् त्रयः तस्य विधिः क्रमात् ॥

तत् पुनस् त्रिविधं ज्ञेयं शुद्धं शबलम् एव च ।

कृष्णं च तस्य विज्ञेयो विभागः सप्तधा पुनः ॥

श्रुतशौर्यतपःकन्याशिष्ययाज्यान्वयागतम् ।

धनं सप्तविधं शुद्धम् उदयो यस्य तद्विधः ॥

कुसीदकृषिवाणिज्यशुल्कशिल्पानुवृत्तिभिः ।

कृतोपकाराद् आप्तं च शबलं समुदाह्र्तम् ॥

पार्श्चिकद्यूतचौर्यार्तिप्रतिरूपकसाहसैः ।

व्याजेनोपार्जितं यच् च तत् कृष्णं समुदाहृतम् ॥

तेन क्रयो विक्रयश् च दानं ग्रहणम् एव च ।

विविधाश् च प्रवर्तन्ते क्रियाः सम्भोग एव च ॥

यथाविधेन द्रव्येण यत् किञ्चित् कुरुते नरः ।

तथाविधम् अवाप्नोति स फलं प्रेत्य चेह च ॥

तत् पुनर् द्वादशविधं प्रतिवर्णाश्रमात् स्मृतम् ।

[२६१] साधारणं स्यात् त्रिविधं शेषं नवविधं विदुः ॥

क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया ।

अविशेषेण वर्णानां सर्वथा त्रिविधं धनम् ॥

वैशेषिकं धनं विद्याद् ब्राह्मणस्य त्रिलक्षणम् ।

प्रतिग्रहेण यल् लब्धं याज्यतः शिष्यतस् तथा ॥

त्रिविधं क्षत्रियस्यापि प्राहुर् वैशेषिङं धनम् ।

युद्धोपलब्धं काराच् च दण्डाच् च व्यवहारतः ॥

वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् ।

कृषिगोरक्षवाणिज्यैः शूद्रस्यापि त्व् अनुग्रहात् ॥

सर्वेषाम् एव वर्णानाम् एष धर्म्यो धनागमः ।

विपर्ययाद् अधर्म्यः स्यान् न चेद् आपद् गरीयसी ॥

“श्रुतेनोपात्तम्” अध्ययनादिना लब्धम् । “शौर्येण” जयादिना । “तपसा” जपहोमदेवताराधनादिना । “कन्यागतम्” कन्यया सह श्वशुरादेर् लब्धम् । “शिष्यागतम्” दायलब्धम् । “उदयः” फलम् । “तद्विधः” शुद्धः । “अनुवृत्तिः” सेवा । “पार्श्चिकम्” उत्कोचादिलब्धम् । “आर्तिः” पीडा । “प्रतिरूपकम्” द्रव्याभासाः । “साहसं” प्रोतयात्रादि । व्याजो ऽत्र द्रव्यान्तरमिश्रीकरणम् । “तेन” त्रिविधेन । “शेषम्” असाधारणम् । “कारः” करः । “व्यवहारो” न्यायः । “अनुग्रहात्” शुश्रूषानिबन्धनात् ।

[२६२] विष्णुः [५८.१–१०] ।

    अथ गृहाश्रमिणस् त्रिविधो ऽर्थो भवति — शुक्लः शबलः सितश् च । शुक्लेनार्थेन यद् और्द्ध्वदैहिकं करोति तद् देवत्वम् आसाद्याश्नाति । यच् छबलेन तन् मानुष्यम् । यत् कृष्णेन तत् तिर्यक्त्वम् । वृत्त्युपात्तं सर्वम् एव शुक्लम् । अनन्तरवृत्त्युपात्तं शबलम् । अन्तरितवृत्त्युपात्तम् अनुत्तमवृत्युपात्तं च कृष्णम् ।


    	क्रमागतं प्रीतिदायः प्राप्तं च सह भार्यया ।


    	अविशेषेण सर्वेषां धनं शुक्लम् उदाहृतम् ॥


    	उत्कोचशुल्कसम्प्राप्तम् अविक्रेयस्य विक्रयात् ।


    	कृतोपकाराद् आप्तं स शबलं समुदाहृतम् ॥


    	पार्श्चिकं द्यूतचौर्याप्तं प्रतिरूपकसाहसैः ।


    	व्याजेनोपार्जितं यच् च तत् कृष्णं समुदाहृतम् ॥

बुधः

    न्यायागतेन द्रव्येण कर्म कुर्याद् अध्ययनयाजनप्रतिग्रहरिक्थक्रय-संविभागप्रतिग्रहाधिगमाः ।

बृहस्पतिः [आप। २४] ।

वृत्त्युपायेन यल् लब्धं कुर्यात् पालनवर्धनम् ।

भोगं च बन्धुभिः सार्धं दीनानाथार्थिभिस् तथा ॥

**[२६३] विष्णुपुराणे **।

पाकसंस्था हविःसंस्था सोमसंस्थाश् च संस्थिताः ।

धने यतो मनुष्याणां यतेतातो धनार्जने ॥

महाभारते

अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।

सर्वाः क्रिया विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥

दुर्भिक्षाद् एव दुर्भिक्षं क्लेशात् क्लेशं भयाद् भयम् ।

मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकारिणः ॥

उत्सवाद् उत्सवं यान्ति स्वर्गात् स्वर्गं सुखात् सुखम् ।

श्रद्दधानाः सुदान्ताश् च धनाढ्याः शुभकारिणः ॥

अहिरण्यम् अदासीकम् अल्पान्नाद्यम् अगोरसम् ।

गृहं कृपणवृत्तीनां नरकस्यापरो विधिः ॥

धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम् ।

कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः ॥

एकेनांशेन धर्मस् तु कर्तव्यो भूतिम् इच्छता ।

एकेनांशेन कामश् चाप्य् एकम् अंशं विवर्धयेत् ॥

**[२६४] मार्कण्डेयपुराणे **[३४.११–१२] ।

पादेनार्थस्य पारत्र्यं कुर्यात् सञ्चयम् आत्मवान् ।

अर्धेन चात्मभरणं नित्यनैमित्तिकान्वितम् ॥

पादं चार्धार्धम् अर्थस्य मूलभूतं विवर्धयेत् ।

एवम् आचारतः पुत्र अर्थः साफल्यम् ऋच्छति ॥

**भविष्यपुराणे **।

वित्तसाध्यं न यः कुर्याद् धर्मम् आढ्यो ऽपि हि द्विजः ।

न स तत्फलम् आप्नोति प्रलोभाक्रान्तमानसः ॥

तस्मात् त्रिभागं वित्तस्य जीवनाय प्रकल्पयेत् ।

भागद्वयं च धर्मार्थम् अनित्यं जीवनं यतः ॥

अगर्हितेन कर्मणा धनान्य् आदाय, स्वाध्यायप्रकर्षोपलब्धेन वा ब्रह्मर्षिनिमित्तेन वा अद्रिसागरा (?) गहनहव्यनियमाभ्यासाद् एव वा गृहस्थो गार्हस्थ्यं प्रतिपालयेत् ।

[२६५]

१६

अथ शूद्रकर्मधर्मवृत्तयः

तत्रानुपात्तशुश्रूषावाक्येषु द्विजात्यधिकारो वेदितव्यः सापेक्षेषु । धर्म इति वाक्यशेषः ।

तत्र मनुः

विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् ।

शुश्रूषैव तु शूद्रस्य धर्मो नैःश्रेयसः परः ॥

शुचिर् उत्कृष्टवर्णेषु मृदुवाग् अनहङ्कृतः ।

ब्राह्मणापाश्रयो नित्यम् उत्कृष्टिं जातितो ऽश्नुते ॥

उत्कृष्टाव् अत्र क्षत्रियवैश्यौ । “ब्राह्मणापाश्रयः” वृत्त्यर्थं क्षत्रियादिशुश्रूषापरो ऽपि ब्राह्मणे निवेदितात्मा । “जातित उत्कृष्टिः” जात्युत्कर्षः ।

**बृहस्पतिः **[सं। ५२९] ।

शौचं ब्राह्मणशुश्रूषा नित्यम् अक्रोध एव च ।

शूद्रकर्म तथा मन्त्रो नमस्कारो ऽत्र वेदितः ॥

[२६६] आपस्तम्बः

    शुश्रूषा शूद्रस्येतरेषां च वर्णानाम् । पूर्वस्मिन् वर्णे निःश्रेयसं भूयः ।

पराशरः [१.७१] ।

शूद्रस्य द्विजशुश्रूषा प्रथमं धर्मलक्षणम् ।

यद् अन्यत् कुरुते किञ्चित् तद् भवेत् तस्य निष्फलम् ॥

हारीतः

    न शूद्राय वृत्तिं प्राहुस् त्रिवर्णशुश्रूषैवास्य वृत्तिः । दानम् धर्मम् इत्य् एके ।

[मनुः १०.१२१–१२३] ।

शूद्रस् तु वृत्तिम् आकाङ्क्षन् क्षत्रम् आराधयेद् यदि ।

धनिनं वाप्य् उपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥

स्वर्गार्थम् उभयार्थं च ब्राह्मणान् एव धारयेत् ।

जातब्राह्मणशब्दो हि सा ह्य् अस्य कृतकृत्यता ॥

विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।

यद् अतो ऽन्यद् धु कुरुते तद् भवत्य् अस्य निष्फलम् ॥

[२६७] प्रकल्पितास्य तैर् वृत्तिः स्वकुटुम्बाद् यथार्हतः ।

शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥

उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च ।

पुलकाश् चैव धान्यानां जीर्णाश् चैव परिच्छदाः ॥

“आराधयेत्” धारयेत् । “जातब्राह्मणशब्दः” प्राप्तो ब्राह्मणस्यायं शुश्रूषक इति व्यपदेशो येन स तथा । “अतो ऽन्यत्” ब्राह्मणसेवनाद् अन्यद् व्रतोपवासादि । “तैः” द्विजातिभिः । “स्वकुटुम्बात्” स्वकुटुम्बार्थाद् धनात् । “शक्तितः” सामर्थम् । “दाक्ष्यम्” कर्येषु कौशलम् । “भृत्यस्य परिग्रहम्” पुत्रदारादि । “उच्छिष्टम्” अतिथ्यादिभुक्तशेषम् । एतच् चोच्छिष्टाशनम् अकृतदारपरिग्रहस्य । इतरस्य पाकयज्ञाधिकारात् । “पुलकाः” असारधान्यानि । “परिच्छदाः” छत्रोपानत्प्रभृतयः ।

गौतमः

    शूद्रश् चतुर्थो वर्णः एकजातिस् तस्यापि सत्यम् अक्रोधः शौचम् आचमनार्थे पाणिपादप्रक्षालनम् एवैके । श्राद्धकर्म, भृत्यभरणम्, स्वदारवृत्तिः, परिचर्या चोत्तरेषाम्, तेभ्यो वृत्तिं लिप्सेत । जीर्णान्य् उपानच्छत्रवासःकूर्चादीन्य् उच्छिष्टाशनम्, शिल्पवृत्तिश् च यं चार्थम् आश्रयेद् भर्तव्यस् तेन क्षीणो ऽपि । तेन चोत्तरस् तदर्थो ऽस्य निचयः स्याद् अनुज्ञातो ऽस्य नमस्कारो मन्त्रः । पाकयज्ञैः स्वयं यजेतेत्य् एके ।

[२६८] “एकजातिः” एकजन्मा, उपनयनरूपजन्माभावात् । “उत्तरेषाम्” उत्कृष्टानां ब्राह्मणादीनाम् । “कूर्चः” तृणमयम् आसनम् । “तेन” अर्थेन । “क्षीणः” वृत्तिहीनः । “तेन” शूद्रेण । “उत्तरः” आर्यः । क्षीण इत्य् अनुवर्तते । “तदर्थः” आर्यार्थः । “अस्य” शूद्रस्य । “निचयः” धनसञ्चयः । “स्वयम्” स्वयम् एव कुर्यात् । न पत्नीपुत्रादिना कारयेद् इत्य् अर्थः । “पाकयज्ञैः” इति ।

वसिष्ठः

    एतेषां परिचर्या शूद्रस्यानियता वृत्तिर् अनियतकेशवेषाः । सर्वेषां वा मुक्तशिखावर्जम् ।

“एतेषाम्” त्रैवर्णिकानाम् । “अनियता” एतावद् दातव्यम् इति नियमरहिता । “अनियतकेशवेषाः” सर्वे अनियताः । केशवेशाश् च शूद्रस्य इत्य् अन्वयः । “सर्वेषाम्” ब्राह्मणादीनाम् । “मुक्तशिखावर्जम्” इति, मुक्तशिखात्वं न केनापि कर्तव्यम् इत्य् अर्थः ।

बौधायनः

    शूद्राणाम् आर्याधिष्ठितानाम् अर्धमासि मासि वा वपनम् । आर्यवद् आचमनकल्पः ।

[२६९] “आचमनकल्पः” आचमनेतिकर्तव्यता । “उपवीतम्” वस्त्रविन्यासादिः । “आर्यपरतन्त्राणाम्” न स्वतन्त्राणां शिल्पादिजीविनाम् ।

मनुः

शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् ।

वैश्यवच् छौचकल्पश् च द्विजोच्छिष्टं तु भोजनम् ॥

“न्यायवर्तिनाम्” द्विजशुश्रूषापराणाम् । “शौचकल्पः” सूतकापगमाचमनादिप्रकारः ।

याज्ञवल्क्यो विश्वामित्रश् च प्रथमे ।

शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग भवेत् ।

शिल्पैर् वा विविधैर् जीवेद् द्विजातिहितम् आचरन् ॥

भार्यारतिः शुचिर् भृत्यभर्ता श्राद्धक्रियारतः ।

नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेत् ॥

“भार्यारतिः” भार्यायाम् एव परम् अस्य रतिर् न सामान्यस्त्रीपरस्त्रीषु । श्राद्धकरणं “नमस्कारेण मन्त्रेण” नम इत्यन्तेन मन्त्रेण चतुर्थ्यन्तदेवतासहितेन ।

[२७०] मनुः

अशक्नुवंस् तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।

पुत्रदारात्ययं प्राप्तो जीवेत् कारुकर्मभिः ॥

यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।

तानि कारुककर्माणि शिल्पानि विविधानि च ॥

“अत्ययः” कृच्छ्रम् ।

पराशरः [१.७२] ।

लवणं मधु मद्यं वा तक्रं दधि घृतं पयः ।

न दुष्येच् छूद्रजातीनां कुर्यात् सर्वेषु विक्रयम् ॥

कालिकापुराणे

विक्रयं सर्ववस्तूनां कुर्वन् शूद्रो न दोषभाक् ।

मधु चर्म सुरां लाक्षां मुक्त्वा मांसं च पञ्चमम् ॥

अयं च मध्वादिविक्रयनिषेधः शूद्रस्य नात्यन्तापदि बोद्धव्यः ।

[२७१] व्यासः

न चेह शूद्रः पततीति निश्चयो

	न चैव संस्कारम् इहार्हतीति च ।

श्रुतिप्रयुक्तं न च धर्मम् अश्नुते

	न चापि धर्मात् प्रतिषेधनं श्रुतौ ॥

“न चेह शूद्रः पततीति” मांसादिविक्रयेनापि । “संस्कारः” इहोपनयनम् । “ श्रुतिप्रयुक्तम्” श्रौतम् अग्निहोत्रादि । “धर्मात्” श्रुतौ कथितात् ।

मनुः

न शूद्र पातकं किञ्चिन् न च संस्कारम् अर्हति ।

नास्याधिकारो धर्मे ऽस्ति न धर्मात् प्रतिषेधनम् ॥

धर्मेप्सवस् तु धर्मज्ञाः सतां धर्मम् अनुष्ठिताः ।

मन्त्रवर्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥

यथा यथा हि सद्वृत्तम् आतिष्ठत्य् अनसूयकः ।

तथा तथेमं चामुं च लोकम् आप्नोत्य् अनिन्दितः ॥

शक्तेनापि हि शूद्रेण न कार्यो धनसञ्चयः ।

शूद्रो हि धनम् आसाद्य ब्राह्मणान् एव बाधते ॥

“मन्त्रवर्जम्” वैदिकमन्त्रवर्जम् ।

[२७२] आपस्तम्बः

    पूजा वर्णज्यायसां कार्या, वृद्धतराणां च, हृष्टो दर्पति । दृप्तः स्वधर्मम् अतिक्रामति । धर्मातिक्रमे खलु पुनर् नरकः ।

“पूजा” नमस्कारादिका । “वृद्धतराणां” सजातीयानाम् अपीत्य् अर्थः ।

गौतमः

सर्वे चोत्तरोत्तरं परिचरेयुर् आर्यानार्ययोर् व्यतिकर्मे कर्मणः साम्यम् ।

“आर्यानार्ययोः” उत्कृष्टापकृष्टजातीययोः स्वकर्मव्यतिक्रमे साम्यम् । परस्परं पूज्यपूजकभावो नास्तीत्य् अर्थः ।

मनुः

अनार्यम् आर्यकर्माणम् आर्यं चानार्यकर्मिणः ।

सम्प्रधार्याब्रवीद् धाता न समौ नासमाव् इति ॥

“न समौ” जातितः एकस्योत्कृष्टवात् । “नासमौ” उत्कृष्टजातेर् अपि ब्राह्मणादेः नीचकर्मकारित्वात् । तेन तस्येतरेण शुश्रूषादिकं न कर्तव्यम् इत् तात्पर्यार्थः ।

विष्णुपुराणे

पारतन्त्र्यं समस्तेषु तेषां कार्येषु वै ततः ।

[२७३] जयन्ति ते निजान् लोकान् क्लेशेन महता द्विजाः ॥

द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान् ।

निजान् जयति वै लोकान् शूद्रो धन्यतरस् ततः ॥

भक्ष्याभक्ष्येषु नास्यास्ति प्रेयापेयेषु वै पुनः ।

नियमो मुनिशार्दूल तेनासौ साध्व् इतीरितम् ॥

**नरसिंहपुराणे **शूद्राधिकारे ।

अयाचितः प्रदाता स्यात् कृषिं वृत्त्यर्थम् आश्रयेत् ।

पुराणं शृणुयान् नित्यं नरसिंहस्य पूजनम् ॥

महाभारते

दूराच् छूद्रेनोपचर्यः ब्राह्मणो ऽग्निर् इव ज्वलन् ।

संस्पृश्य परिचर्यस् तु वैश्येन क्षत्रियेण च ॥

पैठीनसिः

    ब्राह्मं पाजापत्यं च स्थानम् ब्राह्मणस्य, ऐन्द्रं राजन्यस्य, मारुतम् वैश्यस्य, गान्धर्वं शूद्रस्य ।


    	स्वे स्वे कर्मण्य् अभिरतः स्वं स्वं स्थानं व्रजन्ति ते ।

इति श्रीभट्टहृदयधरात्मजमहासन्ध्विग्रहिक-

भट्टश्रीलक्ष्मीधरविरचिते कृत्यकल्पतरौ

गृहस्थकाण्डे वृत्तिपर्व समाप्तम् ॥

[२७४]

१७

अथ स्नातकव्रतानि

तत्र मनुः

अतो ऽन्यतमया वृत्त्या जीवंस् तु स्नातको द्विजः ।

स्वर्गायुष्ययशस्यानि व्रतानीमानि धारयेत् ॥

वेदोदितं स्वकं कर्म नित्यं कुर्याद् अतन्द्रितः ।

तद् धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥

“अन्यतमया वृत्त्या” इति, अनुवादकत्वाद् एकत्वम् अविवक्षितम् । तेनानेकवृत्तिजीवने ऽप्य् अविरोधह् । “व्रतम्” इदं मया कर्तव्यम् इदं न कर्तव्यम् इति शास्त्रविहितः सङ्कल्पविशेषः । “वेदोदितम्” प्रत्यक्षानुमेयवेदबोधितम् । “स्वकम्” स्वाश्रमविहितम् । “नित्यम्” यावज्जीवम् । “अतन्द्रितः” अनलसः । “यथाशक्ति” असम्भवे किञ्चिदङ्गहानेनापि ।

व्यासः

वर्णाश्र्माश्रितो धर्मो वेदकर्माश्रितो मतः ।

विद्वान् हि वैदिकं कर्म कुर्वाणो ऽभीष्टम् अश्नुते ॥

प्रधानं वैदिकं कर्म गुणभूतं तथेतरत् ।

गुणनिष्ठो ऽतिप्रमाणं बाधयन् यात्य् अधोगतिम् ॥

[२७५] “वेदकर्माश्रितः” वैदिकमर्माश्रितः । “गुणनिष्ठः” स्मृत्याचारनिष्ठः । “अतिप्रमाणम्” वेदम् ।

मनु-वसिष्ठौ

वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रिया क्षमा ।

नाशयन्त्य् आशु पापानि महापातकान्य् अपि ॥

“वेदाभ्यासः” अत्र ब्रह्मयञ्जादिः ।

आपस्तम्बः

    योक्ता च धर्मयुक्तेषु द्रव्यपरिग्रहेषु च प्रतिपादयिता च तीर्थे यन्ता वातीर्थे यतो भयं न स्यात् । सम्ग्रहीता मनुष्यान्, भोक्ता च धर्माविप्रतिषिद्धान् भोगान् एवम् उभौ लोकाव् अभिजयति ।

“योक्ता” उद्योगी । “धर्मयुक्तेषु” विहितेषु नाधर्मनिष्प्रयोजनयोः । “तीर्थे” पात्रे । “यन्ता” अपात्रदानाद् उपरतः । “यतः” इति, भयहेतोस् तस्करादेर् अपात्रस्यापि दातव्यम् इत्य् अर्थः । “मनुष्यान्” कर्मकरादीन् । “भोगान्” कुङ्कुमादीन् ।

संवर्तः

कुर्याद् गृह्याणि कर्माणि स्वभार्यापोषणम् परम् ।

ऋतुकालाभिगामी स्यात् प्राप्नोति परमां गतिम् ॥

परं धर्मम् आहुर् इति शेषः ।

[२७३] सुमन्तुः

शेषान्नम् ऋतुगामित्वं पञ्चयज्ञार्थकर्म च ।

तुल्यैश् च सह सम्बन्धो गृहस्थस्य विधीयते ॥

“तुल्यैश् च सह सम्बन्धः” असत्य् उत्तमे बोद्धव्यः ।

मनुः

उत्तमैर् उत्तमैर् नित्यं सम्बन्धान् आचरेत् सह ।

निनीयुः कुलम् उत्कर्षम् अधमान् अधमांस् त्यजेत् ॥

उत्तमान् उत्तमान् गच्छन् हीनान् हीनांश् च वर्जयेत् ।

ब्राह्मणः श्रेष्ठताम् एति प्रत्यवाये तु शूद्रताम् ॥

“प्रत्यवाये” विपरीताचरणे ।

बृहस्पतिः

सत्यं समधिकं कुर्याद् उपेयाद् ईश्वरं सदा ।

वैरम् निर्हेतुकं वादं न कुर्यात् केनचित् सह ॥

ज्ञातिबन्धुविवाह्येभ्यो मित्रम् अभ्यधिकं स्मृतम् ।

समानम् असमानं वा न कुर्वीत पर्यत्नतः ॥

शोकारातिभयत्राणप्रीतिविस्रम्भभाजनम् ।

आपद्धनं च मित्रं च लोके बन्ध्यधिकम् हि तत् ॥

असमानो ऽधिविस्रम्भो विश्वासः तस्य गर्हितः ।

[२७७] वसिष्ठः

आहारनिर्हारविहारयोगाः

	सुसंवृता धर्मविदा तु कार्याः ।

वाग्बुद्धिवीर्याणि तपस् तथैव

	धनायुषी गुप्ततमे तु कार्ये ॥

“निर्हारः” मूत्रपुरीषोत्सर्गः । “विहारः” स्त्रीसेवा । “योगः” समाधिः । “वाग्गुप्तिः” असत्यालापादिपरिवर्जनेन । “बुद्धिगुप्तिः” अशुभसङ्कल्पादिपरिवर्जनेन । वीर्यं सामर्थ्यम् । तस्य रक्षा अस्थाने विनियोगाभावः । “तपो” ब्रह्मचर्यादि । तस्य रक्षा विस्मयाकरणम् । “गुप्ततमे” अप्रकाशिततमे ।

दक्षः

आयुर् वित्तं गृहछिद्रं मन्त्रो मैथुनम् औषधम् ।

तपो धर्मो ऽवमानं च नव गोप्यानि सर्वदा ॥

प्रायोग्यम् ऋणशुद्धिश् च दानाधमनविक्रियाः ।

कन्यादानं वृषोत्सर्गो रहःपापं च कुत्सितम् ॥

“गृहछिद्रम्” अनर्थहेतुर् अभ्यसूयादि । “प्रायोग्यम्” वृद्ध्या धनप्रयोगः । “ऋणम्” ऋणग्रहणम् । ऋणस्यैव शुद्धिः । “दानम्” भूम्यादेः स्थावरस्य । “आधमनम्” आधिः ।

मनुः

वयसः कर्मणो ऽर्थस्य श्रुतस्याभिजनस्य च ।

वेषवाग्बुद्धिसारूप्यम् आचरन् विचरेद् इह ॥

[२७८] “सारूप्यम्” औचित्यम् । तेन वयआद्युचिता वेषादयः कर्तव्या इत्य् अर्थः ।

विष्णुः [७१.५–७] ।

    वयोऽनुरूपं वेषं च कुर्यात् । श्रुतस्याभिजनस्य [धनस्य” च देशस्य च । नोद्धतः ।

मनु-वसिष्ठौ [म्ध् ४.१४५–४६] ।

मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः ।

जपेच् च जुहुयाच् चैव नित्यम् अग्निम् अतन्द्रितः ॥

मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।

जपतां जुह्वतां चैव विनिपातो न विद्यते ।

“मङ्गलाचारः” प्रातर् गोरोचनालम्भनादि । “विनिपातः” इष्टवियोगादि ।

विष्णुः [२३.५७–५९] ।

गावः पवित्रं माङ्गल्यं गोषु लोकाः प्रतिष्ठिताः ।

गावो वितन्वते यज्ञं गावः सर्वाघसूदनाः ॥

गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना ।

षडङ्गम् एतत् परमं मङ्गलं सर्वदा गवाम् ॥

शृङ्गोदकं गवां पुण्यं सर्वाघविनिषूदनम् ॥

शङ्खलिखितौ

    अथ रक्षोघ्नानि अजाबलिसुवर्णरजतताम्रचन्दनमणयः । सर्पिः सर्षपक्षौमकृष्णाजिननागयवलाजादर्शप्रियङ्गुगोरोच[२७९]नामनःशिलाः । गौः पूर्णकुम्भनागशमीपलाशपुष्पदर्भाणि च सदा स्वाध्यायधन्यः, त्रयाणां च वर्णानां पूर्वरात्रे जागरणम् ।

“नागः” हस्ती । “दर्भाः” कुशाः । “पुष्पाणि” नीलोत्पलादीनि ।

पृथिवीं प्रति लक्ष्मीवाक्ये विष्णुः

वसाम्य् अथार्के च निशाकरे च

	तारागणाढ्ये गगने विमेघे ।

तथा लसल्लम्बपयोधरे च 

	शक्रायुधाद्ये सतडित्प्रकाशे ॥

तथा सुवर्णे विमले च रौप्ये

	रत्नेषु वस्त्रेष्व् अमलेषु भूमौ ।

प्रासादमालासु च पाण्डुरासु

	देवालयेषु ध्वजभूषितेषु ॥

सद्यः कृते वाप्य् अथ गोमये तु

	मत्ते गजेन्द्रे तुरगे प्रकृष्टे ।

वृषे तथा दर्पसमन्विते च

	विप्रे तथैवाध्ययनोपपन्ने ॥

सिंहासने चामलके च बिल्वे 

	छत्रे च शङ्खे च सदैव पद्मे ।

दीप्ते हुताशे विमले च खड्गे

	आदर्शबिम्बे च सदा स्थिताहम् ॥

पूर्णोदकुम्भेषु सचामरेषु 

	सतालवृन्तेषु च भूषणेषु ।

भृङ्गारपत्रेषु मनोहरेषु

	मृदि स्थिताहं च नवोद्धतायाम् ॥

[२८०] क्षीरे तथा सर्पिषि शाद्वलेषु

	क्षौद्रे तथा दध्नि पुरन्ध्रिगात्रे ।

देहे कुमार्याश् च तथा सुराणां

	तपस्विनां यज्ञकृतां च देहे ॥

शूरे च सङ्ग्रामविनिर्गते ऽहं

	स्थिता मृते स्वर्गम् इतः प्रयाते ।

वेदध्वनौ चाप्य् अथ शङ्खशब्दे 

	पुण्याहशब्दे च सवाद्यघोषे ॥

राजाभिषेके च तथा विवाहे 

	यज्ञे नरे स्नातशिरस्य् अशुष्के ।

पुष्पेषु शुक्लेषु च पर्वतेषु

	फलेषु रम्येषु सरिद्वरासु ॥

सरःसु पूर्णेषु तथार्जुनीषु 

	सशाद्वलायां भुवि पद्मषण्डे ।

बालेषु वत्सेषु शिशौ प्रहृष्टे

	साधौ नरे धर्मपरायणे च ॥

आचारसेविन्य् अथ शास्त्रवित्वे 

	विनीतवेषे च तथा सुवेषे ।

सुशुद्धदन्ते मलवर्धिते च 

	मिष्टाशने चातितिपूजके च ॥

स्वदारतुष्टे निरते च धर्मे

	सत्त्वोत्करे चात्यशनाद् विमुक्ते ।

सदा सुपुण्येषु सुगन्धिगात्रे

	नित्यानुलिप्ते च विभूषितेषु ॥

सत्ये स्थिते भूतहिते निविष्टे

	क्षमायुते क्रोधविवर्जिते वा ।

[२८१] सुसंयतार्थे परकार्यदक्षे

	कल्याणचित्तेषु सदा सुनीते ॥

“लम्बपयोधरे” लम्बमानस्तनधारिणि । “कृते” संस्कृते । “अर्जुनीषु” गोषु ।

महाभारते

वसामि सत्ये सुभगे सुदान्ते

	दक्षे नरे कर्मणि वर्तमाने ।

अक्रोधिने दैवपरे कृतज्ञे

	जितेन्द्रिये नित्यम् उदीर्णसत्ये ॥

नाकर्मशीले पुरुषे वसामि

	न नास्तिके साङ्कृतिके कृतघ्ने ।

न भिन्नसत्त्वे न नृसंशवृत्ते

	न चापि चौरे न च नग्नमूर्खे ॥

न चाल्पतेजो बलसत्त्वसारा

	हृष्यन्ति कुप्यन्ति च यत्र यत्र ।

न देवि तिष्ठामि तथाविधेषु

	नरेष्व् असम्प्राप्तमनोरथेषु ॥

यश् चात्मनः प्रार्थयते न किञ्चिद्

	यश् च स्वभावोपहृतान्तरात्मा (?) 

तेष्व् अल्पसन्तोषपरेषु नित्यं

	नरेषु नाहं निवसामि देवि ॥

[२८२] वसामि धर्मशीलेषु धर्मज्ञेषु कृतात्मसु ।

वृद्धसेविषु दान्तेषु दर्मज्ञेषु महात्मसु ॥

स्त्रीषु दक्षासु दान्तासु देवद्विजपरासु च ।

वसामि सत्यबालासु स्वभावविनतासु च ॥

प्रकीर्णभाण्डाम् अनवेक्ष्यकारिणीं

	सदा च भर्तुः पर्तिकूलवासिनीम् ।

परस्य वेश्माभिरताम् अलज्जाम्

	एवंविधां स्त्रीं परिवर्जयामि ॥

लोलाम् अधोक्षीम् अवगाहिनीं च

	व्यपेतशीलां कलहप्रियां च ।

निद्राभुभूतां सततं शयनाम् 

	एवंविधां स्त्रीं प्रैवर्जयामि ॥

सत्यासु नित्यं प्रियदर्शनासु

	सौभाग्ययुक्तासु गुणान्वितासु ।

यानेषु कन्यासु विभूषणेषु 

	यज्ञेषु मेधेषु च वृष्टिमत्सु ॥

वसामि फुल्लासु च पद्मिनीषु 

	नक्षत्रवेदीषु च शारदीषु ॥

शैलेषु गोष्थेषु तथा रणेषु

	सरःसु फुल्लोत्पलपङ्कजेषु ।

नदीषु हंसखरनादिनीषु

	क्रौञ्चावगुष्टस्वरशोभितासु ॥

विस्तीर्णकूलद्रुमशोभितासु

	तपस्विसिद्धद्विजसेवितासु ।

वसामि नित्यं सुबहूदकासु

	सुनक्रमकराकुलितोदकासु ॥

[२८३] मत्ते गजेन्द्रे वृषभे नरेन्द्रे

	सिंहासने सत्पुरुषे च नित्यम् ।

यस्मिन् गृहे हाव्यति हूयते च

	गोब्राह्मणे चार्च्यते देवताश् च ॥

काले च पुष्पैर् बलयः क्रियन्ते

	तस्मिन् गृहे वासम् उपैमि नित्यम् ।

स्वाध्याययुक्तषु द्विजेषु नित्यं

	क्षत्रे च धर्माभिरते सदैव ।

वैश्ये च कृष्याभिरते वसामि

	शूद्रे च शुश्रूषानित्ययुक्ते ॥

नारायणे त्व् एकमता वसामि

	सर्वेण भावेन शरीरभूता ।

अस्मिन् धर्मः सुमहान् हि विष्णौ

	ब्राह्मण्यता चात्र तथा प्रियत्वम् ॥

नाहं शरीरेण वसामि देव

	नैतन् मया शक्यम् इहाभिधातुम् ।

यस्मिन् स्वभावेन वसामि पुंसि 

	स वर्धते धर्मयशो ऽर्थकामैः ॥

तथा इन्द्रं प्रति श्रीर् उवाच ।

असुरेष्व् अवसं पूर्वं सत्वधर्मनिबन्धना ।

विपरीतान् सुतान् बुद्ध्वा त्वयि वासम् अरोचयम् ॥

[२८४] सभासदां तु वृद्धानां सत्याः कथयतां कथाः ।

प्राहसश् च चाभ्यसूयं च सर्ववृद्धान् गुणावराः ॥

उच्चैश् चाप्य् अवदन् रात्रौ नीचैस् तत्राग्निम् अज्वलन् ।

पुत्राः पितॄन् अभ्यवदन् स्त्रियश् चाभ्यवदन् पतीन् ॥

नाशौचम् अनुरुध्यन्त तेषां मूढजनास् तथा ।

मनसा कर्मणा वाचा भक्तम् आसीद् अनावृतम् ॥

विप्रकीर्णानि धान्यानि तथा मूषिकभोजनम् ।

अपावृतं पयो ऽतिष्ठद् उच्छिष्टाश् च स्पृशन् घृतम् ॥

कुद्दालदातृपिटकं प्रकीर्णं कांस्यभाजनम् ।

द्रव्योपकरणं सर्वं नानुवेक्षत् कुटिम्बिनी ॥

प्रकारागारविध्वस्ता न च तत् प्रत्यवेक्षतः ।

आश्रमस्था विकर्मस्थाः प्रद्विषन्ति परस्परम् ॥

ये च वेदविदो विप्रा विस्पष्टम् अनृताश् च ये ।

निरन्तरविशेषास् ते बहुमानावमानयोः ॥

**महाभारते **।

हारम् आभरणं वेषं गतिस्थितिम् अविक्षितिम् ।

आसेवन्ते भुजिष्यान् वै दुर्जनाचरितं विधिम् ॥

स्त्रियः पुरुषवेषेण नराः स्त्रीवेषधारिणः ।

क्रीडारतिविहारेषु परां मुदम् अवाप्नुवन् ॥

प्रभवभ्यपुरादायान् अर्हेभ्यः प्रतिपादितान् ।

नाभ्यवर्तन्त नास्तिक्यादृतितं (?) सम्भवेष्व् अपि ॥

[२८५] श्वश्रूश्वशुरयोर् अग्रे वधूः प्रेष्यानुशासनम् ।

अन्वशासच् च भर्तारं सम्मुखी याति जल्पनैः ॥

प्रयत्नेनापि चारक्षेद् वित्तं पुत्रस्य वै पिता ।

व्यभजच् चापि संरम्भाद् दुःखवासं तथा वसन् ॥

तैश् चैव सादिताचारा नाचारेषु विपर्यये ।

नाहं देवेन्द्र वत्स्यामि दानवेष्व् इति मे मतिः ॥

तथा

गृहे पारावता धन्याः शुका वै सारिकास् तथा ।

गृह एते प्रशस्ताः स्युः तथा वै तैलपायिकाः ॥

हारीतः

आद्या व्याहृतयस् तिस्रः स्वाहा स्वधा नमो वषट् ।

यस्यैते वेश्मनि सदा ब्रह्मलोकस्थ एव सः ॥

तथा

यस्य वेदमयं चक्षुः वाचं च व्याहृतीमयम् ।

तेजोमयं शरीरं च स कस्माद् अवसीदति ॥

पैठीनसिः

हुताग्निहोत्रस्य कृताह्निकस्य 

	समाप्तजप्यस्य पथि स्थितस्य ।

[२८६] ये ब्राह्मणस्योपरि दिव्यलोकाः

	काङ्क्षन्ति ये वै ऋषयः समस्ताः ॥

विष्णुः [८१.९०] ।

श्रुतिस्मृत्युदितं सम्यक् साधुभिर् यश् च सेवितः ।

तम् आचारं निषेवेत धर्मकामो जितेन्द्रियः ॥

मनु [४.१७८] ।

येनास्य पितरो याता येन याताः पितामहाः ।

तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ॥

येनानुष्ठानप्रकारेण “न रिष्यति” न बाध्यते । इदं च वैकल्पिकविषयम् ।

हारीतः

कर्मणा प्राप्नुयाल् लोकान् कर्मणा मुच्यते ऽशुभात् ।

कर्मणा सर्वम् आप्नोति यत् किञ्चिन् मनसेच्छति ॥

अहिंस्रे कर्मणि शुभे मोक्षं गच्छति पण्डितः ।

एतद् वः कथये विप्रा नाकर्मा किञ्चिद् आप्नुयत् ॥

“अहिंस्रे” अविहितहिंसारहिते । “पण्डितो” ऽत्र परमात्मज्ञः । “अकर्मा” चाश्रमकर्मरहितः ।

वृद्धशातातपः

श्वः कार्यं सद्यः कुर्वीत पूर्वाह्णे चापराह्णिकम् ।

[२८७] न हि प्रतीक्षते मृत्युः कृतं वास्य न वाक्र्तम् ॥

इदं चादरातिशयार्थम् अनियतकालविषयम् ।

मनुः [४.१५९–१६१] ।

यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् ।

यद् यद् आत्मवशं तु स्यात् तत् तत् सेवेत यत्नतः ॥

सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् ।

एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥

यत् कर्म कर्वतो ऽस्य स्यात् परितोषो ऽन्तरात्मनः ।

तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥

यत् स्ववशं परप्रार्थ्नायत्तम् । एतच् च यथा यथा कथञ्चिद् धनसम्भवे सन्तोषपरताप्रतिपादनार्थम् । “यत् कर्म कुर्वतः” इत्यादिना आत्मतुष्टेः । पुनर्वचनं स्नातकव्रतत्वज्ञापनार्थम् ।

लघुहारीतः

वने ऽपि दोषाः प्रभवन्ति रागिणां

	गृहेषु पञ्चेन्द्रियनिग्रहस् तपः ।

अकुत्सिते कर्मणि यः प्रवर्तते

	निवृत्तरागस्य गृहं तपोवनम् ॥

सत्कर्मोद्देशक्रमे दक्षः

सन्ध्यास्नानं जपो होमः स्वाध्यायो देवतार्चनम् ।

[२८८] वैश्वदेवेक्षणातिथ्यम् (उद्धृतं) वाप्य् अशक्तितः ॥

“ईक्षणम्” अतिथिप्रदीक्षणम् । “उद्धृतं वाप्य् अशक्तितः” । अतिथिभोजनासामर्थ्ये स्तोकम् अप्य् अन्नम् उद्धरेद् इत्य् अर्थः ।

यमः

किं ब्रह्मचर्यैर् यदि दारसेवी

	किं चोपवासैः यदि शेषभोजी ।

मौनेन किं स्याद् यदि सत्यवादी

	सत्येन किं स्याद् यदि वा नृशंसः ॥

हारीतः

    सत्यवादी, सदा तुष्टः, ऋतुकालाभिगामी, नित्यं स्नानशीलो, नित्यं चाक्रोधनो, अपरोपताप्य् अकुहको, नित्योदकी, नित्ययज्ञोपवीती, नित्यं स्वाध्यायी, धर्मान्वेषी, पतितान्नवर्जी, वीतरागलोभमोहो, वित्तशाठ्यविवर्जितो, अनसूयको, गृहस्थो भवति ।

“अकुहकः” अमायावी । “खर्वः” वक्रः (?) । “नित्योदकी” सोदककमण्डलुधारी ।

कश्यपः

    आहिताग्निः, भवत् स्वदारनिरतः, स्नानान्न् ऋतुकालाभिगामी, देवपितृभूतमनुष्यब्रह्मयज्ञान् उपसेवमानः, **[२८९]** एकद्वित्रिचतुर्णां ब्राह्मणानाम् आतिथ्यं कुर्वाणः, व्रतनियमजप्यहोममन्त्रपरो, मातापितृभक्तः, भृत्यापत्ययोः शेषान्नभोजी, न चासूयको, यत् (किञ्चित्) किञ्चाशी, तोलकभेदकवेधकसूचकान् परिहरमाणः श्रेयसा युज्यते ।

“व्रतम्” अत्र यमाः । “जप्यमन्त्राः” सावित्र्यादयः । “यत्किञ्चाशी” न रसलोलुपः । “भेदकः” समयादेः । “वेधकः” परमर्मणः । “सूचकः” पिशुनः ।

**वासिष्ठ-हारीत-बौधायनाः **। [८.१७]

नित्योदकी नित्ययज्ञोपवीती

	नित्यस्वाधायी पतितान्नवर्जी ।

ऋतौ च गच्छन् विधिवच् च जुह्वन् 

	न ब्राह्मणश् च्यवते ब्रह्मलोकात् ॥

उशनाः

    तत्र वेदविद्याव्रतस्नातकः शुचिर् नित्योदकी नित्ययज्ञोपवीती, उभयकालं नित्यसन्ध्याम् उपासीत स्नानशीलः ।

गौतमः [१.९.६८] ।

    सत्यधर्मा, आर्यवृत्तः, शिष्टाध्यापकः, शौचशिष्टः, श्रुतिनिरतः स्यात्, नित्यम् अहिंस्रो मृदुर् दृढकारी दमदानशीलः । **[२९०]** एवमाचारो मातापितरौ पूर्वापरान् सम्बन्धान् दुरितेभ्यो मोक्षयिष्यन् स्नातकः शश्वद् ब्रह्मलोकान् न च्यवते ।

“सत्यधर्मा” सत्यसन्धः । “आर्यवृत्तः” आर्यप्रियकारिचरितः । “शिष्टाध्यापकः” साधूनाम् अध्यापयिता । “शौचशिष्टः” शौचे यत्नवान् । “मृदुः” पारुष्यरहितः । “दृढकारी” आरब्धस्य समापयिता । “मोक्षयिष्यन्” मोक्षयितुम् । एवमाचार इति सम्बन्धः ।

विष्णुः

त्रिवर्गसेवां सततान्नदानं सुरार्चनं ब्राह्मणतर्पणं च ।

स्वाध्यायसेवां पितृतर्पणं च कृत्वा गृही शक्रसदः प्रयाति ॥

मनुः [४.१७५] ।

सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत् सदा ।

शिष्यांश् च शिष्याद् धर्मेण वाग्बाहूदरसंयतः ॥

“शिष्या” शासनीयाः पुत्रादयः । “बाहुसंयमः” बाहुमूलेन परस्याबाधनम् ।

पराशरः ।

यावज् जुहोत्य् अधीते च ददात्य् अध्यापयत्य् अपि ।

जपत्य् अर्चति देवांश् च तावत् तु द्विज उच्यते ॥

[२९१] यमः

ऋषय ऊचुः ।

किंलक्षणो भवेद् धर्मः क्व वा धर्मः प्रतिष्ठितः ।

कः सर्वसम्मतो धर्मः किं च धर्मपरायणम् ॥

** यम** उवाच ।

तपःपरमको धर्मो दानेज्यालोभलक्षणः ।

मर्यादायां स्थितो धर्मः संस्थया च प्रवर्तते ॥

सत्यं सदुदितः धर्मः सत्यं धर्मपरायणम् ।

“तपःपरमकः” तपःप्रधानकः । “संस्था” मर्याअदा । “सत्यम्”भूतार्थवादित्वम् । द्वितीयसत्यशब्देनात्र ब्रह्मोच्यते ।

**दक्षः **।

विभागशीलता यस्य क्षमायुक्तो दयालुकः ।

गृहस्थस् तु समाख्यातो न गृहेण गृही भवेत् ॥

दया लज्जा धृतिः श्रद्धा प्रज्ञा त्यागः कृतज्ञता ।

एते यस्य गुणाः सन्ति गृहस्थो मुक्त उच्यते ॥

[२९२] यमः

शौचम् अध्ययनं दानं नित्यं विषयसञ्ज्ञकः ।

अत्र यत्नेन सम्भाव्यं ब्राह्मण्यं प्राप्य दुर्लभम् ॥

अत्र शौचादिषु यत्नेन यत्नवता [भाव्यम् इत्य् अर्थः] ।

शातातपः

भवेच् छौचपरो नित्यं तथा देहे जितेन्द्रियः ।

अक्रोधः सर्वभूतेषु साधुकारी प्रियंवदः ॥

बृहस्पतिः

सत्यं यज्ञस् तपो दानम् एतद् धर्मस्य लक्षणम् ।

धर्मात् सुखं च ज्ञानं च ज्ञानान् मोक्षो विशिष्यते ॥

तपो धर्मः कृतयुगे यज्ञं त्रेतायुगे स्मृतम् ।

द्वापरे चाध्वरः प्रोक्तस् तिष्ये दानं दया दमः ॥

“तिष्यः” कलिः ।

कृते यद् अब्दाद् धर्मं स्यात् त्रेतायां तु ऋतुत्रयात् ।

द्वापरे तु त्रिपक्षेण कलाव् अह्ना च तत्फलम् ॥

[२९३] दया धर्मेण दानेन तपसा ब्रह्मचर्यया ।

शमयित्वेन्द्रियग्रामं ब्रह्मलोकम् अवाप्नुयात् ॥

मनुः [४.२४६] ।

दृढकारी मृदुर् दान्तः क्रूराचारैर् असंवसन् ।

अहिंसादमदानाभ्यां जपेत् स्वर्गं तथा व्रतैः ॥

हरीतः

दमो दया दानं दृढव्रतत्वं चेति ।

ब्राह्मणस्य कुलश्रुतशीलवृत्तावस्थानं दम इत्य् आचक्षते ।

सर्वभूतानुकम्पनं दया । संविभागो दानम् ।


    त्रिसन्ध्यम् अस्कन्नं देवतार्चनजपहोमध्याननियमानुष्ठानं दृढव्रतत्वम् । त्रिसन्ध्यं वै नियमिनां पाप्म । शीर्यते तपोभूयस्त्वम् उपैति ब्रह्मप्रकाशतां गच्छति । तस्मात् त्रिसन्ध्यं नियमी स्याद् ब्राह्मणस्येति ।

“ब्राह्मणस्य” ब्राह्मणग्रहणम् एतेषु तस्य यत्नातिशयार्थम् । “शीलम्” ब्राह्मण्यतादि । “अस्कन्दनम्” सर्वाङ्गोपेतं [२९४] अस्खलितं वा । देवतार्चनजपहोमाध्ययनान्य् एव नियमाः । “तेषाम् अनुष्ठानं” [वा “नियमानुष्ठानं”] त्रिसन्ध्यम् इति सन्ध्यात्रितयकाले । यथायोगम् एषाम् अनुष्ठानं कर्तव्यम् इत्य् अर्थः ।

पुनर् हारीतः

    स्थितिर् अविच्छिन्नवेदावेदिता अयोनिसङ्करिता अविछिन्नार्षेयत्वं चेति कुलगुणाः । वेदाङ्गानि धर्मो ऽध्यात्मविज्ञानं स्थितिश् चेति षड्विधं श्रुतम् ।


    	क्षमा दमो दया दानम् अहिंसा गुरुपूजनम् ।


    शौचं स्नानं जपो होमस् तपः स्वाध्यायः सत्यवचनं सन्तोषो दृढव्रत्वं चेति ।

गौतमः

सर्वत एवात्मानं गोपायीत ।

यमः

धर्मक्षेत्रं शरीरं हि यत्नेन परिपालयेत् ।

शरीरात् स्रवते धर्मः पर्वतात् सलिलं यथा ॥

**व्यासः **।

विषयेषु न सज्जेत मनःसंयमम् आचरेत् ।

मनःसंयमम् आतिष्ठन् ब्रह्मलोकम् अवाप्नुयात् ॥

[२९५] विष्णुः

    दमयनेनातिष्ठेत् । दमश् चेन्द्रियाणां प्रकीर्तितः । दान्तस्यायं लोकः परश् च ।

विष्णुपुराणे [३.१२.२–३] ।

सदानुपहते वस्त्रे प्रशस्ताश् च वनौषधीः ।

गारुडानि च रत्नानि बिभृयात् प्रयतो नरः ॥

सुशुद्धामलकेशश् च सुगन्धिश् चारुवेषधृक् ।

सिताः सुमनसो हृष्टा बिभृयाच् च नरः सदा ॥

मार्कण्डेयपुराणे [३४.५४] ।

न चापि रक्तवासाः स्यात् चित्रासितधरो ऽपि वा ।

न च कुर्याद् विपर्यासं वाससोर् न च् भूषणे ॥

वर्ज्यं च विदशं वस्त्रम् अत्यन्तोपहतं च यत् ।

“अत्यन्तोपहतम्” सुरादिलिप्तम् ।

महाभारते

अन्यद् एव भवेद् वासः शयनीये सदैव तु ।

अन्यद् रथ्यासु देवानाम् अर्चायाम् अन्यद् एव हि ॥

“रथ्यासु” यथेष्टचेष्टासु ।

[२९६] प्रेचेताः

न सुवर्णम् अनग्न्यं धारयेत् ।

कालिकापुराणे

कायस्थितेन हेम्ना तु कर्म यत् कुसितं नरः ।

आचरेत् तद् अयं तस्य वज्रकल्पं भविष्यति ॥

अनामाङ्गुलिकायां तु धारयेद् दक्षिणे करे ।

“कायस्थेन” इति दक्षिणकरानामाङ्गुलिका । व्यतिरिक्ताङ्गस्थेन सुवर्णेन कुत्सितकर्म न कुर्यात् । तथाकरणे पापाधिक्यं भवतीति तात्पर्यार्थः ।

भविष्यपुराणे

यः कुर्यात् सर्वकर्माणि वस्त्रपूतेन वारिणा ।

स मुनिः स महासाधुः स याति परमां गतिम् ॥

तथा

सोपानत्को देवगृहम् आरोहेद् यस् तु मानवः ।

स याति नरकं घोरं तामिस्रं नाम नामतः ॥

महाभारते

शिरःस्नातस् तु तैलेन नाङ्गं किञ्चिद् अपि स्पृशेत् ।

तिलपिष्टं च नाश्नीयात् तथायुर् विदते महत् ॥

[२९७] स्नातस्य वर्णकं हृद्यं तत् प्रदद्याद् विशाम्पते ।

प्रियङ्गुकलिकाभ्यां च बिल्वेन तगरेण च ।

पृथग् एवानुलिप्तेन केसरेण च बुद्धिमान् ॥

**पद्मपुराणे **सप्तर्षिशपथेषु ।

अनृतौ मैथुनं यातु दिवा स्वप्नं निषेवतु ।

अन्योन्यातिथ्यम् अभ्येतु बिसस्तैन्यं करोति यः ॥

तथा

गोब्राह्मणांश् च तीर्थानि पर्वतांश् च नदींस् तथा ।

देवांश् चैव हृदा वन्दन् न प्रेतो जायते नरः ॥

**याज्ञवल्क्यः [२.२५५] **।

गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत् ।

भविष्यपुराणे

श्लेष्ममूत्रपुरीषाणि समुत्सृजति यस् तु वै ।

देवस्यायतने भानोः स गच्छेन् नरकान् क्रमात् ॥

मार्कण्डेयपुराणे [३४.३०] ।

उच्छिष्टो नालपेत् किञ्चित् स्वाध्यायं च विवर्जयेत् ।

[२९८] तथा [३४.४४] ।

नोत्क्षिप्तपादजङ्घस् तु प्राज्ञस् तिष्ठेत् कथञ्चन ।

**विष्णुपुराणे **[३.१२.८–९, १२, १६, १९, २९] ।

प्रदीप्तं वेश्म न विशेन् नारोहेच् छिखरं नरः ।

न कुर्याद् दन्तसङ्घर्षं न कुष्णीयाच् च नासिकाम् ॥

नासंवृतमुखो जृम्भेत् छ्वासकासौ न वर्तयेत् ।

नोच्चैर् हसेत् सशब्दं च न मुञ्चेत् पवनं बुधः ॥

न हुङ्कुर्याच् छवं घ्रात्वा शवसङ्घो हि शोभनः ।

उपसर्पेन् न च व्यालं चिरं तिष्ठेन् न चोत्थितः ॥

अतीव जागरस्वप्ने तद्वत् स्थानाशने बुधः ।

न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥

दंष्ट्रिणः शृङ्गिणश् चैव प्राज्ञो दूरेण वर्जयेत् ।

अवश्यायं च राजेन्द्र पुरो वातातपौ तथा ॥

मुक्तकच्छश् च नाचामेद् देवाद्यर्चां च वर्जयेत् ।

श्लेष्मसिंहानिकोत्सर्गो नान्नकाले प्रशस्यते ॥

बलिमङ्गल्यजप्यादौ न होमे न महाजने ।

“देवाद्यर्चां मुक्तकच्छः” इत्य् अनुषङ्गः । “महाजने” महाजनमध्ये ।

देवीपुराणे

न विषं भक्षयेत् प्राज्ञो न बुजङ्गैश् च क्रीडयेत् ।

[२९९] नेत्राञ्जनं निषेवेत दन्तधावनपूर्वकम् ॥

**विष्णुपुराणे **[३.१२.६–७] ।

दिधिषूपतितोन्मत्तबहुवैरातिकीटकैः ।

बन्धकी बन्धकीभर्तृक्षुद्रानृतकैर् (?) नर्तकैः (?) सह ॥

तथातिव्ययशीलैश् च परिवादरतैः शठैः ।

बुधो मैत्रीं न कुर्वीत नैकः पन्थानम् आव्रजेत् ॥

“अतिकीटकः” अतिकृपणः । “बन्धकी” व्यभिचारिणी ।

न कुर्यान् मैत्रीम् इत्य् अनुवृत्तौ मार्कण्डेयपुराणे [३४.८९] ।

न सर्वशङ्किभिर् नित्यं न च देवपरैर् नरैः ।

वायुपुराणे

यदाकाशः स्मृतो भीमस् तस्मान् नासंवृते क्वचित् ।

कुर्यान् मूत्रं पुरीषं वा न भुञ्जीत पिबेत वा ॥

मैथुनं चापि न चरेद् उच्छिष्टानि च वर्जयेत् ।

“उच्छिष्टानि” उपभुक्तशिष्टानि ।

**मार्कण्डेयपुराणे **[३४.७] ।

न यज्ञं न तपांसी वा पुरुषस्य विभूतये ।

भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥

[३००] वायुपुराणे

एकस्यार्थाय यो हन्याद् आत्मनो वा परस्य वा ।

एकं प्राणं बहून् वापि कामं तस्यापि पातकम् ॥

यस्मिंस् तु निहते ऽभद्रे एधन्ते बहवः सुखम् ।

तस्मिन् हते ऽशुभे नास्ति पातकं चोपपातकम् ॥

महाभारते

यः प्रवृत्तिं श्रुतिं मोहाच् छास्त्रं च मुनिभाषितम् ।

द्वेषयत्य् अनभिज्ञाय तं विद्याद् ब्रह्मघातकम् ॥

महाभारते

बलिं प्रति श्रीवाक्यानि ।

यदा शुश्रूषया वृद्धां परिवारेण योज्यते ।

पुत्रश् च पितरं मोहात् प्रेषयिष्यति कर्मसु ॥

ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् ।

शूद्रश् च ब्राह्मणीं भार्याम् उपयास्यति निर्भयः ॥

वियोनिषु च बीजानि मोक्ष्यन्ते पुरुषाः सदा ।

सङ्करं कांस्यभाण्डैश् च बलिश् चापि कुपात्रकैः ॥

चातुर्वर्ण्यं यदा कृत्स्नम् उन्मर्यादं भविष्यति ।

एकैकस् ते तदा पाशः क्रमशः परिमोक्ष्यते ॥

[३०१] विष्णुपुराणे

देवादिनिश्वासहतं शरीरं यत् तस्य वेश्म च ।

न तेन सङ्करं कुर्याद् गृहासनपरिच्छदैः ॥

“देवादिनिश्वासहतम्” यथोचितपूजाविरहात् ।

[इति श्रीगृहस्थकाण्दे स्नातकव्रतानि]

[३०२]

१८

अथ यमनियमाः

तत्र मनुः [४.२०४] ।

यमान् सेवेत सततं न नित्यं नियमान् बुधः ।

यमान् पतत्य् अकुर्वाणो नियमान् केवलान् भजन् ॥

इदं च यमनियमयोर् युगपदुपनिपाते विहितत्वाविशेषाद् विकल्पप्रसङ्गे बोद्धयम् । “सतत”” आपद्य् अपि ।

व्यासः

अहिंसा सत्यवचनं ब्रह्मचर्यम् अकल्कता ।

अस्तेयम् इति पञ्चैते यमाश् चैव व्रतानि च ॥

अक्रोधो गुरुशुश्रूषा शौचम् आहारलाघवम् ।

अप्रमादश् च नियमाः पञ्चैवोपव्रतानि च ॥

ब्रह्मचर्यम् अत्र प्रतिषिद्धमैथुनवर्जनम् । “अकल्कता” दम्भरहितत्वम् ।

[३०३] शङ्खलिखितौ

    अक्रोध आर्जवं शौचं व्यवहारो गुरुशुश्रूषा चेति नियमाः पञ्च ।

“व्यवहारः” शास्त्रार्थाचरणम् । अक्रोधादीनाम् अत्रान्तर्भावे ऽप्य् आदरार्थे पुनर्वचनम् ।

याज्ञवल्क्यः [३.३१२–१३] ।

ब्रह्मचर्यं दया क्षान्तिर् दानं सत्यम् अकल्कता ।

अहिंसास्त्रेयमाधुर्ये दमश् चेति यमाः स्मृताः ॥

स्नानमौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः ।

नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥

“ध्यानम्” परमात्मचिन्तनम् । “माधुर्यम्” प्रियवादित्वादि । “अप्रमादता” स्वकर्तव्येष्व् अवधानम् ।

हारीतः

    अहिंसा सत्यम् अस्तेयं शौचं ब्रह्मचर्यम् इति नियमाः । **[३०४]**


    कूर्म इवाङ्गानि कर्मभ्यः संहृत्य रूपेभ्यो दृष्टिम्, मूक इव वाच्येभ्ह्यो वाचम्, कर्मेन्द्रियबुद्धीन्द्रियाणि मनश् च संयम्याहिंसा भवति ।


    एवं ह्य् आह –


    	कर्मना चक्षुषा चैव वाचाथ मनसा तथा ।


    	यो वै न कुरुते पापं सा चाहिंसा चतुर्विधा ॥ इति ।

देवलः

    तत्र दशविधा हिंसा । उद्वेगजननम्, सन्तापजननम्, रुजाकरणम्, शोणितोत्पदनम्, पैशुन्यकरणम्, सुखापकरणम्, अतिक्रमः, संरोधो, हितप्रतिषेधो, वध इति ।


    तत्र श्लोकः ।


    	कायक्लेशं मनोदुःखं वधं वा प्राणिनां पुनः ।


    	यत्र वर्धयति द्वेषात् सा हिंसेति समासतः ॥

“उद्वेगो” मनसो ऽस्वास्थ्यम् । “सन्तापो” यस्मिन् दुःखे उत्पन्ने आकुलितम् एवात्मानं मन्यते । “रुजा” शरीरदुःखम् । “अतिक्रमो” मन्यावमाननम् । “संरोधः” स्वेच्छाचारनिषेधः । “हितप्रतिषेधः” दुःखापनायकभेषजनिषेधः ।

महाभारते

यूकमत्कुणदंशादीन् खादतश् चात्मनस् तनुम् ।

पुत्रवत् परिरक्षन्ति ते नराः स्वर्गगामिनः ॥

[३०५] हारीतः

	आत्मा सन्नस्यैषा वाक् सती यया वदति यत् सतः ।

	[सती वदति तद् एतत् सतीयं सत्यम् इत्य् आचक्षते ॥


    यथाग्निः घृताहुतिहुतो दीप्यते, एवं सत्याभिधाप्य् आत्मा ब्रह्मान्नदत्तम् आप्तिं प्रतिवदन् दीपयति । अथ यथाद्भिर् अग्निं ध्वंसयंस् तमांसि प्रतिपद्यते एवम् अनृतं ध्रुवं वदन् तमांसि प्रतिपद्यते] तस्मान् नान्र्तं ब्रूयात् । सोमक्रयकन्याविवाहभयमैथुनबालसञ्ज्ञपन[गोब्राह्मणहिते च ब्रुवन् मिथ्यान् न लिप्यते । एवं ह्य् आह ।


    	यत्र प्राणिवधो नास्ति यच् च नित्यम् अनिन्दितम् ।


    	स्वभावतश् च यत् सत्यं तत् सत्यवचनं स्मृतम् ॥ ]

यथा वाचा आत्मा वदतीत्य् अन्वयः । “आत्मनो हितम्” यद् व[स्तु सती वदति तत् सत्यम् । “बालसञ्ज्ञपनम्” बालसन्तोषणम्] “अनिन्दितम्” अश्लीलतादिरहितम् । स्वभावतश् छलरहितम् ।

मनु-यमौ [४.१३८] ।

सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियम् ।

[३०६] प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ॥

एतेन प्रियं सत्यं च मिलितं द्वयं वक्तव्यम् इत्य् उक्तं भवति ।

यमः

सुभाषितसहस्राणि सुभाषीतशतानि च ।

सर्वाण्य् अत्याहृतस्येह कलां नार्हन्ति षोडशीम् ॥

दया हि सर्वभूतानाम् अनृतेन च शाम्यति ।

सत्येनापि विनश्येत हिंसा यत्र प्रवर्तते ॥

एतेन सत्यानृतनिन्दया मौनप्राशत्यमुक्तम् ।

हारीतः

    ऋतम् इति सद्भूताभिधानं भवति । नात्र ऋतम् अस्तीत्य् अनृतम् । तच् चतुर्विधं भवति । पणितानृतम्, प्रत्ययानृतम्, सुकृतानृतम्, साधारणानृतम् इति । क्रयविक्रयकितववृत्तिवृत्तित्वं पणितानृतम् । तस्मान् न व्यसनादिभिः क्रीणीयात् न विक्रीणीयात् । न कितववृत्तिः स्यात् । एवं ह्य् आह ।


    	विक्रयी शंसते पण्यं क्रयी निन्दति सद्गुणम् ।

[३०७] व्याजयोगाच् च कितवम् अश्रद्धेयं प्रजापतिः ॥ इति ।

    विश्रम्भानृतं साक्ष्यनृतं व्यवहारानृतम् इति त्रिविधं प्रत्ययानृतम् ।


    यद् विश्रम्भाद् वक्त्रात् कीर्तिं करोति कारयति वा विश्रम्भानृतम् इत्य् उच्यते ।


    यत् साक्षिकर्मण्य् अवस्थितो ऽनृतम् अध्यवस्यति ज्ञानलभ्यपलपति कूटसाक्षितां चोपैति तत् साक्ष्यनृतम् इत्य् उच्यते ।


    द्वयोर् विवदमानयोर् मैत्र्या द्वेषाल् लोभाद् भयात् प्रमादाद् वा यत् पक्षान्तरम् उपैति, यत् सम्भूतं व्युदस्यासम्भूतं स्थापयति तत् संव्यवहारानृतम् इत्य् उच्यते । एवं ह्य् आह ।


    	विशम्भात् त्रितयं हन्ति पञ्च मिथ्यावसायतः ।


    	क्षणात् सप्तयुगं हन्ति त्व् अनृते व्यवहारतः ॥

“व्यसनम्” वञ्चना । “मिथ्यावसायो” अनृतवचनम् । “ज्ञानापलापो” मृषासाक्षितम् । “युगं
जन्म ।

[३०८] यमः

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।

शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥

हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् ।

सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेत् ॥

अप्सु भूमिवद् इत्य् आहुः स्त्रीणां भोगे च मैथुने ।

पशुवत् क्षौद्रघृतयोर् यच् चान्यपशुसम्भवम् ॥

गोवद् वस्त्रेषु सर्वेषु शयने ऽथासनेषु च ।

अश्ववत् सर्वयानेषु खरोष्ट्राश्वतरेषु च ॥

आदित्यचन्द्राव् अनलानिलौ च 

	द्यौर् भूमिर् आपो हृदयं यमश् च ।

पश्यन्ति नित्यं पुरुषस्य वृत्तं

	तस्मान् न वाच्यं त्व् अनृतं कदाचित् ॥

यस्य वाङ्मनसी शुद्धे सम्यग् युप्ते च सर्वदा ।

तपो वेदाः स्मृतिस् त्यागः स तेभ्यः सर्वम् अश्नुते ॥

“पञ्च पश्वनृते हन्ति” इति पश्वादिविषयम् अनृतं वदन् पञ्चादिसङ्ख्याकान् बान्धवान् “हन्ति” नरके पातयति । उत्तरोत्तरं निन्दातिशयदर्शनं दोषभूयस्त्वख्यापनार्थम् । “भोगे च मैथुने” मिथुनसम्पाद्ये भोग इत्य् अर्थः । “सर्वं च पशुसम्भवम्” क्षीरदद्यादि । “सर्वेषु” आविकादिषु ।

देवलः

    अनृतं द्विविधम् असत्यं विसंवादश् चेति । तन्त्र [तत्र?] दृष्टश्रुतकृतानाम् अन्यथावचनम् असत्यम् । प्राग् अभ्युपगतानाम् असङ्कीर्तनं विसंवाद इति ।


    	रोगाद् द्वेषाद् भयाल् लोभाद् दाक्षिण्याच् छङ्कया क्रिया ।


    	दम्भात् प्रमादतश् चापि नरस्योत्पद्यते ऽनृतम् ॥


    	परप्राणोपघातार्थे परद्रव्यापहारतः ।


    	विशिष्ये ऽनृतवादस् तु न वृथा कथनादिषु ॥


    	तस्माद् अनृतहेतूंस् तान् आत्मन्य् उत्पादयेत् क्वचित् ।


    	उत्पन्नां वा प्रशमयेत् कारणैस् तद्विघातिभिः ॥

हारीतः

    दानानृतम् इज्यानृतं तपोऽनृतम् इति त्रिविधं सुकृतानृतम् । अन्नधान्यार्थवासो-रत्नहिरण्यपशुगोऽश्वकन्याभूम्यभयदानानाम् एकतमं दत्वा यो न ददाति न प्रतिपद्यते मया दत्तम् इति तद् दानानृतम् इत्य् उच्यते ।

[३१०] एवं ह्य् आह –

    	अन्नानृते जन्म हन्ति द्वे तु वासोऽनृते तथा ।


    	त्रीणि रत्नानृते हन्याच् चतुरं काञ्चनानृते ॥


    	पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।


    	शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥


    	एतत् तु द्विगुणं हन्ति कृत्वा भूम्यनृतं नरः ।


    	ततश् च द्विगुणं भूयो ऽभयं दत्वा हिनस्ति यः ॥


    यो यक्ष्य इत्य् उक्त्वा न यजेत, महान्तं वा क्रतुम् अभिसमीक्ष्य स्वल्पेनैवेष्ट्वा, न सर्वस्वम् उपयुनक्ति तत्र त्रैधातवी प्रायश्चित्तिः ।


    	यस् तु तप उपेत्य न यथार्थं तपस्यति अन्यथा वा चरते असमाप्तको वा निवर्तेत तत्राग्नेयो विधिः । चान्द्रायणं वा साधारणं नाम । यथा गोब्राह्मणहितम् आपत्कल्पः स्वैराभिधानं भवति । एवं त्व् आह ¯


    	न मर्मयुक्तं वचनं हिनस्ति


    		न स्वैरवाक्यं न च मैथुनार्थे ।


    	प्राणात्यये सर्वधनापहारे


    		पञ्चानृतान्य् आहुर् अपातकानि ॥

अर्थो तत्र प्रतिउक्तधनाद् अन्यः । “दत्वा” प्रतिश्रुत्य । “साधारणत्वम्” गुणदोषाणाम् अनुबन्धात् । यथा गोब्राह्मण**[३११]**हितानृतम् अनुज्ञातम् अपि गुरोर् हितं सदोषम् इतरत्रादोषं एवम् आपदनृतचौराभिधानानृतयोर् अपि ।

यमः [म्भ् वनपर्व ३१५.१०च] ।

न नर्मयुक्तं वचनं हिनस्ति 

	न स्त्रीषु राजन् न विवाहकाले ।

प्राणात्यये सर्वधनापहारे

	पञ्चानृतान्य् आहुर् अपातकानि ॥

देवलः

विवाहे ब्रह्महासार्थं प्राणिनां जीविताय वा ।

आत्मनः प्राणहेतोर् वा न सीदेद् अन्र्तं वचन् ॥

विवारे [विवाहे?] मैथुने । “ब्रह्महासार्थम्” ब्राह्मणर्थं हासार्थं च ।

गौतमः [३.५.२९] ।

    विवाहे मैथुननर्मान्तसंयोगेष्व् अदोषम् एके ऽनृतं ननु खलु गुर्वर्थेषु, सप्त पुरुषान् इतश् च परतश् च हन्ति मनसा गुरोर् अनृतं वदन्न् अल्पेष्व् अप्य् अर्थेषु ।

याज्ञवल्क्यः [१.१३२] ।

न संशयं प्रपद्येत नाकस्माद् अप्रियं वदेत् ।

नाहितं नानृतं चैव न स्तेनः स्यान् न वार्धुषी ॥

[३१२] अथ देवलः

    ततः स्थूलमध्यक्षुद्राणां त्रिविधानां पदर्थानां प्रसह्य तूष्णीं वा प्रच्छन्नं वा हरणं स्तेयम् ।


    	रक्षक्षेत्रवेश्महेमरूप्याभरणादीनि स्थूलानि, चतुष्पदद्विपदान्न-धान्यं लोहवस्त्रकार्षापणोपकरणादीनि मध्यानि । दन्तशृङ्गदारुचर्म-पाषाणमृण्मयादीनि क्षुद्राणि ।

“प्रसह्य” बलात्कारेण । “तूष्णीं हरणम्” स्वामिनादृश्यमानस्य बलात्कारं विना यद् धरणम् ।

हारीतः

    द्विविधम् एव द्रव्यम् आहुः – सचेतनं निश्चेतनं च । सङ्गमं स्थावरं च । सचेतनं सङ्गमम् । निश्चेतनम् अप्य् अतैजसमणिशैलौषधिवानस्पत्यं मृण्मयं रसमयं चैवम्भूतस्य दशविधानात् स्तेयं भवति ।


    	अदत्तादानाद् अनतिस्पृष्टग्रहनात्, अनिर्देशोपयोगात्, भृत्येभ्यो भृत्यदानात्, याचिता निर्यातना न्यासापलापनात्, छद्मव्यसनयोः अनुपायग्रहणाच् चेति प्रतिश्रुत्यादानाद् देवतानभिसम्बन्धाच् चैतद् दशविधं भवति । एवं ह्य् आह –


    	प्रतिश्रुत्याप्रदानेन दत्तस्याच्छादनेन च ।


    	विविधान् नरकान् याति तिर्यग्योनौ च जायते ॥

[३१३] वाचा यच् च यत् प्रतिज्ञातं कर्मणा नोपपादितम् ।

	ऋणं तद् धर्मसंयुक्तम् इह लोके परत्र च ॥

स्वामिनादत्तस्यादानं “अदत्तादानम्” । परिमाणाद् अतिरिक्तग्रहणं “अनतिसृष्टग्रहणम्” । देवपितृमनुष्यार्थे भिक्षित्वा स्वयम् उपयुञ्जानो “अनिर्देशोपयोगः” । भृत्यानां कर्म कारयित्वा “भृतेर् दानम्” ।

यावित्वा नेच्छामीत्य् अनिर्यातनं “याचितानिर्यातनम्” । विद्यामित्रकुलप्रत्ययात् न्यस्तस्यापलपनं “न्यासापलपनम्” । कूटमानतुलातस्करत्वं “छद्म” । “व्यसनाद्” अब्रह्मचारिणो हिरण्यादीनाम् आत्मार्थं प्रतिग्रहो, यतीनां चानुपायग्रहणम् ।

स्तेयिनो हि प्रमीताः पूर्वधनिनाम् उपकाराय जायन्ते । तस्मात् स्तेयम् न कुर्यान् न कारयेन् नानुमन्येत ।

“सचेतनं जीवाधिष्ठितम्” । तच् च द्विविधं स्थावरं जङ्गमं च । गतिमत् पुरुषगवादि जङ्गमम्, जरायुजाण्डजस्वेदजरूपम् । वृक्षादि उद्भिज्जम्, स्थावरम् “निश्चेतनम्” जीवानधिष्ठितम् । “आप्यम्” शङ्खादि । “तैजसम्” सुवर्णादि । व्रीहियवादि “औषधम्” । “वानस्पत्यम्” तृणकाष्ठादि । “मृण्मयम्” घटादि । “रसमयम्” क्षीरगुषादि । दशविधत्वं वक्ष्यमाणा दत्तादानादिप्रकारेण । “प्रतिश्रुत्यादानम्” “तवेदं मया देयम्” इति प्रतिज्ञाय यद् अदानम् । “देवतानभिसम्बन्धः” “इदं यागाय द्रव्यम्” इति विधाय, तस्य देवतयानभिसम्बन्धो यागाकरणात् । “धर्मसंयुक्तम्” यत् प्रतिज्ञातम् इत्य् **[३१४]** अन्वयः । “कारयित्वा” कर्मेति शेषः । “अनिर्यातनम्” अप्रत्यर्पणम् । उपकाराय जायन्ते पशुदायादिभावेनेति शेषः ।

यमः

सुवर्णम् एकं गाम् एकां भूमेर् अप्य् एकम् अङ्गुलम् ।

हरन् नरकम् आप्नोति यावद् आभूतसम्प्लवम् ॥

हिरण्यं पशुदानानि स्त्रियो वासांसि यो हरेत् ।

सपर्यायेण यातीमान् नरकान् एकविंशतिम् ॥

“नरकांश् च” प्रायश्चित्तकाण्डे वक्ष्यामः ।

आपस्तम्बः [२.२.६] ।

    स्तेनो ऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मिन् लोके ऽपरिमिते निरये वृत्ते जायते । चण्डालो ब्राह्मणः पौल्कसो राजन्यः, वैणो वैश्यः ।

स्तेनः सन् लोके यो प्रसिद्धः ।

गौतमः [२.४.१४–२२] ।

    क्षुद्रपश्वनृते साक्षी दश हन्ति । गोऽश्वपुरुषभूमिषु दशगुणोत्तरम् । सर्वं वा भूमौ । हरणे नरकः । भूमिवत् अप्सु । मिथुनसंयोगे च । पशुवन् मधुसर्पिषोः । गोवद् वस्त्रहिरण्यधान्यब्रह्मसु । यानेष्व् अश्ववत् हरणे ।

[३१५] विष्णुः [५२.१५–१७] ।

यद् यत् परेभ्यस् त्व् आदद्यात् पुरुषस् तु निरङ्कुशः ।

तेन तेनाथ हीनः स्याद् यत्र यत्राभिजायते ॥

जीवितं धर्मकामौ च धने यस्मात् प्रतिष्ठितौ ।

तस्मात् सर्वप्रयत्नेन धनहिंसां विवर्जयेत् ॥

प्राणिहिंशापरो यस् तु धनहिंसापरस् तथा ।

महद् दुःखम् अवाप्नोति धनहिंसापरस् तयोः ॥

यमः

देवद्रव्यापहर्तारं ब्रह्मस्वहरणे रतम् ।

पुरुषं पापकर्माणं नरकः प्रतिपद्यते ॥

यस् तु लब्धं पुनर् दद्याद् देवद्रव्यं यतस् ततः ।

गुरुद्रव्यं द्विजद्रव्यं सो ऽश्वमेधफलं लभेत् ॥

यद् एतद् धनम् इत्य् आहुः प्राणा ह्य् एते बहिश्चराः ।

स तस्य हरते प्राणान् यो यस्य हरते दह्नम् ॥

अपहृत्य परस्यार्थं यस् तु दानं प्रयच्छति ।

स दाता नरकं याति यस्यार्थस् तस्य तत् फलम् ॥

[३१६] परस्वपरितुष्टास् तु जीविता नरकाश् च ये ।

तेषां रजः पतेद् यत्र तद् अमेध्यतरं भवेत् ॥

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।

ब्रह्मस्वहर्ता नरके पत्नं परिवर्तते ॥

तथा

षष्टिवर्षसहस्राणि ब्रह्महा नरकं पतेत् ।

यश् च ब्राह्मणवृत्तिघ्नो यो वै पतति याजकः ॥

बृहस्पतिः

शोध्यं शुध्यति मृत्तोयैः प्रायश्चित्तैश् च पातकम् ।

ब्रह्मस्वन्यासहर्तारौ तम् अदत्वा न शुध्यतः ॥

ब्रह्महा वित्तहा चोभौ समौ स्यातां न वासमौ ।

कल्पान्ते ब्रह्महा शुध्येद् वित्तहा न कदाचन ॥

एवं ज्ञात्वा परस्वानि मनसापि न चिन्तयेत् ।

परस्त्रियो विशेषेण धर्मसारम् इदं स्मृतम् ॥

जात्यन्धो बधिरश् चैव मूकः सङ्कुचिताङ्गुलिः ।

परदारापवादेषु परछिद्रानुहिंसने ॥

एवं वृत्तस् तु पितरौ त्रायते महतो भयात् ।

वितत्येह यशो दीप्तं ब्रह्मलोके महीयते ॥

[३१७] यमः

देव द्रव्यं गुरुद्रव्यं यद् द्रव्यं पार्षदं भवेत् ।

हृत्वामुत्र नरो लोभाद् गृध्रोच्छिष्टेन जीवति ॥

चाण्डलो निजगौ गाथां **मनुः स्वायम्भुवः** पुरा ।

प्रभवामीति यो ऽश्नाति बहुसामान्यम् एककः ॥

शुनां रजस्वलानां च छर्दितं मलदूषितम् ।

तस्य संसरतो लोके वृत्तिर् एषा विधीयते ॥

चण्डालो भूत्वा जीवतीत्य् अन्वयः ।

दानबृहस्पतिः

हरते हारयेद् भूमिं मन्दबुद्धिस् तमोवृतः ।

स रुद्धो वारुणैः पाशैस् तिर्यग्योनिषु जायते ॥

स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् ।

षष्ठिवर्षसर्हस्राणि विष्ठायां जायते कृमिः ॥

षष्ठिवर्षसहस्राणि स्वर्गे गच्छति भूमिदः ।

[३१८] आहर्ता चानुमन्ता च तान्य् एव नरकं वसेत् ॥

तडागानां सहस्रेण अश्वमेधशतेन च ।

गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति ॥

अन्यायेन हृता भूमिर् अन्यायेन च हारिता ।

हरन्तो हारयन्तश् च हन्युस् त्रिपुरुषं कुलम् ॥

ब्रह्मस्वं प्रणयाद् भुक्तं हन्याद् आसप्तमं कुलम् ।

विक्रमेण च भुक्तं तद् दशपूर्वान् दशापरान् ॥

ब्रह्मस्वे मा मतिं कुर्यात् प्राणैः कण्ठगतैर् अपि ।

अग्निदग्धानि रोहन्ति ब्रह्मदग्धं न रोहति ॥

न विषं विषम् इत्य् आहुर् ब्रह्मस्वं विषम् उच्यते ।

विषम् एकाकिनं हन्ति ब्रह्म्स्वं पुत्रपौत्रकम् ॥

लोहचूर्णाश्वचूर्णे च विषं च जरयेन् नरः ।

ब्रह्मस्वं त्रिषु लोकेषु कः पुमाण् जरयिष्यति ॥

विन्ध्याटवीष्व् अतोयासु शुष्ककोटरवासिनः ।

कृष्णसर्पाश् च जायन्ते ब्रह्मदायापहारकाः ॥

ब्रह्मपुराणे

सामान्यां दक्षिणां लब्ध्वा गृह्णात्य् एको विमोहितः ।

[३१९] नास्तिक्यभावनिरतः स च प्रेतो ऽभिजायते ॥

हारीतः

अस्तेयं परमो धर्म इति धर्मविदो विदुः ।

परद्रव्यापहर्तॄणां न शुभा विद्यते गतिः ॥

[३२०]

१९

अथ् स्तेयापवादः

तत्र आपस्तम्बः [१.२८.१–५] ।

    यथा कथा च परपरिग्रहम् अभिमन्यते स्तेनो ह भवतीति **कौत्स-हारीतौ** । तथा **काण्व-पौष्करसादी** । सन्त्य् अपवादाः परपरिग्रहेष्व् इति **वार्ष्यायणिः** । शम्योषा युग्यघासो न स्वामिनः प्रतिषेधयन्ति । अतिव्यवहारो व्यरुद्धो भवति । शिवोषायुग्यघासो ऽस्वामिनः प्रतिषेधे । सर्वत्रानुमतिर् पूर्वम् इति **हारीतः** ।

यथा कथञ्चिद् इत्य् अर्थे यथाकथेति छान्दसः प्रयोगः । एवं विधिं परपरिगृहीतम् अदीयमानम्, परेण परिग्रहः परस्वम्, “अभिमन्यते” स्वीकरोति । “शम्योषा” मुद्गचणकादीनां बीजकोषः । “उषा” अभ्यषाख्यायवादिकणिशाः । “युग्यानाम्” वाहनानाम् । “घासो” यवसः । एवं विधिं यस् तु प्रिगृहीतम् आदीयमानं परेण तत्स्वामिनां “प्रतिषेधयन्ति” निवारयन्ति । “अतिव्यवहारो” अतिमात्रग्रहणम् । “विरुद्धो” निषिद्धः ।

[३२१] यमः

अस्तेयम् अग्नये काष्ठम् अस्तेयं च तृणं गवे ।

कन्याहरणम् अस्तेयं यो हरत्य् अनलङ्कृताम् ॥

पुष्पे शाकोदके काष्ठे तथा मूलफले तृणे ।

अदत्तादानम् एतेषाम् अस्तेयं तु **यमो** ऽब्रवीत् ॥

तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद् द्विजः ।

गोब्राह्मणार्थे गृह्णन् वै न स पापेन लिप्यते ॥

मनुः [८.३३९] ।

वानस्पत्यं मूलफलं दार्वग्न्यर्थे तथैव च ।

तृणं च गोभ्यो घासार्थम् अस्तेयं **मनुर्** अब्रवीत् ॥

“वानस्पत्यम्” वनस्पतिप्रभवं पत्रादि । “अग्न्यर्थम्” आहितस्याग्नेः समिन्धनार्थम् ।

[३२२] देवलः

अस्तेयम् अग्नये काष्ठम् अस्तेयं पशवे तृणम् ।

अस्तेयं फलम् आरण्यम् अस्तेयं पार्थिवं जलम् ॥

गौतमः

    गोऽग्न्यर्थ्ये तृणमेधन् (धान्?) वीरुद्वनस्पतीनां पुष्पाणि स्वयम् आददीत । फलानि वापरिवृत्तानाम् ।

“अपरिवृत्तानाम्” अपरिरक्षितानाम् ।

याज्ञवल्क्यः

द्विजस् तृणैधःपुष्पाणि (?) सर्वतः समुपाहरेत् ।

“सर्वतः” रक्षिताद् अपि ।

हारीतः

    पूर्वाश्रमयोर् नेक्षुद्वयग्रहणे स्तैन्यम् । तथा मूत्रपुरीषादीनां पाण्योः शाकपरिमाणे एकपाणेः । शमीनां बहवस् तद्वत् <span style="text-decoration:underline;">एके</span> । रक्ष्यवृक्षाणां तत्स्थान्तक्षणे स्तोकग्रहणे वा अन्येषां सुमनसां वार्चापिनहने अग्न्यर्थे तृणकाष्ठानां यवसोदकेन गवां च अस्तैन्यम् ।

[३२३] “पाण्योः शाकपरिमाणे” पाणिद्वयपरिमिते शाके । पाणिः शमीनां परिमाण इत्य् अनुषङ्गः । एकपाणिपरिमितानां शमीनाम् इत्य् अर्थः । “रक्ष्यो” रक्षणीयः । “अर्चापिनहनम्” प्रतिमाच्छादनम् ।

शङ्खलिखितौ

    तिलमुद्गमाषयवगोधूमादीनां शस्यमुष्टिग्रहणेष्व् अदोषः पथिकानाम् अप्य् अपथ्यदलानां तथेक्षोर् मुलकयोः शाकपुष्पफलप्रचायने च । विदितस्य प्रकाशं गृह्णतो न दोषः ।

“शस्यम्” फलम् । “अपथ्यदलानाम्” सम्बलरहितानाम् । “विदितस्य” आख्यातस्य साधुत्वेनेति शेषः ।

बृहस्पति-कात्यायनौ

त्रपुणेर्वारुके (?) द्वे तु पञ्चाम्रं पञ्चदाडिमम् ।

खर्जूरबदरादीनां मुष्टिं गृह्णन् न दोषभाक् ॥

“उर्वारुकम्” कर्कटी ।

नारदः

शालिव्रीहिप्रसूतानां मुष्टिर् ग्राह्यो विधीयते ।

[३२४] यवगोधूमयोर् वापि यदि वा मुद्गमाषयोः ॥

अनिषिद्धैर् (?) गृहीतव्यो मुष्टिर् एकः पथि स्थितैः ।

शाकं शाकप्रमाणेन गृह्यमाणं न दुष्यति ॥

ग्रहीतव्यानि पुष्पाणि देवतार्चनकारणात् ।

अदत्तादायिनं विद्याद् यदि त्व् अधिकम् इच्छति ॥

“शाकप्रमाणम्” हारीतोक्तं मुष्टिद्वयम् ।

वृद्धमनुः

चणकव्रीहिगोधूमयवानां मुद्गमाषयोः ।

अनिर्बद्धैर् गृहीतव्यो मुष्टिर् एकः पथि स्थितैः ॥

“अनिर्बद्धैः” असम्बद्धैः अस्वामिभिर् इति ।

यमः

पथिकः क्षीणवृत्तिस् तु द्वाव् इष्क्षू द्वे च मूलके ।

आददानः परक्षेत्रे न दोषं ब्राह्मणो ऽर्हति ॥

[३२५]

२०

अथ शौचम्

अत्र हारीतः

    शौचं नाम धर्मादिपथो ब्रह्मायतनं श्रियोधिवासो, मनसः प्रसादनम्, देवानां प्रियम्, शरीरे क्षेत्रज्ञदर्शनं बुद्धिप्रबोधनम् । तच् च शौचं द्विविधम् उपरिष्टाद् वक्ष्यामः । एवं ह्य् आह –


    	शुचिं देवा हि रक्षन्ति पितरः शुचिम् अन्वयुः ।


    	शुचेर् बिभ्यति रक्षांसि ये चान्ये दुष्टचारिणः ॥

“धर्मादिपथः” धर्मस्य प्रथमो मार्ग उपाय इति यावत् । शुचेर् एव कमण्य् अधिकारात् । “ब्रह्मायतनम्” वेदाश्रयः । क्षेत्रज्ञम् आत्मानं दर्शयतीति “क्षेत्रज्ञदर्शनम्” । “द्विविधम्” हारीतेन्ऐव वक्ष्यमाणं बाह्यम् अभ्यन्तरं च ।

    तत्र बाह्यं कुलशौचम् अर्थशौचं शारीरं च । तत्र कुलशौचं सूतकाद्यशौचविरः । अर्थशौचं भोजनादिद्रव्याणां शुद्धिः । शारीरं शौचम् अमेध्यादिलेपप्रक्षालनम् ।

[३२६]

    आभ्यन्तरशौचं पञ्चविधम् । तद् यथा मानसं चाक्षुषं घ्राणं वाच्यं खाद्यं चेति । तत्र मानसम् – अपुण्याभिधानदोषविरहः ।

दक्षः

शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः ।

शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः ॥

हारीतः

भ्रष्टशौचं नरं दृष्ट्वा प्रहरन्तीह राक्षसाः ।

यक्षाः पिशाचा भूतानि ये चान्ये ऽप्य् एवमादयः ॥

ज्ञानं दानं तपस् त्यागः मन्त्रकर्मविधिक्रियाः ।

मङ्गलाचारनियमाः शौचभ्रष्टस्य निष्फलाः ॥

यमः

इष्टं निवेदितं दत्तं भुक्तं जप्तं तपः श्रुतम् ।

यातुधानाः प्रलुप्यन्ति शौचभ्रष्टाद् द्विजन्मनः ॥

शातातपः

शौचहीनाश् च ये विप्रा न च यज्ञोपवीतिनः ।

हुतं दत्तं तपस् तेषां विनश्येन् नात्र संशयः ॥

[३२७]

२१

अथ ब्रह्मचर्यम्

तत्र हारीतः

    ब्रह्मचर्यं नाम दिव्यमानुशीणां तथा चित्रार्थकाष्ठपोतस्थमृण्मया-दीनाम् अप्य् अप्रार्थनम् अस्मरणम् असङ्कल्पनम् अनभिप्रेक्षणम् असङ्कीर्तनम् अनभिभाषणम् अनभिगमनम् असन्दर्शनम् असमागमश् चासाम् ।


    	तच् च ब्रह्मचर्यं चतुर्विधं भवति । तत्र परदारवर्जनं नित्यम् । स्वदाराभिगमनं कृष्णम् । पर्वनियमवर्जं रक्तम् । ऋतुकालाभिगमनं शुक्लम् । ऊर्ध्वरेतस्त्वं विमलम् । एवं ह्य् आह ।


    	कृष्णेनेमं जयेल् लोकं मध्यं रक्तेन वै जयेत् ।


    	शुक्लेन तु जयेत् स्वर्गं विमलान् मोक्षम् आप्नुयात् ॥

“दिव्या” ऊर्वश्याद्याः शास्त्रावगताः । “पोतस्थाः” पोतं प्रतिमाकरणं रजतादि तत्स्थाः तन्निर्मिताः । “अप्रार्थनम्” सा मे भूयात् इत्य् आशंसाविरहः । “असङ्कल्पम्” एवं करिष्यामीत्य् अभिधानाभावः । “अनभिप्रेक्षणम्” अभिमुखानभिलोकनम् । “असन्दर्शनम्” सकलावयवानवलोकनम् । “असमागमः” असन्निधानम् । पर्वनियमवर्जम्, पर्वणि अमावास्यादौ, नियमे व्रतादौ इति यमाः ।

[३२८]

२२

अथ नियमाः

तत्र **हारीतो यमश् **चान्त्यश्लोके ।

    क्रोधनियमश् चार्जवम् अकल्पता सन्तोषो गुरुशुश्रूषा चेति नियमाः । ततो नियमाः, वाङ्नियमः कर्मनियमश् चेति । क्रोधनियमाः मानसात् क्रोधात् चित्तपरितापात् पीड्यमानस्य कार्श्यवैवर्ण्यवैरूप्यादयो व्याधयः सम्भवन्ति ।


    	अहङ्कारेर्ष्यासूयाद्वेषपरोपतापादीन च क्रोधरूपाणि । वाग्लक्षणाद् अप्रियपरुषवादिता नानाविधवाक्प्रदानादयः । कर्मलक्षणाः केशग्रहणसम्प्रहारादयः । अपरशरीरप्रयोगकराश् चेति ।


    	यैर् उपसृष्टः सन् विद्वान् अप्य् अवसादम् उपैति तस्माद् एतान् वर्जयेत् ।


    **[३२९]** एवं ह्य् आह ।


    	आक्रुष्टस् ताडितः क्षिप्तः क्षमते यो न कुप्यति ।


    	स तस्य दुष्कृतं दत्वा सुकृतं सर्वम् आप्नुयात् ॥ इति ।

“तस्य” आक्रोशनादेः ।

यमः

    क्रोधनो यजति जुहोति यद् वा तपस् तप्यति वैरोचनेस् तद् धरते अस्य सर्वं मोघश्रमो भवति ।

“अस्य” क्रोधनस्य । “वैरोचनिः” बलिः ।

हारीतः

    निष्कृतिर् नियमो ऽजैह्मं नियमश् चार्जवम् । छद्म माया व्याजयुक्ताधिकृतिः । काठिन्यशाठ्यवैषम्यादौष्ट्यं सद्भावयुक्तं जीह्मं तद् एते सन्नियम्यार्जवं भवति । एवं ह्य् आह ।


    	जैह्मं मृत्युपदं प्राहुर् निष्कृतिं तमसः पदम् ।


    	सर्वभूतात्मभूतत्वाद् आर्जवं ब्रह्मणः पदम् ॥


    स्मयनियमः सूनानियमः सेवानियमो ऽदम्भनियमः चेत्य् अकल्कता । 


    **[३३०]** ज्ञान-दान-तप-ऐश्वर्य-भोग-विशेषैः स्मयं वर्जयेत् । स्मयोपपन्नास् तेजसावपन्नाः सम्भवन्ति । पञ्चसूनासम्भूतं पापमयम् इत्य् उच्यते । अर्थिनो हि प्रेतभूता बीजवज् जायन्ते । तस्मान् नात्मर्थे सूनाः कारयेत् । त्रिविधशिल्पप्रयोगैः सेवाविशेषैः । परान् अन्नार्थं नोपचरेत् । अविद्वान् विद्वत्तां ख्यापयत्य् अदाता दानम्, अयज्वा यज्ञम्, अतपस्वी तपो नाश्रम्य् आश्रमार्थं लिप्सन् । तेनैव वृत्तानां दुष्कृतं भवति । एवं ह्य् आह ।


    	किं तेन न कृतं पापं चौरेणात्मापहारिणा ।


    	यो ऽन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते ॥

“छद्म” छलम् । “माया” कौटिल्यम् । “व्याजः” अर्थान्तरोपन्यासः । “काठिन्यम्” निष्करुणता । “शाठ्यम्” अपार्थाय हृदये रागादिप्रदर्शनम् । “वैषम्यम्” निगूढपरद्रोहाभिसन्धानम् । “दौष्ट्यम्” परसुखासहिष्णुत्वम् । एते निष्कृतिः जैह्मं स्मयो दर्पः । “अवपन्नाः” हीनाः “बीजवज् जायन्ते” इति । यथा बीजात् समानम् एव कार्यं जायते, तथा आधिनो ऽपि समानरूपा एव जायन्ते । अर्थग्रहणाद् विद्याद्यर्थम् अदोषः । एवं वृत्तानां विद्वदानीनां [-दीनां?] प्रतिपद्यत इत्य् अन्तर्भावितण्यर्थः ।

[३३१] मनुः

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।

व्रतेन पापं सञ्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥

प्रेत्येह चेदृशा विप्रो गर्ह्यते ब्रह्मवादिभिः ।

छद्मनाचरितं तच् च व्रतं रक्षांसि गच्छति ॥

अलिङ्गी लिङ्गिवेषेण यो वृत्तिम् उपजीवति ।

स लिङ्गिनां हरत्य् एनस् तिर्यग्योनौ च जायते ॥

यमः

सर्वत्र विद्यते व्याजो धर्मे व्याजो न विद्यते ।

व्याजोपहतधर्माणां स्वर्गे वासो न विद्यते ॥

तपो न कल्को ऽध्ययनन्न कल्कः

	स्वाभाविको वेदविधिर् न कल्कः ।

प्रसह्य वित्ताहरणं न कल्कः 

	तान्य् एव भावोपहतानि कल्कः ॥

“कल्कः” पापम् । “स्वाभाविकः” नौपाधिकः । “प्रसह्य वित्ताहरणम्” अत्र भ्रान्त्या न कर्मणा वा स्वाम्यननुमतवस्तुग्रहणम् ।

अत्र हारीतः

    सूनानियमी सेवानियमी स्तेयाविक्रेयविक्रयी **[३३२]** अयाज्ययाजनासत्प्रतिग्रह-शूद्रश्रावणभृतकाध्यापनानुयोगप्रतिग्रहनिवृत्त्यालोभनियमी सन्तुष्टो भवति । एवं ह्य् आह ।


    	सन्तोषः परमो धर्मः सन्तोषः परमं सुखम् ।


    	सन्तोषः परमं श्रेयः सन्तोषः परमं यशः ॥


    	सन्तोषः परमा सिद्धिः सन्तोषः परमं सुखम् ॥ इति ।

“शूद्रश्रवणम्” [सुपात्रताख्यापनार्थे शूद्रस्याग्रे वेदादिपाठः] । “अनुयोगः प्रतिग्रहः” पाटनिकापूर्वकः “प्रतिग्रहसन्तोषः परमो” धर्म इति धर्मादीनां सन्तोषमूलकत्वात् तदभेदेनोपचारः ।

गुरुशुश्रूषा नाम शासनधर्मनिमित्तं क्रियते । तत्र ज्ञाननिष्क्रियार्थं गुरुशुश्रूषां कुर्यात् । शुश्रूषास्वरूपनिवृत्तौ **ब्रह्मचारिकाण्डे **अभिहितौ ।

पुनर् हारीतः

यमेषु नियमेषु वा प्रसन्नस्

	तिष्ठति [याति] लोकान् वरिष्ठान् ।

भ्रष्टस् तेभ्यो विविधा याति योनीः

	यासूत्पन्नो मज्जते यातनासु ॥

[३३३] तस्माद् वीरः शुश्रुवान् न्यायवृत्तो

	यस्मिन् यशो न व्यथते नापि धर्मः ।

धर्मो ह्य् एकः सुसहायो जनानां

	य एतान् घोरान् त्रायते मृत्युदुर्गात् ॥ इति ।

इति भट्टश्रीमल्लक्ष्मीधरविरचिते गृहस्थकाण्डे यमनियमाः ।

[३३४]

२३

अथ कुलनाशकानि

तत्र यम-शातातप-दानव्यासाः

देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ।

कुलान्य् अकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥

“देवद्रव्यम्” देवतोद्देशेन यत् त्यक्तं वस्तु ।

यमः

गोभिः पशुभिर् अश्वैश् च कृष्या वसुसमृद्धया ।

कुलान्य् अकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥

[मनुः] ।

शिल्पेन व्यवहारेण शूद्रापत्यैश् च केवलैः ।

गोभिर् अश्वैश् च यानैश् च कृष्या राजोपसेवया ॥

अयाज्ययाजनं चैव नास्तिक्येन च कर्मणा ।

कुलान्य् अकुलतां यान्ति यानि हीनानि मन्त्रतः ॥

मन्त्रतस् तु समृद्धानि कुलान्य् अल्पधनान्य् अपि ।

कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद् यशः ॥

[३३५] “शिल्पम्” चित्रादिकर्म । “व्यवहारः” ऋणप्रदानादि । “यानैः” शकटादिभिः । “सेवा” अन्यभावेन पराराधनम् । “नास्तिक्यकर्म” नास्ति स्वर्गादिफलम् एतेन कर्मणेति बुद्धिः ।

दक्षः

अनृतं पारदार्यं च तथाभक्ष्यस्य भक्षणम् ।

अगम्यागमनं चैव हिंसा स्तेयं तथैव च ॥

अश्रौतधर्माचरणं मैत्रधर्मबहिष्कृतम् ।

एतानि नव कर्माणि पातकानि च वर्जयेत् ॥

“मैत्रधर्मबहिष्कृतम्” मैत्रीधर्मयोर् बहिष्करणं त्याग इत्य् अर्थः ।

[३३६]

२४

अथ निवासः

तत्र बृहस्पतिः

निवासमुख्यो विप्राणाम् आचारः समुदाहृतः ।

गुणदोषसमुद्भूतिर् लोके संसर्गजा स्मृता ॥

भूमिमाल्यकुशधान्यशष्पाम्बुद्विजनैगमे ।

निष्कण्टके धार्मिके च वसेत् स्थाने निरामये ॥

“शष्प” अत्र घासः । “नैगमो” वाणिजकः । “कण्टको” अत्र चौरादिः । “धार्मिके” धार्मिकबहुले । “निरामये” देशे स्वभावजरोगशून्ये ।

आपस्तम्बः [१.१५.२२] ।

    प्रभूतैधोदके ग्रामे यत्रात्माधीनं प्रयमणं तत्र वासो धर्म्यो ब्राह्मणस्य ।

“प्रयमणम्” पवित्रीकरणं जलगोमयकुशादि ।

बौधायनः [२.६.३१–३३] ।

    प्रभूतैर् यवसैधोदक[समित्]कुशमाल्योपनिष्क्रमणम् आढ्यजनाकुलम् अनलससुसमृद्धम् आर्यजनाधिष्ठितम् अदस्युप्रतिवेशं ग्रामं वासयितुं यतेत धार्मिकः ॥


    	उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः ।


    	उषित्वा द्वादश समाः स शौद्रं धर्मम् ऋच्छति ॥


    पुररेणुगुण्ढितशरीरस् तत्पूर्णनेत्रवदनश् च नगरे वसन् सन्नियतात्मा सिद्धिम् अवाप्स्यतीति । न तद् अस्ति ।


    	रथाश्वगजदान्यानां गवां चैव रजः शुभम् ।


    	अप्रशस्तं समूहन्याः श्वाजाविभिर् अवाससाम् ॥

“उपनिष्क्रमणम्” निर्गमनमार्गः । “अनलसः” उद्यमी । “अदस्युप्रतिवेशं” असन्निहितचौरम् । “उदपानोदके” कूप एवोदकं यत्रेत्य् अर्थः । “नगरे” पुरे । “पुरः” [३३८] मार्कण्डेयपुराण्ओक्तं [४९.४३] यथा ।

सोत्सेधम् उच्चप्राकरं सर्वतः परिखावृतम् ।

योजनार्द्धार्धविष्कम्भम् अष्टभागायतं पुरम् ।

इति तात्पर्यार्थः ।

यमः

एककूपोदके ग्रामे ब्राह्मणो वृषलीपतिः ।

वर्षेण शूद्री भवति कृष्णवर्णम् उपाश्रितः ॥

“कृष्णवर्णः” शूद्रः ।

आपस्तम्बः [१.३२.१८–२१] ।

    क्षुद्रान् क्षुद्राचरितांश् च देशान् न सेवेतादसतां (?) समाजांश् च । समाजं चेद् गच्छेत् प्रदक्षिणीकृत्योपेयात् । नगरप्रवेशनानि वर्जयेत् ।

“क्षुद्रान्” जलादिना सङ्कुचितप्रचारदेशान् । “क्षुद्राचरितान्” निषादादिभिर् अध्युषितान् । “नगरप्रवेशनानि” नगरं प्रविश्यते यैः प्रदेशैः तानि । वासार्थं न सेवेतेत्य् अर्थः ।

मनुः [४.६०–६१, ७९] ।

नाधार्मिके वसेद् ग्रामे व्याध्यादिबहुले भृशम् ।

नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥

न शूद्रराज्ये निवसेन् नाधार्मिकजनावृते ।

[३३९] न पाषण्डजनाक्रान्ते नोपसृष्टे ऽन्त्यजैः नृभिः ॥

न संवसेच् च पतितैर् न चाण्डालैर् न पुल्कसैः ।

न मूर्खैर् नावलिप्तैश् च नान्त्यैर् नान्त्यावसायिभिः ॥

“अधार्मिकजनावृते” अधार्मिकजना येषु ग्रामेषु तैर् वेष्टितेषु ।

विष्णुः [७१.६४–६८] ।

न शूद्रराज्ये निवसेत् । नाधार्मिकजनाकीर्णे । 

न संवसेत् वैद्यहीने नोपस्पृष्टे न चिरं पर्वते ।

उशनाः

नष्टपतिताभिशस्तलोकनिन्दिताचारैः न सह संवसेत् ।

व्यासः

तत्र तेन न वस्तव्यं यत्र नास्ति चतुष्टयम् ।

ऋणप्रदाता वैद्यश् च श्रोत्रियः सजला नदी ॥

तत्र तावन् न वस्तव्यं यत्रैतत् त्रितयं सदा ।

जिगीषुः पूर्ववैरी च जनश् च सततोत्सवः ॥

**मार्कण्डेयपुराणे **[३४.११३–११६] ।

जितामित्रो नृपो यत्र बलवान् धर्मतत्परः ।

तत्र नित्यं वसेत् प्राज्ञः कुतः कुनृपतौ सुखम् ॥

[३४०] पौराः सुसंहताः यत्र सततं न्यायवर्तिनः ।

यत्रामात्सरिणो लोकास् तत्र वासः सुखोदयः ॥

यस्मिन् कृषीवला राष्ट्रे प्रायशो नातिभोगिनः ।

यत्रौषधान्य् अशेषाणि वसेत् तत्र विचक्षणः ॥

तथा

वसेन् नित्यं सुशीलेषु सहवासिषु पण्डितः ।

यत्र अप्रधृष्यो नृपतिर् यत्र सस्यप्रदा मही ॥

महाभारते

यत्रागमयमानानाम् असत्कारेण पृच्छताम् ।

प्रब्रूयाद् ब्राह्मणो धर्मं त्यजेत् तं देशम् आत्मवान् ॥

“आगमयमानानाम्” तर्जनं कुर्वताम् ।

शिष्योपाध्यायिकावृत्तिर् यत्र स्यात् सुसमाहिता ।

यथावच् छास्त्रसम्पन्ना कस् तं देशं परित्यजेत् ॥

आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर् विपश्चितः ।

आत्मपूजाभिकामा वै को वसेत् तत्र पण्डितः ॥

“आकाशस्था” अप्रशस्तुभाः ।

तथा

यत्र सन्तापिता लुब्धैः प्रायशो धर्मसेतवः ।

प्रदीप्तम् इव चैलान्तं कस् तं देशं न सन्त्यजेत् ॥

[३४१] “धर्मसेतवः” धर्ममर्यादाव्यवस्थापकाः । “चैलम्” वस्त्रम् ।

यत्र धर्मम् अनाशङ्काश् चरेयुर् वीतमत्सराः ।

चरेत् तत्र वसेच् चैव पुण्यशीलेषु साधुषु ॥

धर्मम् अर्थनिमित्तं च चरेयुर् यत्र मानवाः ।

न तत्र तु वसेज् जातु ते हि पापकृतो जनाः ॥

कर्मणा यत्र पापेन वर्तन्ते जीवितेप्सवः ।

व्यवधावेत् ततस् तूर्णं सपर्यास्तरणाद् इव ॥

“व्यवाधावेत्” (?) वेगेनापसरेत् ।

यत्र राजा न राज्ञश् च पुरुषाः प्रत्यनन्तराः ।

कुटुम्बिनाम् अग्रभुजस् त्यजेत् तद् राष्ट्रम् आत्मवान् ॥

श्रोत्रियास् त्व् अग्रभोक्तारो धर्मनित्याः सनातनाः ।

याजनाध्यापनभुजो यत्र तद् राष्ट्रम् आवसेत् ॥

स्वाहा स्वधा वषट्कारा यत्र सम्यग् अनुष्ठिताः ।

अजस्रं चैव वर्तन्ते वसेत् तत्राविचारयन् ॥

अशुचीन् यत्र पश्येत ब्राह्मणान् वृत्तिकार्षितान् ।

त्यजेत् तद् राष्ट्रम् आसन्नम् उपस्पृष्टम् इत्वामिषम् ॥

प्रीयमाणा नरा यत्र पप्रच्छेयुर् अयाचिताः ।

स्वस्थचित्तो वसेत् तत्र कृतकृत्य इवात्मवान् ॥

दण्डो यत्राविनीतेषु सत्कारश् च कृतात्मसु ।

[३४२] देवलः

अरण्यं देवतास्थानं तीर्थान्य् आयतनानि च ।

तस्मात् तेषु मृता लोके यान्ति लोकान् दिवौकसाम् ॥

“अरण्यम्” नैमिषादि । “तीर्थम्” गङ्गादि । “आयतनम्” अविमुक्तादि । एतानि देवस्थानानि । तस्मात् तेषु तिष्ठन्तीत्य् अन्वयः ।

इति निवासः ।

[३४३]

२५

अथ वाच्यावाच्यम्

तत्र मनुः [४.१३९] ।

भद्रं भद्रम् इति ब्रूयाद् भ्द्रम् इत्य् एव वा वदेत् ।

शुष्कवैरं विवादं च न कुर्यात् केनचित् सह ॥

“भद्रम् भद्रम्” इति प्रथमं भद्रपदं भद्रेतरवस्तुपरम् । द्वितीयं भद्रपदं तत्पर्यायपरम्, “न भद्रं भद्रम् इति ब्रूयात् पुण्यं प्रशास्तम् इति एव ब्रूयात्” इति आपस्तम्बदर्शनात् [१.३१.१३–१४] । “भद्रम् इत्य् एव” इति । भद्रपदम् एव तत्रार्थे प्रयोक्तव्यम् । “शुष्कम्” निष्प्रयोजनम् ।

विष्णुपुराणे [३.१२.२२–२३] ।

विरोधं नोत्तमैर् गच्छेन् नाधमैश् च सदा बुधः ।

विवाहश् च विवादश् च तुल्यरूपैः सहेष्यते ॥

नारभेत कलिं प्राज्ञः शुष्कं वैरं विवर्जयेत् ।

अप्य् अल्पहानिः सोढव्या वैरेणार्थागमं त्यजेत् ॥

[३४४] विष्णुः [७२.७२–७५] ।

    नाश्लीलं कीर्तयेत् नान्र्तं नाप्रियं न काञ्चित् मर्मणि स्पृशेत् ।

“मर्म” अत्र गोप्यदूषणम् ।

आपस्तम्बः [१.३१.८–११] ।

    गोर् दक्षिणानां कुमार्याश् च परीवादान् विवर्जयेत् । स्पृहयन्तीं गां नाचक्षीत । संस्पृष्टां च गां वत्सेनानिमित्ते । नाधेनुं अधेनुर् इति ब्रूयात् । धेनुम्भव्येत्य् एव ब्रूयात् ।

गोः अदक्षिणाया अपि दक्षिणानां वस्त्रहिरण्यादीनां दक्षिणात्वे कल्पितानाम् । “स्पृहन्ती” धानादि भक्षयितुं प्रवृत्ताम् । “संस्पृष्टां” वत्सेन पाययितुम् इति शेषः । “अनिमित्ते” ऋतुवैगुण्यनिमित्ताभावे । सत्ताभ्यो धर्मवादोहन्वप्रकथने सति न दोषः । धेनुं भव्यशब्दो धेनुर् भविष्यतीत्य् अर्थो “धेनोर् भव्यायां च नुम् वक्तव्यः” इति नुमागमः ।

शङ्खलिखितौ

    नेन्द्रधनुश् चन्द्रसूर्यपरिवेषोल्कः परस्मै कथयेत् । आत्मनः प्रतिकूलं न महाजनविरोधं कुर्यात् । न गोष्ठिभिः सम्बध्येत् ।

[३४५] “महाजनविरोधम्” महाजनप्रतिकूलम् । महत्वं वेदार्थज्ञानादिना । “गोष्ठीभिः” वृथा सङ्कथाभिः ।

आपस्तम्बः [१.३१.१७] ।

    नासौमे सपत्न इति ब्रूयात् यद्य् असौमे सपत्न इति ब्रूयात् द्विषन्तं भ्रातृव्यं जनयेत् ।

पैठीनसिः

    मत्तप्रमत्तोन्मत्तैः सह सम्भाषां न कुर्वीत न परस्त्रियं रहसि सम्भाषेत् ।

“अप्रमत्तो” अनवहितः ।

साङ्ख्यायनगृह्यम् [४.११.६] ।

सूतिकोदक्याभ्यां न संवदेत् ।

गौतमः [१.९.१७–२५] ।

    न म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेत । सम्भाष्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन सह सम्भाषेत । अधेनुं धेनुभव्येति । अभद्रं भद्रम् इति । कपालं भगालम् इति । मणिधनुर् इतीन्द्रधनुः । गां धयन्तीं परस्मै नाचक्षीत न चैनां धारयेत् ।

[३४६] पारस्करः [२.७.१०.११] ।

गर्भिणीं विजन्येति ब्रूयात् । सकुलम् इति नकुलम् ।

यमः

    तिथिं पक्षं च न ब्रूयान् न नक्षत्राणि निर्दिशेत् । अद्य द्वितीया इदं नक्षत्रम् इति अकारणे न ब्रूयात् ।

देवलः

जीवेति क्षुवतो ब्रूयाज् जीवेत्य् उक्तः सहेति च 

सहेति चेति एकवचनप्रयोगाच् जनितक्रोधप्रतिषेधः ।

शङ्खलिखितौ

    न परक्षेत्रागारे गां चरन्तीं यापयन्तीं चान्यस्मै कथयेत् । न गोब्राह्मणोपरोधे अश्नीयात् । न वाह्यमाने वाह्यताम् इति ब्रूयात् ।

“उपरोधे” आसेवने ।

बौधायनः [२.६.२०] ।

अयुक्ता रूक्षाः परुषा वाचो न ब्रूयात् ।

हारीतः

न गां धयन्तीं परवल्लभक्षेत्रावतीर्णां वाचक्षीत ।

पैठीनसिः

न परक्षेत्रे गां चरन्तीम् आचक्षीत पिबन्तं वा परवत्सम् ।

[३४७] आपस्तम्बः [१.३६.१०] ।

वर्जयेत् स्तुतिश् च गुरोः प्रसक्तं यथा सुस्स्नातम् इति ।

“सुस्स्नात्म्” इति स्नानप्रशंसा ।

पुनर् आपस्तम्बः [२.५.११–१३] ।

    वाक्येन वक्यस्य प्रतीघातम् आचार्यस्य वर्जयेच् छ्रेयसां च । सर्वभूतपरीवादां आक्रोशांश् च । विद्यया च विद्यानाम् ॥

श्रेयसीं प्रशस्तानां विद्यया च विद्यानां प्रतीघातम् इत्य् अन्वयः ।

साङ्ख्यायनगृह्यम् [४.१२.९–१०] ।

    न जनसमवायं गच्छेन् नोपविशेत् । समेत्य नाक्रोशने ऽपि पिशुनो ऽकुलम् कुलं नेति हेति ह स्यात् । 

कुलं कुलप्रयोजनं परगृहगमनशीलः । इति हेतिह वृत्तम् इति प्रकाशनपरः ।

महाभारते

पण्यानां शोभनं पण्यं कृषीणां सिध्यतां कृषिः ।

बहुकारं च सस्यानां बाह्ये ऽवाह्यं तथा गवाम् ॥

सम्पन्नं भोनजे ब्रूयात् पानीये तर्पणं तथा ।

अमृतं पायसे ब्रूयाद् यवाग्वां कृषरे तथा ॥

[३४८] श्मश्रुकर्मणि सम्प्राप्ते क्षुते स्नाने च भोजने ।

व्याधितानां च सर्वेषाम् अन्य्ष्यम् अभिनन्दनम् ॥

महात्मनां च गुह्यानि न वक्तव्यानि कर्हिचित् ।

त्वङ्कारं नामधेयं च ज्येष्ठानां परिवर्जयेत् ॥

अधराणां समानानाम् उभयेषां न दुष्यति ।

“पण्याणां शोभनं पण्यम्” इति, पण्यानां कृते शोभनम् एतत् पण्यम् इति ब्रूयात् । “बहुप्रकारः” बहुशस्यम् अस्त्व् इत्यादि । “वाह्यावाह्यन् तथा गवाम्” इति, गवां मध्ये वाह्यं दान्तं वाहयोग्यं वाह्यम् इति ब्रूयात् । “आयुष्यम्” इति नन्दनं ब्रूयाद् इत्य् अर्थः । “अवराणाम्” कनीयसाम् ।

विष्णुः

न विगृह्य कथां कुर्यात् ।

“विगृह्य” आक्षिप्य ।

यम-पैठीनसी

अनिन्द्या ब्राह्मणा गावः काञ्चनं सलिलं स्त्रियः ।

पृथिवी च षड् एतानि यो निन्दन्ति स निन्दितः ॥

[३४९] हारीतः

    न देवगुरुब्राःमणपरिवाहं (-वादं?) कुर्यान् न चैषां दीयमानं प्रतिवारयेत् ।

चाण्डालशपथेषु वराहपुराणे

पूर्वभुक्तां स्त्रियं यस् तु निन्देत् सर्वाङ्गसुन्दरीम्।

निन्दते यौवनभ्रष्टां तेन पापेन लिप्यताम् ॥

भुक्त्वा परस्य चान्नानि यस् तु निन्दति निर्घृणः ।

तेन पापेन लिपते ऽहं यद्य् अहं नागमे पुनः ॥

श्रुत्वा परस्य वाक्यानि भवेद् यन् मन्त्रभेदनात् ।

तेन पापेन लिपयेहं यद्य् अहं नागमे पुनः ॥

ब्रह्मपुराणे

मास्मै देहीति चैवं यः प्रव्रवीति दुरात्मवान् ।

अपि जातिशतं गत्वा न स मुच्येत किल्बिषात् ॥

विष्णुः [७१.८३] ।

देवब्राह्मणशास्त्रमहात्मनां परिवादं परिहरेत् ।

“शास्त्रम्” विधास्थानम् ।

[३५०] मार्कण्डेयपुराणे [३४.८३–८५] ।

देवदेव द्विजातीनां साधु सत्यमहात्मनाम् ।

गुरोः प्रतिव्रतानां च तथा [यज्वितपस्विनाम्] ॥

परिवादं न कुर्वीत परिहासे ऽपि पुत्रक ।

कुर्वताम् अविनीतानां न श्रोतव्यं कथञ्चन ॥

महाभारते

सदा नारायणं देवं सर्वपापहरं शुभम् ।

निन्द्यमानो नरः शीघ्रं नरकेषु प्रपद्यते ॥

वराहपुराणे

विष्णुं रुद्रान्तरं ब्र्ञ्याद् या श्रीर् गौर्य् अन्तरं तथा ।

तन् नास्तिकानां मर्त्यानां काव्यं शास्त्रविगर्हितम् ॥

“अन्तरं” भेदम् । “काव्यम्” कुत्सितप्रमाणम् इत्य् अर्थः ।

यमः

यस् तु निन्द्यात् परं जीवन् प्रशंसत्य् आत्मनो गुणान् ।

स वै वार्धुषिको नाम वेदवादिषु गर्हितः ॥

देवलः

गृहे पररहस्यानि नैवोपशृणुयाद् बुधः ।

[३५१] न ब्रूयात् परतन्त्राणि प्रकाशं जनसंसदि ॥

यमः

परोक्षाणि परेषां च परिवादं च वर्जयेत् ।

नैव ब्रूयान् न शृणुयाद् दुष्टवाक्यं कथञ्चन ॥

ब्राह्मणानां विशेषेण कदाचिद् अपि केनचित् ।

दुष्टवाक्यं न वक्तव्यं ब्राह्मणानां कथञ्चन ॥

तूष्णीम् आसीत निन्दायां न ब्रूयात् किञ्चिद् उत्तरम् ।

ब्राह्मणानां परीवादं न कुर्यान् नैव कारयेत् ॥

यद् ब्राह्मणेषु कुशलं तद् एव शुभम् आचरन् ।

ब्राह्मणानां परीवादो निन्दा यत्र प्रवर्तते ।

कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः ।

स्याद् रासभः परीवादात् श्वा स्यात् सूकर् एव च ।

परिभूय कृमिश् चैव कीटः स्याद् अपि मत्सरी ॥

“परोक्षाणि” दुष्टवायानीति शेषः ।

हारीतः

परीवादं त्यजेद् विप्रो ऽसवर्णेषु च सूचनम् ।

परिभोगं यथोक्तेषु मत्सरं पुत्रशिष्ययोः ॥

“सूचनम्” पैशुन्यम् । “परिभोगः” परिभूय धनाद्युपभोगः । “यथोक्तेषु” ब्राह्मणेषु सर्वर्णेषु च ।

[३५२] अप इत्य् अनुवृत्तौ वायुपुराणे

नैताः परिचक्षीत वहन्त्यो ऽथ वाथवा स्थिताः ।

“परिचक्षीत” परिवहेत् ।

तस्मान् नैतं परिवदेद् वायुं तं वायुम् ईश्वरम् ।

आदत्ते सुकृतं तेषां ये वै परिवदन्ति तम् ॥

तथा

तावत्कालं स्मृतो देव उग्रो देवस् तु दीक्षितः ।

तस्मान् नैवं परिवदेद् अश्लीलं नास्य कीर्तयेत् ॥

“तावत्कालं” यावद्दीक्षाकालम् । “उग्रो” रुद्रः ।

तथा

योगं परिवदेद् यस् तु ध्यानिनं मोक्षकाङ्क्षिणम् ।

स गच्छेन् नरकं घोरं श्रोतारश् च न संशयः ॥

मनुः

ऋत्विक्पुरोहिताचार्यमातुलातिथिसंश्रितैः ।

वृद्धबालातुरैर् विप्रैर् ज्ञातिसम्बन्धिबान्धवैः ॥

मातापितृभ्यां जामीभिः भ्रात्रा पुत्रेण भार्यया ।

दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥

[३५३] एतैस् त्यजेद् विवादांस् तु सर्वपापैः प्रमुच्यते ।

एतैर् जितस् तु जयति सर्वान् लोकान् इमान् गृही ॥

आचार्यो ब्रह्मलोकेसः प्राजापत्ये पिता प्रभुः ।

अतिथिस् त्व् इन्द्रलोकेशो देवलोकस्य चर्त्विजः ॥

जामयो ऽप्सरसां लोके वैश्वदेवस्य बान्धवाः ।

सम्बन्धिनो ऽपां लोकेषु पृथिव्यां मातृमातुलौ ॥

आकाशेशास् तु विज्ञेया बालवृद्धकृशातुराः ।

भ्राता ज्येष्ठः समः पित्रा भर्या पुत्रः स्वका तनुः ॥

छाया स्वा दासवर्गस् तु दुहिता कृपणं परम् ।

तस्माद् एतैर् अधिक्षिप्तैः सहेतासञ्ज्वरः सदा ॥

“कृपणम्” कृपापात्रम् ।

देवीपुराणे

न कुर्याज् जनवादं तु न विप्रैर् न च वत्सलैः ।	

न प्रधानजने वादो नृपाक्षेपः कदाचन ॥

नृपबन्धुगुर्वमात्यभिषग्ज्योतिःपुरोहितैः ।

विरोधात् सुमहद्दुःखं प्रीत्या च सुखम् आप्नुयात् ॥

तथा च ।

न च वाचं वदेद् दुष्टां नदीनां न च कर्कशाम् ।

[३५४] बन्ध्वादयो नृपसम्बन्धिनः । “ज्योतिः” अत्र ज्यौतिषिकः ।

**विष्णुपुराणे **[३.१२.३७] ।

शमं नयति यः क्रुद्धान् सर्वबन्धुर् अमत्सरी ।

भीताश्वासनकृत् साधुः स्वर्गस् तस्याल्पजं फलम् ॥

शमम् उपयान्ति ।

मत्स्यपुराणे [४१.५०–५२] ।

कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रभृत् ।

यो ऽस्य सङ्कीर्तयेन् नाम् कल्यम् उत्थाय मानवः ॥

न तस्य वित्तनाशः स्यान् नष्टं च लभते पुनः ।

स्कन्दपुराणे नन्दिनं प्रति महेश्वरः ।

अनामयश् चेतनवान् नामकीर्तयिताथ वा ।

सो ऽश्वमेधफलं चैव लभते नात्र संशयः ॥

पापदोषा इत्य् अनुवृत्तौ देवलः

    ततः परुषवचनम् अपवादः, पैशुन्यम् अनृतम्, वृथालापो, निष्टुरम् इति वाङ्मयाः षट् । परेषां देशजातिकुलविद्याशिल्परूपवृत्ताचारपरिच्छदाशरीर-कर्माजीवानां तत् प्रत्यक्षं दोषवचनं परुषम् ।


    	य चान्यत् क्रोधसन्तापत्राससञ्जननं वचः ।


    	परुषं तच् च विज्ञेयं यथान्यच् च तथाविधम् ॥

[३५५] चक्षुष्मान् इति लुप्ताक्षं चाण्डालं ब्राह्मणेति च ।

	वृषलं वृषलेत्य् उक्त्वा पतितं पतितेति च ।

	सतेय्नापि च दोषः स्यान् मिथ्या द्विगुणभाग् भवेत् ॥


    तेषाम् एव परुषवचनानां परोक्षम् उदाहरणम् अपवादः । गुरुनृपतिबन्धु-भृत्यसकाशे ऽर्थोपघातार्थं दोषोपाख्यानं पैशुनय्म् । अनृतं द्विविधम् – असत्यम् विसंवदश् चेति ।

तथा

देशे राजप्रवादाच् च प्रवाक्षपरिकल्पनात् ।

नर्महासप्रसङ्गाच् च विज्ञेयं व्यर्थभाषणम् ॥

गुह्याङ्गामेध्य्सञ्ज्ञानां वचनं निष्ठुरं विदुः ।

यद् अन्यद् वा वचो नीचं स्त्रीपुंसोर् मिथुनाश्रितम् ॥

इत्य् एवं षड्विकल्पस्य दुष्टवाक्यस्य भाषणम् ।

इहामुत्र च स क्रूरम् अनर्थम् अधिगच्छति ॥

हिताहितं मनुष्याणां केवलं वचसि स्थितम् ।

तस्मात् संयोजयेद् वाचम् अप्रमत्तः परीक्ष्य च ॥

दुश्चिकित्स्यतमं पश्चाद् दुरुक्तं वचो भवेत् ।

क्षिप्रं विनिपतेच् चापि वचनं दोषसंहितम् ॥

[३५६] “वृत्तम्” शीलम् । “आचारो” नित्यनैमित्तिकानुष्ठानम् । “आजीवो” जीविका ।

यमः

अपापं पापम् इत्य् उक्त्वा चौरं चौरेति वा द्विज ।

वचनात् तुल्यदोषः स्यान् मिथ्या द्विर्दोषतां व्रजेत् ॥

प्रत्यक्षं वा परोक्षं वा पतितं यदि पश्यति ।

प्रत्यादेशो न कर्तव्यो रक्षेद् आत्मानम् आत्मना ॥

यानि मिथ्याभिशन्तानां पतन्त्य् अश्रूणि रोदनात् ।

तानि पुत्रान् पशून हेति तेन मिथ्याभिशंसिनाम् ॥

**याज्ञवल्क्यः **[३.२६३] ।

मिथ्याभिशंसिनो दोषो द्विःसमो भूतवादिनः ।

मिथ्याभिशस्तदोषं च समादत्ते मृषां वदन् ॥

आपस्तम्बः [१.२१.२०] ।

    दोषं बुध्वा नु पूर्वः परेभ्यः पतितस्य समाख्याने स्याद् वर्जयेच् चैनं धर्मेषु ।

[३५७] शातातपः

स्नातस्य वरुणस् तेजो जुह्वतो ऽग्निः श्रियं हरेत् ।

भुञ्जानस्य यमस् त्व् आयुस् तस्मान् न व्याहरेस् त्रिषु ॥

विष्णुपुराणे [३.१८.१०४] ।

एते पाषण्डिनः पापा न ह्य् एनात् तालयेद् बुधः ।

पुण्यं नश्यति सम्भाषाद् एतेषां दन्तिनोद्भवम् ॥

इति वाच्यावाच्यानि ।

[३५८]

२६

अथ गमनप्रवेशनविधिः

तत्र मनुः [४.६७–६८, १४०] ।

नाविनीतैर् व्रजेद् धुर्यैर् न वालधिविरूपितैः ।

न भिन्नशृङ्गाक्षिखुरैर् न चक्षुर्व्याधिपीडितैः ॥

विनीतैस् तु व्रजेन् नित्यम् आशुगैर् लक्षणान्वितैः ।

वर्णरूपोपसम्पन्नैः प्रतोदेनातुदन् भृशम् ॥

नातिकल्यं नातिसायं नातिमध्यन्दिने स्थिते ।

नाज्ञानेन समं गच्छेन् नैको न वृषलैः सह ॥

“अविनीतैः” दुष्टैः । “वालधिविरूपितैः” छिन्नपुच्छैः । “धुर्यैः” अश्वादिभिः । “नातिमधन्दिने स्थिते” सवितरीति शेषः ।

[३५९] तथा

गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ।

विष्णुः [६३.२–१७] ।

    नैको ऽध्वानं प्रपद्येत नाधार्मिकैः सार्धम् । न वृषलैः । न द्विषद्भिः । नातिप्रत्युषसि नातिसायम् न सन्ध्ययोः । न मध्याह्ने । नासन्निहितपानीयम् । नाति[तूर्णम् । न रात्रौ । न सन्ततं] व्याधितार्तैर् वाहनैः [न हीनाङ्गैः न दीनैः । ] न गोभिः नादान्तैः ।

असन्निहितपानीयम् इति क्रियाविशेषणम् । “अदान्तैः” अशिक्षितैः । “सन्ततम्” अविश्रमेण । “व्यालो” दुष्टः ।

हारीतः

    पूर्ववृत्तिषु वृत्त्या तन् नासूर्यम् अध्वानं गच्छेत् । न नियमवेलायाम् । नानुदको यज्ञोपवीती नैको न वृषलैः सह ।

“पूर्ववृत्तिषु” विद्यमानास्व् इति शेषः । “असूर्यं” रात्राव् इत्य् अर्थः । “नियमवेला” नित्यकर्मकालः ।

शङ्खलिखितौ

    नैको ऽध्वानं प्रपद्येत नानुपातवग्ने (?) नायज्ञोपवीति न शूद्रादिसहायः ।

[३६०] बौधायनः [१.७.७–८] ।

    [तस्माद्] विना कमण्डलुना नाध्वानं व्रजेन् नासीमान्तं [न] गृहाद् गृहम् । पदम् अपि न गच्छेद् इषुमात्रम् इत्य् एक ।

“विना कमण्डलुना” इति सर्वत्र योजनीयम् । कमण्डलुग्रहणम् उदपात्रोपलक्षणार्थम् । “इषुमात्रम्” इषुविक्षेपपरिमितदेशाद् अधिकं पदम् इत्य् अर्थः ।

विष्णुपुराणे [३.१२.३८, ३९.५.१४] ।

वर्षातपादिषु छत्री दण्डी रात्र्यटवीषु च ।

शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत् ॥

नोर्ध्वं न निर्यग् दूरं वा निरीक्षन् पर्यटेद् बुधः ।

युगमात्रं महीपृष्टं नरो गच्छन् न दोषभाग् ॥

न दुष्टं यानम् आरोहेत् कुलछायं न संश्रयेत् ।

नैकः शून्याटवीं गच्छेन् न तु शून्यगृहे वसेत् ॥

देवीपुराणे

नासहायो व्रजेद् रात्रौ नोत्पथे च चतुष्पथे ।

स्कन्दपुराणे

सौनन्दीति यः प्रोक्त्वा कान्तारं प्रतिपद्यते ।

न तस्य द्विजशार्दूल हिंस्राः कुर्युः भयं क्वचित् ॥

[३६१] जाबालः

नैको ऽध्वानं प्रपद्येत न रात्रौ नारिणा सह ।

न महावृक्षम् आरोहेन् न बाहुभ्यां नदीं तरेत् ॥

बौधायनः [२.६.२१–२३] ।

    नैको ऽध्वानं प्रपद्येत । न पतितैर् नाभिशस्तैर् न स्त्रिया न शूद्रेण । न प्रतिसायं गच्छेत् ।

व्यपेयाद् इत्य् अनुषङ्गः ।

पैठीनसिः

न गोब्राह्मणान्तरेनोपेयात् ।

यमः

सन्निकृष्टम् अधीयानं यो ऽन्तरा व्याहरेद् द्विजः ।

श्वभासरासभानां च योनिं व्रजति पापकृत् ॥

“सन्निकृष्टः” एकस्यां सभायाम् इति तात्पर्यार्थः ।

बौधायनः [२.६.१३–१५] ।

    पुरद्वारेन्द्रकीलपरिघान्तरेण नातीयात् । प्रेषयोर् अन्तरेण न गच्छेत् वत्सतन्त्रीं नोपरि गच्छेत् ।

“इन्द्रकीलम्” इन्द्रयष्टिः । “परिघः” अर्गला । “प्रेषा” हिन्दोलाः ।

आपस्तम्बः [१.३२.२५–२७] ।

    गार्दभं यानम् आरोहणे विषमारोहणावरोहणानि वर्जयेत् । बाहुभ्यां च नदीतरं नावं च सांशयिकीम् ।

आरोहणे न कर्तव्य इति शेषः । “तर” तरणम् ।

विष्णुः [६३.४३–४७] ।

    प्रवर्षति न धावेत् । न वृथा नदीं तरेत् । देवताभ्यः पितृभ्यश् चोदकम् अप्रदाय च । बाहुभ्यां भिन्नया नाव ।

“न तरेत्” इति प्रत्येकम् अनुषज्यते ।

मनुः

अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हिचित् ।

“अचक्षुर्विषयं दुर्गं” प्रमाणेन विरोधिरहिततत्त्वेनाज्ञात्म् अरण्यादि ।

याज्ञवल्क्यः

अयं मे वज्र इत्य् एवं मन्त्रं कृत्स्नम् उदीरयेत् ।

[३६३] वर्षत्य् अप्रावृतो गच्छेत् स्वपेत् प्रत्यक्शिरा न च ॥

“अयं मे वज्रः सर्वं पाप्मानम् अपहन्ति” इति सर्वमन्त्रं पठन्, वर्षत्य् अप्रावृतो गच्छेत् यावन् मन्त्रसमाप्तिः । ऊर्ध्वम् अनियमस् तावतैव पाप्नमो हतत्वाद् इति विश्वरूपः

**आपस्तम्बः **[२.१२.११] ।

    अभिमुखम् अग्नये क्रियमाणं (?) नामप्रतिष्ठितं (?) भूमौ प्रदक्षिणीकृत्योपेयात् । 

भूमौ प्रदक्षिणीकृत्यैव गच्छेद् इत्य् अर्थः ।

मनुः

मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् ।

प्रदक्षिणानि कुर्वीत प्रजातांश् च वनस्पतीन् ॥

**मार्कण्डेयपुराणे **[३४.४२] ।

विद्याधिकं गुरुं चैव द्विजं कुर्यात् प्रदक्षिणम् ।

[३६४] शङ्खलिखितौ

    गोब्राह्मणसमवाहेन्द्रकीलचतुष्पथान्य् अभिज्ञातांश् च वनस्पतीन् प्रदक्षिणानि कुर्यात् ।

प्रदक्षिणं कुर्याद् इत्य् अनुवृत्तौ विष्णुः [६३.२९–३२] ।

    अग्निब्राह्मणगणिकापूर्णकुम्भादर्शछत्रध्वजपताकाश्रीवृक्षवर्धमान-नन्द्यावर्तांश् च तालवृन्तचामराश् च, गजाजगोक्षीरदधिघृतमधु-सिद्धारकांश् च । वीणाबकुलार्द्रगोमयफलपुष्पार्द्रशाकगोरोचनादूर्वा-प्रहोरांश् च उष्णीषालङ्करणमणिकनकरजतवस्त्रासनयानामिषाणि च भृङ्गारोद्धृतो बीजबन्धैककुमारी मीनांश् च [दृष्ट्वा प्रयाद् इति] ।

श्रीवृक्षवृद्धमानं नन्द्यावर्ताः “सन्निवेशाः” सुवर्णदार्वादिविनिर्मिताः ज्योतिःशास्त्रादिप्रसिद्धाः । “उष्णीषालङ्कारो” मुकुटम् ।

**मत्स्यपुराणे **[२४३.१४–२८] ।

अथेष्ट्यादि प्रवक्ष्यामि मङ्ग्ल्यानि यथानघ ।

श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भस् तथैव च ॥

जलजानि च पुष्पाणि मांसं मद्यं च पार्थिव ।

गावस् तुरङ्गमा नागा बद्ध एक पशुस् त्व् अजः ॥

[३६५] त्रिदशाः सुहृदो विज्ञाः ज्वलितश् च हुताशनः ।

गणिका च महाभाग दूर्वा चार्द्रं च गोमयम् ॥

रुक्मं रौप्यं तथा वस्त्रं सर्वरत्नानि चाप्य् अथ ।

औषधानि च धर्मज्ञा यवाः सिद्धार्थकास् तथा ॥

नृवाह्यमानं यानं च भद्रपीठं तथैव च ।

खड्गं चक्रं तथा काञ्चमृदम् आयुधम् एव च ॥

घृतं दधि पयश् चैव फलानि विविधानि च ।

स्वस्तिकं वर्धमानं च नन्द्यावर्तं च कौस्तुभम् ॥

सन्यस्तचित्रविन्यस्तमङ्गलाण्य् अपराणि च ।

अक्षताः श्वेतपुष्पाश् च तथा दर्पण एव च ॥

अञ्जनं रोचना चैव भृङ्गारो माक्षिकं तथा ।

वादित्राणां मुखः शब्दो गम्भीरश् च मनोहरः ॥

गान्धारषड्जऋषभा ये च शस्तास् तथासुराः ।

मेघाः शस्ताः घनाः स्निग्धाः गजबृंहितनिःस्वनाः ॥

अनुलोमा तडिच्छस्ताः शक्रचापस् तथैव च ।

अनुलोमा गृहाः शस्ताः दिक्पतिस् तु विशेषतः ॥

आस्तिक्यं श्रद्दधानत्वं तथा पूज्याभिपूजनम् ।

[३६६] शस्तान्य् एतानि धर्मज्ञ यश् च स्यान् मनसि प्रियम् ॥

मनसस् तुष्टिर् एवात्र परमं जयकारणम् ।

एकतः सर्वलिङ्गानि मनस्तुष्टिकरं तथा ॥

यत्रोत्सुकत्वं मनसः पर्हर्षः

	शुभस्य लाभो विजयस्य वादः ।

माङ्गल्यलब्धिः श्रवणं च राजन्

	ज्ञेयानि नित्यं विजयावहानि ॥

“नृपवर्धमानं” पुरुषयुक्तम् । यानं भद्रपीठः । स्वस्तिककौस्तुभाः सुवर्णादिघटिताः सन्निवेशविशेषाः । “अनुलोमाः” पृष्ठस्थाः । “दिक्पतयो” रविसितकुजाद्याः ।

विष्णुः [६३.३४–३८] ।

    अथ मत्तोन्मत्तव्यङ्गान् दृष्ट्वा निवर्तेत । वान्तविरिक्तमुण्डजटिलवामनांश् च । काषायिप्रव्रजितमलिनांश् च । तैलगुडशुष्कगोमयेन्दनतृणपर्णभस्माङ्गार-कचांश् च लवणक्लीबासवनपुंसककार्पासरज्जुगडितमुक्तकेशांश् च । 

**[३६७] **“कचाः” केशाः । “क्लीबो” निरेतस्कः । [“आसवः” सन्धानकः । नपुंसकः स्त्रीसंव्यञ्जनरहितः] ।

**मत्स्यपुराणे **[२४३.२–१२, २२-२५] ।

औषधानि च युक्तानि धान्यं कृष्णं च यद् भवेत् ।

कार्पासं च तृणं शुष्कं गोमयेन्धनम् एव च ॥

इन्धनं च तथाङ्गारं लगुडाश् च तथाशुभाः ।

अभ्यक्तं मलिनं मुण्डे तथा नग्नं च मानवम् ॥

मुक्तकेशं जरार्तं च काषायाम्बरधारिणम् ।

उन्मत्तकं तथा षण्डं दीनं चाथ नपुंसकम् ॥

अयः पङ्गुस् तथा चर्मकेशबन्धनम् एव च ।

तथैवोद्धृतसाराणि पिण्याकादीनि यानि च ॥

रिक्ताणि चैव भाण्डानि मृतं साङ्क्रतम् एव च ।

एवमादीनि चान्यानि प्रशस्तान्य् अभिदर्शने ॥

अशस्तो वायुश्तश् च भिन्नभैरवजर्जरः ।

एहीति पुरतः शब्दः शस्यते न तु पृष्ठतः ॥

[३६८] गच्छेति पश्चाद् धर्मज्ञ पुरस्तात् तु विगर्हितः ।

क्व यासि तिष्ठ मा गच्छ किं ते तत्र गतस्य तु ॥

अन्ये शब्दाश् च ये ऽनिष्ठास् ते विपत्तिकराः पथि ।

ध्वजादिषु तथा स्थानं क्रव्यादानां विगर्हितम् ॥

चलनं वाहनानां च वस्त्रसङ्गस् तथैव च ।

निर्गतस्य च द्वारादौ शिरसश् चाभिघातिता ॥

छत्रध्वजानां शस्त्राणां पताकां च तथाशुभम् ।

वायुः सशर्करः रूक्षः सर्वदिग्भ्यः समुत्थितः ॥

प्रतिलोमस् तथा नीचो विज्ञेयो भयकृद् द्विजः ।

अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः ॥

रूक्षा रूक्षस्वराश् चण्डाः क्रव्यादाश् च विगर्हिताः ।

अप्रशस्ते तथा ज्ञेये परिवेषपर्वर्षणे ॥

“औषधानि युक्तानि” मिलितानि दशमूलीभृतीनि । “कृष्णधान्यं” तिलमाषादि । “बन्धनं” निगडादि । “क्रव्यादानां” गृध्रादीनाम् ।

तथा [२४३.१३–१४] ।

दृष्टे निमित्ते प्रथमम् अनिमित्तं विनाशनम् ।

शङ्करं पूजयेद् विद्वांस् तथैव मधुसूदनम् ।

द्वितीये तु तथा दृष्टे प्रदीपं प्रविशेद् गृहम् ॥

[३६९] वसिष्ठः [१२.४२] ।

नावृतो यज्ञं गच्छेत् यद् व्रजेत् प्रदक्षिणम् पुनर् आव्रजेत् ।

“अवृतः” अनाहूतः ।

वृद्धमनुः

नमस्कर्तुं व्रजेत् कामं दिदृक्षुर् यज्ञकर्मणः ।

कुलात् कुलं रहस्य् अपि सम्चरेन् नानिमित्ततः ॥

“कुलात् कुलम्” गृहाद् गृहम् । “रहस्यम्” गोप्यम् । “अनिमित्ततः” सम्प्रयोजनं विना ।

शङ्खलिखितौ

    न वधबन्धसमवायम् गच्छेत न दावं न दम्पत्योर् अन्तरम् न ऋषीणां प्रभवम् । न ऋषीणां न वधबन्धनसमवाये ।

“न वधबन्धननिमित्तो” जनस्मूहः । “दावो” वनवह्निः । तत्समीपं न गच्छेत् । “ऋषीणां प्रभवम्” उत्पत्तिस्थानम् । कपालग्रामादिकम् इति माधवस्वामी

[३७०] मनुः [४.७३] ।

अद्वारेण च जानीयान् ग्रामं वा वेश्म चाव्रतम् ।

रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥

शङ्खलिखितौ

न रात्रौ विचरेत् ।

आपस्तम्बः [१.३१.२३] ।

    सृत्या ग्रामम् प्रविशेत् । यदि प्रविशेत् “नमो रुद्राय वास्तोष्पतये” इत्य् एताम् ऋचं जपेद् अन्यां वा रौद्रीम् ।

“सृत्या” मार्गेण ।

शङ्खलिखितौ

    न बाह्यैर् अयुक्तैर् अपीतपानीयैः पिबेत् । न ग्रासं अदत्वाश्नीयात् ।

मार्कण्डेयपुराणे [१४.५६] ।

एकसार्थप्रयाता ये निःस्वम् अन्नार्थिनं नरम् ।

[३७१] अपास्य स्वान्नम् अश्नन्ति त इमे श्लेष्मभोजिनः ॥

दक्षपुत्राणां भ्रात्रन्वेषणाय गतानाम् अनिवृत्तिम् अभिधाय विष्णुपुराणे [१.१५.१००] ।

ततः प्रभृति वै भ्राता भ्रातुर् अन्वेषणे द्विजः ।

प्रयातो नश्यति तथा तन् न कार्यं विजानता ॥

इति गमनप्रवेशनविधिः ।

[३७२]

२७

अथानाक्रमणीयान्य् अनधिष्ठेयानि

तत्र मनुः

देवतानां गुरोर् प्राज्ञः स्नातकाचार्यमन्त्रिणाम् ।

नाक्रामेत् कामतश् छायां कपिलस्य च गोर् अपि ॥

स्वां तु नाक्रमेच् छायां क्लीबेन पतितेन च ।

चाण्डालेन द्विषद्भिश् च नित्यं रोगान्वितेन च ॥

“प्राज्ञः” प्रशस्तबुद्धिः ।

याज्ञवल्क्यः

देवर्त्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः ।

नाक्रामेद् रक्तविण्मूत्रष्ठीवनोद्वर्तनानि च ॥

[३७३] मनुः

मध्यन्दिने ऽर्धरात्रे च श्राद्धं भुक्त्वा तु सामिषम् ।

सन्ध्ययोर् उभयोश् चैव न सेवेत चतुष्पथम् ॥

उद्वर्तनम् अपस्नानं विण्मूत्रं रक्तम् एव च ।

श्लेष्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत् तु कामतः ॥

वैरिणं नोपसेवेत सहायं चैव वैरिणः ।

अधार्मिकं तस्करं च परस्यैव च योषितम् ॥

“उद्वर्तनम्” कृतमलापकर्षणं कुङुमादि । “अपस्नानम्” स्नानोपयुक्तं जलम् । “निष्ठ्युतम्” उद्गीर्णं ताम्बूलादि ।

शङ्खलिखितौ

नोद्धतकुहकैः सहैकतस् तिष्ठेत् ।

“उद्धतः” अविनीतः । “कुहकः” वशीकरणादिनिष्थः ।

विष्णुः [६३.१९–२३] ।

    न चतुष्पथम् अधितिष्ठेत् । न रात्रौ वृक्षमूलं न शून्यालयम् । [न तृणम्] न पशूनां बन्धनागारम् ।

हारीतः

    आवपनाप्रमार्जनापस्नानतुषभस्मास्थिकपालकेशसंयानाधितिष्ठेत् ।

[३७४] “आवपनम्” गोण्मादिभाण्डम् । “अप्रमार्जनम्” मार्जनोपयुक्तकुशादि । “कपालः” कूर्परः ।

शङ्खलिखितौ

    नाहेः पदम् आधितिष्ठेत् । न तुषकपालकेशभस्मास्थितृणसङ्करकूटे तिष्ठेत् ।

“सङ्करः” अवकरः ।

मनुः [४.७८–७९] ।

अधितिष्थेन् न केशांस् तु न भस्मास्थिकपालिकाः ।

मार्कण्डेयपुराणे [३४.२५] ।

तुषाङ्गारास्थिशीर्णानि रज्जुवस्त्रादिकानि च ।

नाधितिष्ठेत् तथा प्राज्ञः पथि पत्राणि वा भुवि ॥

आपस्तम्बः [२.१२.५] ।

    पाणिसमूहनं ब्राह्मणस्य नाप्रोक्षितम् अधितिष्ठेत् । न भूमाव् अनन्तर्हितायाम् आसीत ।

विष्णुपुराणे [३.१२.१३–१५, २८] ।

चतुष्पथश् चैत्यतरुः श्मशानोपवनानि च ।

दुष्टस्त्रीसन्निकर्षश् च वर्ज्यानि निशि सर्वदा ॥

पूज्यदेवध्वजाज्योश्छायां नातिक्रमेद् बुधः ।

[३७५] केशास्थिकण्टकामेध्यबलिभस्मतुषां तथा ॥

स्नानार्द्रां धारिणीं चैव दूरतः परिवर्जयेत् ।

श्लेष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत् ॥

देवीपुराणे

शून्यागारे न तिष्ठेच् च न च पर्वतमस्तके ।

न श्मशाने न देवानां प्रासादेषु कदाचन ॥

न चैव गोः प्रसूतायाः विश्वसेत् स्त्रीजनेषु च ।

मार्कण्डेयपुराणे [३४.८५] ।

नोत्कृष्टशय्याशयनो न निकृष्टस्य चारुहेत् ।

तथा [३५.३०] ।

नोद्यानादौ विकालेषु प्राज्ञस् तिष्ठेत् कथञ्चन ।

न चालपेज् जनं दुष्टं वीरहीनां न च स्त्रियम् ॥

इत्य् अनाक्रमणीयान्य् अनधिष्ठेयानि ।

[३७६]

२८

अथावलोकनीयानि

तत्र विष्णुः [७१.१७–२१] ।

    आदित्यम् उद्यन्तं नेक्षेत । नास्तं यान्तम् नोपरक्तम् । न वाससा निरोहितम् । न चादर्शदर्शनाभ्युपगतम् । न मध्याह्ने ।

“उपरक्तः” राहुग्रस्तः ।

शङ्खलिखितौ

    नोद्यन्तम् आदित्यम् ईक्षेत । नास्तंयान्तम् आप्यायनं च । तस्मै विधिवद् विदधति ।

“आप्यायनम्” अर्घ्यादिना पूजनम् । “तस्मै” आदित्याय ।

हारीतः

न नग्नां स्त्रियं पुरुषं वा ईक्षेत । नोदयास्तमयौ चन्द्रार्कौ ।

याज्ञवल्क्यः

नेक्षेतार्कं न नग्नां स्त्रीं न च संस्पृष्टमैथुनाम् ।

[३७७] न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥

देवलः

सूर्याचन्द्रमसौ चोभौ नक्षत्राणि च सर्वशः ।

नोदीक्षेताशुचिर् नित्यं ग्रहान् अन्यांश् च मानवाः ॥

पतितव्यङ्गचाण्डालोच्छिष्टाद्या न विलोकयेत् ।

अर्थदृष्टिमतैर् एतैः सम्भाषेत नृणां वरः ॥

विष्णुपुराणे [३.१२.११] ।

ज्योतींष्य् अमेध्यासक्तानि नाभिवीक्षेत च प्रभो ।

तथा

संवत्सरं किर्याहानिर् यस्य पुंसो ऽभिजायते ।

तस्यावलोकनात् सूर्यो निरीक्ष्यः साधुभिः सदा ॥

मार्कण्डेयपुराणे [३५.३३, ३५] ।

देवतापितृसच्छास्त्रयज्ञसन्ध्यादिनिन्दकैः ।

कृत्वा तु स्पर्शनालापं शुध्येतार्कावलोकनात् ॥

अवलोक्य तथोदक्याम् अन्त्यजं पतितं शवम् ।

विधर्मिसूतिकाषण्डं विवस्त्रान्त्यवसायिनः ॥

मृतनिर्यातकाश् चैव परदाररताश् च ये ।

एतद् एव हि कर्तव्यं प्राज्ञैः शोधनम् आत्मनः ॥

[३७८] स्कन्दपुराणे

कृतघ्नं मानवं दृष्ट्वा नरकेष्व् अपि कुत्सितम् ।

शुद्ध्यर्थं देवि द्रष्टव्याः सोमानलदिवाकराः ॥

सोमादीनां यथासम्भवं विकल्पः ।

हारीतः

    अवगुण्ठित उच्छिष्टो ऽमेध्यान्तरो नावभाषेत । नोर्ध्वं ज्योतींषि वीक्षेत न च देववनस्पतीन् ।

“अवगुण्ठित” अत्र अवगुण्ठितशिराः ।

गौतमः

न नग्नां परयोषितम् ईक्षेत ।

साङ्ख्यायनगृह्यम् [४.११.१] ।

    न नग्नां स्त्रियम् ईक्षेतान्यत्र मैथुनात् । तथानाप्तम् अकार्यकारिणम् ।

“अनाप्तम्” शत्रुम् । “अकार्यकारिणम्” पातकिनम् । नेक्षेतेत्य् अनुषङ्गः ।

ईक्षेतेत्य् अनुवृत्तौ [३७९] विष्णुः [७१.२२–३१] ।

    न क्रुद्धस्य गुरोर् मुखम् । न तैलोदयोः स्वच्छायाम् । न मलवत्य् आदर्शे । न पत्नीं भोजनसमये । न स्त्रियं नग्नाम् । न कञ्चन मेहमानम् । न चालानम् । भ्रष्टकुञ्जरम् न विषमस्थो वृषादियुद्धम् । नोन्मत्तम् । न मत्तम् ।

मनुः

नाश्नीयाद् भार्यया सार्धं नैनाम् ईक्षेत चाश्नतीम् ।

क्षुवतीं जृम्भमाणां वै न चासीनां यथासुखम् ॥

नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्ताम् अनावृताम् ।

न पश्येत् प्रसवन्ती च तेजस्कामो द्विजोत्तमः ।

शङ्खलिखितौ

न कूपश्वभ्राण्य् अतिष्ठेत् [आतिष्ठेत्?] । न कूपम् अवलोकयेत् । न लङ्घयेत् ।

मनुः

न विण्मूत्रम् उदीक्षेत ।

इत्य् अवलोकनीयानि

[३८०]

२९

अथ शूद्राप्रदेयानि

तत्र मनु यम-वसिष्ठौ प्रथमे** **[मनु ४.८०–८१] ।

न शूद्राय मतिं दद्यान् नोच्छिष्टं न हविष्कृतम् ।

न चास्योपदिशेद् धर्मं न चान्यव्रतम् आदिशेत् ॥

यो ह्य् अस्य धर्मम् आचष्टे यश् चैवादिशते व्रतम् ।

सो ऽसंवृतं नाम तमः सह तेनैव गच्छति ॥

“मतिः” अद्ēष्टार्थकार्याकार्यविषया । “उच्छिष्टम्” भोजनपात्रस्थं भक्तशिष्टम् । “हविष्कृतम्” हविस्त्वेन कल्पितं पुरोडाशादि । “धर्मं” पञ्चयज्ञादि । अयं चोच्छिष्टदाननिषेधो ऽनाश्रितशूद्रविषयः, आश्रितं प्रति,

उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च । [१०.११५]

इति मौनैवोदाहृतत्वात् । इतरे तु प्रतिषेधाः सर्वशूद्रविषयाः । वर्णधर्मस्य तु लोभादिना अतिक्रान्तप्रतिषेधेनैवोपपत्तेः न तद्विधानापेक्षा ।

[३८१] यमः

वृषलाध्यापको यस् तु वृषलाध्यापितश् च यः ।

ताव् उभौ नरके मग्नौ वसेतां शरदां शतम् ॥

विष्णुः [७१.४८–५२] ।

    न शूद्राय मतिं दद्यात् । नोच्छिष्टहविषी । [न तिलान्] । न चास्योपदिशेद् धर्मं न वर्तम् ।

शङ्खलिखितौ

    कृशरपायसापूपमांसदधिमधुघृतकृष्णाजिनानि न शूद्रेभ्यो दद्यात् । न चोच्छिष्टं हविष्क्र्तं नोपकृतं किञ्चिद् अन्याप्रकृतात् ॥

प्रकृतम् उत्सवः ।

आपस्तम्बः [१.३१.२५–२६] ।

    नाब्राह्मणायोच्छिष्टं दद्याद् यदि प्रयच्छेद् दन्तान् कृष्ट्वा तस्मिन्न् अवधाय प्रयच्छेत् ।

अब्राह्मणो ऽत्र शूद्रः । विलिख्य तस्मिन्न् उच्छिष्टे अवधाय निःक्षिप्य दन्तमलानीति शेषः ।

[३८२]

३०

अथ क्रोधादीनां वर्जनम्

तत्र आपस्तम्बः [१.३१.२८] ।

क्रोधादींश् च भूतदाहीयान् दोषान् वर्जयेत् ।

“भूतदाहीयान्” शरीरदाहहेतून् ।

पुनर् आपस्तम्बः [१.२३.४–५] ।

    अथ भूतदाहीयान् दोषान् उदाहरिष्यामः । क्रोधो हर्षो लोभो मोहो दम्भो द्रोहो मृषोद्यमात्याशपरीवादावसूया काममन्यू अनात्म्यम् अयोगः । [तेषां योगमूलो निर्घातः] ।

“अत्याशः” बहुतरभक्षणम् । “मन्युः” पराभिभवोत्थदोषानुवृत्तिः । “अनात्म्यम्” अवशित्वम् । “अयोगो” अनुयोगः ।

हारीतः

औदररैतसकामजक्रोधजहर्षजानग्रान् यथावन् नियच्छेत् ।

[३८३] औदराः सर्वकर्मेन्द्रियभावदोषाः सम्भवन्ति यैर् उपसृष्टो विविधाम् आपदम् उपैति, तस्माच् छुचिर् यथा परिमिताहारः स्यात् । आहारशुद्धौ सत्त्वशुद्धिर् इत्य् आचार्याः । लोकद्वयसन्तापकरत्वाद् अग्नितम् एतेषाम् । नियच्छेत् शमयेत्

पुनर् हारीतः

    पौस्ता साहसं रेतस्य बीजं तद् अमृताव् उत्सर्गदोषः स्याद् ऋतौ वोत्सर्गे तद् ब्रह्मचर्येण व्याख्यातम् । देवादिप्रवृत्तत्वाज् जगतः प्रथमम्, यज्ञनियमार्थं द्वितीयम्, तपःसिद्ध्यर्थं तृतीयम्, मोक्षसिद्ध्यर्थं चतुर्थम्, सम्कल्पात् कामसम्भवत्याशयात् प्रवर्तते स्नेहान् निबध्नाति । स इच्छालक्षणो ऽनेकविधः कामो येनाभिभूतः तृप्त एव कामानां लोकेष्व् अनेकविधजन्मसंसारकामावर्ते निमज्जति स एवानलः । कामो हि भगवान् वैश्वानर इति **श्रुतिः** । तस्य सङ्कल्पो नियमनम्, स व्याख्यातः ।


    **कामगीतौ** चात्र श्लोकौ भवतः ।


    	प्रवृत्तौ च निवृत्तौ च सर्वतः प्रतिभूर् अहम् ।


    	सर्वार्थेषु यथार्थो ऽहं मदृते नाश्ति किञ्चन ॥


    	यो मां यथार्थं सर्वार्थे सर्वभूतेषु पश्यति ।

[३८४] सो ऽध्वनः परमां याति नेतरे कामवादिनः ॥ इति ।

    क्रोधाग्निनाभिभूतः स्वेषाम् अप्य् अबहुमतो नाभिभवति यो ऽविश्वसनीयश् च भवति । कार्याकार्यवाच्यावाच्यानि न वितर्कयति । [हितवादिनो गुरून् पश्यति क्रमेत्य् आविष्टः । प्रेतलोकायात्मानं गमयति] । तत्र घोरां निरयप्रायां यातनाम् अनुभूय क्रूरक्रयादश्वतिर्यग्योनिषु जायते । तत्र सर्वानां प्रजानां वश्यो भवति । क्रमशो मनुष्यतां प्राप्य सर्वजनविद्विष्टताम् उपैति । क्रोधो हि तमोरूपस् तस्या क्षमा नियमनं सा व्याख्यातेति । लोभाग्निनाभिभूतः पुण्यार्थेष्व् अप्य् उपयुज्यमानम् अतिक्रामन्तम् मन्यते । नष्टं पुत्रं दारबन्धूनाम् उपयुक्तं सुहृद्बन्धुसम्बन्धिनाम् अप्य् अनुजीव्यतमो भवति । असद्वृत्तानाम् अप्य् आदानम् इच्छति । तत्रार्थानुबन्धात् तिर्यग्योनिषु जायते लोभो हि तमोरूपस् तस्य सन्तोषो नियमनं सो ऽपि व्याख्यातः । एवं ह्य् आह —


    	औदरो रेतसश् चापि कामजः क्रोधजो ऽङ्गजः ।


    	एते वै निर्जिता येन स वै पञ्चतपा स्मृतः ।

[३८५] वाचोवेगं मनसः क्रोधवेगं

    		जिह्वावेगं तूदरोपस्थवेगम् ।


    	एतान् वेगान् धारयेद् यस् तु विप्रस्


    		तं प्रब्रूयुः ब्रह्मिष्टं वा मुनिं च ॥ इति ।

पौरस्तान् पुरुषव्यापारान् साहसं बलवन्तस्य पुरुषस्य बीजं यतस् तत् तस्माद् ब्रह्मचर्येण बहुरूपतया कृष्णादि तत् सर्वाः सर्वम् उदारगमनरूपम् । प्रथमं जगन्निवासिनः सर्वस्य भवति देवम् आरभ्य तिर्यक्पर्यन्तं स्वभावप्रवृत्तत्वात् । द्वितीयं सर्ववर्जनरूपं यज्ञसाङ्गतासिद्ध्यर्थं तृतीयम् ऋताव् एव गमनम् ऊर्ध्वरेतस्कं सङ्कल्पः विषयसौन्दर्यज्ञानम् । “कामो” विषयेच्छा । “आशयः” पौनःपुन्येन भावना । “स्नेहः” तत्रैवासक्तिः । “अध्वनः” अर्चिरादिमार्गात् परं त्रिपालक्षणम् ।

विष्णुः [३३.६] ।

त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः ।

कामः क्रोधस् तथा लोभः तद् एतत् त्रितयं त्यजेत् ॥

जाबालः

त्यजेद् इन्द्रियचापल्यं ब्रह्मनिन्दां तथैव च ।

[३८६] मायामात्सर्यलोभांश् च क्रोधवेगान् बलाय ते ॥

परापवादमोहांश् च आत्मार्थे याचनां तथा ।

वृथा कलहम् आलस्यं तथा मैथुनम् एव च ॥

आपस्तम्बः [२.५.१८] ।

    मनसा वाचा घ्राणेन चक्षुषा श्रोत्रेण त्वक्शिश्नोदरारम्भन् आस्रावान् परिभुञ्जानो ऽमृतत्वाय कल्पते \

त्वक्शिश्नोदरारम्भणानान् (?) आस्रावान् (?) पञ्चभिर् इन्द्रियैः “परिभुञ्जानो” वर्जयेत् ।

मनुः [४.१६३] ।

नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।

द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥

हारीतः

    सर्वाभक्ष्याभक्षणम् अभोज्यभोजनम् अपेयपानम् अयाज्ययाजनम् असत्प्रतिग्रहो परदाराभिगमनं परद्रव्यापहरणं प्राणिहिंसा चेति शरीराणि [शारीराणि?] । पारुष्यम् अनृतं विवादः श्रुतिविक्रयश् चेति वाच्यानि । परोपतापः पराभिद्रोहः क्रोधो लोधो मोहो ऽहङ्कारश् चेति तद् एतान्य् अष्टादश च यानि कर्माणि ।

“अभोज्यभोजनम्” पतिताद्यन्नभक्षणम् । “नैरेयाणि” नरकहेतवः (?) ।

[३८७] देवलः

    अथातः पापदोषान् मनोवाक्शरीरजान् व्याख्यास्यामः । तत्र मोहरागद्वेषमानलोभमदशोकममत्वाहङ्कारभयहर्षमोधचिन्ताश् चेति द्वादश मानसाः ।


    	तेषां च त्रिविधो मोहः सम्भवः सर्वपाप्मनाम् ।


    	अज्ञानं संशयज्ञानं मिथ्याज्ञानम् इति त्रिकम् ॥


    	विज्ञानं सर्वविद्यानाम् अर्थानां स्वयम् ऊहनम् ।


    	दोषैर् अधर्षणं चेति ज्ञानम् अज्ञानम् अन्यथा ॥


    	अश्रेयःश्रेयसोर् मध्ये भ्रमणे संशयो भवेत् ।


    	मिथ्याज्ञानम् इति प्राहुर् अहिते हितदर्शनम् ॥


    	भवत्य् अधर्मा अज्ञानाद् अविद्यातश् च संशयः ।


    	उभाभ्याम् अन्यथाज्ञानं पापिष्ठम् उपजायते ॥


    	अज्ञानाद् दुःखसम्प्राप्तिः संशयाद् वर्तते पुनः ।


    	मिथ्याज्ञानात् पतत्य् एव मूढः तामिस्रयोनिषु ॥


    	आवृत्ताः विषयाः सर्वे धर्मदोषैर् यथा तनुः ।


    	गुणतो हृदि तान् श्रुत्वा रागोरागस्य लक्षणम् ॥


    	असन्निकर्षाद् अज्ञानात् सङ्कल्पाद् अभिमानतः ।

**[३८८] **सुखाच् च जायते रागो विषयेषु शरीरिणाम् ।

    	ज्ञानाद् द्वेषाद् असामर्थ्यात् क्लेशाद् अन्यप्रसङ्गतः ।


    	वियोगात् कामतः शोकाद् धर्माच् चैव निवर्तते ॥


    	निवर्तते चेद् रागो ऽयं पुंसो द्वेषादिहेतुभिः ।


    	भूयो ऽप्य् उत्पद्यते सङ्गाज् ज्ञानान् नश्यति केवलम् ॥


    	अतिप्रसक्तः भोगेषु रागो भवति दोषकृत् ।


    	परस्त्रीषु परस्वेषु किञ्चित् प्रार्थनयापि च ॥


    	रोषो ऽमर्षो ऽभ्यसूया च द्रोहो मिथ्या वितर्कितम् ।


    	दुःखार्हं चेति तत्त्वज्ञैर् द्वेषः षोढा विधीयते ॥


    	यत् तस्माद् हृदये जन्तोः समुत्तिष्ठति वैकृतः ।


    	परानिष्टचिकीर्षा च सरोष इति सञ्ज्ञितः ॥


    	पराभवसमुत्थेन दोषेणैवाभिचोदितः ।


    	किञ्चिद् दृष्ट्वैव यो द्वेषस् तद् अमर्षस्य लक्षणम् ॥


    	परस्य शुद्धान् दृष्ट्वा तु स्वगुणाभ्यधिकान् गुणान् ।


    	नाभिनन्दति यो द्वेषात् साभ्यसूयेत्य् उदाहृता ॥


    	सुहृदाम् अपि यो नित्यम् अर्थान् उपजिघांसति ।

[३८९] असौहृद्यमतिः पापस् तद् आहुर् द्रोहलक्षणम् ॥

    	यः साधून् परदोषांश् च मन्यते द्वेषकारिणः ।


    	मिथ्या वितर्कितं चेति तद् आहुर् भावदोषजम् ॥


    	द्वेषाल् लोभाच् च सङ्कल्पाच् चिन्तनं पापकर्मणाम् ।


    	दुःखार्हम् इति विज्ञेयं पूर्वदुष्कृतसम्भवम् ॥


    	दुःखान् मिथ्या विघाताच् च दुःखो ऽयं द्विविधो भवेत् ।


    	ज्ञानात् कालात्ययाद् धर्मात् प्रीतेश् च विनिवर्तते ॥


    	अतत्त्वग्रहणं तापो वेपथुर् ज्ञानसम्प्लवः ।


    	स्वेदो ऽक्षिरोगः पारुष्यं श्वासस् तु द्वेषदोषजाः ॥


    	सर्वत्रोत्कृष्टम् आत्मानं सर्वेभ्यो यो ऽभिमन्यते ।


    	स मान इति विज्ञेयो यथेष्टस्य सुराकृयः (?) ॥


    	नरस्यात्माभिमानेन या उत्कृष्टिर् न शोभते ।


    	उत्कृष्टिर् याचना प्राहुर् उत्कृष्टिः सावमानतः ॥


    	परार्थं परभोगांश् च परसामृध्यम् एव च ।


    	दृष्ट्वा श्रुत्वा च या तृष्णा जायते लोभ एव सः ॥


    	अलोभान् मूलतर्काच् च पिपासा परिवर्धितः ।

[३९०] अनर्थेष्व् एव सम्मोह्य लोभः पचति दुर्नरम् ॥

    	नास्ति तृष्णासमं दुःखं नास्ति त्यागसमं सुखम् ।


    	तस्माच् च लोभसञ्ज्ञातां तृष्णां विद्वान् परित्यजेत् ॥


    	प्राप्यापि मेदिनीं कृत्स्नां तृष्णा वै नोपशाम्यति ।


    	विवर्धते किं भूयो ऽपि हविषेव विभावसुः ॥


    	दुःखाद् इत्य् आहुर् अन्तत्वाद् अनित्यत्वाद् अतृप्तितः ।


    	पश्चाच् छोकावहत्वाच् च न क्वचिच् छ्रेयसी तृषा ॥


    	कुलवृद्धिवपुर्विद्यावित्तैश्वर्यविभूतिभिः ।


    	स्वैर् एतैर् बाध्यते यो ऽन्यान् उन्मादस्येह लक्षणम् ॥


    	देवासुरमनुष्याणाम् उत्सिक्तामदहेतवः ।


    	मदेनैव विनेशुस् ते तस्मात् त्याज्यो मदो बुधैः ॥


    	हर्षैः शोकावलोकाच् च दम्भाद् दर्पाच् च गर्वतः ।


    	अन्ये च तद्विधा भावास् ते मदस्य विकल्पजाः ॥


    	अनिष्टयोगजाद् द्वेषात् स्नेहाविष्टाच् च योगजात् ।


    	क्लेशाद् वा हृदि दुःखं च स शोक इति पद्यते ॥


    	अनित्याः सर्वभावाश् च शोकस् तत्र न वर्तते ।


    	अथ वा यदि नित्याः स्युः कुतः शोकः प्रवर्तते ॥

[३९१] नैवं हि शोचेत् सत्त्वस्थस् तामसो वापि केवलम् ।

    	शोकाद् दुःखम् अवाप्नोति समासेनेह राजसः ॥


    	इदं ममेति यः स्वाम्यम् आत्मानं स्वेषु मन्यते ।


    	अजानन्तम् अनित्यत्वं ममत्वम् इति तद् विदुः ॥


    	अहम् इत्य् अभिमानेन यः क्रियासु प्रवर्तते ।


    	कार्यकारणयुक्तासु तद् अहङ्कारलक्षणम् ॥


    	अहङ्कारममत्वाभ्यां बाध्यन्ते सर्वदेहिनः ।


    	संसारविनियोगेषु ताभ्यां मुक्तस् तु मुच्यते ॥


    	आत्मबाधाकरं श्रुत्वा दृष्ट्वा वा प्रत्युपस्थितम् ।


    	उद्वेगो जायते यस् तु कृदये तद् भयं स्मृतम् ॥


    	तावद् भये न भेतव्यं यावद् भयम् अनागतम् ।


    	आगतं तु भयं दृष्ट्वा प्रवर्तव्यम् अभीतवत् ॥


    	भवितव्यं भवत्य् एव नास्ति कर्मव्यतिक्रमः ।


    	इत्य् एवं दृष्टतत्त्वानां न क्वचिज् जायते भयम् ॥


    	आत्मनो हृदयं दृष्ट्वा परेभ्यो व्यसनानि च ।


    	आनन्दो मानसो जन्तोर् हर्ष इत्य् अभिधीयते ॥


    	सर्वद्रव्येष्व् अनित्येषु क्षणिकेष्व् असुखेषु च ।


    	न हर्षस्यावकाशो ऽस्ति विमृश्य यदि पश्यति ॥

[३९२] माध्यस्थ्यम् अपि दोषाय परेषां व्यसनागमे ।

    	किं पुनर् मूढभावेन प्रमोदः परिविद्रवे ॥


    	यो वृथा चिन्तयत्य् अर्थान् मनसा हि परस्परम् ।


    	मोघचिन्तेति ताम् आहुर् धर्मकर्मोपघातिनीम् ॥


    	भोगैश्वर्यधनादीनि लोभाद् यः संसरेद् वृथा ।


    	स मोघचिन्तयात्मानं हन्ति बुद्धिं च कर्म च ॥


    	तस्माद् विदूरगां चिन्तां त्यक्त्वा शोकं च कर्मजम् ।


    	आरभेत शुभं कर्म धियं प्राप्तुं च सर्वशः ॥


    	रागसङ्कल्पजान् हन्ति हृदयेषु दृडार्पितान् ।


    	उच्छिद्य चैतान् मेधावी तत्त्वज्ञानासिना हुतम् ॥


    	आत्मनो रक्षणोपायम् अनित्यामध्यतां तनोः ।


    	हितं च सर्वभूतानां चिन्तयेन् मनसा सह ॥


    	एते मनोभवा दोषाः द्वादशाशिवहेतवः ।


    	मोहादयः समाख्याता देवासुरनृमोहनाः ॥


    	तत्संयोगान् मनो गुप्तेर् ज्ञानधर्मप्रसङ्गतः ।


    	त्यागाच् च व्यसनादीनां हानिं गच्छन्ति मानवः ॥

[३९३] तथा

    	अप्रकाशकरो बुद्धिं तम् आवृत्य सर्वतः ।


    	प्रथमं जायते मोहाद् देहिनां हृदि पाप्मजः ॥


    	मोहाद् उत्पद्यते रागो रागाद् द्वेषः प्रजायते ।


    	त्रिभिर् एतैर् भवत्य् एवं पापं शारीरवाङ्मयम् ॥


    	तस्माद् गरीयः सर्वेषु मानसेष्व् अपि च त्रयम् ।


    	सर्वान् दोषान् परित्यक्तुं त्रीन् एतान् प्रथं त्यजेत् ॥

वाङ्मयान् अभिधाय पापदोषानुवृत्तौ पुनर् देवलः

    [ततो हिंसापचारः स्तेयम् अर्थदूषणम् इति चतुर्विधाः शरीरजाः । कृतप्रणाशनं द्रव्यापध्वंसनं चार्थ्दूषणम् इत्य् एवम्] । वेश्मक्षेत्रशस्यदहनं सेतुभेदनम् आजीवोपघातनं कृतप्रणाशनम् । द्रव्यापध्वंसनं चार्थदूषणम् इत्य् एवम् ।


    	कृत्वा त्व् अर्थजातान् यायात् पूर्वान् स्वलक्षणैः ।


    	आख्यातानि विशेषेण पापानि परिशेषतः ॥

मनुः [४.१६२, १६५–१६९] ।

आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् ।

[३९४] न हिंस्याद् ब्राह्मणान् गाश् च सर्वांश् चैव तपस्विनः ॥

ब्राह्मणाद्यावगूर्यैव (?) द्विजातिर् वधकाम्यया ।

शतं वर्षाणि तामिस्रे नरके परिवर्तते ॥

ताडयित्वा तृणेनापि संरम्भान् मतिपूर्वकम् ।

एकविंशतिम् अजातिः पापयोनिषु जायते ॥

अयुध्यमानस्योत्पाद्य ब्राह्मणस्यानृशंसिनः ।

दुःखं सुमहद् आप्नोति प्रेत्याप्राज्ञतया नरः ॥

शोणितं यावतः पांसून् सङ्गृह्णाति महीतलात् ।

तावतो ऽब्दान् अमुत्राद्यैः शोणितोत्पादको ऽद्यते ॥

न कदाचिद् द्विजं तस्माद् विद्वान् अवगुरेद् अपि ।

न ताडयेत् तृणेनापि न गात्रात् स्रावयेद् असृक् ॥

तथा [मनुः ११.२०६] यमः

अवगूर्यस् त्व् अब्दशतं सहस्रम् अभिहत्य तु ।

जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥

तथा [११.२०७] ।

शोणितं यावतः पांसून् सङ्गृह्णाति द्विजन्मनः ।

[३९५] तावन्त्य् (?) अब्दसहस्राणि तत्कर्ता नरके वसेत् ॥

“अजातिश्” च जन्मानि । “अमुत्र” परलोके । “अद्यते” भक्ष्यते ।

उशनाः

न ब्राह्मणस्यापदं कुर्यात् ।

यमः

वादेन ब्राह्मणं जित्वा हर्षं वै यो ऽधिगच्छति ।

श्मशाने पादपः सस्याद् गृध्रकङ्कनिषेवितः ॥

हारीतः

देवा लोकास् तथा वेदा गावो यज्ञास् तथैव च ।

सर्वस्थानेषु भूयिष्ठं ब्राह्मणेषु व्यवस्थिताः ॥

पूजितैः पूजिता ह्य् एते द्विष्टैर् द्विष्टा भवन्त्य् उत ।

निन्दितैर् निन्दिता ह्य् एते तस्माद् विप्रो ऽधिदैवतम् (?) ॥

पुनर् हारीतः

समीपस्थो दहत्य् अग्निः तेजसैवेन्द्रियं तनुम् ।

मन्युना तद् दहेद् विप्रः कुशलम् आप्रकृतिं यशः ॥

आसन्नं प्रदहत्य् अग्निः दूराच् च दहति द्विजः ।

तस्मात् तं पूजयेन् न्यायात् स हि तीव्रतरो ऽनलात् ॥

[३९६] छिन्नं रोहति शस्त्रेण दग्धं रोहति वह्निना ।

विप्रमन्युप्रदग्धस्य रोहणं नैव विद्यते ॥

ब्राह्मणान् भोजयेन् नित्यं ब्राह्मणान् अर्चयेत् सदा ।

ब्राह्मणानां प्रसादेन सर्वतः शान्तिम् आप्नुयात् ॥

यथार्णवे नौर् महती प्रयुक्ता

	सत् गारयन्त्य् [सन्तारय्त्य्?] आशु ततो दुर्गात् ।

हृष्टा द्विजा तद्वद् इह क्षणेन

	सन्तारयेयुर् महतो ऽपि दुर्गात् ॥

“पूजयेत्” प्रणामादिना \

मनुः [४.१६४] ।

परस्य दण्डं नो यच्छेत् क्रुद्धो (?) नैनं निपातयेत् ।

अन्यत्र पुत्रशिष्याद् वा शिष्ट्यर्थं तत्र पातयेत् ॥

“एनं” दण्डम् । “शिष्ट्यर्थम्” शिक्षार्थम् । “तत्र” पुत्रशिष्ययोः ।

याज्ञवल्क्यः [१.१५५] ।

न निन्दाताडने कुर्यात् पुत्रं शिष्यं च ताडयेत् ।

[मनुः ४.१४१] ।

हीनाङ्गान् अतिरिक्ताङ्गान् विद्याहीनान् यवोऽधिकान् ।

[३९७] रूपद्रव्यविहीनांश् च जातिहीनांश्च नाक्षिपेत् ॥

**विष्णुः **[७१.१–३] ।

    न च नावमन्येत । न हीनाङ्गम् अधिकाङ्गं वा । न च [मूर्खान्] धनहीनान् वा उपहसेत् । एवं स्त्रीं नावमन्येत् । न हीनान् अवमन्येत ।

**मनुः **[४.१३५–१३७] ।

क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।

नावमन्येत वै दृष्टं कृशान् अपि कदाचन ॥

एतत् त्रयं हि पुरुषं निर्दहत्य् अवमानितम् ।

तस्माद् एतत् प्रयत्नेन नावमन्येत बुद्धिमान् ॥

नात्मानम् अवमन्येत पूर्वाभिर् असमृद्धिभिः ।

आ मृत्योः श्रियम् अन्विच्छेन् नैतां मन्येत दुर्लभाम् ॥

शङ्खलिखितौ

न शिष्टान् असत्कुर्यात् ।

बौधायनः [२.४.२५–२७] ।

    दैन्यं शाठ्यं (?) जैह्म्यं च परिवर्जयेत् । अथाप्य् अत्र्**ओशनसो**श् च **वृषपर्वणश्** च दुहित्रोस् संवादे गाथाम् अप्य् उदाहरन्ति ।


    	स्तुवतो दुहिता त्वं वै याचतः प्रतिगृह्णतः ।


    	अथाहं स्तूयमानस्य ददतो ऽप्रतिगृह्णतः ॥

देवलः ।

आत्मानं न शपे दोषान् नीरुजो न स्वपेद् दिवा ।

न नखैर् विलिखेद् भूमिं गांश् च रात्रौ न संविशेत् ॥

न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतम् ।

नान्यत् प्रशंसेत् तत्रस्थस् तीर्थेष्व् आयतनेषु च ॥

आवासे भोजने वापि न त्यजेत् सहयायिनम् ।

देवान् नृपान् ऋषींश् चैव अनुसप्तपदं व्रजेत् ॥

ब्राह्मणान् नृपतीन् विद्वान् गाश् च साधून् शिशून् अपि ।

नाक्रोशेन् नावमन्येत पूजयेद् दैवतं यथा ॥

नावगाहेद् अपो नग्नो वह्निं नातिक्रमेत् पदा ।

शिरोऽभ्यक्तावशिष्टेन तैलेनाङ्गं विलेपयेत् ॥

अत्र न इति अनुषङ्गः ।

[३९९] विष्णुः [७१.७८] ।

न सर्पैर् न शस्त्रैः क्रीडेत् \

मनुः [४.१४४, १७७] ।

अनातुरः स्वानि खानि न स्पृशेद् अनिमित्तितः ।

रोमाणि च रहस्यानि सर्वाण्य् एव विवर्जयेत् ॥

न पाणिपादचपलो न नेत्रचपलो ऽनृजुः ।

न स्याद् वाक्चपलश् चैव न परदोहकर्मधीः ॥

वसिष्ठः [६.३३, ३५, ४१, ४२] ।

    नाङ्गन[ख]वादनं कुर्यात्, न चापो ऽञ्जलिना पिबेत् । न म्लेच्छभाषां शिक्षेत । अथाप्य् उदाहरन्ति ।


    	न पाणिपादचपलो न नेत्रचपलो भवेत् ।


    	न च वाकङ्गचपल इत् शिष्टस्य गोचरः ॥

गौतमः [१९–४९–५१] ।

    न पदा मनसा कर्षेत् । न शिश्नोदरपाणिपादचपलं **[४००]** कुर्यात् । छेदनभेदनविलिखनविमर्दनाङ्गस्फोटनानि नाकस्मात् कुर्यात् ।

“अवस्फोटनम्” हस्ताद्यङ्गसन्धिस्फोटनम् ।

मनुः [४.६३–६४] ।

न कुर्वीत वृथाचेष्टां न वार्य् अञ्जलिना पिबेत् ।

नोत्सङ्गे भक्षयेद् भक्ष्यं न जातु स्यात् कुतूहली ॥

न नृत्येद् अथ वा गायेन् न वादित्राणि वादयेत् ।

न चास्पोटेन् न वा क्ष्वेडेन् न संरक्तो विरावयेत् ॥

“आस्फोटनम्” पाणिना बाहुमूलाभिघातनम् । “क्ष्वेडनम्” सिंहनादः । “संरक्तो” हर्षणः । “विरावो” विकृतशब्दः ।

शङ्खलिखितौ

न भूमिं विलिखेन् न पदाभिहन्यात् ।

यमः

न गायेन् न च नृत्येत नाक्षैः क्रीडेत् कदाचन ।

न वादयेत् वादित्रं न (च) क्ष्वेडेद् कदाचन ॥

[४०१] नास्फोटयेन् न धावेत् तु नातिसाहसम् आचरेत् ।

हारीतः

    न पथि मूत्रपुरीषं शिलां चोत्सृजेत् । व्रीहिनिष्कृषणलोष्टमर्दनलेखालिखनं करजदशनवीणावादनानि वर्जयेत् । दैन्यम् आत्मनः । तथा मालावलेपप्रमादकरणविविधां चेष्टांश् च मद्यशुक्लविकारांश् च वर्जयेत् ।

“निष्कृषणम्” नखैर् वितुषीकरणम् । “अवलोपो” गर्वः ।

यमः

नैकवस्त्रेण भोक्तव्यं न नग्नः स्थानम् अर्हति ।

सुप्तव्यं नैव नग्नेन उच्छिष्टं तु न संविशेत् ॥

न गच्छेन् न पठेच् चैव न स्पृशेच् च तथा शिरः ।

न दधिसुमनसां प्रत्याचक्षीत नात्मनः ॥

स्रजं च नापकर्षेत् सुप्तं न प्रतिबोधयेत् ॥

मनुः [४.६९–७१] ।

बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम् ।

[४०२] न छिन्द्यान् नखरोमाणि दन्तैर् नोत्पाटयेन् नखान् ॥

न मृल्लोष्ठं विगृह्णीयान् न छिन्द्यात् करजैः तृणम् ।

न निष्फलं कर्म कुर्यान् नायत्याम् (?) आमसुखोदयम् ॥

लोष्टभक्षी तृणच्छेदी नखखादी च यो नरः ।

स विनाशं व्रजत्य् आशु सूचको शुचिर् एव च ॥

वर्जयेद् इत्य् अनुवृत्तौ आपस्तम्बः [१.३२.२८] ।

    तृणच्छेदनलोष्टविमर्दननिष्टीवनानि चाकारणाद् यच् चान्यत् परिचक्षते ।

“अकारणात्” प्रयोजनं विना, यदृच्छया इत्य् अर्थः । “परिचक्षते” वर्जयन्ति शिष्टा इति शेषः ।

पुनर् आपस्तम्बः [२.१२.१२] ।

प्ष्ठतश् चात्मनः पाणी न संश्लेषयेत् ।

याज्ञवल्क्यः [१.१३८] ।

नाक्षैः क्रीडन् न धर्मघ्नैर् व्याधितैश् च न संविशेत् ।

विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम् ॥

[४०३] “नदीतरम्” नदीतरणम्, बाहुभ्यां वर्जयेद् इत्य् अर्थः ।

मनुः [४.७४] ।

नाक्षैर् क्रीडेत् कदाचित् तु स्वयं नोपानहौ हरेत् ।

तथा [४.५७] ।

नैकः सुप्याच् छून्यगृहे शयानं न प्रबोधयेत् ।

नोदक्याभिभाषेत यज्ञं गच्छेन् न चावृतः ॥

आपस्तम्बः [२.२०.१२–१७] ।

    पदा पादस्य प्रक्षालनम् अधिष्ठानं च वर्जयेत् । प्रेङ्खोलनं च पादयोः जानुनि चात्याधानं जङ्घायाः नकैश् च नखवादनः । स्फोटनानि चाकारणात् । यच् चात्न्यत् परिचक्षते ।

“प्रेङ्खोलनम्” इतस् ततश् चालनम् । “अत्याधानम्” आरोपणम् ।

शङ्खलिखितौ

**[**न पादौ पादेन प्रक्षालयेत् । न दर्भैः परिमृज्यात् ।

[४०४] विष्णुः [७१.३७–३९] ।

    न पादौ प्रतापयेत् । न कुशेषु परिमृज्यात् । नाकांस्यभाजने पादौ धावयेत् ।

यमः

न कांस्ये शौचयेत् पादौ यत्र स्याद् अपि भोजनम् । **]**

गौतमः [९.१२–१३] ।

    (न?) वाय्वग्निविप्रादित्यो देवता गाश् च प्रति पश्यन् वा मूत्रपुरीषामेध्यान् व्युदस्येत् । नैता देवताः प्रति पादौ प्रसारयेत् ।

आपस्तम्बः [१.३१.२५] ।

    अग्निम् आदित्यम् आपो ब्राह्मणं गा देवताद्वारं प्रति पादं च शक्तिविषये नाभिप्रसारयेत् ।

पादौ इति शेषः ।

हारीतः

न देवगुरुगोब्राह्मणसमीपे पादौ प्रसारयेत् ।

देवलः

अशुद्धः शयनं स्नानं स्वाध्यायं यानवाहनम् ।

बहिर्निष्क्रमणं (?) चैव न कुर्वीत कथञ्चन ॥

स्वप्नम् अध्ययनं स्नानम् अध्वानं भोजनं गतिम् ।

उभयोः सन्ध्ययोः नित्यं मध्याह्ने च विवर्जयेत् ॥

[४०५] याज्ञवल्क्यः [१.१५५] ।

गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत् ।

शङ्खलिखितौ

नाग्निं गां ब्राह्मणं च पादेनाधितिष्ठेत् ।

आपस्तम्बः [१.३१.४–७] ।

    वर्जयेद् देवताभिधानं चाप्रयतः । परुषं चोभयोर् देवतानां राज्ञाश् च । ब्राह्मणस्य च गौर् इति पदोपस्पर्शनं वर्जयेत् । हस्तेन चाकारणात् ।

देवतानाम् इति जात्याख्यायां बहुवचनम् । “उभयोर्” देवताराज्ञोः ।

शङ्खलिखितौ

    नाशुचिर् अग्निं परिचरेत् । न ऋषिपितृदेवताः कीर्तयेत् । न गाधोदकम् अवगाहेत् । नापो ऽञ्जलिना पिबेत् । नापो ऽग्निं चैकतो धारयेत् ।

“पितरो” अग्निष्टात्तादयः । “देवता” विष्ण्वादयः । “एकतः” एकस्मिन् हस्तादौ ।

वृद्धशातातपः

विद्यमानेन हस्तेन ब्राह्मणो ज्ञानदुर्बलः ।

तोयं पिबति वक्त्रेण श्वासौ जायेत नान्यथा ॥

[४०६] उद्धृत्य वामहस्तेन यत् तोयं पिबति द्विजः ।

सुरापानेन तत् तुल्यं **मनुर्** आह प्रजापतिः ॥

अभोज्य इत्य् अनुवृत्तौ वसिष्ठः [१४.३६] ।

अन्तर्नाव्य् उदकम् ।

नौस्थ्यं जलं न पेयम् इत्य् अर्थः ।

आपस्तम्बः [२.१२.९–१०] ।

अग्निम् अपश् च न युगपद् धारयीत । नानाग्नीनां च सन्निवापं वर्जयेत् ।

“सन्निवापः” संसर्गः ।

गौतमः [९.९–११]

नापो ऽमेध्येन संसृजेत् । नाञ्जलिना पिबेत् । नातिष्ठेत् ।

हारीतः

    न नग्नो जलम् उपेत्यात् । न निष्ठीवेत् । नोत्तरेद् अनुपस्पृश्य नापः पिबेद् अञ्जलिना । नानुद्धृताभिर् अद्भिः कार्यं कुर्यात् । नाप्सु रेतोमूत्रपुरीषाणि चोत्सृजेत् ।

मनुः [४.५६] ।

नाप्सु मूत्रपुरीषं वा ष्टीवनं वा समुत्सृजेत् ।

अमेध्यलिप्तम् अन्यद् वा लोहितं वा विषाणि वा ॥

[४०७] आपस्तम्बः [१.३०.२२] ।

ष्टीवनमैथुनकर्माण्य् अप्सु वर्जयेत् ।

यमः

व्यतिक्रामेन् न (?) स्रवन्तीं ज्वलन्तीज्वलनं तथा ।

चैत्यवृक्षं न वै छिन्द्यान् नाशुष्केष्माणम् उत्सृजेत् ॥

न शुक्रं न विषं न मूत्रं न लोहितम् ।

नास्थिभस्मकपालं च न केशान् न विन्नखान् ॥

मनुः [४.५३–५४] ।

नाग्निं मुखेनोपधमेन् नग्नां नेक्षेत च स्त्रियम् ।

नामेध्यं प्रक्षिपेद् अग्नौ न च पादौ प्रतापयेत् ॥

अधस्तान् नोपदध्याच् च न चैवम् अवलङ्घयेत् ।

न चैनं वादतः कुर्यान् न प्राणाबाधम् आचरेत् ॥

आपस्तम्बः [१.१५.१८–२१] ।

    अग्निं चाप्रयत आसीदेत् । इषुमात्राद् इत्य् अन्ये । न चैनम् उपधमेत् । खट्वायां च नोपदध्यात् ।

[४०८] इषुमात्रादिषु परिमितदेशाद् उपधमेत्य सप्रायत (?) इत्य् अनुषङ्गः ।

पैठीनसिः

नापुष्पितं वृक्षम् आरोहेत् ।

देवलः

नावेक्षेताशुचिः पूर्वं घर्षयेन् न पदं पदा ।

नग्नौ (?) न प्रक्षिपेद् अग्नौ अद्भिः प्रशमयेत् तथा ॥

प्राणोपघातम् अन्येषां न शुद्धादिभिर् आचरेत् ।

सुहृन्मरणार्तिं वानसूयं (?) श्रावयेत् परान् ॥

अभियोगेण मित्राणि बालिश्याच् चैव पीडयेत् ।

दाक्षिण्याद् धि दरिद्रो ऽपि सहते मित्रपीडनम् ॥

प्राणिनो हिंसितव्याश् च क्लिष्टघातं न घातयेत् ।

अपण्यं कूष्टपण्यं (?) वा विक्रये न प्रयोजयेत् ॥

न च वह्निं विनिश्वासैर् ज्वालयेद् धर्मतत्त्ववित् ।

नवाद् वृथा (?) शस्त्रं गोगुरुस्त्रीकुमारके ॥

[४०९] पुण्यस्थानोदकस्थाने सीमान्तं वा कृषेन् न च ।

न भिन्द्यात् समयं पूर्वम् अभ्युपेतं कदाचन ॥

अविश्वासो हि पापिष्ठो भवेत् समयभेदनात् ।

निक्षेपोपनिधी प्राप्तौ तथैव पुनर् अर्पयेत् ॥

दत्वापनयनं चार्यैर् नरकद्वारम् उच्यते ।

यः पापिष्ठो नरः कुर्यात् तिर्यग्योनिषु मैथुनम् ॥

वियोनिगमनाद् भूयः स वियोनिषु जायते ।

परस्परं पशून बालान् पक्षि[णोर्] वा न योधयेत् ॥

परबाधान् न कुर्वीत जलवातायनादिभिः ।

कारयित्वा स्वकर्माणि कारून् पश्चान् न वञ्चयेत् ॥

कर्मानुरूपम् एतेषां प्रयच्छेद् भक्तवेतनम् ।

प्रतिवेश्मानुवेश्माभ्याम् अन्यत्र न निमन्त्रयेत् ॥

प्रदीप्तं गृहम् आसन्न अद्भिर् यायात् त्वरान्वितः ।

सायं प्रातर् गृहद्वारं भिक्षार्थं नावघट्टयेत् ॥

न चिरं वासयेत् कन्यां स्वामी प्राप्तफलां गृहे ॥

“क्लिष्टाघातम्” बहुक्लेशपूर्वकं वृथामोहार्थम् इति । “निक्षेपम्” प्रकाशम् अर्पितं द्रव्यम् । “उपनिधिः” वस्त्रादिपिहितम् अनाख्यात**[४१०]**स्वरूपं समर्पितम् । “जलायनम्” प्राणालिकादि । “वातायनम्”गवाक्षः । “कारून्” कर्मकारान् । “प्रतिवेश्मानुवेश्माभ्याम्” इति समीपगृहोपलक्षणम् । “भिक्षार्थम्” भिक्षानिवृत्त्यर्थम् । “नावघट्टयेत्” न संवृणुयात् । स्वाम्य् अत्र पित्रादिः । “प्राप्तफलाम्” रतिपुत्रफलयोग्याम् ।

पैठीनसिः

    न खादंस् तिष्ठेत् न हसन् जल्पेत । नाग्निं लङ्घयेत् । [न मुखेनोपधमेत्] । समृद्धम् अग्निं हस्ताभ्यां न स्पृशेत् । नोदके चिरं स्नायात् ।

उशनाः

    पूरनदीवृक्षनिकुटचतुष्पथपरस्त्रीणां प्रतारणावगाहनातिरोहणप्रश्लेषन-सम्भाषणानि वर्जयेत् ।

“पूरः” प्रवृद्धः जलप्रवाहः । “निकुटः” कोटरः । पूरनद्योः प्रतरणावगाहने । निकुटचतुष्पथेषु “अतिरोहणम्” अत्यन्ताक्रमणम् । “परस्त्रीणाम्” आलिङ्गिनसम्भाषणे । एतानि वर्तजेत् ।

[४११] आपस्तम्बः [१.३०.१४] ।

    दिवा च शिरसः प्रावरणं वर्जयेत् । मूत्रपुरीषयोः परिहाप्य ।

गौतमः [९.३६–३७] ।

    न प्रावृत्य शिरो ऽहनि पर्यटेत् । प्रावृत्य रात्रौ । तथा न वस्त्रेण वीजयेद् इति ।

[४१२]

३१

अथ परदारादिवर्जनम्

तत्र मनुः [४.१३४] ।

न हीदृशम् अनायुष्यं लोके किञ्चन विद्यते ।

यादृशं पुरुषसेह परदारोपसेवनम् ॥

व्यासः

स्वकर्मनिरतो नित्यं स्वदारनिरतो भवेत् ।

सेवनात् परकीयानां नरको दारकर्मणाम् ॥

उशनाः

नान्यपत्नीम् अभिगच्छेत् ।

यमः

परदारान् न सेवेत ।

**देवलः **।

    अगम्यागमनम् अपचारः । परभार्यात् तु वर्णोत्तमा स्वसा दुहिता सगोत्रा चण्डाली पतिता प्रव्रजिता तिर्यग्योन्यश् चागम्याः ।

**[४१३] **गम्यानाम् अपि कन्यानां दूषणं पापम् उच्यते ।

	पुनस् तां यदि गृह्णाति गन्धर्वः समयो भवेत् ॥

“गम्यानाम्” विवाहार्हाणाम् । “दूषणम्” समालिङ्गनचुम्बनादि ।

याज्ञवल्क्यः [१.१६०] ।

परशय्यासनोद्यानगृहयानानि वर्जयेत् ।

अदत्तान्य् अग्निहीनस्य न चाश्नीयाद् अनापदि ॥

“अदत्तानि” अननुज्ञातानि ।

मनुः [४.२०२] ।

यानशय्यासनान्य् अस्य कूपोद्यानगृहाणि च ।

अदत्तान्य् उपभुञ्जान एनसः स्यात् तुरीयभाक् ॥

इति परदारादिवर्जनम्

[४१४]

३२

अथ सङ्करवर्जनम्

बृहस्पतिः [आपद्धर्म, ५२] ।

विप्रयोनिं समासाद्य सङ्करं परिवर्जयेत् ।

मानुष्यम् अधिकं लोके ब्राह्मण्यम् अधिकं ततः ॥

[प्रायश्। २४–२५]

एकशय्यासनं पङ्क्तिर् भाण्डपक्वान्नमिश्रणम् ।

याजनाध्यापने योनिस् तथा च सहभोजनम् ॥

नवधा सङ्करः प्रोक्तो न कर्तव्यो ऽधमैः सह ।

उत्तमैर् उत्तमैः सार्धं कर्तव्यस् तु समेन वा ॥

“योनिर्” अत्र यौनः सम्बन्धः । “सहभोजनम्” एकपात्रभोजनम् ।

यमः

ब्राह्मण्यं परिरक्षेत नानायोनिनिषेवणात् ।

दुष्टेभ्यो व्यवहाराच् च तथा दुष्टप्रैग्रहात् ॥

[४१५] अशुभेभ्यश् च कर्मभ्यः संसर्गाद् अशुभैः सह ।

संसर्गगामिनो ह्य् एते हेतवः सद्भिर् ईरिताः ॥

सम्बन्धाद् गात्रसंस्पर्शाच् छयनात् सहभोजनात् ।

संलापाच् चापि संवासात् पापं सङ्क्रमते नृणाम् ॥

तथा

भाण्डसंसर्गसङ्कीर्णा योनिसङ्करदूषिताः ।

अन्नसङ्करसङ्कीर्णा वियोनिं यान्ति वै द्विजाः ॥

तथा

दुर्लभा ब्रह्मयोनिस् तु सङ्करेण तु नान्यथा ।

ब्रह्मभावो न सुलभस् तस्माद् बुध्येत ब्राह्मणः ॥

“दुष्टाः” पतितादयः । “व्यवहारः” परस्परगृहगमनादि । “अशुभेभ्यश्” चौरादिभ्यः । “अशुभैः” अपवित्रैः नीलरक्तादिभिः । “संसर्गगामिनः” संसर्गेण चरमाणस्य पापस्य वेक्ष्यमाणाः । “सम्बन्धो” यौनादि ।

हारीतः

आलापाद् गात्रसंस्पर्शान् निश्वासाद् अपि चैव तु ।

एकयानासनाभ्यां तु पापं सङ्क्रमते नृणाम् ॥

हन्याद् अशुद्धश् शुद्धं तु शुद्धो ऽशुद्धं तु शोधयेत् ।

[३१६] अशुद्धस् तु तमोभूतः शुद्धवासेन शुध्यति ॥

तयोर् यद्य् अत्र भूयित्ष्ठं शुद्ध्यशुद्धी ततः स्मृते ॥

बौधायनः [२.५.९] ।

गुरुसङ्करिणश् चैव शिष्यसङ्करिणश् च ये ।

आहारमात्रसङ्कीर्णा दीर्घं तम उपासते ॥

हारीतः

    पानशयनासनान्य् अपरिहार्यान्य् एके मन्यन्ते । तत्र वर्णविशेषात्, शुक्लमलिनसंसर्गदर्शनात्, पापसंसर्गाद् व्याधिसङ्क्रमणयोगाच् च । तस्मात् प्रथक् शौचाः श्रेयांस इति । स्वानुपपत्तौ शुद्ध्यन्तर्धाय समामनन्ति । अत्यन्त्संस्पर्शे सचेलस्नानम् । एवं ह्य् आह –


    	आसनं शयनं पानम् अन्तर्धाय समाचरेत् ।


    	ब्रह्मसूत्रोपानद्वस्त्रं धृतम् अन्यैर् न धारयेत् ॥


    	न चैकभोजनं प्राहुर् ब्राह्मणानां स्वकैर् अपि ।


    	प्रसङ्गात् कर्मदोषाच् च प्र्थक् शौचास् तथापराः ॥

वस्तुविशेषात् शुक्लमलिनयोः । संसर्गेण वर्णविशेषो दृष्टः । “स्वानुपपत्तौ” स्वकीयाद्यासनासम्भवे । “शुद्ध्यन्तर्**[४१७]**धाय” शुद्धिवस्त्रादिकम् । “ब्रह्मसूत्रम्” यज्ञोपवीतम् । “अन्यधृतम्” सर्वथैव न धारयेत् । “उपानद्वस्त्रे” तु कृतनिर्णेजने उपरि धार्ये । “निर्णियाशक्तौ” इति गौतमवचनात् । “एकभोजनम्” एकस्मिन् पात्रे पङ्क्तौ वा । “स्व”ऐर्” ज्ञातिभिः । “प्रसङ्गात्” अन्येन पापकर्मणापि सह । कदाचिद् उपरोधादिभोजनप्रसक्तेः ।

बृहस्पतिः [आचार ९३, ९६] ।

 एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् ।

भस्मना कृतमर्यादा न तेषां सङ्करो भवेत् ॥

अग्निना भस्मना चैव सलिलेन विशेषतः ।

द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर् विभिद्यते ॥

इति सङ्करवर्जनम् ।

[४१८]

३३

अथ त्याज्यात्याज्याः

अत्र शङ्खलिखितौ

अत्याज्या माता पिता सपिण्डास् तथा गुणवन्तः । सर्वे वात्याज्याः ।

“गुणवन्तः” विद्याकर्मशालिनः ।

देवलः

पितरं भ्रातरं पुत्रं पुत्रिकां भगिनीं स्नुषाम् ।

न त्यजेद् द्वेषलोभाभ्यां दारान् अपतितान् अपि ॥

मातृत्यागो हि शास्त्रेषु नोपदिष्टः कथञ्चन ।

पतिता वाभिशस्ता वा माता न त्यागम् अर्हति ॥

कुलवृद्धा ज्ञानवृद्धा वयोवृद्धाश् च मानवाः ।

शीलवृद्धाश् च सम्पूज्या तथा स्वगुणगौरवात् ॥

“अपतितान्” इति सर्वत्र विशेषणम् ।

**[४१९] हारीतः **।

पिता तु जनको मर्त्यैश् छन्दः स्वाचार्य उच्यते ।

हेवेष्ट्वोनं जनयति त्व् अग्नीं नध्वर्युर् वा दधात् (?) ॥

तस्माद् एतान् सदा वृद्धान् पूजयेन् न परित्यजेत् ।

परित्यागात् तथैतेषाम् इष्टांल् (?) लोकान् न विन्दति ॥

अशुद्धौ तु परित्यागः पातके ऽयाज्ययाजिने ।

उपाध्याये च याज्ये च न पितुस् त्याग उच्यते ॥

परित्यजन्ति ये रागाद् उपाध्यायं कथञ्चन ।

अवमानयन्ति ये मोहान् न तेषाम् निष्कृतिः स्मृता ॥

“छन्दःसु” स्ववेदेशु । अशुचिर् अत्र पातकायाज्ययाजनरूपा । “उपाध्याये च याज्ये च” अनन्त्रोक्ताशुद्धौ न परित्याग इति सम्बन्धः । न पितुस् त्यागः पूर्वोक्ताशुद्धु ।

विष्णुः

भार्या शिष्यश् च पुत्रश् च संसृष्टाः पापकर्मभिः ।

परिभाष्य परित्याज्या पतितो यो ऽन्यथा भवेत् ॥

[४२०] ऋत्विगाचार्यान् याजकाध्यापकौ हेयाव् अन्यत्र हानात् पतितं भाष्य विभाष्य विरव्याप्यः ।

आपस्तम्बः [१.२१.५–६] ।

न पतितैः संव्यवहारो विद्यते । तथापपात्रैः । 

“अपपात्रैः” शवरादिभिः ।

गौतमः [२१.१२–१६] ।

    अज्ञानाध्यापनाद् ऋत्विगाचार्यौ पतनीयसेवायां च हेयौ । अन्यत्र हानात् पतति । तस्य च परिगृहीतेत्य् एके । न कदाचन माता पित्रोर् अवृत्तिः । दायं तु न भजेरन् ।

“अज्ञानाध्यापनाद्” इति समाहारद्वन्द्वम् । कृत्वा पश्चात् नञ् सम्बन्धनीयः । “अज्ञानात्” कर्मविशेषे आविर्भाव्याज्ञानात् तस्य अकरणं ऋत्विगाचार्यौ त्यजतो ऽन्यः स्वीकर्ता सो ऽपि पतति । “अवृत्तिः” अनुकूलवृत्तिर् अशुश्रूषेति यावत् । “दायं तु न भजेरन्” पुत्रा इति शेषः ।

आपस्तम्बः [१.२८.६–१०] ।

    न पतितम् आचार्यं ज्ञातिं वा दर्शनार्थो गच्छेत् । न चास्माद् भोगान् उपयुञ्जीत । यदृच्छासन्निपाते उपसङ्गृह्य **[४२१]** तूष्णीं [व्यति]व्रजेत् । माता पुत्र[त्व]स्य भूयांसि कर्माणि प्रारभेत, तस्यां शुश्रूषा नित्या पतितायाम् अपि । न तु धर्मसन्निपातः स्यात् ।

“दर्शनार्थम्” दर्शनम् अर्थो यस्येति स तथोक्तः । “पुत्रत्वस्य” आहितगर्भस्य पुत्रत्वसिद्ध्यर्थं गर्भसन्निपातः । “वापः” (?) धर्मकृत्ये श्राद्धादौ सम्मिलनम् ।

वसिष्ठः [१३.४७] ।

पतितः पिता न परित्याज्यो माता तु पुत्रं प्रति न पतति ।

बौधायनः [२.३.४२–४३] ।

    न पतितैः संव्यवहारो विद्यते पतिताम् अपि तु मातरं बिभृयाद् अनभिभाषमाणः ।

गौतमः [२०.१–७] ।

    त्यजेत् पितरं राजघातकं शूद्रानुयाजकं वेदविप्लावकं भ्रूणहनं यश् चान्त्यावसायिभिः सह संवसेत् अन्त्यावसायिनां **[४२२]** वा । तस्य विद्यागुरून् योनिसम्बन्धांश् च सन्निपात्य सर्वाण्य् उदकानि प्रेतकर्माणि कुर्युः । पात्रं चास्य विपर्यस्येयुः । दासः कर्मकरो वावकराद् अमेध्यपात्रम् आनीय दासीघटात् पूरयित्वा दक्षिणाभिमुखः पदा विपर्यस्येदम् अनुदकं करोमीति नामग्राहम् । ते सर्वे ऽप्य् आरभेत प्राचीनावीतीनो मुक्तशिखाः । विद्यागुरवो योनिसम्बन्धाश् च वीक्षेरन् अप उपस्पृश्य ग्रामं प्रविशन्ति ।

“शूद्रार्थं याजकः” शूद्राद् अर्थम् अधिगम्य यो यजेत । “वेदविप्लआवकाः” अनध्यायाध्यापकाः । “अन्त्यावसायिभिः” चण्डालादिभिः । “अन्त्यावसायिनो संवासो” मैथुनादिकः । “तस्य” त्याज्यस्य जीवत एव “प्रेतकर्माणि कुर्युः” । पुत्रादयः इति शेषः । “सन्निपात्य” मेलयित्वा । “उदकादीनि” आदिशब्देन प्रेतश्राद्धोपपादानम् । “विपर्यासो” न्युब्जीकरणम् । “अवकरः” मार्जनीनिरस्तधूल्यादिसञ्चयः । तद्दासं कर्मकरं वा । सर्वे पूवोक्ताः पुत्रादयः ।

शङ्खलिखितौ

    पतिताभिशस्तदुष्टात्मकुलक्षयकरस्य वा तस्य गुरोर् बान्धवानां राज्ञश् च समक्षं दोषम् अनुरव्याप्य (?) तम् अभिभाष्य पुनः पुनर् अवस्थां लभस्वेति । स यद्य् एवम् अवस्थितमतिः स्यात् । **[४२३]** ततो भिन्नपात्रम् आदाय पूर्णम् अपां सूनाम् अपसव्यं कृत्वा वामपादेन पात्रदक्षिणां दिशं अपवर्जयेत् । पात्रम् अपसव्यं कृत्वा अपविद्धोदकं दत्वा लौकिकं शौचं आसीरन् । अपपात्रितस्य रिक्थपिण्डोदकानि व्यावर्तन्ते । सम्भाषणसहासनव्यवहारान् न तेन सह कुर्यात् ।

“अभिशस्तः” अन्नाकृतपातको ऽपि पातकित्वेन प्रसिद्धः । “सततम्” पापकर्माभिसन्धिर् दुष्टात्मा । “कुलक्षयकरः” विहितऋतुकालगमनवर्जनादिना । “अवस्था” शुद्ध्यवस्था । “अवस्थितमतिः” बान्धवोक्तशुद्धावस्थायाम् अकृतमतिः । “अपविद्धोदकम्” त्यागोदकम् । “लौकिकं शौचम्” स्नानाचमनादि ।

**वसिष्ठः **[१५.१२–१६] ।

    वेदविप्लावकशूद्रयाजकोत्तमवर्णवर्गपतिताः तेषाम् । पात्रनियमनप्रपात्र-सङ्कराद् अकृत्स्नं पात्रम् आदाय दासो ऽसवर्णापुत्रो वा बन्धुर् असदृशो वा गुणहीनः सव्येन पादेन प्रवृत्ताग्रान् लोहितान् [दर्भान्] चोपस्तीर्य पूर्णपात्रम् अस्मै [निनयेत् ।] निनेतारं चास्य प्रकीर्णकेशान् ज्ञातयो ऽन्वालभेरन् अपसर्व्यं [कृत्वा] गृहेषु स्वैरम् आपाद्येरन् । अत ऊर्ध्वं तेन न तं धर्मयेयुः । तद्धर्माणो तं धर्मयन्तः \

“उत्तमवर्णवर्गः” ब्राह्मणसमूहः । “अकृत्स्नम्” खण्डम् । “पतितम्” निःसारितः । “बन्धुर् असदृशः” असवर्णो भ्रात्रादिः । “व्यक्ताग्राः” साग्राः । “लोहितान्” गौरिकादीन् । [४२४] “अपूर्णम्” रिक्तं यथा भवति । “स्वैरम्” मन्दम् । “आपद्येरन्” अवसन्ना भवेयुः । “न धर्मयेयुः” न संव्यवहारयेयुः ।

मनुः [११.१८२–१८५] ।

पतितस्योदकं कार्यं सपिण्डैर् बान्धवैर् बहिः ।

निन्दिते ऽहनि सायाह्ने ज्ञात्यृत्विक्गुरुसन्निधौ ॥

दासीघटम् अपां पूर्णं पर्यस्येत् प्रेतवत् पदा ।

अहोरात्रम् उपासीरन् नाशौचं बान्धवैः सह ॥

निवर्तेरंश् च तस्मात् तु सम्भाषणसहासने ।

दद्याद् यस्य प्रदानं च पात्रम् एव च लौकिकी ॥

ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद् धनम् ।

ज्येष्ठांशं प्राप्नुयाच् चास्य यवीयान् गुणतो ऽधिकः ॥

**मनुर् वसिष्ठश् **चतुर्थे [मनु ११.१८६–१८७, १८९] ।

प्रायश्चित्ते तु चरिते पूर्णकुम्भम् अपां नवम् ।

तेनैव सार्धं प्राश्यश् च स्नात्वा पुण्ये जलाशये ॥

स त्व् अप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ।

सर्वाणि प्रेतकर्माणि यथापूर्वं समाचरेत् ॥

एवम् एव विधिं कुर्याद् योषित्स्व् अपतितास्व् अपि ।

वस्त्रान्नम् आसां देयं तु वसेयुश् च गृहान्तिके ॥

एनस्विभिर् अनिर्णिकैः (?) नार्थं किञ्चित् सहाचरेत् ।

कृतनिर्णेजतांस् त्व् एतान् न जुगुप्सेत कर्हिचित् ॥

[४२५] अत्रापतिताधिकारे शङ्खलिखितौ

    स चेत् प्रेत्यापन्नः शुद्धिम् अन्विच्छेत् तम् एव जनम् आहूय राजानम् अभिभाष्य गुणानुकीर्तनं कृत्वा, शौद्धिकं दधिमधुघृतजलाक्षतानां नवं पात्रं पूरयित्वा, गन्धमाल्योपनीतं कृत्वा, त्रिः प्रदक्षिणीकुर्युः । बान्धवाः योषितश् च ततो महाव्याहृतिहोमान्ते तत् पात्रम् अपां मध्ये प्रवाहयेरन् । “शान्तान्य् अशुभानि दुर्भाषितानि” इति ब्रुवन्तः । ततः स्नात्वा शुचिः शुक्लवासाः पुनर्गृहं प्रविशेद् बान्धवानुमतः । स्त्रीणाम् अप्य् एवं परित्यागो, दुष्टानां पुनर् आवाहनं च ।

“आवाहनम्” बान्धवैः सह प्रयोगः । “प्रत्यापन्नः” पुनः शुद्धतां प्राप्तः । “शुद्धिम् अन्विच्छेत्” शुद्ध्यनुरूपः संव्यवहारस् तम् इच्छते । “शौद्धिकं” शुद्धिप्रयोजकम् ।

क्वचित् प्रायश्चित्तस्य आगमनाद्य् अभिधाय याज्ञवल्क्यः [३.२११] ।

घटे ऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम् ।

प्रदद्यात् प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया ॥

“सत्कारः” सत्पूर्वद्यासदानम् (?) ।

**वसिष्ठः **[१५.१७]

पतितानां चरितव्रतानां प्रत्युद्धारः ।

अथाप्य् उदाहरन्ति ।

	अग्रे ऽभ्युद्धरतां गच्छेत् क्रीडन्न् इव हसन्न् इव ।

	पश्चात् पातयितां (?) गच्छेच् छोचन्न् इव रुदन्न् इव ॥ इति ।

[४२६] आचार्यमातृपितृहन्तारस् तत्प्रमादाद् अपवाच्याद् वा एषां प्रत्यपत्तिः । पूर्णाद्

    व्रतात् पवित्राद् वा काञ्चनं पात्रं माहेयेनापि पूरयित्वापोहिष्टाभिर् एनम् अभिषिञ्चेयुः । सर्व एवाभिषिक्तस्य प्रत्युद्धारः पुत्रजन्मना व्याख्यातः ।

“हन्तारः” अत्रापि पीडितारः । “अपवाच्याः” अपगतपापाः । “प्रत्यापत्तिः” प्रत्यायनम् । “प्रवृत्तम्” नदीजलात् “स्रवन्तीभ्यो वा” [ग्ध् २०.१०] इति गौतमवचनात् । “पात्रं माहेयम्” मृण्मयम् । “पुत्रजन्मना व्याख्यातः” इत्य् अनेन जातकर्मादिसंस्कारकर्मादि कुर्याद् इत्य् उक्तम् ।

गौतमः [२०.१०–१७] ।

    यः प्रायश्चित्तेन शुध्येत् तस्मिन् शुद्धे शतकुम्भमयं पात्रं पुण्यतमाड् ध्रदात् पूरयित्वा स्रवन्तीभ्यो वा तत एनं वा अप उपस्पृशेयुः । अथास्मै तत् पात्रं दद्युः तत् प्रतिगृह्य जपेत् “शन्ता द्यौः शान्ता पृथिवी शान्तं शिवम् अन्तरिक्षं ये रोचनस् तम् इह गृह्णामि” इति एतैर् **यजुर्भिः** वावमानीभिः तरत्समन्दीभिः कूष्माण्डैश् चाज्यं जुहुयात् । हिरण्यं वा ब्राह्मणाय दद्यात् । गां वा । आचार्याय च । यस्य तु प्राणान्तिकं प्रायश्चित्तं स म्र्तः शुध्येत् । सर्वाण्य् एव तस्मिन्न् उदकानि प्रेतकार्याणि कुर्युः । एतद् एव शान्त्युदकं सर्वेषु पातकेषु जपेत् ।

[४२७] शान्तेत्यादीनि गृह्णामीत्यन्तानि । “यजूंषि” श्रुतैर् उक्तिअर् यजुभिः । “पावमानीभिः” तरत्समन्दीभिः । “अप उपस्पृशेयुर्” इत्य् अत्र पूर्वेणान्वयः । ब्राह्मणाय गोहिरण्ययोः वैकल्पिक्यं दानम् । आचार्ये ऽपि तथा ।

बौधायनः [२.१.३६–३७] ।

    अथ यस्य ज्ञातयः परिषद्य् उदपात्रं निनयेयुर् असाव् अहम् (?) एवम्भूत इति । “चरित्वापः पयो घृतं मधुलवणम्” इत्य् आरब्धवन्तम् ब्राह्मणा ब्रूयुः “चरितं त्वया” इति । ॐ इत्य् अपरः प्रत्याह । चरितनिर्वेशं सवनीयं कुर्युः ।

“चरितनिर्वेशम्” कृतप्रायश्चित्तम् । “सवनम्” प्रस्तरस्तत्सम्बन्धिजातकर्मादिसवनीयम् ।

विष्णुः [५४.३२] ।

बालघ्नांश् च कृतघ्नांश् च विशुद्धान् अपि धर्मतः ।

शरणागतहन्तॄंश् च स्त्रीहन्तॄंश् च न सम्विशेत् ॥

तैः सम्भूयोदकपानादि न कुर्यात् ।

हारीतः

ब्राह्मणं क्षत्रियं वापि वैश्यं शूद्रम् अथापि वा ।

वृत्तहीनं दुराचारं दूरतः परिवर्जयेत् ॥

स्वपदस्थं सुवृत्तस्थं स्वकर्मपरिदेविनम् ।

शूद्रं पुण्यतमं प्राहुर् नान्ये वृत्तच्युतांश् त्रयः ॥

[४२८] व्र्त्तम् एव प्रशंसन्ति सर्वारम्भेषु (?) पण्डिताः ।

वृत्तैः स्थिताः परांल् लोकान् नाच्छन्ती ह्य् अमरा इव ॥ इति ।

“स्वपदस्थः” द्विजशुश्रूषकः । “स्ववृत्तस्थः” श्राद्धाधिकारी । “स्वकर्मपरिदेवी” द्विजशुश्रूषात्तधनः ।

यमः

य इमां धर्ममर्यादाम् ऋषिभिः स्थापितां पुरा ।

यथा च विन्दते विप्रः स प्रेत्येह च नन्दति ॥

शिष्टाचरितमार्गो ऽयम् अशिष्टानाम् अतो ऽन्यथा ।

शिष्टास् ततो दिवं यान्ति यान्त्य् अशिष्टास् त्व् अधोगतिम् ॥

गौतमः [९.३७]

मनसा चैव [तत्समग्रम्] आचारम् अनुपालयेद् आपत्कल्पः ।

साङ्गम् अनुष्ठानाशक्तौ मनसा ध्यानेनापि साङ्गनिष्पादयेद् इत्य् अर्थः ।

इति त्याज्यात्याज्याः ।

[४२९]

३४

अथ ऋणापाकरणम्

तत्र बौधायनः [२.१६.१–५] ।

    प्रजाकामस्योपदेशः । प्रजननिमित्ता समाख्येत्य् अश्विनाव् ऊचतुः ।


    	आयुषा तपसा युक्तः स्वाध्याय्ज्यापरायणः ।


    	प्रजाम् उत्पादयेद् युक्तः स्वे स्वे वर्णे जितेन्द्रियः ॥


    	ब्राह्मणस्यर्णसंयोगस् त्रिभिर् भवति जन्मतः ।


    	उन्मुच्यात्मवा भवति विमुक्तो धर्मसंशयात् ॥


    	स्वाध्यायेन ऋषीन् पूज्य सोमेन च पुरन्दरम् ।


    	प्रजया च पितॄन् पूर्वान् अनृणो दिवि मोदते ॥

पुनर् बौधायनः [२.१६.७–१४] ।

    विज्ञायते च – “जायमानो वै ब्राह्मणस् त्रिभिर् ऋणैर् ऋणवान् जायते, ब्रह्मचर्येण ऋषिभ्यो, यज्ञेन देवेभ्यः, प्रजया पितृभ्य इति । एवम् ऋणसंयोगं वेदो दर्शयति ।

बन्धम् ऋणं तस्य मोक्षः । प्रजायत्तं फलानुकर्षम्, पितॄणां चानुकर्षशब्दांश् च, प्रजावान् अनुत्सन्नः ।

[४३०] “प्रजावान् भवति यावद् एवं प्रजानुगृहीते तावद् अक्षयं लोकं जयति” इति ।

    सत्पुत्रम् उत्पाद्यात्मानं तारयति । 

	सप्तावरान् सप्त पूर्वान् षड् अन्यान् आत्मसप्तमान् ।

	सत्पुत्रम् अधिगच्छंस् तु तारयत्य् एनसो भयात् ॥


    यस्मात् प्रजासन्तानम् उत्पाद्य फलम् आप्नोति । तस्माद् यत्नवान् प्रजाम् उत्पादयेत् । [औषधमन्त्रसंयोगेन] । [तस्योपदेशः श्रुतिसामान्येनोपदिश्यते । सर्ववर्नेभ्यः फलत्वाद् इति ] ।

आत्मनः फललाभाय तस्मात् स पुत्रम् उत्पाद्यात्मानम् एवोत्पादयतीति विज्ञायते “आत्मा वै पुत्रनामासीति” । एवं द्वितीय आत्मा जीवताद् द्रष्टव्यो । “यः पुत्रम् उत्पादयति तस्मान् नात्मा क्वचित् अक्षेत्रे समुत्स्रष्टव्यः । आत्मानम् अन्य्”अयो (?) हि यद्य् आत्मानम् उत्पादयति स तथा भवति” । तस्माद् आदित एवम् अन्विच्छेत् । सवर्णे सङ्कृतम् उपदेशेन तस्मिन् दारसंयोगे प्रजाम् उत्पादयेत् “औषधमन्त्रसंयोगेन” तस्योपदेशश्रुतिसामान्येनोपदिश्यते सर्ववर्णेभ्यः । “फलत्वात्” इति प्रजाकामस्योपदेशः । करिष्यत इति शेषः । “प्रजननम्” प्रजोत्पादनम् । “समाख्या” कुलानुकीर्तनम् । “आयुषा” आयुष्येण । “दीर्घ” सन्ध्योपासनवर्जनादिकर्मणा । “तपसा” नियमेन । “इज्या” यागः । “युक्तः” यत्नवान् । “जितेन्द्रियः” परदारनिषिद्धकालमैथुनवर्जी । “आत्मवान्” प्रशस्तात्मा । “धर्मसंश्रयात्” पुत्रोत्पादनादिरूपधर्माश्रयात् । ब्रह्मचर्यादीनाम् ऋणापनयनवद् अवश्यकर्तव्यत्वाद् ऋणस्योक्तिः । “फलानुकर्षम्” प्रजाधीनस्वर्गादिफलानुस्मृतिं पितॄणां चानुकर्मर्षः (?) पुत्राइ**[४३१]**रूपेणानुवृत्तिः । “शब्दांश् च” पित्रादीनाम् अनुकीर्तनादि प्रजायाम् आयत्तम् । “वेदो दर्शयति” इति प्रत्येकं सम्बन्धः । “अनुत्सन्नः” मृतो ऽपि प्रजारूपेण विद्यमान एव भवति । तथा च तैत्तिरीयके [ब्राह्मण १.५.५.६]: “प्रजाम् अनु प्रजायसे तद् उ ते मर्त्याम्र्तम्” इति । “अक्षेत्रे” परदारादौ । “सवर्णे” समानजातीये । “उपदेशेन” गर्भाधानादिना । तस्य पुत्रोत्पादनस्य “उपदेशश्रुतिः” । “औषधसंयोगेन” सामान्येन साधारण्येन सवर्णेभ्यः शतपथब्राह्मण उपदिश्यते पठ्यत इत्य् अर्थः । “फलवत्वादिना” इति । औषधमन्त्रयोर् इति शेषः ।

विष्णु-वसिष्ठौ [वि १५.४५; वस् १६.२] ।

ऋणम् अस्मिन् सन्नयति अमृतत्वं च विन्दति ।

पिता पुत्रस्य जातस्य पश्येच् चेज् जीवतो मुखम् ॥

जातस्य ऋणापाकरणयोग्यस्येति भर्तृयज्ञः । “सन्नयति” सङ्क्रमयति ।

शङ्खलिखितौ

जीवत्पुत्रमुखं दृष्ट्वा पितॄणाम् अनृणः पिता ।

स्वर्गं स तेन जातेन तस्मिन् सन्न्यस्य तत्क्षणम् ॥

शङ्खलिखित-पैठीनसयः

यत्र क्वचन जातेन पिता पुत्रेण नन्दति ।

तेन चानृणतां याति पितॄणां पिण्डदेन वै ॥

[४३२] “यत्र क्वचन” जीवक्षेत्रयोर् अन्योन्यसमयपूर्वकं परक्षेत्रे ऽपि ।

हारीतः

यस्य पुत्रः शुचिर् दक्षः पूर्वे वयसि धार्मिकः ।

संयत्ता चात्मदोषाणां स तारयति पूर्वजान् ॥

बृहस्पतिः [श्राद्ध १२०] ।

पुन्नाम्नो नरकात् पुत्रः पितरं त्रायते यतः ।

मुखं दर्शनेनापि तदुत्पत्तौ यतेत सः ॥

एतत् पुत्रोत्पत्तिमात्रस्यैतत् फलम् ।

हारीतः

पुन्नामा निरयः प्रोक्तः छिन्नतन्तुश् च नैरकः ।

तत्र वै त्रायते यस्मात् तस्मात् पुत्र इति स्मृतः ॥

“नैरकः” नरकगामी ।

शङ्खलिखितौ

अग्निहोत्रं त्रयो वेदा यज्ञाश् च शतदक्षिणाः ।

ज्येष्ठपुत्रप्रसूतस्य कलां नार्हन्ति षोडशीम् ॥

पुत्रपौत्रप्रतिष्ठस्य बह्वपत्यस्य जीवतः ।

अक्षीणवेदयज्ञस्य हस्तप्राप्यं त्रिविष्टपम् ।

“ज्येष्ठपुत्रप्रसूतस्य” प्रथमपुत्रजन्मन इत्य् अर्थः ।

मनुः शङ्खलिखितौ विष्णु-वसिष्ठ-हारीताः

पुत्रेन लोकान् जयति पौत्रेणात्यन्तम् अश्नुते ।

अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥

[४३३] बौधायनः [२.९.६] ।

पुत्रेण लोकान् जयति पौत्रेणानन्त्यम् अश्नुते ।

अथ पुत्रस्य पौत्रेण नाकम् एवाधिरोहति ॥

शङ्खलिखितौ

सन्तानवर्धनं पुत्रं युक्तं च पितृकर्मणि ।

देवब्राह्मणसम्पन्नम् अभिनन्दति पूर्वजाः ॥

“सन्तानवर्धनः” पुत्रोत्पादनसमर्थः । “देवब्राह्मणसम्पन्नः” देवब्राह्मणपूजनपरः ।

वसिष्ठः [१७.२–४] ।

    अनन्ताः पुत्रिणो लोकाः नापुत्रस्य च लोको ऽस्तीति विज्ञायते । “प्रजाभिर् अग्नेर् (?) अमृतत्वम् अत्स्याम्” इत्य् अपि निगमेन च । “अप्रजाः सन्त्व् अत्रिणः” इत्य् अभिशापः । आदानशीला राक्षसाः । 

नूनम् अयं महान् अपकारो येन राक्षसा नाकाश्यत इत् तात्पर्यार्थः ।

बृहस्पतिः [व्यवहार २६, ८८] ।

अपुत्रेण सुतः कार्यो यादृक् तादृक् प्रयत्नतः ।

पिण्डोदकक्रियाहेतोः नामसङ्कीर्तनस्य च ॥

काङ्क्षन्ति पितरः पुत्रान् नरकापातभीरवः ।

यादृक् तादृक् मुख्यपुत्रिकापुत्रादिः ।

यादृशं गुणम् आप्नोति कुप्लवैः सन्तरन् जलम् ।

[४३४] तादृशं गुणम् आप्नोति कुपुत्रैः सन्तरंस् तमः ॥

बृहस्पतिः [आपद्धर्म, ५३] ।

यथा जलं कुप्लवेन तरन् मज्जति मानवः ।

तद्वत् पिता कुपुत्रैश् च तमस्य् अन्धे निमज्जति ॥

अस्य च पुत्रो अवश्यम् अनुशासनीयः इति तात्पर्यार्थः । तथा शतपथश्रुतेः

पुत्रम् अनुशिष्टं लोकम् आहुस् तस्मात् तम् अनुशासतीति ।

आदिपुराणे

दौहित्रस्य मुखं दृष्ट्वा किमर्थम् अनुशोचसि ।

महासंसारसङ्कीर्णा नास्ति वै नरकाद् भयम् ॥

मनुः [४.२५७] ।

महर्षिपितृदेवानां गत्वानृण्यं यथाक्रमम् ।

पुत्रे सर्वं समासज्य वसेन् माध्यस्थ्यम् आस्थितः ॥

एकाकी चिन्तयेन् नित्यं विविक्ते हितम् आत्मनः ।

एकाकी चिन्तयन् विप्रः परं श्रेयो ऽधिगच्छति ॥

“माध्यस्थ्यम्” धनपुत्रादौ ममतात्यागः । “एकाकी” असहायः, सहाध्यायिप्रभृतिभिः । सम्भाषादिवर्जं चिन्तयेद् आत्मनो हितम्, उपनिषद्उक्तब्रह्मस्वरूपं ध्यायेद् इत्य् अर्थः ।

यमः

त्यक्तमुक्तगृहावासं विमुक्तं पूर्वबान्दवैः ।

जितेन्द्रियम् अलुब्धं च तं देवाः स्थविरं विदुः ।

[४३५] मनुः [४.२५९–२६०] ।

एषोदिता गृहस्थस्य वृत्तिर् विप्रस्य शाश्वती ।

स्नातकव्रतकल्पश् च सत्त्ववृद्धिकरः शुभः ॥

अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् ।

व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥

[५.१६९] अनेन विधिना नित्यं पञ्चयज्ञान् न हापयेत् ।

द्वितीयम् आयुषो भागं गृहेषु ब्राह्मणो वसेत् ॥

[४.१] चतुर्थम् आयुषो भागम् उषित्वाद्यं गुरौ द्विजः ।

द्वितीयम् आयुषो भागं कृतोद्वाहो गृहे वसेत् ॥

तद् एवमादिवचनपर्यालोचना । गृहस्थस्यैवापाकृतऋणत्रयस्य, कुटुम्बभरणादि-समर्थस्य पुत्रस्य भार्यादिपरिकरं समर्थं त्यक्तममत्वस्यात्मनि समारोपणं कृतवतः इत्थं भूतस्यैव भार्यारहितत्वेनैव गताग्निहोत्रस्य वा द्रव्यसाध्यश्राद्धादि-कर्मनिवृत्तस्य सन्ध्योपासनोदकतर्पणशौचात्मचिन्तनमात्रानुष्ठानं कुर्वतो ऽयं प्रकार इति **मेधातिथिः **।

इति श्री महाधिराजश्रीमद्गोविन्दचन्द्रदेवमहासन्धिविग्रहिक-

**भट्टश्रीहृदयधरात्मजभट्टश्रीलक्ष्मीधरविरचिते **

कृत्यकल्पतरौ गृहस्थकाण्डम् समाप्तम् ॥