०१ ब्रह्मचारिकाण्डम्

श्रीलक्ष्मीधरविरचितः

कृत्यकल्पतरुः

ब्रह्मचारिकाण्डम्

[प्रार्थना]

[विष्णुः]

देवः स्पुरन् महिमतत्तदनन्तमत्स्य-

	कूर्मादिजन्मकथिताद्भुतवैभवो यः ।

ब्रह्माण्डबुद्बुदमयो स्फुरदंशलेशः

	मायाम् अफोहतु स बोधमहोदधिर् वः ॥ १ ॥

[शिवः]

जाने यस्य ललाटलोचनशिखा लेखापि चन्द्री विभो-

	रम्माशी समयं (?) जगज्जनयितुं बीजाय सञ्जायते ।

तस्योर्मिव्यपयोगियोगिजनताहृत्पद्मसद्मस्थित-

	स्फारध्वान्तरहरं हरस्य दहरस्थानं महामो महः ॥ २ ॥

[मनुः]

सुहृद्यः सुकृतापुण्यक्षीरनीरविवेचनः ।

मनुर् मानसम् आविश्य राजहंसः पुनातु वः ॥ ३ ॥

[२]

[राज्ञः प्रशंसा]

श्रीमन्मानववासवः स विजयी गोविन्दचन्द्रो ऽस्ति यः

	क्रीडातर्जितगौडगर्जित[भ]यस्तम्भीभव[त्पार्थिवः] ।

सर्वोर्वीन्द्रजयप्रतिश्रुतिवियत्सङ्कोचनाशङ्किना

	येनात्मापि जितस् ततः शमभृता मन्ये किम् अन्ये परे ॥ ४ ॥

एष ज्ञानपराक्रमैकवसतिर् गोविन्दचन्द्रः परं

	कन्दर्पस्य च वैरिणां च विशिखैः रक्तो ऽभितः शोभते ।

मायाम् अप्य् अवनीशमण्डलम् अपि स्वच्छन्दम् उच्छिन्दता

	येनात्मा कृतिना दिनैः कतिपयैर् अद्वैतम् आरोपितः ॥ ५ ॥

कोशान् गेहेष्व् अमुञ्चन् पथि करितुरगान् बान्धवान् अर्धमार्गे

	दुर्गे ह्य् अन्तःपुराणि प्रतिरवचकिताः पर्वतेभ्यो निवृत्ताः ।

यस्योद्योगे द्रवन्ते ऽसमसमरसमारम्भगम्भीरभेरी-

	भाङ्काराकीर्णकर्णज्वरभरतरलप्रेक्षिताः शात्रवेशाः ॥ ६ ॥

स किल सकलदृप्तक्षत्रनक्षत्रलक्ष्मी-

	हरणकिरणमाली कस्य न स्यान् नमस्यः ।

असमसमरसम्पल्लम्पटः शौर्यभाजाम्

	अवधिरवधि युद्धे येन हम्मीरवीरः ॥ ७ ॥

[ग्रन्थकर्तुः प्रशंसा]

विद्यावल्लिविलासभूरुहवरो वीरस्य विप्रोत्तमः

	श्रीलक्ष्मीधर इत्य् अचिन्त्यमहिमा तस्यास्ति मन्त्रीश्वरः ।

भूभर्तुः पदचक्रवाकमिथुनक्रीडार्थम् आसूत्रिता

	येनानेकनरेन्द्ररत्नमुकुटज्योतिर्मयी वाहिनी ॥ ८ ॥

हुत्वा लक्षम् अरातिभूपतिशिरःपद्मानि शौर्यानले 

	पृथ्वीं साधयता समुद्रवसनां श्रीदेवकाशीपतेः ।

[३] एतेनोत्तमसाद्धकेन कति न क्रूराशयाः प्रापिताः

	सङ्ग्रामव्रतनैष्ठिकेन विलयं विद्यार्थिना प्रार्थिताः ॥ ९ ॥

[ग्रन्थस्य प्रशंसा]

तेनायं वेदमूलः स्मृतिनिचयमयस्कन्धवान् यः पुराण्-

	व्यूहव्युत्पन्नशाखः प्रकरणनिकरोद्दण्डकाण्डप्रचण्डः ।

उन्मीलद्वाक्यपत्रः स्फुरदतिविशदज्ञानरम्यः प्रसूनः

	श्रीमद्धर्मार्थकामामृतमयफलदस् तन्यते कल्पवृक्षः ॥ १० ॥

पौराणीर् एव वाणीः क्वचिद् अकृतकृतौ क्वापि भूयः स्मृतीनां

	गोपालस् तद्वयस्यः स्वकृतिविरचनं वाक्यरूपेण चक्रे ।

श्रौतस्मार्तादिसारैर् विबुधजनमनोहारि कारिष्यते ऽयं

	मीमांसोत्तंसितार्थैर् अपृथुर् अथ कथातीअरन्ध्रः प्रबन्धः ॥ ११ ॥

यस्योत्थितौ स्थितिमती न महार्णवे श्रीः

	निद्रां दधाति यद् अधः किल कामधेनुः ।

तस्यातनिष्यति रतिं विबुधद्विजानां

	आनन्दनः किम् उ न कल्पतरोः प्ररोहः ॥ १२ ॥

का चिन्तैव महार्णवानुसरणे का कामधेनुस्पृहा

	क्षुद्राः कस्य परिस्फुरन्ति हृदये ते रत्नमालादयः ।

श्रीलक्ष्मीधरबुद्धिवैभवसुधासेकप्रभावाद् अयं 

	येनात्रैव जगत्त्रयोपकृतये कल्पद्रुमः कल्पते ॥ १३ ॥

एकार्थेष्व् एकम् एकं क्वचिद् अपरम् अपि स्वीकृतं कार्ययोगात्

	न्यस्तं विज्ञानमूलं प्रचरद् अपि परित्यक्तम् अज्ञानमूलम् ।

शिष्टैः सम्यग् गृहीतं वचनम् अभिहितं स्पष्टितं चास्फुटार्थं

	यत्रापारो विरोधः स्फुरति विरचिता तेन तत्र व्यवस्था ॥

[४] लक्ष्मीधरेण मुनिमुख्यवचःसमुद्रं

	न्यायाद्रिणा किल विलोड्य समुद्धृतो ऽयम् ।

काण्डैश् चतुर्दशभिर् अद्भुतपर्वबन्धैः 

	वाञ्छोचितं फलति कल्पतरुर् न कस्य ॥ १५ ॥

[ब्रह्मचारिकाण्डोपक्रमश्लोकः प्रतिज्ञा च]

वित्रस्ताः विमुखाः क्षतेन्द्रियसुखाः क्ष्मातल्पनिद्रालवो

	भिक्षावृत्तिजुषस् त्वचा परिचिताः कौपीनमात्राम्बराः ।

नीताः काश्यधिपस्य येन रिपवस् ते ब्रह्मचर्यं परं

	काण्डे स प्रथाश्रमं प्रथमतः प्रस्तौति लक्ष्मीधरः ॥ १६ ॥

कृत्यकल्पतराव् आद्ये काण्डे ऽस्मिन् ब्रह्मचारिणः ।

स्वरूपफलतो माननिमित्तः धर्मनिर्णयः ॥

परिभाषाथ संस्कारः तथोपनयनक्रिया ।

विधिर् आचमनस्याथ निमित्तं शौचम् एव च ॥

सन्ध्याविध्यग्निकार्ये च अभिवादोपसङ्ग्रहौ ।

मान्या आचार्यगुर्वादिसञ्ज्ञाः तन्माननक्रमः ॥

गुर्वाचार्यानुवृत्तिस् तु पुत्रभार्यानुवर्तनम् ।

इन्द्रियाणां निग्रहश् च नियमा ब्रह्मचारिणाम् ॥

अध्याप्यो ऽध्यापनविधिः स्वाध्यायदिवसेतरौ ।

अध्येयं चतुराश्रम्यव्यव्स्था नैष्ठिकक्रिया ॥

आचार्यदक्षिणास्नाने इति द्वाविंशतिक्रमात् ।

पर्वाण्य् अभिनिरूप्यन्ते विस्तृतानि विभागशः ॥

[५]

॥ १ ॥

धर्मनिर्णयः

अथ स्वरूपफलप्रमाणनिमित्तैः प्रवृत्त्यौपयिकं धर्मनिरूपणम् । तत्र को धर्म इत्य् अपेक्षायां धर्मस्वरूपफलप्रमाणनिमित्तैः प्रवृत्त्यौपयिकं धर्मनिरूपणम् ।

मनुः [२.१] ।

विद्वद्भिः सेवितः सद्भिः नित्यम् अद्वेषरागिभिः ।

हृदयेनाभ्यनुज्ञातो यो धर्मस् तं निबोधत ॥

विद्वद्भिः वेदार्थविद्भिः । सेवितः सततम् अनुष्ठितः । सद्भिः साधुभिः । नित्यम् अनिन्दितं प्रथमतया । अद्वेषरागिभिः विध्यनुमितरागद्वेषशून्यैः । हृदयेनाभ्यनुज्ञातो निर्विचिकित्सम् कर्तव्यत्वेनानुमतः ।

विश्वामित्रः

यमार्थाः क्रियमाणं हि शंसन्त्य् आगमवेदिनः ।

स धर्मो यं विगर्हन्ति तम् अधर्मं प्रचक्षते ॥

[६]

आपस्तम्बः [१.१०.६–७] ।

    न धर्माधर्मौ चरत आवां स्व इति । न देवा न गन्धर्वा न पितर इत्य् आचक्षते ऽयं धर्मो ऽयम् अधर्म इति । यं त्व् आर्याः क्रियमाणं प्रशंसन्ति स धर्मो यं विगर्हन्ति सो ऽधर्मः ।

अयम् अर्थः — आत्मकथनाय सर्वलोकप्रत्यक्षं धर्माधर्मावायां वर्तावह इति ब्रुवाणौ न भ्रमतः ।

भविष्यपुराणे

धर्मः श्रेयः समुद्दिष्टं श्रेयो ऽभ्युदयलक्षणम् ।

धर्मः श्रेय इत्य् श्रेयः, धर्मेण तत्साधनं लक्ष्यते । मुख्यं पुनः श्रेयो ऽभ्युदयरूपम्। तद् आह श्रेयो ऽभ्युदयलक्षणम् इति ।

अथ धर्मविशेषाः

तत्र हारीतः

    अथाश्रमाणाम् पृथग्धर्मो विशेषधर्मः समानधर्मः कृत्स्नधर्मश् चेति । पृथगाश्रमानुष्टा[ना?]त् पृथग्धर्मो, यथा चातुर्वर्ण्यधर्माः । स्वाश्रमविशेषानुष्ठानाद् विशेषधर्मो [यथा]नैष्ठिकया**[७]**यावरानुज्ञायि-चातुराश्रम्यसिद्धानाम् । सर्वेषां यः समानः [स समानधर्मः । नैष्ठिकः] कृत्स्नधर्मः ।

अनुज्ञायिको वानप्रथविशेषः । चातुराश्रम्यसिद्धो अयम् इति शेषः । नैष्ठिकः कृत्नस्हर्म [इति । निष्ठा] संसारसमाप्तिः, आत्मज्ञानवतः प्रयवायपरीहाराय नित्यनैमित्तिकानुष्ठानम् इति यावत् [तत्प्रयोजनको नैष्ठिकः] ।

धर्म इत्य् अनुवृत्तौ भविष्यपुराणे

स तु पञ्चविधः प्रोक्तो वेदमूलः सनातनः ।

वर्णधर्मः स्मृतस् त्व् एको आश्रमाणाम् अतः परम् ।

वर्णाश्रमस् तृतीयस् तु गौणो नैमित्तिकस् तथा ॥

वर्णत्वम् एकम् आश्रित्य यो धर्मः सम्प्रवर्तते ।

वर्णधर्मः [स] उक्तस् तु यथोपनयनं नृप ॥

यस् त्व् आश्रमं समाश्रित्य अधिकारः प्रवर्तते ।

स कल्व् आश्रमधर्मस् तु भिक्षादण्डादिको यथा ॥

वर्णत्वम् आश्रमत्वं च यो ऽधिकृत्य प्रवर्तते ।

स वर्णाश्रमधर्मस् तु मौञ्जीया मेखला यथा ॥

यो गुणेन प्रवर्तेत गुणधर्मः स उच्यते ।

यथा मूर्धाभिषिक्त[स्य] प्रजानां परिमालनम् ॥

निमित्तम् एकम् आश्रित्य यो धर्मः सम्प्रवर्तते ।

नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर् यथा ॥

अधिकारो अत्र धर्मः ।

[८] कालिकापुराणे

इष्टापूर्तौ स्मृतौ धर्मौ श्रुतौ वै शिष्टसम्मतौ ।

प्रतिष्ट्ःआद्यं तयोः पूर्तम् इष्टं यज्ञादिलक्षणम् ।

भुक्तिमुक्तिप्रदं पूर्तम् इष्टं भोगार्थसाधनम् ॥

प्रतिष्ठाद्यं देवताप्रतिष्ठाजलाशयोत्सर्गादि । तयोः [इष्टापूर्तयोः मध्ये] ।

श्रीमहाभारते

एकाग्निकर्महवनं त्रेतायां यत्र हूयते ।

अन्तर्वेद्यां च यद् दानम् इष्टं तद् अभिधीयते ॥

वापीकूपतडागानि देवतायतनानि च ।

अन्नप्रदानम् आरामाः पूर्तम् आर्याः प्रचक्षते ॥

एकाग्निकर्महवनम् एकस्मिन्न् अग्नौ आवसथ्यादौ होमरूपकर्म । त्रेतायाम् अग्नित्रये ।

मनुः [१.८८–९१] ।

अध्यापनम् अध्ययनं यजनं याजनं तथा ।

दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् ॥

प्रजानां रक्षणं दानम् इज्याध्ययनम् एव च ।

विषयेष्व् अप्रसक्तिं च क्षत्रियस्य समादिशत् ॥

पशूनां रक्षणं दानम् इज्याध्ययनम् एव च ।

[९] वणिक्पथं कुसीदं च वैश्यस्य कृषिम् एव च ॥

एकम् एव तु शूद्रस्य प्रभुः कर्म समादिशत् ।

एतेषाम् एव वर्णानां शुश्रूषाम् अनसूयया ॥

विषयाप्रसक्तिः इन्द्रियविजयः । वणिक्पथम् वाणिज्यम् । कुसीदम् वृद्ध्यर्थं धनप्रयोगः ।

महाभारते

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।

कर्माणि प्रविभक्तानि स्वभावप्रभवैर् गुणैः ॥

शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च ।

ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् ॥

विज्ञानम् यज्ञादिकर्मकौशलम् ।

शौर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् ।

दानम् ईश्वरभावश् च क्षात्रं कर्म स्वभावजम् ॥

शौर्यम् विकर्मशीलत्वम् । तेजः अधृष्यतौपाधिको गुणविशेषः । दाक्ष्यम् उत्साहः । ईश्वरभावः प्रभुत्वम् ।

कृषिगोरक्षवाणिज्यं वैश्यकर्मस्वभावजम् ।

[१०] परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥

गोरक्षम् पशुपाल्यम् ।

स्वे स्वे कर्मण्य् अभिरतः संसिद्धिं लभते नरः ।

तथा [१८.४७] ।

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।

स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥

स्वधर्मः स्ववर्णाश्रमधर्मः ।

महाभारते

आनृशंस्यम् अहिंसा चाप्रमादः संविभागिता ।

श्राद्धकर्मातिथेयं च सत्यम् अक्रोध एव च ॥

स्वेषु दारेषु सन्तोषः शौचं नित्यानुरूपतः ।

आत्मज्ञानं तितिक्षा च धर्मः साधारणो नृप ॥

आनृशंस्यम् अक्रूरत्वम् । आत्मज्ञानम् नित्यत्वज्ञानम् । तितिक्षा क्षमा ।

तथा साधारणो धर्मः

विष्णुः [२.१६–१७] ।

क्षमा सत्यं दमः शौचं दानम् इन्द्रियसंयमः ।

अहिंसा गुरुश्रुश्रूषा तीर्थानुसरणं तथा ॥

[११] आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।

अनभ्यसूया च तथा धर्मः सामान्य उच्यते ॥

सामान्यः चतुर्णाम् अपि वर्णानाम् ।

बृहस्पतिः [संस्कार, ४८९] ।

दया क्षमानसूया च शौचानायासमङ्गलम् ।

अकार्पण्यम् अस्पृहत्वं सर्वसाधारणानि च ॥

श्रीमहाभारते

सत्यं दमस् तपः शौचं सन्तोषो ह्रीः क्षमार्जवम् ।

ज्ञानं शमो दया दानं एष धर्मः सनातनः ॥

देवलः

शौचं दानं तपः श्रद्धा गुरुसेवा क्षमा दया ।

विज्ञानं विनयः सत्यम् इति धर्मसमुच्चयः ॥

याज्ञवल्क्यः [१.८] ।

इज्याचारदयाहिंसादानस्वाध्यायकर्मणाम् ।

अयं स परमो धर्मो यद् योगेनात्मदर्शनम् ॥

बृहस्पतिः [संस्कार ४९०, ४९२, ४९५, ४९६, ४९८–५००]

परे वा बन्धुवर्गे वा मित्रे द्वेष्टरि वा सदा ।

[१२] आपन्ने रक्षितव्यं तु दयैष परिकीर्तिता ॥

बाह्ये वाध्यात्मिके चैव दुःखे चोत्पादिते क्वचित् ।

न कुप्यति न वा हन्ति सा क्षमा परिकीर्तिता ॥

न गुणान् गुणिनो हन्ति स्तौति मन्दगुणान् अपि ।

नान्यदोषेषु रमते सानसूया प्रकीर्तिता ॥

अभक्ष्यपरिहारश् च संसर्गश् चाप्य् अनिन्दितैः ।

स्वधर्मे च व्यवस्थानं शौचम् एतत् प्रकीर्तितम् ॥

शरीरं पीड्यते येन सुशुभेनापि कर्मणा ।

अत्यन्तं तन् न कर्तव्यम् अनायासः स उच्यते ॥

प्रशस्ताचरणं नित्यम् अप्रशस्तविसर्जनम् ।

एतद् धि मङ्गलं प्रोक्तम् ऋषिभिस् तत्त्वदर्शिभिः ॥

स्तोकाद् अपि हि दातव्यम् अदीनेनान्तरात्मना ।

अहन्य् अहनि यत् किञ्चिद् अकार्पण्यं [हि] तत् स्मृतम् ॥

यथोत्पन्नेन सन्तोषः कर्तव्यो ह्य् अथ वस्तुना ।

परस्याचिन्तयित्वार्थं सास्पृहा परिकीर्तिता ॥

महाभारते

सत्यं भूतहितं प्रोक्तं मनसो दमनं दमः ।

तपः स्वधर्मवर्तित्वं शौचं सङ्करवर्जनम् ॥

सन्तोषो विषयत्यागो ह्रीर् अकार्यनिवर्तनम् ।

क्षमा द्वन्द्वसहिष्णुत्वम् आर्जवं समचित्तता ॥

ज्ञानं तत्त्वार्थसम्बोधः शमश् चित्तप्रसन्नता ।

[१३] दया भूतहितैषित्वं ध्यानं निर्विषयं मनः ॥

देवलः

व्रतोपवासनियमैः शरीरोत्तापनं तपः ॥

तथा ।

प्रत्ययो धर्मकार्येषु तथा श्रद्धाभ्युदाहृता ।

नास्ति ह्य् अश्रद्धधानस्य धर्मकार्यप्रयोजनम् ॥

देवीपुराणे

कायक्लेषैर् न बहुभिर् न चैवार्थस्य राशिभिः ।

धर्मः सम्प्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैर् अपि ॥

देवलः

विगर्हातिक्रमाक्षेपहिंसाबाधवधात्मनाम् ।

अन्यमन्युसमुत्थानदोषाणां मर्षणं क्षमा ॥

तथा ।

स्वदुःखेष्व् इव कारुण्यं परदुःखेषु सौहृदम् ।

दयेति मुनयः प्राहुर् अनुक्रोशं च जन्तुषु ॥

[१४] यत् पुनर् वैदिकीनां च लौकिकीनां च सर्वशः ।

धारणा सर्वविद्यानां विज्ञानम् इत् कीर्त्यते ॥

विनयं द्विविधं प्राहुः शश्वद् दमशमाव् अपि ।

शरीरोपरतिः शाण्तिर् ज्ञानं प्रज्ञाप्रसादजम् ॥

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।

आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥

दक्षः

यथैवात्मा परस् तद्वद् द्रष्टव्यः सुखम् इच्छता ।

सुखदुःखानि तुल्यानि यथात्मनि तथा परे ॥

अथ फलतो धर्मनिरूपणम्

तत्र मनुः (२.९) ।

श्रुतिस्मृत्युदितं धर्मम् अनुतिष्ठन् हि मानवः ।

इह ईर्तिम् अवाप्नोति प्रेएत्य चानुत्तमं सुखम् ॥

अनुत्तमं सुखम् इति यथाप्राप्ततत्तत्फलोपलक्षणार्थम् ।

**गौतमः **(११.३१–३२) ।

    वर्णाश्रमाश् च स्वस्वधर्मनिष्ठाः प्रेत्य कर्मफलम् अनुभूय ततः शेषेण विशिष्ट[देश]जातिकुलरूपायुःश्रुतवृत्त[वित्त]सुखमेधसो जन्म प्रतिपद्यन्ते । विषवञ्चो विपरीता नश्यन्ति । 

[१५] ततः शेषेणेति तस्यैव कर्मणः शेषेणेति भर्तृज्ञः । तस्माद् अन्येन शेषेण कर्मणेति **भट्टपादाः **। यद् आहुः गौतमीये ऽपि तच्चेषस् तस्माच् चित्ताद्यपेक्षयेति । मेधस इति सकारान्तं वीर्यवाची । विष्वञ्चः सर्वतो गामिनः, यथेष्टचेष्टा इति यावत् । विपरीता नरकादौ पापफलम् अनुभूय नश्यन्ति विरुद्धदेशादौ जन्म प्रतिपद्य पापरता भवन्ति ।

आपस्तम्ब [२.२.२–५] ।

    सर्ववर्णानां स्वधर्मानुष्ठाने परमपरिमितं सुखम् । ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानम् इति प्रपद्यन्ते । तच् चक्रवद् उभयलोकयोः सुख एव वर्तते । यथौषधिवनस्पतीनां बीजस्य क्षेत्रे कर्मविशेषेण फलवृद्धिर् एवम् । एतेन दोषफलपरिवृद्धिर् उक्ता ।

परम् श्रेष्ठम् । अपरिमितम् चिरकालानुवृत्ति । परिवृत्तिः पुनरावृत्तिः । कर्मफलशेषेण कर्मफलसाधनशेषेणेत्य् अर्थः । एतच् च नित्यानाम् एव कर्मणां फलान्तरम् इति कपर्दिभाष्यम्[१६] तत् तस्मात् सुख एव वर्तते न दुःखम् । क्षेत्रे बीजस्योप्तस्य [कर्षणादिना यथा] फलपरिवृद्धिः सर्वतः परिमाणतः वीर्यादिभिर् वृद्धिः तथा आवश्यककर्मानुष्ठातरि पुरुषे ।

तथा मनुः [४.१५३] ।

आचाराल् लभते ह्य् आयुर् आचाराद् ईप्सिताः प्रजाः ।

आचाराद् धनम् अक्षय्यम् आचारो हन्त्य् अलक्षणम् ॥

आचारः आवश्यकं कर्म । अक्षय्यम् अतिप्रभूतम् इत्य् अर्थः । अलक्षणम् अशुभसूचकदेहचिह्नं स्कन्धादौ तिलकालकादि तत्सूचितम् अधर्मम् अनारब्धफलं हन्तीत्य् अर्थः ।

मनु-वसिष्ठ-यमाः [मनु ४.१५८; वसिष्ठ ६.८] ।

सर्वलक्षणहीनो ऽपि यः सदाचारवान् नरः ।

श्रद्धधानो ऽनसूयश् च शतं वर्षाणि जीवति ॥

**हारीतः **[वसिष्ठ ६.१] ।

आचारः परमो धर्म इति वेदविदो विदुः ।

न ह्य् अनाचारिणो लोकान् प्रवदन्ति मनीषिणः ॥

तथा ।

काम्यैः केचिद् यज्ञदानैस् तपोभिर्

	लब्ध्वा लोकान् पुनर् आयान्ति जन्म ।

कामैः मुक्ताः सत्ययज्ञाः सुदानास्

	तपोनिष्ठा अक्षयान् यान्ति लोकान् ॥

[१७] एतेन कामनासदसद्भावनिबन्धनः फलभेदो दर्शितः ।

भविष्यपुराणे ।

** **फलं विनाप्य् अनुष्ठानं नित्यानाम् इष्यते स्फुटम् ।

काम्यानां स्वफलार्थं तु दोषघातार्थम् एव च ॥

नैमित्तिकानां करणं त्रिविधं कर्मणां फलम् ।

क्षयं केचिद् उपात्त्[स्य] दुरितस्य प्रचक्षते ॥

अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्यते ।

नित्यक्रियां तथा चान्ये अनुषङ्गफलं श्रुतिम् ॥

अत्र बृहस्पतिः [संस्का। ११.२२९] ।

श्रुतिस्मृती चक्षुषी द्वे द्विजानां न्यायवर्त्मनि ।

मार्गे मुह्यन्ति तद्धीनाः प्रयतन्ति पथश्च्य्ताः ॥

न्यायवर्त्मनि न्यायार्थे, धर्म इति यावत् ।

अत्र मनुवसिष्ठौ [मनु ४.१५७]; वसिष्ठ ६.६] ।

दुराचारो हि पुरुषो लोके भवति निन्दितः ।

दुःखभागी च सततं व्याधितो ऽल्पायुर् एव च ॥

दुराचारो निन्दिताचारः ।

**आपस्तम्बः **[१.१२.११–१२] ।

    यत्र [तु] प्रीत्युपलब्धितः प्रवृत्तिर् न त्व् अत्र शास्त्रम् अस्ति । तद् अनुवर्त[मानो] नरकाय राध्यते ।

[१८] यत्र प्रीत्युपलब्धितः इति । लौकिकप्रमाणतः प्रीतिसाधन[त्व]ज्ञानाद् यत्र प्रवर्तते, न तत्र शास्त्रव्यापारः । नरकाय राध्यति नरकवशो भवति, रध्यतिर् वशगमन इति निरुक्तकारवचनात् [निरुक्त ६.३२] ।

**अङ्गिराः **।

स्वाभिप्रायकृतं कर्म यत् किञ्चिज् ज्ञानवर्जितम् ।

क्रीडाकर्मे च बालानां तत् सर्वं निष्प्रयोजनम् ॥

ज्ञानवर्जितम् शास्त्रीयज्ञानवर्जितम् ।

**आपस्तम्बः **[१.२०.१–२] ।

    नेमं लौकिकम् अर्थं पुरस्कृत्य धर्मांश् चरेत् । निष्फला ह्य् अभ्युदये भवन्ति ।

इमं धनकीर्त्यादिकम्, पुरस्कृत्य उद्दिश्य, अभ्युदये शास्त्रीयफलविषये ।

मनुः [४.२४२] ।

तस्माद् धर्मं सहायार्थं नित्यं सञ्चिनुयाच् छनैः ।

धर्मेण हि सहायेन तमस् तरति दुःसहम् ॥

तमः पापम् । तथा [४.१७१] ।

सीदन्न् अपि हि धर्मेण मनो धर्मे न वारयेत् ।

अधार्मिकाणां पापानाम् आशु पश्यन् विपर्ययम् ॥

[१९] अधार्मिकाणां विहितम् अकुर्वताम्, पापानां निषिद्धकारिणाम् । आशु इति निन्दातिशयार्थम् ।

**महाभारते **।

यस्य नोत्क्रामति मतिर् धर्ममार्गानुसारिणी ।

तम् आहुः पुण्यकर्माणम् अशोच्यं मित्रबान्धवैः ॥

सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् ।

तथात्मानं समादध्यान् न भ्रश्येत यथा पुनः ॥

तथा

धर्माय ये ऽभ्यसूयन्ति बुद्धिमोहान्विता नराः ।

अपथा गच्छतां तेषाम् अनुयातापि नश्यति ॥

इदं च त्वाम् अत्र परं ब्रवीमि

	पुण्यप्रदं तात महाविशिष्टम् ।

न जातु कामान् न भयान् न लोभाद्

	धर्मं जह्याज् जीवितस्यापि हेतोः ॥

अत्रैव तैत्तिरीयश्रुतिः

    धर्मो विश्वस्य जगतः प्रतिष्ठा, लोके धर्मिष्ठं प्रजा उपसर्पन्ति । धर्मेण पापम् अपनुदन्ति, धर्मे सर्वं प्रतिष्ठितम्, तस्माद् धर्मं परमं वदन्ति ।

अथ प्रमाणतः

तत्र मनुः [२.६] ।

वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।

आचारश् चैव साधूनां आत्मनस् तुष्टिर् एव च ॥

अखिलः विधिनिषेधाद्यात्मकः । धर्मशब्दश् चाजहत्स्वार्थलक्षणया धर्मादिपरः, वेदस्य धर्मप्रमितिमूलत्वात् । अनुवादश् चायं तद्द्वारेण स्मृत्यादीनां वेदमूलत्वप्रतिपादनार्थम् । शीलं अद्रोहादि । तथा च महाभारते

अद्रोहः सर्वभूतानां कर्मणा मनसा गिरा ।

अनुग्रहश् च दानश् च शीलम् एतद् विदुर् बुधाः ॥

हारीतः

    ब्रह्मण्यता देवपितृभक्तता सौम्यता अपरोपतापिता अनसूयता मृदुता अपारुष्यता मैत्रता प्रियवादिता कृतज्ञता शरण्यता [प्रणति]श् चेति त्रयोदशविधं शीलम् । तस्य चाचारवन्तः प्रमाणम् ।

तद्विदां वेदार्थविदाम् । आचारो विवाहादौ कङ्कणबन्धनाद्यनुष्ठानम् । आत्मतुष्ट्ः अधर्मसन्देहे सति वैदिकसंस्कारवासितान्तःकरणानां साधूनां एकत्र पक्षे मनः परितोषः । [२१] यद् उक्तं भट्टपादैः

एतेन वैदिकानेकधर्मधीसंस्कृतात्मनाम् ।

आत्मतुष्टेः प्रमाणत्वं [सिद्धिं धर्मप्रसिद्धये] ॥

याज्ञवल्क्यः [१.७] ।

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।

सम्यक्सङ्कल्पजः कामो धर्ममूलम् इदं स्मृतम् ॥

प्रियशब्देन प्रीतिर् लक्ष्यते । स्वस्य आत्मनः धर्ममूलं न सर्वस्येति । सम्यक्सङ्कल्पज इति सम्यक्सङ्कल्पाज् जातः । कामः शास्त्राविरुद्धे अर्थे [यथा] मया भोजनव्यतिरेकेण उदकं न पातव्यम् इति विश्वरूपः । अथ वा सम्यक्सङ्कल्पात् रागादिरहितसङ्कल्पात्, ज्ञानाद् उपजातं ब्राह्मणोपचिकीर्षादि [यद् एव] मनुना शीलत्वेनोक्तं [तद् एव] सम्यक् सङ्कल्पज इत्य् अनेनैवोच्यते ।

तथा [१.३] ।

पुराणन्यासमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।

वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥

[२२] विद्यानां पुरुषार्थज्ञानानाम्, धर्मस्य च स्थानानि व्यवस्थापकानि, बोधकत्वेन ।

श्रीविष्णुपुराणे [३.६.२८–२९] ।

अङ्गानि वेदाश् चत्वारो मीमांसा न्यायविस्तरः ।

धर्मशास्त्रं पुराणं च विद्या ह्य् एताश् चतुर्दश ॥

आयुर्वेदो धनुर्वेदो गान्धर्वश् चेति ते त्रयः ।

अर्थशास्त्रं चतुर्थं च विद्यास् त्व् अष्टादशैव ताः ॥

चतुर्दश धर्मप्रमितिं प्रति प्रधानानि । चतस्रः पुनर् दृषृटप्रधानाः क्वचिद् अलौकिकम् अर्थं प्रमाणयन्त्यो धर्मे ऽपि प्रमाणम् ।

**सुमन्तुः **।

    वेदवेदाङ्गेतिहासपुराणतर्क्मीमांसाधर्मशास्त्राणि कुलगणदेशजाति-वर्णधर्मपाखण्डाश्रमश्रोत्रियधर्मव्यवस्थाप्रवर्तकानि ।

आद्यो धर्मशब्दो वर्णपर्यन्तैः प्रत्येकम् अभिसम्बध्यते । कुलधर्मः चूडाकरणकालादिः । गणधराश् च वक्ष्यन्ते । देशधर्माः स्त्रीणां वासोविन्यासविशेषादयः । जातिधर्माः [सूतादीनां अश्वसारथ्यादयः । वर्णधर्माः] उपनयनादयः । पाखण्डादयः वेदबाह्याः । आश्रमधर्माः भिक्षादण्डादयः । श्रोत्रियश् छन्दोऽध्यायी, तद्धर्माः **[२३] **कारीर्याद्यध्ययनभूमौ भोजनादयः । पुनः धर्मग्रहणं पाखण्डसम्बन्ध-व्यवच्छेदार्थम् ।

पारस्करः

विधिर् विधेयस् तर्कश् च वेदः षडङ्गात्मकः ।

विधिः अज्ञातज्ञापको वेदभागः । वेधेयो मन्त्रः । तर्को मीमांसा ।

**देवलः **।

ऋग्यजुःसामार्थवाणो वेदाः ।

शङ्खलिखितौ

    स्मृति[र्] धर्मशास्त्राणि । तेषां प्रणेतारो मनुविष्णुयमदक्षाङ्गिरोऽत्रि-बृहस्पत्य्-उशन-आपस्तम्बवसिष्थकात्यायनपराशरव्यासशङ्खलिखित-संवर्तगौतम-शातातपहारीतयाज्ञवल्क्यप्राचेतसादयः ।

यमः

मनुर् यमो वसिष्थो ऽत्रिर् दक्षो विष्णुस् तथाङिराः ।

उशना वाक्पतिर् व्यास आपस्तम्भो ऽथ गौतमः ॥

कात्यायनो नारदश् च याज्ञवल्क्यः पराशरः ।

संवर्तश् चैव शङ्खश् च हारीतो लिखितस् तथा ॥

[२४] एतैर् यानि प्रणीतानि धर्मशास्त्राणि वै पुरा ।

तान्य् एवातिप्रणीतानि न हन्तव्यानि हेतुभिः ॥

शङ्खलिखितग्रन्थौ । आदिशब्दग्राह्याश् चैते — बुधदेवलसोमजमदग्निविश्वामित्र-पजापतिवृद्धशातातप[सुमन्तु]पैठीनसीपितामहबौधायनछागलेयजाबालच्यवन-मरीचिकाश्यपाः ।

तथा च भविष्यपुराणे

अष्टादशपुराणेषु यानि वाक्यानि पुत्रक ।

तान्य् आलोच्य महाबाहो तथा स्मृत्यन्तरेषु च ॥

मन्वादिस्मृतयो यास् तु षट्त्रिंशत्परिकीर्तिताः ।

तासां वाक्यानि क्रमशः समलोच्य ब्रवीमि ते ॥

इति गुहं प्रति ईश्वरवाक्ये ।

मन्वादिस्मृतयः ताश् चानन्तरोक्ताभिर् एव सर्वपरिगृहीताभिः पूर्यन्ते । वृद्धशातातप-योगियाज्ञवल्क्यवृद्धवसिष्ठवृद्धमनुलघुहारीतादीनि तु प्रसिद्धषट्तिंशदन्तर्गत-कर्तृकान्य् एव अवस्थाभेदेन तैर् एव का[क]रणात् ।

[२५] तथा च याज्ञवल्क्येनोक्तम् “योगशास्त्रं च यत् प्रोक्तम्” इति । तथा ।

स्नानम् अब्दैवतैर् मन्त्रैर् यत् त्वयोक्तं पुरानघ । इति ।

यानि तु गृह्यतत्परिशिष्टादीनि तानि भिन्नकोटीन्य् एव पुराणवत् [प्रमाणानि] । “तथा स्मृत्यन्तरेषु च” इति भेदेनाभिधानात् । यानि तु विष्णुधर्म-शिवधर्म-महाभारत-रामायणादीनि तान्य् अपि “तथा स्मृत्यन्तरेषु च” इत्य् अनेनैवोपात्तानि । तथा चोक्तं भविष्यपुराणे

अष्टादशपुराणानि रामस्य चरितं तथा ।

विष्णुधर्मादिशास्त्राणि शिवधर्माश् च भारत ।

कार्ष्णं च पञ्चमो वेदो यन् महाभारतं स्मृतम् ।

सौराश् च धर्मा राजेन्द्र मानवोक्ता महीपते ॥

जयेति नाम चैतेषां प्रवदन्ति मनीषिणः ।

यद् अत्र श्लोके स्मृतिः इति कृत्वा प्रमाणिकानां वचनम्, तद् अपि महाजनपरिगृहीतत्वेन प्रमाणत्वात् । “तथा स्मृत्यन्तरेषु [२६] च” इत्य् अनेनैव सङ्गृहीतं वेदितव्यम् । यत् तु षट्त्रिंशन्मतादि कैश्चिद् एव परिगृहीताद् विज्ञानाच् च प्रमाणम् ।

शङ्खलिखितौ ।

आम्नायप्रामान्याद् आचारः सर्वेषम् उपदिश्यते ।

आचार्यैः [इत्य् अर्थः] ।

विष्णुपुराणे [३.११.३] ।

साधवः क्षीणदोषास् तु सच्छब्दः साधुवाचकः ।

तेषाम् आचरणं यत् तु सदाचारः स उच्यते ॥

वसिष्ठः [१.४–५] ।

    श्रुतिस्मृतिविहितो धर्मः । तदलाभे शिष्टाचारः प्रमाणम् ।

बौधायनो यमश् च [बौधायन १.१.५–६] ।

    शिष्टाः खलु विगतमत्सराः निर[हङ्काराः, कुम्भीधान्या अलोलुपा दम्भदर्पलोभमोहक्रोधवर्जिताः ।


    	धर्मेनाधिगतो येषां वेदः सपरिबृंहणः ।


    	शिष्टास् तदनुमानज्ञाः श्रुतिप्रत्यक्षहेतवः ॥

मत्सरः परोत्कर्षासहिष्णुत्वम् । निरहङ्काराः निरभिमानाः । कुम्भीधान्याः अल्पसन्तुष्टा इति विवक्षिताः] अलोलुपाः विषयालम्पटाः, दम्भः ख्यात्यर्थं [२७] धर्मानुष्ठानम् । धर्मेणाध्ययनम् इतिकर्तव्यतया । सपरिबृंहणः साङ्गेतिहासपुराणः । तदअनुमानज्ञाः वेदे तूहापोहकुशलाः । श्रुतिर् वेदः प्रत्यक्षः श्रवणेन्दिर्यग्राह्यो हेतुर् उपायो धर्मज्ञाने येषां ते तथा [उक्ताः] ।

वसिष्ठः [६.४३] ।

पारम्पर्यागतो येषां वेदः सपरिबृंहणः ।

ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥

हारीतः

शिष्टाः श्रुतिस्मृतिविहितावस्थिताः प्रतिपत्तव्याः ।

अवस्थिताः ज्ञानानुष्ठाननिष्ठाः ।

आपस्तम्बः [२.२९.१६] ।

स्त्रीभ्यः सर्ववर्णेभ्यश् च धर्मशेषान् प्रतीयाद् इत्य् एके ।

एके ये पूर्वं आपस्तम्बेन स्त्रीषु शुद्रेषु चाथर्वणस्य वेदस्य शेष इत्य् उपदिश्यन्तीत्य् उक्ताः । शिष्टाचारप्रामान्ये ऽतिप्रसङ्गनिवारणायाह आपस्तम्बः [२.१३.७–८] ।

    दृष्टो धर्मव्यतिक्रमः साहसं चैव पूर्वेषाम् । तेषां तेजोविशेषेण प्रत्यवायो न विद्यते । तद् अन्वीक्ष्य प्रयुञ्जानः साइदत्य् अवरजो ऽबलः ।

व्यतिक्रमः बुद्धिपूर्वं रागाद् आचरणम्, यथेन्द्रस्याहल्यागमनम् । साहसं क्रोधादिना अविमृष्यकरणम्, यथा वसिष्ठस्य जलप्रवेशः । अबलः अतेजस्कः अब्रह्मज्ञ इति [२८] यावत् । अवरजः इन्दानीन्तनः । तेजो ब्रह्मज्ञानम् । तद्विशेषेण साक्षात्करणम् । यथा पुष्करपालाश आपो न श्लिष्यन्ति । “एवम् एवं विदितपापं कर्म न श्लिष्यत” इति ब्रह्मज्ञानिन एव पापानाश्लेष[बोधक]श्रुतेः ।

शङ्खलिखितौ

आपत्स्व् अपि हि काष्ठासु परस्वं नैव कामयेत् ।

नाभक्ष्यं भक्षयेत् किञ्चिन् न पूर्वचरितं चरेत् ॥

तेजोमयानि पूर्वेषां नवीनानीन्द्रियाणि च ।

पापैस् ते नोपलिप्यन्ते पद्मपत्रम् इवाम्भसा ॥

सुरां पिबन्ति त्रिदशाः या चापेया द्विजातिभिः ।

हरन्ति वित्तं यत् सिद्धाः तद् वासिद्धे न विद्यते ॥

पूर्वचरितं निषिद्धमात्राभिप्रेतम् । तेजोमयानि ज्ञानप्रधानानि ।

महाभारते

कृतानि यानि कर्माणि दैवतैर् मुनिभिस् तथा ।

नाचरेत् तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् ।

बौधायनः [१.२.१–९] ।

    पञ्चधा विप्रतिपत्तिर् दक्षिणतस् तथोत्तरतः । यानि दक्षिणतस् तानि व्याख्यास्यामः ।यथैतद् अनुपनीतेन सह भोजनम् **[२९]** स्त्रिया सह भोजनम् पर्युषितभोजनम् मातुलपितृस्वसृदुहितृपरिणयनम् इति । अथोत्तरतः ऊर्णाविक्रयः सीधुपानम् उभयतोदद्भिर् व्यवहारः आयुधीयता समुद्रयानम् इति । इतरद् इतरस्मिन् कुर्वन् [दुष्यतीतरद् इतरस्मिन्] । तत्र तत्र देशप्रामाण्यम् एव स्यात् । मिथ्यैतद् इति गौतमः । उभयं त्व् एतन् नाद्रियेत । शिष्टस्मृतिविरोधदर्शनात् ।

विप्रतिपत्तिः धर्मशास्त्रविरुद्धप्रतिपत्तिः । तत्र देशप्रामाण्यम् एव स्यात् इति पूर्वपक्षः । शेषः सुगमम् ।

**अत्र पुराणलक्षणम् उच्यते **

मत्स्यपुराणे [५३.६५] ।

सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च ।

वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥

प्रतिसर्गः संहारः ।

विष्णुपुराणे [३.६.२०–२४] ।

अष्टादशपुराणानि पुराणज्ञाः प्रचक्षते ।

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥

तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम् ।

आग्नेयम् अष्टमं चैव भविष्यं नवमं स्मृतम् ॥

दशमं ब्रह्मवैवर्तं लिङ्गम् एकादशं स्मृतम् ।

[३०] वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् ॥

चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम् ।

मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ॥

[महापुराणान्य् एतानि ह्य् अष्टादश महामुने] ॥

मत्स्यपुराणे [५३.६०–६४] ।

पाद्मे पुराणे यत् प्रोक्तं नरसिंहोपवर्णनम् ।

तद् अष्टादशसाहस्रं नारसिंहम् इहोच्यते ॥

नन्दाया यत्र माहात्म्यं कार्तिकेयेन वर्ण्यते ।

नन्दीपुराणं तल्लोकैः नन्दाख्यमिति कीर्त्यते ॥

यत् तु साम्बं पुरस्कृत्य भविष्यति कथानकम् ।

प्रोच्यते तत् पुनर् लोके साम्बम् एतन् मुनिव्रताः ॥

[एवम् आदित्यसञ्ज्ञा च तत्रैव परिगद्यते ।

अष्टादशभ्यस् तु पृथक् पुराणं यत् तु दृश्यते] ॥

विजानीध्वं द्विजश्रेष्टाः तद् एतेभ्यो विनिर्गतम् ।

विनिर्गतम् उद्भूतम्, यथा कालिकापुराणादि

देवलः

    शिक्षाव्याकरणनिरुक्तछन्दःकल्पज्योतिषाणि (?) वेदाङ्गानि । तथा आर्षाः पूर्ववृत्तान्ताश्रयाः प्रतिपत्तिफला इत्य्हासाः ।

आर्षाः ऋषिप्रणीताः ।

भविष्ये

दृष्टार्था तु स्मृतिः काचिद् अदृष्टार्था तथापरा ।

[३१] दृष्टादृष्टार्थरूपान्या न्यायमूला तथा पराः ॥

अनुवादस्मृतिस् त्व् अन्या शिष्टैर् दृष्टा तु पञ्चमी ।

सर्वा एता वेदमूला दृष्टार्था परिहृत्य तु ॥

तथा

षाड्गुण्यस्य प्रयोगस्य प्रयोगः कार्यगोचरात् ।

सामादीनाम् उपायानां योगो व्याससमासतः ॥

अध्यक्षाणां [च] निक्षेपः कण्टकानां निरूपणम् ।

दृष्टार्थेयं स्मृतिः प्रोक्ता ऋषिभिर् गरुडाग्रज ॥

सम्ध्योपास्तिः सदा कार्या शुनो मांसं न भक्षयेत् ।

अदृष्टार्था स्मृतिः प्रोक्ता ऋषिभिर् ज्ञानकोविदैः ॥

पालाशं धारयेद् दण्डम् उभयार्थं विदुर् बुधाः ।

विबोधे तु विकल्पः स्याज् जपहोमश्रुतौ यथा ॥

श्रुतौ दृष्टं तथा कार्त्यं स्मृतौ न तादृशं यदि ।

अनुक्तवादिनी सा तु प्रिव्राज्यं तथा गृहात् ॥

षाड्गुणः सन्धिविग्रहादयो वक्ष्यन्ते । प्रयोगः कार्यगौरवात् षाड्गुण्यस्यैव व्याससमासाभ्यां कर्तव्य इत्य् अर्थः । सामादीनाम् अपि कार्यगौरवाद् व्याससमासाभ्यां प्रयोगः कर्तव्य इत्य् अर्थः । जपहोमश्रुताव् इति, सूर्योदयावधि सावित्रीजपो ऽनुदितहोमविषयो यथा । अनुक्तवादिनी अनुदितवादिनी । यथा पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थाय [यथाप्राप्त] [३२] भ्य्क्षचर्यं चरन्ति इत्य् अनयानूदितं “ब्रह्मणः प्रव्रजेद् गृहाद्” इति मनुर् वदति [६.३८] विदत्ते इत्य् अर्थः ।

मनुः [१२.१०५–०६] ।

प्रत्यक्षम् अनुमानं च शब्दं विविधागमम् ।

त्रयं सुविदितं कार्यं धर्मशुद्धिम् अभीप्सता ॥

आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।

यस् तर्केणानुसन्धत्ते स धर्मं वेद नापरः ॥

शब्दं शब्दज्ञानाद् असन्निकृष्टे ऽर्थे विज्ञानम् । विविधागमं विविधः श्रुतिस्मृतीतिहासपुराणरूप आगमो यस्य ज्ञानस्य करणं तद् विविधागमम् । आर्षं वैदिकम् । तर्केण मीमांसादिना । एतच् च प्रमाणमात्रोपलक्षणार्थम् । तथा चार्थापत्त्युपमानाभावानाम् अपि धर्मप्रयोग इत्य् उपमायोगः कथितो भवति ।

व्यासः

द्रव्यशुद्धिम् अभीप्सद्भिर् न वेदाद् अन्यद् इष्यते ।

[३३] धर्मस्य कारणं शुद्धं मिश्रम् अन्यत् प्रकीर्तितम् ॥

अतः स परमो धर्मो यो वेदाद् अवगम्यते ।

अवरः स तु विज्ञेयः यः पुराणादिषु स्थितः ॥

एतेभ्यो ऽपि यद् अन्यत् स्यात् किञ्चिद् धर्माभिधायकम् ।

तद् अद्भुतवचो विद्धि मोहस् तस्याश्रयो मतः ॥

वेदार्थवित्तमैः काऋयं यत् स्मृतम् ऋषिभिः पुरा ।

तद् यत्नेनानुतिष्ठेत् तु तन्निषिद्धं तु वर्जयेत् ॥

ते हि वेदार्थतत्त्वज्ञाः लोकानां हितमाम्यया ।

प्रदिष्टवन्तो यद् धर्मं तं धर्मं न विचालयेत् ॥

वेदार्थो यः स्वयं ज्ञातस् तत्राज्ञानं भवेद् अपि ।

ऋषिभिर् निश्चिते तत्र का शङ्का स्यान् मनीषिणाम् ॥

शङ्खलिखितौ

रागद्वेषाग्निदग्धानाम् अज्ञानविषपायिनाम् ।

चिकित्सा धर्मशास्त्राणि व्याधीनाम् इव भेषजम् ॥

रागद्वेषांशेन तन्मूलं भ्रान्तिज्ञानं लक्ष्यते ॥

यमः

यथा हि मृन्मयं भाण्डं दुष्टं वर्षशतैर् अपि ।

पुनर्दाहेन सुध्येत धर्मशास्तैस् तथा द्विजः ॥

हारीतः

अज्ञानतिमिरान्धानां [भ्रामितानां] कुदृष्टिभिः ।

धर्मशास्त्रप्रदीपो ऽयं धार्यो मार्गानुदेशतः ॥

[३४] कुदृष्टिभिः कुदर्शनैः बौद्धादिभिः ।

यमः

वेदाः प्रमाणं स्मृतयः प्रमाणं

	धर्मार्थयुक्तं वचनं प्रमाणम् ।

यस्य प्रमाणं न भवेत् प्रमाणं

	कस् तस्य कुर्याद् वचनं प्रमाणम् ॥

न तस्य वेदा न च धर्मशास्त्रं

	न वृद्धवाक्यं हि भवेत् प्रमाणम् ।

सो ऽधर्मकृद् दृष्टिहतो दुरात्मा

	नात्मापि तस्येह भवेत् प्रमाणम् ॥

[वेदाः प्रमाणम् इति] समुदायस्य प्रमाकरत्वविवक्षया एकवचनम् । धर्मार्थयुक्तं वचनम् इति च सद्वचनाभिप्रायम् । यस्य प्रमाणं च भवेत् प्रमाणम् इति अनन्तरोक्तं वेदादिप्रमाणं यो न मन्यत इत्य् अर्थः ।

अत्र वसिष्ठः [१.१६] ।

त्रैविद्यवृद्धा यं ब्रूयुः धर्मं दर्मविदो जनाः ।

पतने पावने चैव स धर्मो नात्र संशयः ॥

त्रिविधा विद्या त्रिविद्या तां वेदेत्य् अर्थे ऽण्प्रत्ययः । तिस्रो विद्या वेदेति तु क्रियमाणे “द्विगोर् लुक्” (पाणिनि ४.१.८८) इति लुक्प्रसङ्ग इति महाभाष्यटीकाकारः । अथ वा त्रैविद्ये तिसृष्व् अपि विद्यासु ये वृद्धाः ज्ञानवन्तः । त्रैविद्यम् इति [३५] स्वार्थ् ऽप्य् अण् । पतने पतननिमित्ते पापे, पावने स्नानादौ यं धर्मं ब्रूयुः स धर्मः ।

मनुः [१२.१०८, ११०]:

अनाज्ञातेषु धर्मेषु कथं स्याद् इति चेद् भवेत् ।

यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्याद् अशङ्कितः ॥

दशावरा वा परिषद् यं धर्मं परिकल्पयेत् ।

त्र्यवरा वापि वृत्तस्था तं धमं न विचालयेत् ॥

दशावरा दशावरे अल्पे यस्यां सा तथा । एतेनैकादशादीन् अनुजानाति । अनाज्ञाते दशावरैः शिष्टैर् ऊहाविद्भिर् अलुब्धैः प्रशस्तं कार्यम् । अनाज्ञाते अनवगते सन्दिग्धे वा ।

शङ्खलिखितौ ।

    श्रुतिविरोधे त्रिविद्यसमवायेषु निर्णयः दशावरेषु । श्रुतिग्रहणं स्मृत्याचारधर्मप्रमाणमार्तोपलक्षणार्थम् ।

अथ पर्षल्लक्षणम्

तत्र मनु-पाराशरौ [मनु १२.११] ।

त्रैविद्यो हेतुकस् तर्कः नैरुक्तो धर्मपाठकः ।

[३६] त्रयश् चाश्रमिणः पूर्वे पर्षत् स्यात् सा दशावरा ॥

हेतुको ऽत्र वेदाविरुद्धानुमानव्यवहारी । तर्को वक्ष्यमाणो विकल्पः ।

वसिष्ठ-बौधायनौ

चातुर्विद्यो विकल्पी च अङ्गविद् धर्मपाठकः ।

आश्रमस्थास् त्रयो मुख्याः पर्षद् एषा दशावरा ॥

दशावरा मुख्याः ।

यमः

छन्दोगो बह्वृचो ऽध्वर्युर् अथ वा धर्मपाठकः ।

तथैवाश्रमिणः पूर्वे पर्षद् एषा दशावरा ॥

वेदपूता व्रते म्लाना ब्राह्मणाः पङ्क्तिपावनाः ।

यद् ब्रूय्स् ते महात्मानस् तत् प्रमाणं न संशयः ॥

**शङ्ख-लिखितौ **।

    ऋग्यजुःसामम् अथर्ववेदषडङ्गविद् उञ्छवृत्तिर् नैष्ठिको ब्रह्मचारी पञ्चाग्निर् इति दशावरा पर्षत् । तत् समवाये धर्मव्यवहरणम् ।

नैष्ठिकग्रहणम् उपकुर्वाणव्यवच्छेदार्थम् ।

पैठीनसिः

    अलोलुपा ह्य् अदाम्भिकाः दर्मशास्त्रप्रणेतारः, अमत्सरिणः, दशैव तद् धर्मं व्यवस्यन्तीति वेदपारगाः ।

प्रणेतारः प्रवर्तयितारः । अत्र इतिकरणो हेतौ । इत्य् अतः वेदपारगाः धर्मं व्यवस्यन्ति । दशेति पुरुषाभिप्रायम् । न गुणभेदेन गुणवत्परम् । गुणानाम् अल्पभूयसां तत्र तत्राभिधानात् ।

शक्ख-लिखितौ

    श्रेयांश् चत्वारः वेदविदो धर्मशास्त्रविद् इति । पञ्चावराम् एके । दशावरेषु धर्मानुव्यवहरणं यथावलेपं शास्त्रतस् ते ऽनुब्रूयुः स धर्मः ।

यथावलेपं यथादोषम् ।

पैठीनसिः

चत्वारो वा त्रयो वापि यं ब्रूयुर् धर्मपाठकाः ।

वेदपारग एकश् च तत् प्रमाणम् अशंसयम् ॥

याज्ञवल्क्यः [१.९] ।

चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यम् एव च ।

सा ब्रूते यं स धर्मः स्याद् एको वाध्यात्मवित्तमः ॥

साक्षात्कृतब्रह्मतत्वः ।

[३८] वसिष्ठः [३.७] ।

चत्वारो वा त्रयो वापि यं ब्रूयुर् धर्मपारगाः ।

स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ॥

अङ्गिराः

चत्वारो वा त्रयो वापि वेदवन्तो ऽग्निहोत्रिणः ।

ब्राह्मणा समवायस्थाः पर्षद् इत्य् अभिधीयते ॥

अनाहिताग्नयो ये तु केवलं वेदपारगाः ।

पञ्चैते वेदशास्त्रज्ञाः पर्षत्सञ्ज्ञा ह्य् उदाहृताः ॥

ये तु धर्मविदो विप्राः कार्याकार्यविचक्षणाः ।

प्रायश्चित्तप्रणेतारः सप्तैते परिकीर्तिताः ॥

एकविंशतिसङ्ख्यातैर् मीमांसावेदपारगैः ।

वेदाङ्गकुशलश् चैव पर्षत्वं प्रकल्पयेत् ॥

यतीनां सत्यतपसां ज्ञानविज्ञानवेदिनाम् ।

शिरोव्रतेन स्नातानाम् एको ऽपि परिषद् भवेत् ॥

ये तु पूर्वं मया प्रोक्ताः स्थिता यायावरे पथि ।

त्रयो ऽपि परिषज् ज्ञेयाः सर्वपापापहारिणः ॥

एषा तु लघुकार्येषु मध्यमेषु च मध्यमा ।

महापातकसाध्येषु शतशो भूय एव च ॥

अत ऊर्ध्वं तु ये विप्रा केवलं नामबोधकाः ।

परिषत्त्वं न तेष्व् अस्ति सहस्रगुणितेष्व् अपि ॥

समवायस्थाः मिलिताः । वेदशास्त्रज्ञा वेदस्य उपकरणं शास्त्रं मीमांसा तस्यां विहितनिषिद्धतत्त्वज्ञाः । [३९] गुणापकर्षाद् एकविंशतिसङ्ख्यत्वम् । ज्ञानं तत्त्वार्थबोधः । विज्ञानं लौकिकवैदिकविद्याधारणम् । शिरोव्रतं वेदाध्ययनसमाप्तौ सर्वविद्याव्रतम् । परिषद् भवेत् परिषद्वद् भवेत् । यद्य् अपि “हिंसानुग्रहयोर् अनारम्भी” इति तैर् अनुग्रहो निषिद्धः, तथापि “आर्तानां मार्गमाणानाम्” इत्यादिवचनाद् उपस्थितस्य प्रायश्चित्तादाने दोषश्रुतेः शास्त्राननुमतानुग्रहनिषेधपरताप्य् अस्येति गम्यते पूर्वं “वेदवन्तो ऽग्निहोत्रिणः” इत्य् अत्र श्लोके । यायावराः शिलोञ्छादिवृत्तयो व्रतशीलाग्निहोत्रिणः । लघुषु स्वल्पपापेषु । महापातकसाध्येषु महापातकशोधने अन्यत् ।

हारीतः

    चातुर्विद्याविद् विकल्पाङ्गविद् धर्मवित् त्रयाश्रमिण इति परिषदं दशावराम् आहुः । चत्वारः तासां पूर्वा श्रेयस्यो भवन्ति ।

**गौतमः **[२८.५०–५२] ।

    चत्वारश् चतुर्णां पारगाः [वेदानां] प्रागुत्तमाः त्रयः आश्रमिणः पृथग्धर्मविदस् त्रय एतान् दश[आ?]वरान् [परिषद् इत्य् आचक्षते] । असम्भवे त्व् एतेआं श्रोत्रियो वेदविच् छिष्टो विप्रतिपत्तौ [यद् आह] । यतो ऽयम् अप्रभवो भूतानाम् ।

[४०] उत्तमाः प्रव्रजिताः । विप्रतिपत्तौ इत्य् अत्र यदा तत् कार्यम् इति शेषः । अयम् इति योग्यत्वात् वेदः परामृश्यते । अप्रभवः अपौरुषेयः ।

मनु-वसिष्थ-यम-[पराशर]-बौधायनाः, पैठीनसिश् च प्रथमे

अव्रतानाम् अमन्त्राणां जातिमात्रोपजीविनाम् ।

सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥

यं वदन्ति तमोभूता मूर्खा धर्मम् अतद्विदः ।

तत्पापं शतधा भूत्वा तान् वक्तॄन् अनुगच्छति ॥

**अङ्गिराः **।

चतुर्णाम् अपि वर्णानां पारगा ये द्विजोत्तमाः ।

यथा वेदे विनाप्य् अङ्गैश् चातुर्विद्यम् इति स्मृतम् ॥

धर्मस्य पर्षद् अस्यैव प्रायश्चित्तक्रमस्य च ।

त्रयाणां च प्रमाणज्ञः स विकल्पी भवेद् विजः ॥

[शब्दे छन्दसि कल्पे च शिक्षायां च सुनिष्ठितः । ]

ज्योतिषाम् अयने चैव सनिरुक्ते ऽङ्गविद् भवेत् ॥

वेदविद्याव्रतस्नातः सत्यसन्धो जितेन्द्रियः ।

[४१] अनेकधर्मशास्त्रज्ञः प्रोच्यते धर्मपाठकः ॥

ब्रह्मचर्याश्रमाद् ऊर्ध्वं वृद्धा आश्रमिणस् त्रयः ।

वदेयुस् तस्य ते धर्मं ये मया परिकीर्तिताः ॥

तथा [अङ्गिराः ३.१६] ।

पर्षद् या ब्राह्मणानां तु सा राज्ञां द्विगुणा स्मृता ।

वैश्यानां त्रिगुणा चैव पर्षद्वच् च व्रतं स्मृतम् ॥

ज्योतिषाम् अयने ज्योतिःशास्त्रे । सनिरुक्ते निरुक्तसहिते । इदं द्वैगुण्यादि क्षत्रियादीनां शोध्यानाम् । यच् च व्रते द्वैगुण्यम्, तत् प्रतिलोमोत्कृष्टवर्णवधतत्स्त्रीगमनादिविषये चोक्तम् ।

भविष्यपुराणे

पर्षद्विधानम् अत्रैव प्रोक्तम् आङ्गिरसेन तु ।

द्विगुणा क्षत्रियाणां तु वैश्यानां त्रिगुणा स्मृता ॥

चतुर्गुणा तु शूद्राणां पर्षद् उक्ता महात्मनाम् ।

पर्षद्वच् च व्रतं प्रोक्तं शुद्धये पापकर्मणाम् ॥

अनेन जायते वीर वर्णानाम् उत्तमाद् ऋते ।

अघमानां तु वर्णानाम् उत्कृष्टहनने गुह ।

दोषो गुरुतरो ज्ञेयः क्षत्रादीनां न संशयः ॥

अथ मनुः (२.१४–१५) ।

श्रुतिद्वैहं तु यत्र स्यात् तत्र धर्माव् उभौ स्मृतौ ।

उभाव् अपि हि तौ धर्मौ सम्यग् उक्तौ मनीषिभिः ॥

[४२] उदिते ऽनुदिते चैव समयाध्युषिते तथा ।

सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥

समयाध्युषिते उषःकाले ।

गौतमः [१.६] ।

तुल्यबलविरोधे विकल्पः ।

जाबालः

श्रुतिस्मृतिविरोधे तु श्रुतिर् एव गरीयसी ।

अविरोधे सदा कार्यं स्मार्तं वैदिकवत् सदा ॥

शङ्खः

    तुल्यश्रुतिविरोधे विकल्पाः श्रुतयः । श्रुतिर् हि गरीयसी । स आम्नायः ।

आम्नायत्वेन निरपेक्षत्वम् उक्तम् ।

बृहस्पतिः [संस्क्। १३] ।

वेदार्थोपनिबन्धत्वात् प्रामाण्यं तु मनोः स्मृतम् ।

मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥

वेदार्थः उपनिबन्धो यस्य स वेदार्थोपनिबन्धः । उपनिबन्ध्यते ऽनेनेत्य् उपनिबन्धो ग्रन्थः । वेदश् च “यद् वै किञ्चन मनुर् अवदत् तद् भेषजं भेषजतायै” इति ।

[४३] गौतमः ।

देशजातिकुलधर्माश् चाम्नायैर् अविरुद्धाः प्रमाणम् ।

आम्नायैः वेदाद्यैः श्रुतिस्मृतियादिभिः ।

स्मृत्यनुवृत्तौ भविष्यपुराणे

श्रुत्या सह विरोधे तु बाध्यते विषयं विना ।

व्यवस्थयाविरोधेन कार्यो ऽन्यत्र परीक्षकैः ॥

स्मृत्यर्थेन विरोधे तु अर्थशास्त्रस्य बाधनम् ।

परस्परविरोधे तु न्याययुक्तं प्रमाणवत् ॥

अदृष्टार्थे विकल्पस् तु व्यवस्थासम्भवे सति ।

स्मृतिशास्त्रविकल्पस् तु आकाङ्क्षापूरणे सति ॥

अविरोधे व्यवस्थाया अन्यत्र विषयः कार्य इत्य् अर्थः । स्मृत्यर्थेन धर्मशास्त्रार्थेन । अर्थशास्त्रस्य मन्वादिप्रणीतस्यैव [४४] राजनीत्यादेः । व्यवस्थासम्भवे व्यवस्थायाम् असति अदृष्टार्थयोः विकल्पः । आकाङ्क्षापूरणे एतेन साकाङ्क्षत्वेन स्मृत्यादीनां समुच्चयः सूचितः ।

अथ अङ्गिराः

प्रमाणानि प्रमाणज्ञैः परिपाल्यानि यत्नतः ।

सीदन्ति हि प्रमाणानि प्रमाणैर् अव्यवस्थितैः ॥

प्रमाणसहितं यत् स्यात् तत् सर्वं गम्यते सुखम् ।

अप्रमाणप्रमेयस्य दुःखेनाधिगमो भवत् ॥

अथ निमित्ततः

तत्र शङ्ख-लिखितौ

    तत्र धर्मलक्षणानि — देशः काल उपायो द्रव्यं श्रद्धा पात्रं त्याग इति । समस्तेषु धर्मोदयः साधारणो ऽन्यथा विपरीतः । श्रद्धापात्रसम्पन्नो धर्मः कालापेक्षः । श्रद्धाद्रव्योत्पत्तिर् इति कालस् तन्मूलो देशः ।

देशः ब्रह्मावर्तादिः । कालः सङ्क्रान्त्यादिः । उपायः इतिकर्तव्यता । [द्रव्यं गवादि] । श्रद्धा शास्त्रार्थे दृढप्रत्ययः । श्रद्धा दृढद्रव्योत्पत्तिर् इति कालः । अयम् अपि [४५] सङ्क्रान्त्यादिवद् दानादिधर्मकालः । तन्मूलो देशः । एवम्भूतकालसम्पत्तौ देशो ऽपि धर्मः सम्पद्यत इत्य् अर्थः ।

विष्णुपुराणे [२.३.१] ।

उत्तरं यत् समुद्रस्य हिमाद्रेर् एव दक्षिण ।

वर्षं तद् भारतं नाम् भारती यत्र सन्ततैः ॥

तथा [२.३.२३–२५] ।

अत्र जन्मसहस्राणां सहस्रैर् अपि सत्तम ।

कदाचिल् लभते जन्तुर् मानुष्यं पुण्यसञ्चयात् ॥

गायन्ति देवाः किल गीतकानि

	धन्यास् तु ये भारतभूमिभागे ।

स्वर्तापवर्गास्पदमार्गभूते 

	भवन्ति भूयः पुरुषाः सुरत्वात् ॥

कर्माण्य् असङ्कल्पिततत्फलानि 

	सत्यस्य विष्णोः परमात्मभूते ।

अवाप्य तां कर्ममहीम् अनन्ते

	तस्मिन् लयं ये त्व् अमलाः प्रयान्ति ॥

भविष्यपुराणे

ब्रह्मावर्तः परो देशः ऋषिदेशस् त्व अनन्तरः ।

[४६] मध्यदेशस् ततो न्यून आर्यावर्तस् त्व् अनन्तरः ॥

अनन्तरो ईषन्न्यूनम् । नञ् ईषदर्थे, अलवणा यवागूर् इतिवत् ।

मनुः [२.१८–२४] ।

सरस्वतीदृषद्वत्योर् देवनद्योर् यद् अन्तरम् ।

तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥

तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः ।

वर्णानां सान्तरालानां सदाचारः स उच्यते ॥

कुरुक्षेत्रं च मत्स्याश् च पाञ्चालाः सूरसेनकाः ।

एष ब्रह्मर्षिदेशो वै ब्रह्मावर्ताद् अनन्तरः ॥

एतद्देशप्रसूतस्य सकाशाद् अग्रजन्मनः ।

स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥

हिमवद्विन्ध्य्योर् मध्ये यत् प्राग् विनशनाद् अपि ।

प्रत्यग् एव प्रयागाच् च मध्यदेशः प्रकीर्तितः ॥

आ समुद्रात् तु वै पूर्वाद् आ समुद्रात् तु पश्चिमात् ।

तयोर् एवान्तरं गिर्योर् आर्यावर्तं प्रचक्षते ॥

कृष्णसारस् तु चरति मृगो यत्र स्वभवतः ।

[४७] स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् त्व् अतः परम् ॥

एतान् द्विजातयो देशान् संश्रयेरन् प्रयत्नतः ।

शुद्रस् तु यस्मिन् तस्मिन् वा निवसेद् वृत्तिकर्षितः ॥

अन्तरालाः सङ्करजातयः । मत्स्यादिशब्दाः बहुवचनान्तरा देशपराः । मत्स्यो विराटदेशः । पाञ्चालाः कान्यकुब्जादिदेशाः । शूरसेनजाः मथुरादिदेशाः । अग्रजन्मनः ब्राह्मणस्य । विनशनं सरस्वत्या नद्या अन्तर्धान्देशः । स्वभावतः अन्नपानादिना । यज्ञियः यज्ञार्हः । म्लेच्छदेशः यज्ञाद्यनर्हः । वृत्तिः स्वकुटुम्बभरणोचितधनोपायः । तदभावेन कर्षितः पीडीतः ।

वसिष्ठः [१.८–१५] ।

    धर्मः आर्यावर्ते प्राग्पर्दशणात् प्रत्यक् कालकावनाद् उदक् पारियात्राद् दक्षिणेन हिमवतः उत्तरेण विन्ध्याद्रेः । [तस्मिन् देशे] ये धर्मा ये च आचारास् ते सर्वे प्रत्येतव्याः । न ह्य् अन्ये प्रतिलोमकक्षधर्माणः । एतम् आर्यावर्तम् इत्य् आचक्षते । गङ्गायमुनयोर् अन्तराप्य् एके । यावद् वा कृष्णमृगो विचरति तावद् ब्रह्मवर्चसम् इत्य् अन्ये । अथापि भाल्लविनो निदाने गाथाम् उदाहरन्ति ।

[४८] पश्चात् सिन्धुर् वितरणी सूरय्सोदयनं पुरः ।

	यावत् कृष्णो ऽभिधावति तावद् वै ब्रह्मवर्चसम् ॥

[प्रतिलोमकक्षधर्माणः] विपरीता अस्फुटस्वभावाः । कक्षशब्देन ऽन्वर्थसञ्ज्ञाप्रदर्शनार्थः । आर्यास् त्रयो वर्णाः, आवर्तन्ते यस्मिन्न् इति । ततश् चार्यैर् अत्रैव वस्तव्यम् । ब्रह्मवचसं वृत्तस्वाध्यायसम्पत्तिः । भाल्लविनः छन्दोगशाखिनः । निदानं छन्दोगसूत्रम् । सिन्धुर् नदीविशेषः । वतरणी जनकपर्वतसमीपे मालवदेशे परशुरामेण धनुः कोट्या कुण्डं भित्त्वा निर्मितेति तत्रत्यजनप्रसिद्धा ।

शङ्ख-लिखितौ

    देश आर्यो गुणवान् प्राग् अस्ताद् अर्वाग् उदयाद् यावद् उच्चागिरयो यावत् पुण्याः सरितः, प्राक् सिद्धत्वाद् देशः सनातनः पुण्यः । कृष्णमृगो वा यावद् विचरति तावद् आचारः स्यात् । प्राक् सिन्धुसौवीराद् दक्षिणेन हिमवतः, पश्चात् काम्पिल्याद् उदक् परियात्राद् अनवद्यं ब्रह्मवर्चसं सर्वेषाम् अतो अन्यदेशजातिकुल-धर्मणाम् अन्वयाः ।

अनवद्यम् अविकलम् । अन्वयाः सन्तानाः । प्रत्येतव्या इति शेषः ।

**पैठीनसिः **।

    आ हिमवतः, आ च कुमार्याः, सिन्धुर् वैतरणी नदि, सूर्यस्योदयनं पुरः, यावद् वा कृष्णमृगो विचरति तत्र धर्मः चतुष्पादो विचरति ।

[४९] संवर्तः

स्वभावाद् यत्र विरमेत् कृष्णसारः सदा मृगः ।

धर्मदेशः स विज्ञेयो द्विजानां धर्मसाधनः ॥

विष्णुः [८४.१–४] ।

    न म्लेच्छविषये श्राद्धं कुर्यात् । न गच्छेन् म्लेच्छविषयम् । परनिपातेष्व् अपः पीत्वा तत्साम्यम् उपगच्छति ।

	चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न दृश्यते ।

	तं म्लेच्छदेशं जानीयाद् आर्यावर्तम् अतः परम् ॥

बौधायनः [१.२.१४] ।

    	आनर्तकाङ्गमगधाः सुराष्ट्रा दक्षिणापथाः ।


    	उपावृत्सिन्धुसौवीरा एते सङ्कीर्णयोनयः ॥


    आरट्टान् कारस्करान् पुण्ड्रान् सौवीरान् वङ्गान् कलिङ्गान् प्रासूनान् इति च गत्वा पुनस्तोमेन यजेत सर्वपृष्ठया वा । अथाप्य् उदाहरन्ति ।


    	पद्भ्यां स कुरुते पापं यः कलिङ्गान् प्रपद्यते ।


    	ऋषयो निष्कृतिं तस्य प्राहुर् वैश्वानरं हविः ॥

आनर्तकः द्वारका यस्मिन् देशे । अङ्गः चम्पाप्रदेशः ।

[५०]

॥ २ ॥

अथ परिभाषा

तत्र भविष्यपुराणे

सम्यक् संसाधनं कर्म कर्तव्यम् अधिकारिणा ।

निष्कामेन सदा वीर काम्यं कामान्वितेन तु ॥

आचारयुक्तः श्रद्धावान् वेदज्ञो ऽध्यात्मवित्तमः ।

कर्मणां फलम् आप्नोति न्यायार्जितधनश् च यः ॥

अयम् अर्थः । संसाधनं यथाविहितसाधनम् । अधिकारिणा अर्थिना विदुषा समर्थेन । सम्यक् [यथासामर्थ्यम्] प्रथमकल्पादिना कर्म कर्तव्यम् । काम्ये कामान्वितत्वं विशेष इति । आचारो मन्वादिभिर् उक्तो ऽतिथिपूजादि । अध्यात्मवित्तमः परलोकभागिन्य् आत्मनि दृढप्रत्ययवान् । न्यायार्जितधनः स्ववृत्त्यार्जितकर्माङ्गधनः । फलं सम्पूर्णम् इति शेषः ।

आपस्तम्बः [२.२९.१–२] ।

    प्रयोजयितानुमन्ता कर्तेति स्वर्गनरकफलेषु भागिनः । यो भूय आरभते तस्मिन् फलविशेषः ।

योगियाज्ञवल्क्यः

विधिदृष्टं च यत् कर्म करोत्य् अविधिना तु यः ।

[५१] फलं न किञ्चिद् आप्नोति क्लेशमात्रं तु तस्य तत् ॥

विधिदृष्टं यथाविहितम् ।

मनुः [११.३१] ।

प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते ।

न साम्परायिकं तस्य दुर्मतेर् विद्यते फलम् ॥

प्रभुः समर्थः । साम्परायिकं पारलौकिकम् ।

छन्दोगपरिशिष्टे कात्यायनः [१.३.१–३] ।

अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्मकारिणाम् ।

अक्रिया च परोक्ता च तृतीया वायथाक्रिया ॥

स्वशाखाश्रयम् उत्सृज्य परशाखाश्रयं च यः ।

कर्तुम् इच्छति दुर्मेधा मोघं तत् तस्य यत् कृतम् ॥

यन् नाम्नातं स्वशाखायां परोक्तम् अरिरोधि यत् ।

विद्वद्भिस् तद् अन्य्ष्थेयम् अग्निहोत्रादिकर्मवत् ॥

परोक्ता परशाखोक्ता । अयथाक्रिया विहितेतरप्रकारेणानुष्ठानम् । [यथ्] अग्निहोत्रं यजुर्वेदशाखासु विहितं छन्दोगादिभिर् अनिष्थीयते । शाखान्तराधिकारणन्यायेन सर्वस्मृतिषु यथाप्रत्ययत्वे गृह्येष्व् अपि प्रसक्ते ऽपवादम् आह ।

गृह्यपरिशिष्टकारः

बह्व् अल्पं वा स्वगृह्योक्तं यस्य यावत् प्रकीर्तितम् ।

तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् ॥

यथा [छन्दोगपरिशिष्टे कात्यायनः] – [१.३.४–६] ।

प्रवृत्तम् अन्यथा कुर्याद् यदि मोहात् कथञ्चन ।

यतस् तदन्यथाभूतं तत एव समापयेत् ॥

समाप्ते यदि जानीयान् मयैतद् अयथाकृतम् ।

तावद् एव पुनः कुर्यान् नावृत्तिः सर्वकर्मणः ॥

प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः ।

तदङ्गस्याक्रियायां तु नावृत्तिर् न च तत्क्रिया ॥

प्रवृत्तं प्रारब्धम् । अन्यथा विपरीतम् । तत्कर्मकरणे सत्य् एव क्रमाद्यन्यत्वेन, यतो यस्मात् पदा[र्था]द् आरभ्य तत्कर्मान्यथा जातं त[त] एवारभ्य पुनर् यथोक्तप्रकारेण कुर्याद् इत्य् अर्थः । समाप्ते इति, समाप्ते तु कर्मणि अन्यथाकरणज्ञाने सति, यत् पदार्थान्यथाकरणं ज्ञा[तं] तम् एव पदार्थं पुनः कुर्यात् । न पुनस् तदुत्तरान् अपि पदार्थान् । एतद् अन्यथाकरणविषयम् । प्रधानस्येत्यादि त्व् अकरणविषयम् । प्रधानस्य कर्मणः यत्राकरणं भवति तत् साङ्गम् एव पुनः कर्तव्यम् । तदङ्गस्य वाकरणे न साङ्गप्रधानावृत्तिर् नापि तावन्मात्रस्याङ्गस्य करणम्, किं तु प्रायश्चित्तम् एव कार्यम् ।

[५३] हारीतः ।

    अङ्गुष्ठस्योत्तरा रेखा ब्राह्मं तीर्थम्, कनिष्ठिकायाः, पश्चात् प्राजापत्यम्, अग्रे ऽङ्गुलीनां दैवम्, अङ्गुष्ठप्रदेशिन्योर् अन्तरा पित्र्यम्, मध्ये आग्नेयम् ।

वसिष्ठः [३.६६] ।

अङ्गुल्यग्रेषु मानुषम् ।

शङ्खः

कायं कनिष्ठिकामूले तीर्थम् उक्तं द्विजस्य तु ।

अङ्गुष्ठमूले च तथा प्राजापत्यं प्रकीर्तितम् ॥

कायं को ब्रह्मा सास्य देवतेत्य् अर्थे “कस्येत्” इत्य् अण् इत्वं च ।

**योगियाज्ञवल्क्यः **।

मध्ये सौम्यं प्रतिष्ठितम् ।

मध्ये पाणिमध्ये ।

बौधायनः [१.८.१२–१३] ।

    अङ्गुलिमूले [ब्राह्मं तीर्थम् । अङ्गुष्ठाग्रं पित्र्यम् अङ्गुल्यग्रं] देइवम् अङ्गुल्यग्र[?लिमूल]म् आर्षम् ।

शङ्खलिखितौ

    [अङ्गुष्ठमूलस्योत्तरतः प्रागग्रायां रेखायां ब्राह्मं तीर्थम्, प्रदेशिन्यङ्गुष्ठयोर् अन्तरा पित्र्यम्, कनिष्ठिकातलयोर् अन्तरं प्राजापत्यम्, पूर्वेणाङ्गुलिपर्वाणि दैवम् ।


    	एवं च कनीनकामूलस्य] तीर्थस्य प्राजापत्यकायदैवसञ्ज्ञाः, आग्नेयसौम्यब्राह्मतीर्थसञ्ज्ञा हस्तमध्यस्य, अङ्गुल्यग्रस्य दैवमानुषार्षतीर्थसञ्ज्ञाः, [अङ्गुष्ठमूलस्य प्राजापत्यब्राह्मतीर्थसञ्ज्ञे, तदुत्तररेखया ब्रह्मतीर्थसञ्ज्ञा], तर्जन्यङ्गुष्ठमध्यस्य पितृतीर्थसञ्ज्ञेत्य् उक्तं भवति ।

**मनुः **[२.५८] ।

ब्राह्मेण विप्रस् तीर्थेन नित्यकालम् उपस्पृशेत् ।

कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन ॥

त्रैदशिकं दैवम् ।

हारीतः

    [उपस्पर्शनं ब्राह्मेण] आचमनहोमतर्पणानि प्राजापत्येन कुर्यात् । मार्जनार्चनबलिकर्मभोजनानि दैवेन । पित्र्यर्थान् पित्र्येण । प्रतिग्रहम् आग्रेयेन प्रतिगृह्णीयात् ।

**भविष्यपुराणे **।

कमण्डलूपस्पर्शनं दधिप्राशनम् एव च ।

सोमतीर्थेन राजेन्द्र सदा कुर्याद् विचक्षणः ॥

[५५] मार्कण्डेयपुराणे [३४.१०९] ।

नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् ।

प्राजापत्येन तीर्थेन यच् च किञ्चित् प्रजापतेः ॥

ब्रह्मपुराणे

[मूलरेखामुखाङ्गुष्ठमणिबन्धेषु मध्यगम् ।]

प्राजापत्यं महातीर्थं विप्रस् तेनाचमेत् सदा ॥

धनायुर्दाररेखासु सोमतीर्थं तु मध्यमम् ।

जालादिहवनं तत्र कर्तव्यं वपनं तथा ॥

वपनं व्रीह्यादिनिर्वापः ।

[छागलेयः]

हस्तमध्ये ब्रह्मतीर्थं दक्षिणाग्रहणे च यत् ।

ओङ्कार इत्य् अनुवृत्तौ, **आपस्तम्बः **[१.१३.८–९] ।

यज्ञेषु चैतदादयः प्रसवाः ।

प्रणय इत्यादयः प्रसवा अनुज्ञानवाक्यानि ।

    [लोके च भूतिकर्मसु एतदादीन्य् एव वाक्यानि स्युः यथा पुण्याहं स्वस्त्य् ऋद्धम् इति ।

भूतिकर्मसु पाणिग्रहणादिषु । एतदादीनि ओङ्कारादीनि स्वस्त्यादिवचनानि भवेयुः ॥]

[५६] [महाभारते]

तस्माद् ॐ इत्य् उदाहृत्य यज्ञदानतपःक्रियाः ।

प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥

तथा

त्रिमात्रस् तु प्रयोक्तव्यः कर्मारम्भेषु सर्वशः ।

तिस्रः सार्धास् तु कर्तव्या मात्राः सर्वार्थचिन्तकैः ॥

देवताध्यानकालेषु प्लुतं कुर्यान् न संशयः ॥

यमः

पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते ।

एतद् एव निरोङ्कारं ब्रूयात् क्षत्रियवैश्ययोः ॥

विष्णुः [६४.४०] ।

स्नातो ऽधिकारी भवति दैवे पित्र्ये च कर्मणि ।

पवित्राणां तथा जप्ये दाने च विधिनोदिते ॥

पवित्राणां मन्त्राणां पावमान्यादीनाम् । “मन्त्रः पवित्रम् इत्य् उच्यते” [५.६] इति निरुक्तकारवचनात् ।

वायुपुराणे

क्रियां यः कुरुते होमे धौतवस्त्रधरो भवेत् ।

अलङ्कृतः शुचिर् मौनी श्राद्धादौ विजितेन्द्रियः ॥

बौधायनः [२.१५.५] ।

काषायवासाः [यान्] कुरुते जपहोमपरिग्रहान् ।

[५७] न तद् देवगमं भवति हव्यकव्येष् अथो हविः ॥

काषायवासाः वृक्षक्वाथादिना रक्तवासाः ।

व्यासः

आर्द्रवासास् तु यः कुर्याज् जपहोमपरिग्रहम् ।

सर्वं तद् राक्षसं विद्याद् बहिर्जानु च यत् कृतम् ॥

योगियाज्ञवल्क्यः

परिधानाद् बहिःकक्षा निबद्धा ह्य् आसुरी भवेत् ।

धर्मकर्माणि विद्वद्भिर् वर्जनीया प्रयत्नतः ॥

बहिःकक्षा बहिर्निर्गतेत्य् अर्थः ।

विष्णुपुराणे [३.१२.२०] ।

होमदेवार्चनाद्यास् तु क्रियास्व् आचमने तथा ।

नैकवस्त्रः प्रवर्तेत द्विजवाचनके जपे ॥

द्विजवाचनके द्विजस्वस्तिवाचनादौ ।

शातातपः

सव्याद् अंसात् परिभ्रष्टः कटिदेशे धृताम्बरः ।

एकवस्त्रं तु तं विद्याद् दैवे पित्र्ये च वर्जयेत् ॥

शाट्यायनः

दानम् आचमनं होमं भोजनं देवतार्चनम् ।

[५८] प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम् ॥

आसनारूढपादस् तु जानुनोर् जङ्घयोस् तथा ।

कृतावसक्थिको यस् तु प्रौढपादः स उच्यते ॥

मार्कण्डेयपुराणे

सूर्योदयं विना नैव स्नानदानादिकाः क्रियाः ।

अग्नेर् विहरणं चैव क्रतुस् तावन् न लक्ष्यते ॥

सूर्योदयं विना इति सूर्योदयशब्देन उषःकालो लक्ष्यते । तं विना रात्रौ न कार्यं स्नानदानादीति तात्पर्यार्थः ।

दक्षः

देवकार्याणि पूर्वाह्णे मनुष्याणां तु मध्यमे ।

पितॄणाम् अपराह्णे च कार्याणीति विनिश्चयः ॥

**छन्दोगपरिशिष्टे कात्यायनः **[१.१.६–८] ।

यत्रोपदिश्यते कर्म कर्तुर् अङ्गं न तूच्यते ।

दक्षिणस् तत्र विज्ञेयः कर्मणां पारगः करः ॥

[५९] यत्र दिङ्नियमो नास्ति जपहोमादिकर्मसु ।

तिस्रस् तत्र तु विज्ञेया ऐन्द्रीसौम्यापराजिताः ॥

आसीन ऊर्ध्वः प्रह्वो वा नियमो यत्र नेदृशः ।

तद् आसीनेन कर्तव्यं न प्रह्वेण न तिष्ठता ॥

सौम्या उत्तरा अपराजिता ऐशानी ।

**योगियाज्ञवल्क्यः **।

आर्षं छन्दश् च दैवत्यं विनियोगस् तथैव च ।

वेदितव्यं प्रयत्नेन ब्राह्मणेन विशेषतः ॥

अविदित्वा तु यः कुर्याद् याजनाध्यापनं तथा ।

होमम् अन्तर्जलादीनि तस्य चाल्पफलं भवेत् ॥

अन्तर्जलादीनि जलमध्ये क्रियमाणान्य् अघमर्षणादीनि ।

तथा

यश् च जानाति तत्त्वेन आर्षं छन्दश् च दैवतम् ।

विनियोगं ब्राह्मणं च मन्त्रार्थं ज्ञानकर्म च ॥

ज्ञानरूपा क्रिया ज्ञानकर्म । अनुष्ठेयार्थस्मरणं प्रयोजनम् इति यावत् ।

एकैकस्य ऋषेः सो ऽपि वन्द्यो ह्य् अतिथिवद् भवेत् ।

देवतायाश् च सायुज्यं गच्छत्य् अत्र न संशयः ॥

सायुज्यं सहयोगित्वम् ।

[६०] पूर्वोक्तेन प्रकारेण ऋष्यादीन् वेत्ति यो द्विजः ।

अधिकारो भवेत् तस्य रहस्यादिषु कर्मसु ॥

[रहस्यादिषु] रहस्यजपादिषु ।

येन यद् ऋषिणा दृष्टं सिद्धिः प्राप्ता च येन वै ।

मन्त्रेण तस्य तत् प्रोक्तं ऋषेर् भावस् तद् आर्षकम् ॥

छादनात् छन्द उद्दिष्टं वाससी इव चाकृतेः ।

आत्मा सञ्छादितो देवैर् मृत्योर् भीतैस् तु वै पुरा ॥

आदित्यैर् वसुभी रुद्रैस् तेन छन्दांसि तानि वै ।

आकृतेः शरीरसंस्थानस्य ।

[यस्य यस्य तु मन्त्रस्य उद्दिष्टा देवता तु या ।

तदाकारं भवेत् तस्य देवत्वं देवतोच्यते ॥]

यस्य यस्य तु मन्त्रस्य या या देवता येन येनेन्द्रादिरूपेणोद्दिष्टा प्राधान्येन प्रतिपादिता तदाकारम् एव [तस्य मन्त्रस्य] देवत्वम् । तस्येति [अनेन] व्यवहितेन मन्त्रस्येत्य् अनेन योज्यम् । तेनैतद् उक्तं भवति । तस्य तस्य मन्त्रस्य सा वै देवता ।

[योगियाज्ञवल्क्यः]

पुरा कल्पे समुत्पन्ना मन्त्राः कर्मार्थम् एव च ।

अनेनेदं तु कर्तव्यं विनियोगः स उच्यते ॥

निरुक्तं यत्र मन्त्रस्य विनियोगः प्रयोजनम् ।

प्रतिष्ठानं स्तुतिश् चैव ब्राह्मणं तद् इहोच्यते ॥

[६१] प्रतिष्ठानं विनियोगः । अन्ये तु प्रतिष्ठानं आश्रय इति वदन्ति । “अग्नीषोमप्रणयिनीनाम् ऋचाम् असाव् आदित्य एकविंशति उत्तमा प्रतिष्ठ” इति तैत्तिरीयब्राःमणे

तथा

एवं पञ्चविधं योगं जप्यकाले ह्य् अनुस्मरेत् ।

होमे चान्तर्जले योगे स्वाध्याये याजने तथा ॥

योगम् ऋष्यादिसम्बन्धम् । अन्तर्जले अन्तर्जलकार्ये स्नानादौ । योगे योगाङ्गप्रणवजपादौ ।

**छन्दोगपरिशिष्टे कात्यायनः **।

सदोपवीतिना भाव्यं सदा बद्धशिखेन तु ।

विशिखो व्युपवीतश् च यत् करोति न तत् कृतम् ॥

आपस्तम्बः [१.१५.१] ।

    उपासने गुरूणां वृद्धानाम् अतिथीनां होमेज्यकर्मणि भोजने आचमने स्वाध्याये च यज्ञोपवीती स्यात् ।

**निगमपरिशिष्टे **।

    वामस्कन्धे यज्ञोपवीती दैवे, प्राचीनावीतम् इतरथा पितृयज्ञे, नाभ्यां द्विकण्ठा[व?]सक्तम् अभिचारे, निवीतं आपृष्ठदेशावलम्बि ग्राम्यधर्मेषु ।

इतरथा वामेतरस्कन्धे । द्विकण्ठावसक्तं कण्ठपार्श्वद्वयावलम्बितम् ।

**बौधायनः **[१.८.५–८] ।

    यज्ञोपवीतम् आ नाभेर् दक्षिणं बाहुम् अवधाय शिरो ऽवदध्यात् । विपरीतं पितृभ्यः । कण्ठावसक्तं निवीतम् अधोऽवसक्तम् अधोवीतम् ।

मनु-बौधायन-पैठीनसयः

अग्न्यागारे गवां गोष्ठे ब्राह्मणानां च सन्निधौ ।

स्वाध्याये भोजने चैव दक्षिणं पाणिम् उद्धरेत् ॥

**आपस्तम्बः **।

देवागारे तथा श्राद्धे गवां गोष्ठे तथाध्वरे ।

दाने ह्य् आचमने चैव सन्ध्ययोः साधुसङ्गमे ॥

अग्न्यागारे विवाहे च स्वाध्याये भोजने तथा ।

उद्धरेद् दक्षिणां पाणिं ब्राह्मणानां कृपापथे ॥

उद्धरेद् दक्षिणं पाणिम् इति सव्ये अंसे वस्त्रं निधाय दक्षिणं बाहुम् उत्तरीयाद् बहिः कुर्याद् इत्य् अर्थः ।

**बौधायनः **[१.१०.१८] ।

कर्मयुक्तो नाभे अधं स्पर्शं वर्जयेत् ।

योगियाज्ञवल्क्यः

रौद्रपित्र्यासुरान् मन्त्रांस् तथा चैवाभिचारकान् ।

[६३] व्याहृत्यालभ्य चात्मानम् अपः स्पृष्ट्वान्यद् आचरेत् ॥

**छन्दोगपरिशिष्टे कात्यायनः **[१.२.१३–१४] ।

पित्र्यमन्त्रानुद्रवणे आत्मालम्भे अवेक्षणे ।

अघोवायुसमुत्सर्गे प्रहासे ऽनृतभाषणे ॥

मार्जारमूषिकास्पर्शे आक्रुष्टे क्रोधसम्भवे ।

निमित्तेषु च सर्वत्र कर्म कुर्वन्न् अपः स्पृशेत् ॥

पित्र्यमन्त्रानुद्रवणे पित्र्यमन्त्रोच्चारणे । आत्मालम्भे आत्माधिष्ठानहृदयस्पर्शे यज्ञादौ विहिते । अवेक्षणे तस्यैव [हृदयस्यैव] । एतद् उभयं यज्ञादौ विहितम् । आक्रुष्टे परुषभाषणे ।

**योगियाज्ञवल्क्यः **।

यदि वाग्यमलोपः स्याज् जपादिषु कथञ्चन ।

व्याहरेद् वैष्णवं मन्त्रं स्मरेद् वा विष्णुम् अव्ययम् ॥

तथा

अज्ञानाद् अथ वा मोहात् प्रच्यवेताध्वरेषु तत् ।

[६४] स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥

मोहात् विपर्ययज्ञानात् ।

तथा

न कुर्यात् कस्यचित् पीडां कर्मणा मनसा गिरा ।

आचरन्न् अभिषेकं तु कर्माण्य् अन्यानि चाचरन् ॥

बौधायनः [१.३.४०]

भोजनं हवनं दानम् उपहारः परिग्रहः ।

बहिर्जानु न कार्याणि तद्वद् आचमनं स्मृतम् ॥

उपहारः देवताद्यर्थम् अन्नाद्युपढौकनम् ।

अङ्गिराः

सन्ध्ययोर् उभयोर् जप्ये भोजने दन्तधावने ।

पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः ॥

गुरूणां सन्निधौ दाने योगे चैव विशेषतः ।

एषु मौनं समातिष्ठन् स्वर्गं प्राप्नोति मानवः ॥

**वायुपुराणे **।

दानं प्रतिग्रहो होमो भोजनं बलिर् एव च ।

साङ्गुष्ठेन सदा कार्यम् असुरेभ्यो ऽन्यथा भवेत् ॥

साङ्गुष्ठेन अङ्गुलीसहिताङ्गुष्ठेन ।

एतान्य् एव तु कर्माणि दानादीनि विशेषतः ।

अन्तर्जानु विशेषेण तद्वद् आचमनं नृप ॥

[६५] अन्तर्जानु जानुनोर् मध्ये यथा बाहू भवतः तथा कर्तव्यम् इत्य् अर्थः ।

**छन्दोगपरिशिष्टे कात्यायनः **[१.२.२; २.१.२–३] ।

हरिता यज्ञिया दर्भाः पीतकाः पञ्चयज्ञियाः ।

समूलाः पितृदैवत्याः कल्माषा वैश्वदेविकाः ॥

[सव्ये पाणौ कुशान् कृत्वा कुर्याद् आचमनक्रियाम् ।

हृस्वाः प्रचरणीयाः स्युः कुशा दीर्घास् तु बर्हिषः ॥

दर्भाः पवित्रम् इत्य् उक्तम् अतः सन्ध्यादिकर्मसु ।

सव्यः सोपग्रहः कार्यो दक्षिणः सपवित्रकः ॥]

प्रचरणीयाः प्रचरणम् अनुष्ठानं तत्साधनीभूताः तत्तदवस्थापन्नाश् चैतत् कार्यविशेषविनियुक्ताः । अतः सन्ध्यादिकर्मसु दर्भमात्रं पवित्रम् ।

तथा हि [१.२.१०–१२] ।

अनन्तगर्भिणं साग्रं कौशं द्विदलम् एव च ।

प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥

एतद् एव हि पुञ्जूल्या लक्षणं समुदाहृतम् ।

आज्यस्योत्पवनार्थे यत् तद् अप्य् एतावद् एव तु ॥

[६६] एतत् प्रमाणम् एवैके कौशीम् एवार्द्रमञ्जरीम् ।

शुष्कां वा शीर्णकुसुमां पुञ्जूलीं परिचक्षते ॥

गृह्यपरिशिष्टे कात्यायनः

[दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविर् अग्नयः ।]

अयातयामान्य् एतानि नियोज्यानि पुनः पुनः ॥

अयातयामं नवम् । एतेन कर्मार्हता लक्ष्यते ।

[मरीचिः]

ये च पिण्डास्तृता दर्भा यैः कृतं पितृतर्पणम् ।

अमेध्याशुचिनिष्ठा ये तेषां त्यागो विधीयते ॥

मरीचिः

मासे नभस्यम् आवास्या तस्यां दर्भोच्चयो मतः ।

अयातयामास् ते दर्भा विनियोज्याः पुनः पुनः ॥

[६७] लघुहारीतः

चितिदर्भाः पतिदर्भा ये दर्भा यज्ञभूमिषु ।

स्तरणासनपिण्डेषु षट् कुशान् परिवर्जयेत् ॥

पिण्डार्थं ये स्तृता दर्भा यैः कृतं पितृतर्पणम् ।

मूत्रोच्छिष्टैः कृता ये तु तेषां त्यागो विधीयते ॥

[केचित् तु] ।

नीवीमध्ये तु ये दर्भाः ब्रह्मसूत्रे तु ये कृताः ।

पवित्रांस् तान् विजानीयाद् यथा कायास् तथा कुशाः ॥

नीवी परिधानवस्त्रग्रन्थिः ।

[लघुहारीतः]

आचम्य प्रयतो नित्यं पवित्रेण द्विजोत्तमः ।

नोच्छिष्टस् तु भवेत् तत्र भुक्तशेषं तु वर्जयेत् ॥

जपे होमे तथा दाने स्वाध्याये पितृतर्पणे ।

अशून्यं तु करं कुर्यात् सुवर्णरजतैः कुशैः ॥

दर्भहीना तु या सन्ध्या यच् च दानं विनोदकम् ।

असङ्ख्यातं तु यज् जप्तं तत् सर्वं निष्प्रयोजनम् ॥

**छन्दोगपरिशिष्टे कात्यायनः **[१.८.१७–१८] ।

नाङ्गुष्ठाद् अधिका कार्या समित् स्थूलतया क्वचित् ।

न नियुक्ता त्वचा चैव न सकीटा न पाटिता ॥

[६८] प्रादेशान् नाधिका नोना न तथा स्याद् विशाखिका ।

न सपर्णा न निर्वीर्या होमेषु च विजानता ॥

विशाखिका विविधशाखायुक्ता ।

समिद् इति अनुवृत्तौ ब्रह्मपुराणे

पालाशाश्वत्थन्यग्रोधप्लक्षवैकङ्कतोद्भवाः ।

अश्वत्तोदुम्बरो बिल्वश् चन्दनः सरलस् तथा ॥

शालश् च देवदारुश् च खदिरश् चेति यज्ञियाः ।

वैकङ्कतः श्रुवावृक्षः ।

**मरीचिः **।

प्रागग्राः समिधो देयास् ताश् च काम्येष्व् अपाटिताः ।

काम्येषु च सशाकार्द्रा विपरीता जिघांसतः ॥

विशीर्णा विदला ह्रस्वा वक्रा ससुषिराः कृशाः ।

दीर्घाः स्थूला घुणैर् जुष्टाः कर्मसिद्धिविनाशकाः ॥

**छन्दोगपरिशिष्टे कात्यायनः **[इइ, प्। ३३] ।

यतोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि च ।

यवानाम् इव गोधूमा व्रीहीणाम् इव शालयः ॥

व्रीहीणां षष्टिकानाम् ।

[तथा १.७.१६] ।

आज्यं द्रव्यम् अनादेशे जुहोतिषु विधीयते ।

[६९] मन्त्रस्य देवतायाश् च प्रजापतिर् इति स्थितिः ॥

अनादेशे अनभिधाने । मन्त्रस्य देवतायाश् च अनादेश इत्य् अनुषङ्गः । प्रजापतिर् देवता [यतः] समस्ता व्याहृतयश् च [प्राजापत्याः] ।

**पैठीनसिः **।

    काण्डमूलपर्णपुष्पफलप्ररोहरसगन्धादीनां सादृश्येन प्रतिनिधिं कुर्यात् । सर्वालाभे यवः प्रतिनिधिर् भवति ।

काण्डं नालम् । प्ररोहः अङ्कुरः ।

**मैत्रायणीयपरिशिष्टम् **।

    दक्षिणालाभे मूलानां [सर्वेषां] फलानां भक्ष्याणां वा दक्षिणां दद्यात् । न त्व् एवं यजेत ।

तथा

    दर्भास्तरणाभावे काशः प्रतिनिधिः तदलाभे पर्ववतीभिः काण्डवतीभिर् ओषधीभिः स्तरणार्थान् कुर्वन्तीति । कटोशीरशुण्ठनलबल्वजपलालोलपवर्जम् ।

पर्ववतीभिः ग्रन्थिमतीभिः । कटादयस् तृणविशेषाः ।

[७०]

    अथ इध्मार्थे पालाशाश्वत्थखदिररोहितकौदुम्बराणां तदलाभे सर्ववनस्पतीनां तिल्वकधवनीपनिम्बराजवृक्षशाल्मल्य्बन्धकपित्थ-कोविदारविभीतकश्लेष्मातकसर्वकण्टकिवर्जम् ।

तिल्वकः चिल्लक इति प्रसिद्धः । नीपः कदम्बः । राजवृक्षः किरवालैति प्रसिद्धः । श्लेष्मान्तकः बहुवारकः ।

    व्रीहियवौ पुरोडाशर्थे । तदलाभे तुषवतीभिस् तण्डुलवतीभिर् ओषधीभिः पुरोडाशान् कुर्वन्ति । अणुचीनकल्माषककुरवकमाषमसूरकोद्रवकोरदूषक-वर्जम् ।

पुर्षाशान् पुरोडाशार्थण् । अणवः मर्कटकाः । कुरवकः पीतकुलत्थकः । कोरदूषकः वनकोद्रवः ।

    घृतम् आज्यार्थे प्रतिनिधिस् तदलाभे दधि पयो वा । तण्डुलपिष्टानि यवपिष्टानि वाद्भिः संस्पृष्टानि [आज्यार्था]न् कुर्वन्ति ।

वायुपुराणे

कण्डनं पेषणं चैव तथैवोल्लेखनं सदा ।

सकृद् एव पितॄणां स्याद् देवानां च त्रिर् उच्यते ॥

[७१] उल्लेखनं ह्य् अपराङ्मुखत्वेन रेखाकरणम् ।

**यज्ञपार्श्वः **।

पित्र्यर्थं निर्वपेद् भूमौ सूर्ये वा दर्भसंयुते ।

यज्ञपार्श्वः

गर्भाधानादि सर्वेषु ब्राह्मणान् भोजयेद् दश ।

आवसथ्ये त्रयोविंशत्य् अग्न्याधेये दशात् परम् ॥

आग्रयणे प्रायश्चित्ते ब्राह्मणान् दश पञ्च च ।

सहस्रं भोजयेत् सोमे ब्राह्मणानां शतं पशौ ॥

चातुर्मास्ये तु चत्वारि तथा पञ्च सुराग्रहे ।

अयुतं वाजपेये तु अश्वमेधे चतुर्गुणम् ॥

चत्वारि शतानीति सम्बन्धः ।

**छन्दोपरिशिष्टे कात्यायनः **[१.९.११–१५] ।

पाण्याहुतिर् द्वादशपर्वपूरिका

	कंसादिना चेत् स्रुवपूरमात्रिका ।

दैवेन तीर्थेन च हूयते हविः

	स्वङ्गारिणि स्वर्चिषि तच् च पावके ॥

यो ऽनर्चिषि जुहोत्य् अग्नौ व्यङ्गारिणि च मानवः ।

मन्दाग्निर् आमयावी च दरिद्रश् चोपजायते ॥

[७२] तस्मात् समिद्धे होतव्यं नासमिद्धे कदाचन ।

व्यङ्गारिणि विगताङ्गारे ।

आरोग्यम् इच्छतायुश् च श्रियम् आत्यन्तिकीं तथा ॥

जुहूषंश् च हुते चैव पाणिशूर्पस्फ्यदारुभिः ।

न कुर्याद् अग्निधमनं न कुर्याद् व्यजनादिना ॥

मुखेनैव धमेद् अग्निं मुखाद् ध्य् एषो ऽध्यजायत ।

नाग्निं मुखेनेति च यल् लौकिके योजयन्ति तत् ॥

जुहूषन् होतुम् इच्छन् ।

॥ ३ ॥

अथ संस्कारः

अत्र मनुः [२.२६] ।

वैदिकैः कर्मभिः पुण्यैः निषेकादिर् द्विजन्मनाम् ।

कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥

वैदिकैः विहिताभिमर्शनादिभिः । पुण्यैः अतिशयजनकैः । शरीरसंस्कारः शरीरशब्दो ऽत्र अजहत्स्वार्थलक्षणया तत्कारणे ऽपि वर्तते । पावनः पापनिबर्हणः ।

याज्ञवल्क्यः [१.१०] ।

ब्रह्मक्षत्रियविट्शूद्रा वर्णास् त्व् आद्यास् त्रयो द्विजाः ।

निषेकाद्याः श्माशानान्तास् तेषां वै मन्त्रतः क्रिया ॥

द्विर् जायत इति द्विजः । द्वितीयं जन्म उपनयनम् । श्मशानान्ताः तत्सम्बन्धि कर्म च ।

उपनयनपूर्वसंस्कारानुवृत्तौ यमः

शूद्रो ऽप्य् एवंविधः कार्यो विना मन्त्रेण संस्कृतः ।

न केनचित् समसृजन् छन्दसा तं प्रजापतिः ॥

[७४] विना मन्त्रेणेत्य् अत्र हेतुः न केनचिद् इत्यादिः । छन्दसा वेदेन । समसृजन् सम्बन्धं जनितवान् ।

ब्रह्मपुराणे

विवाहमात्रं संस्कारं शूद्रो ऽपि लभतां सदा ।

विवाहमात्रं इत्य् अनेन प्राप्तः विवाहविधिः । मात्रशब्दस् तु विहितेतरसंस्कारनिवृत्त्यर्थः । अमन्त्रास् तु अविद्यत्वाद् देवतेज्यानिवृत्तयः ।

**याज्ञवल्क्यः **[१.१३] ।

तूष्णीम् एताः क्रियाः स्त्रीणां विवाहस् तु समन्त्रकः ।

अङ्गिराः

चित्रकर्म यथानेकैः अङ्गैर् उन्मील्यते शनैः ।

ब्राह्मण्यम् अपि तद्वत् स्यात् संस्कारैर् विधिपूर्वकैः ॥

मनुः [२.२७] ।

गार्भैर् होमैः जातकर्मैर् चौडमौञ्जीनिबन्धनैः ।

बैजिकं गार्भिकं चैनो द्विजानाम् अपमृज्यते ॥

[७५] बैजिकं शुक्रभवम् । गार्भिकं गर्भाशयः श्रोणी तद्भवम् । एनः अशुचित्वम् ।

**हारीतः **।

    गर्भादानवद् उपेतो ब्रह्मगर्भं सन्दधाति । पुंसवनात् पुंसीकरोति । फलस्नपनात् मातापितृजं पापम् अफोहति । ब्राह्मन्यरेतोत्थगर्भोपघातः पञ्चगुणः । जातकर्मणा प्रथमम् अफोहति । नमकरणेन द्वितीयम् । प्राशनेन तृतीयम् । चूडाकरणेन चतुर्थम् । स्नानेन पञ्चमम् । व्रतैर् अष्टभिर् गर्भसंस्कारैः गर्भोपघातात् पूतो भवति । उपनयनादिभिर् अष्टाभिर् अन्तर्व्रतैः चाष्टाभिः । स्वच्छन्दसम्मिता ब्राह्मणाः परं पात्रं देवपितॄणां भवन्ति । छन्दसां वायतनम् ।

गर्भाधानवत् गर्भाधानविधिना “विष्णुर् योनिं कल्पयतु” इत्यादिना । उपेतः स्त्रियम् उपगतः । ब्रह्मगर्भं सन्दधातीति ब्रह्म वेदस् तद्ग्रहणयोग्यं गर्भं सन्दधाति सञ्जनयति । पुंसीकरोति अव्यक्तलिङ्गगर्भं पुमांसं करोति, “पुमांसं पुत्रं विदन्व” इति मन्त्रवर्णात् । फलस्नपनात् फलस्नपनाङ्गकसीमन्तोन्नयनात् । मातापितृजं मातापितृद्वारा जातम् । गर्भस्थस्य आश्रयस्थस्य आश्रयसंस्कारद्वारा अपत्यसंस्कारः । उपघातः पापसङ्घः । पञ्चगुणः पञ्चप्रकारः । “उपपातकजातिभ्रंशकरसङ्करणा-पात्रीकरणमलिनीकरणरूपपापपञ्चकसङ्क्रान्तेति” जयस्वामी । स्नानं चात्र समावर्तनम् । अष्टौ व्रतचर्याः उपनयनादि मेखलेत्यादि ऊर्ध्वरेता इत्य् अत्र वक्ष्यमाणाः । अन्तर्व्रतानि सावित्रीगोदानकादित्यव्रतौपनिषदष्टकामासिकमहानाम्नीमहाव्रतिकानि । स्वच्छन्दः सम्मिताः स्ववेदयुक्ताः ।

**[७६] सुमन्तुः **।

    ब्राह्मणक्षत्रियवैश्यानां गर्भाधान-सीमन्तोन्नयन-जातकर्म-नामकरण-अन्नप्राशन-चूडोपनयन-व्रतचर्या-अध्ययन-समावर्तन-विवाह-यज्ञादीनि समानानि ।

**गौतमः **[८.१३–१९] ।

    गर्भाधान[पुंसवन]सीमन्तोन्नयनजातकर्मनामकरणान्नप्राशन-चौलोपनयनम्, चत्वारि वेदव्रतानि, स्नानम्, सहधर्मचारिणीसंयोगः, पञ्चानां यज्ञानाम् अनुष्ठानम्, देवपितृमनुष्यभूतब्रह्मणाम् एतेषां च । अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायनी चैत्र्याश्वयुजीति पाकयज्ञसंस्थाः । अग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमासाव् आग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः । [अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयो ऽतिरात्रो ऽप्तोर्याम इति सप्त सोमसंस्थाः] । इत्य् एते चत्वारिंशत् संस्काराः ।

चत्वारि वेदव्रतानि प्रतिवेदं आम्नातानि । स्नानम् समावर्तनम् । सहधर्मचारिणीसंयोगो विवाहः । एतेषां चेति वक्ष्यमाणानाम् अष्टकादीनाम् अपि सम्बन्धः ।

[७७] **हारीतः **।

    द्विविध एव संस्कारो भवति ब्राह्मो दैवश् च । गर्भाधानादिः स्नानान्तो ब्राह्मः । पाकयज्ञा हविर्यज्ञा सौम्याश् चेति दैवः ।


    	ब्राह्मसंस्कारसंस्कृतः ऋषीणां समानतां सलोकतां सायोज्यतां च गच्छति । दैवेनोत्तरेण संस्कृतो देवानां समानतां सलोकतां सायोज्यतां च गच्छति ।

सौम्याः सोमयागा अग्निष्टोमादयः । समानता समानी यः तेन तुल्यतोक्ता । सायोज्यता समानम् आयोज्यं शराईरं यस्य सः सायोज्यः ।

**मनुः **[२.२८] ।

स्वाध्यायेन व्रतैर् होमैः त्रैविद्येनेज्यया सुतैः ।

महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः ॥

स्वाध्यायेन वेदग्रहणेन । व्रतैः सावित्र्यादिभिः । त्रैविद्येन त्रय्यर्थज्ञानेन । इज्यया देवादिपूजनेन । ब्राह्मी ब्रह्मसम्बन्धिनी तज्ज्ञानद्वारा ।

[७८] शङ्खलिखितौ

पाकयज्ञा हविर्यज्ञाः सोमसंस्थास् तथैव च ।

[संस्कारा ह्य् अग्निहोत्रान्ता अग्नि]होत्रं तु जुह्वतः ॥

संस्कारैः संस्कृतः पूर्वैर् उत्तरैर् अनुसंस्कृतः ।

नित्यम् अष्टगुणैर् युक्तो ब्राह्मणो ब्राह्मलौकिकः ॥

ब्राह्मं पदम् अवाप्नोति यस्मान् न च्यवते पुनः ।

नाकपृष्ठं यशो धर्मं त्रिरीजानस् त्रिपिष्टपम् ॥

अग्निहोत्रिणः दर्शपूर्णमासं विनापि अग्निहोत्रानुष्ठानं विहितम् अस्ति तस्याग्निहोत्रपर्यन्ताः [संस्काराः] । जातकर्मपूर्वैः गर्भादानादिभिः, उत्तरैर् अग्न्याधेयादिभिः । अष्टगुणैर् दयादिभिः । ब्राह्मलौकिकः ब्रह्मलोकार्हः । नाकपृष्ठं [मेरुपृष्ठम्] । त्रिविष्टपं देवलोकः । त्रिरीजानः पाकयज्ञहविःसोमसंस्थाभिः । “त्रिः सोमयागेनेष्टवान्” इति माधवस्वामी

बुधः

    गर्भाधानं पुंसवनं सिमन्तोन्नयनं सूतिकागृहसंस्कारः सोष्यन्तीकर्म ।

सोष्यन्तीकर्म शीघ्रप्रसवाय गोभिलाद्य्उक्तम् ।

**याज्ञवल्क्यः **[१.११–१२] ।

गर्भाधानम् ऋतौ पुंसः सवनं स्पन्दनात् पुरा ।

षष्ठे ऽष्टमे वा सीमन्तो मास्य् एते जातकर्म च ॥

[७९] अहन्य् एकादशे नाम चतुर्थे मासि निष्क्रमः ।

षष्ठे ऽन्नप्राशाअनं मासि चूडा कार्या यथाकुलम् ॥

एते आ इते आगते, कुमारे जाते इत्य् अर्थः ।

गोभिलगृह्ये [२.५.८–१०] ।

    यदर्तुमती भवत्य् उपरतशोणिता तदा सम्भवकालः । दक्षिणेन पाणिनोपस्थम् अभिमृशेद् विष्णोर् योनिं कल्पयत्व् इत्य् एतयर्चा गर्भं धेहि शिनीवालीति समाप्यर्चौ सम्भवतः ।


    	ऋचौ समाप्य संयोगं कुरुतः ।

बौधायनः [२.१६.११–१२] ।

    प्रजाम् उत्पादयेत् । औषधमन्त्रयोगेन । 

[८०] **पारस्करः **[१.१३.१] ।

    सा यदि गर्भं न दधीत सिंह्याः श्वेतपुष्पायाः उपोष्य पुष्येण मूलम् उत्खाय चतुर्थ्यां स्नातायां निशायाम् उदपेषं पिष्ट्वा दक्षिणस्यां नासिकायाम् आसिञ्चतीत्यम् ओषधी त्रायमाणेयादिना ।

सिंही कण्टकारिका । उपवासमूलखननयोः पत्युः कर्तृत्वम् ।

**वैजवापः **।

    सा यदि नादधीत सिंह्याः श्वेतपुष्पाया उपोष्य पुष्येण मूलम् उत्थाप्य चतुर्थ्यां स्नातायां निशि प्राजापत्यं स्थालीपाकं श्रपयित्वा प्रजापतये हुत्वा पश्चाद् अग्नेर् वीरशयने प्राचीम् उत्तानां संवेश्य चत्वाभ्याम् ओषधीम् उदपेषं पिष्ट्वा दक्षिणस्यां नासिकायां नस्तः कुर्यात् "इदम् ओषधी त्रायमाणा” इति ।

“वीरं शयनं” अनन्तर्हिता भूमिः । संवेश्य शाययित्वा । चत्वाभ्यां दृषदुपलाभ्याम् । नस्तः नासिकारन्ध्रे ।

[८१]

अथ गर्भानवलोभनम्

**आश्वलायनगृह्यपरिशिष्टम् **।

    अखण्डाकपिलं पेषयित्वा ऋतुवेलायां उदीर्ष्वातः पतिवतीति द्वाभ्याम् अन्ते स्वाहाकाराभ्यां नस्तो दक्षिणतो निषिञ्चेत् ।

अखण्डाकपिलः कच्छुः ।

**अथ पुंसवनानवलोभनम् **

तत्र आश्वलायनगृह्यम् [१.१३.१–७] ।

    उपनिषदि गर्भलम्भनं पुंसवनम् अनवलोभनं च । यदि नाधीयात् तृतीये गर्भमासे तिष्येनोपोषितायाः सरूपवत्सायाः गोर् दधति द्वौ द्वौ तु माषौ यवं च दधि प्रसृतेन प्राशयेत् । किं पिबसि किं पिबसीति पृष्ट्वा पुंसवनं पुंसवनम् इति त्रिः प्रतिजानीयात् । एवं त्रीन् प्रसृतान् । अथास्यै मण्डलागारच्छायायां दक्षिणस्यां नासिकायां अजिताम् ओषधीं नस्तः करोति । प्रजावज् जीवपुत्राभ्यां हैके । [आ ते गर्भो योनिम् ऐतु पुमान् बाण इवेषुधिम् । आवीरो जायतां पुत्रस् ते दशमास्यः । अग्निर् ऐतु प्रथमो देवानां सो ऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तद् अयं राजा वरुणो ऽनुमन्यतां यथेयं स्त्री पौत्रम् अघं न रोदाद् इति] । प्राजापत्यस्य स्थाली**[८२]**पाकस्य हुत्वा हृदयदेशम् अस्या आलभेत । यत् ते सुसीमे हृदये हितम् अन्तः प्रजापतौ । मन्ये ऽहं मां तद्विद्वांसं माहं पौत्रम् अघं नियाम् इति ।

उपनिषदि उपनिषत्सञ्ज्ञके वेदभागे । “गर्भलम्भनं पुंसवनम् अनवलोभनम्” आम्नातम् इति शेषः । पुमान् सूयते अनेन कर्मणेति पुंसवनम् । अनवलोभनम् अनवलोपनं रक्षणम् इति यावत् । “यदा नाधीयात्” पठेद् उपनिषदस् तदा तिष्येणेत्यादिकर्म कर्तव्यम् इत्य् अर्थः । अथास्यै इत्य् अस्याः अनवलोभनकर्म । अस्यै इति षष्ठ्यर्थे चतुर्थी छान्दसत्वात् । मण्डलागारच्छाया मण्डलाकृतिगृहच्छाया । अजीता श्वेतदूर्वा । आ ते गर्भ इत्यादि प्रजावान् मन्त्रः । अग्निर् ऐतु प्रथम इत्यादि जीवपुत्रमन्त्रः ।

आश्वलायनगृह्यपरिशिष्टे उक्तम् ।

तृतीये मासि पुंसवनं चतुर्थे गर्भरक्षणम् ।

साङ्ख्यायनगृह्यम् [१.२०.१–२] ।

तृतीये मासि पुंसवनम्, तिष्येण श्रवणेन वा ।

तथा [१.२१.१] ।

चतुर्थे गर्भरक्षणम् ।

बैजवापगृह्यम्

    तत्र पुंसवनानवलोभने करोति मासि द्वितीये वा, पुरा स्पन्दत इत्य् आपूर्यमाणपक्षे पुण्याहे यद् अहः पुंसा नक्षत्रेण चन्द्रमा युज्येत ।

[८३]

अथ सीमन्तोन्नयनम्

तत्र शङ्खलिखितौ

गर्भस्पन्दने सीमन्तोन्नयनं यावद् वा न प्रसवः ।

बैजवापगृह्यम्

    अथ सीमन्तोन्नयनं मासि चतुर्थे पञ्चमे [षष्ठे] वा । [आपूर्यमाणपक्षे यदा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्] ।

**पारस्करः **[१.१५.१–३] ।

अथ सीमन्तोन्नयनं पुंसवनवत् प्रथमे गर्भे, मासे षष्ठे ऽष्ठमे वा ।

शाङ्खायनगृहयम् [१.२२.१, ६] ।

    सप्तमे मासि प्रथमे गर्भे सीमन्तोन्नयनम् । तथा पुंवद् उपकरणानि नक्षत्रं वा पुंवद् इति पुंसवनम् ।

आश्वलायनगृह्यपरिशिष्टम्

    सीमन्तोन्नयनं प्रथमे गर्भे । “सीमन्तोन्नयनसंस्कारो गार्भपात्रसंस्कार” इति श्रुतिः ।

[८४] गर्भपात्रयोर् अयं गार्भपात्रः । गर्भस्थस्योदरगतस्य तदाधारस्य च पात्रस्य स्त्रिया इत्य् अर्थः ।

हारीतः ।

सकृत् संस्कृतसंस्कारा सीमन्तेन द्विजस्त्रियः ।

यं यं गर्भं प्रसूयन्ते स सर्वः संस्कृतो भवेत् ॥

देवलः ।

सकृच् च संस्कृता नारी सर्वगर्भेषु संस्कृता ।

अथ सोष्यन्तीकर्म

तत्र गोभिलगृह्ये [१.७.१३–१४] ।

    अथ सोष्यन्तीहोमः । प्रतिष्ठिते वस्तौ [परिस्तीर्याग्निम् आज्याहुतीर् जुहोति, “या तिरञ्ची" इत्य् एतयार्चा “विपश्चित् पुच्छम् अभरत्” इति च] ।

“प्रतिष्ठिते वस्तौ” वस्तिदेशं प्राप्ते । तत्र स्थिते गर्भे सोष्यन्तीहोमः कर्तव्यः ।

तत्र सोमः

    सूतिकागृहसंस्कारप्रसवान्तं कर्म जातकर्म गुह्यनामकरणम् ।

अयम् अर्थः । सूतिकागृहसंस्कारं कृत्वा प्रसवस्यान्तभूतं जातकर्म कार्यम् इति । अन्तशब्देनात्रान्तसम्बन्धिकर्म लक्ष्यते ।

[८५] **साङ्ख्यायनगृह्यम् **[१.२३.१] ।

    काकादन्या मेचकरातन्याः कोशातक्याः बृहत्याः काकातकस्य मूलानि पेषयित्वा उपलेपयेत् देशं यस्मिन् जायेत रक्षसाम् अपहत्यै ।

काकादनी अत्र काकजङ्घा । मेचकरातनी काकमाचिका । कोशातकी घोषकः । [बृहती कण्टकारिका । काकातकः कृष्णगुञ्जा । ]

मार्कण्डेयपुराणे ।

अग्न्यम्बुशून्ये च तथा निर्यूपे सूतिकागृहे ।

अदीपशस्त्रमुसले भूतिसर्षपवर्जिते ॥

अनुप्रविश्य या जातम् अपहृत्यात्मसम्भवम् ।

क्षणप्रसविनी बालं तत्रैवोत्सृजते द्विज ॥

सा जातहारिणी नाम सुघोरा पिशिताशना ।

तस्मात् संरक्षणं कार्यं यत्नतः सूतिकागृहे ॥

यूपो ऽत्र [यूपाकार]काष्ठविशषः ।

[अथ जातकर्म]

**हारीतः **।

    जाते कुमारे पितॄणाम् आमोदात् पुण्यं तदहस् तस्माद् तिलपूर्णानि पात्राणि सहिरण्यानि ब्राह्मणान् आहूय पितृभ्यः **[८६]** स्वधा कुर्यात् प्राजापतये चेति । प्राङ् नाभिच्छेदनात् संस्कारपुण्यार्थान् कुर्वन्ति [छिन्नायाम् अशौचम्] ।

“जातकर्मणि बालानाम्” इत्यादिवचनविहिते वृद्धिश्राद्धे हिरण्यपात्रद्रव्यविधिः । स्वधाशब्देन श्राद्धोपस्थानात् । प्राजापतये सहिरण्यं तिलपात्रं त्यजेत् । संस्कारो जातकर्म । पुण्यार्थान् पुण्यप्रयोजनान् दानादीन् ।

ब्रह्मपुराणे

देवाश् च पितरश् चैव पुत्रे जाते द्विजन्मनाम् ।

आयान्ति तस्मात् तदहः पुण्यं पूज्यं च सर्वदा ॥

तत्र दद्यात् सुवर्णं च भूमिं गां तुरगं तथा ।

छत्रं छागं च माल्यं च शयनं चासनं गृहम् ॥

जाते श्राद्धे न दद्याच् च पक्वान्नं ब्राह्मणेष्व् अपि ।

बैजवापः

    जाते कुमारे ऽरणिभ्याम् अग्निं मथित्वा तस्मिन्न् आयुष्यहोमान् जुहोति । तस्मिंश् चूडाकरणोपनयनव्रतादेशगोदानक्रियाः तस्मिन्न् एतम् उद्वाहयेयुः ।

तस्मिन् शालाग्नौ ।

मनुः

प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते ।

मन्त्रवत् प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥

वर्धनं छेदनम् ।

[८७] शङ्खलिखितौ

    प्रसूते जातकर्म यवपिष्टमधुसर्पिर्भिर् मन्त्रवत् प्राशनम् । तस्य सुवर्णान्तर्थितयानामिकया मेधाधिकं ब्राह्मणस्य करोति । एवम् इतरयोः ।

मेधाधिकं मेधाजननम् । इतरयोः क्षत्रियवैश्ययोः । अनामिका कनीनिकासमीपाङ्गुलिः ।

**आश्वलायनगृह्यम् **।

    कुमारं जातं पुरान्यैर् आलम्भात् सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत् ।

पुरान्यैर् आलम्भात्, पुरा पूर्वम् अन्यैः [उपसूतिकेतरैः] आलम्भात् स्पर्शात् ।

**बैजवापगृह्यम् **।

    अत्र जातस्य कुमारस्याछिन्नाय्ं नाड्यां हिरण्यमिश्राभिर् अद्भिर् आचामेत्, नानामन्त्रैर् हिरण्येन दधिमधुघृतं प्राशयति “भूस् त्वयि दधामि” इति ।

**पारस्करः **[१.१६.३–४] ।

    जातस्य कुमारस्याछिन्नायां नाड्यां मेधजननायुष्ये करेति [करोति?] । अनामिकया सुवर्णान्तर्हितया मधुघृते प्राशयति घृतं वा “भूस् त्वयि दधामि” इत्यादि ।

“आयुष्यं अग्निर् आयुष्मान्” इत्यादिजपः ।

[८८] बैजवापगृह्यम्

    अथास्य मेधाजननं करोति । दक्षिणं कर्णम् अभिनिधाय वाग् वाग् इति त्रिर् अथास्य गुह्यं नाम करेति [करोति?] ।

अभिनिधाय अभिमुखीभूय । गुह्यं मातापितृभ्रातृवेद्यम् ।

**अङ्गिराः **।

सूतिकावासनिलया जन्मदा नाम देवताः ।

तासां यागनिमित्तार्थं शुद्धिर् जन्मनि कीर्तिता ॥

षष्ठे ऽह्नि रात्रियागं तु जन्मदानां तु कारयेत् ।

अथ नामकरणम्

अत्र **मनुः **[२.३०] ।

नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।

पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥

दशम्याम् इत्य् एतच् च येषां दशाहात् प्राक् शुद्धिस् तेषाम् । पुण्ये तिथौ न रिक्तायाम् । मुहूर्ते गुणान्विते अभिजिदादौ ।

**भविष्यपुराणे **।

नामधेयं दशम्यां [?] तु केचिद् इच्छन्ति पार्थिव ।

द्वादश्यां अथ वा रात्रौ मासे पूर्णे तथापरे ॥

अxटादशे ऽहनि तथा वदन्त्य् अन्ये मनीषिणः ।

पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥

[८९] याज्ञवल्क्य-बृहस्पती [याज्ञ् १.१२; बृह् संस्। ५८] ।

अहन्य् एकादशे नाम ।

**विष्णुः **[२७.५] ।

    आशौचव्यपगमे नामधेयम् । एतेन दशम्याम् इति निवृत्ताशौचविषयम् ।

**गोभिलः **[२.८.८] ।

    जननाद् दशरात्रे व्युष्टे शतरात्रे संवत्सरे वा नामधेयकरणम् ।

व्युष्टे अतिक्रान्ते ।

शङ्खलिखितौ

    दशम्याम् उत्थाप्य पिण्डवर्धनं पितॄणां तत्र सान्निध्यश्रुतेः । ब्रह्मणे चाहुतिं पूर्वं हुत्वा पितॄन् अनुमान्य तदहर् एव नामकरणं [कुर्यात्] । कुलदेवतानक्षत्राभिसम्बद्धं पिता कुर्याद् अन्यो वा कुलवृद्धः । चतुरक्षरं द्व्यक्षरं वा घोषवद् आद्यन्तरन्तस्थं पुंसाम् (?), ईकारान्तं स्त्रीणाम् एव कृते नाम्नि, शुचि तत्कुलं भवति ।

उत्थाप्य सूतिकाम् इति शेषः । पिण्डवर्धनं श्राद्धं कुर्याद् इत्य् आर्थः ।

[९०] पारस्करः [१.६.१७.१–५] ।

    दशम्याम् उत्थाप्य ब्रःमणान् भोजयित्वा पिता नम [करोति । द्व्यक्षरं चतुरक्षरं वा घोषवद् आद्यन्तरन्तस्थं दीर्घाभिनिष्ठानं कृतं कुर्यान् न तद्धितम् । अनुजाक्षरं आकारान्तं स्त्रियै तधितम्] ।

वर्गगृतीयचतुर्थपञ्चमा हकारश् च गोषवन्तः । अन्तः मध्ये, अन्तस्थाः यरलवाः । अभिनिष्ठानं समाप्तिः । कृतं कृत्प्रत्ययान्तम्, न तद्धितप्रत्ययान्तम् । स्त्रियाः पुनर् अयुजाक्षरम् आकारान्तं तद्धितान्तं वा अयुजाक्षरम् ।

**बैजवापगृह्यम् **।

    पिता नाम करोत्य् एकाक्षरं द्व्यक्षरं चतुरक्षरं वा अपरिमितं वा तथा त्यक्षरम् ईकारान्तं स्त्रियै ।

अपरिमिताक्षरम् उक्ताक्षरसङ्ख्यातिरिक्तसङ्ख्यम् ।

**मनुः **[२.३१] ।

मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् ।

वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥

मङ्गल्यं मङ्गलप्रतिपादकम्, यथा लक्ष्मीधरः । बलान्वितं शौर्यप्रतिपादकम्, यथा युधिष्ठिरः । धनसंयुक्तं धनप्रतिपादकशब्दसंयुक्तम्, यथा महाधनः । जुगुप्सितं निन्दाप्रतिपादकशब्दसंयुक्तम्, यथा नरदासः ।

**यमः **।

शर्म देवश् च विप्रस्य वर्म राजा च भूभुजः ।

[९१] गुप्तो दत्तश् च वैश्यस्य दासः शूद्रस्य कारयेत् ॥

**मनुः **[२.३२–३३] ।

[शर्मवद् ब्राह्मणस्य स्याद् राज्ञो राजसमन्वितम्] ।

वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥

स्त्रीणां सुखोद्यम् क्रूरं विस्पष्टार्थं मनोरमम् ।

मङ्गल्यं दीर्घवर्णान्तम् आशीर्वादाभिधानवत् ॥

पुष्टिसंयुक्तं यथा धनपुष्ट इति । सुखोद्यं सुखोच्चार्यं [यशोदा इत्यादि] । अक्रूरं अभयानकम् । आशीर्वादाभिदानवत् यथा सुभद्रेति ।

**विष्णुपुराणे **[३.१०.९–११] ।

गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ।

नार्थहीनं न चाशस्तं नापशब्दयुतं तथा ॥

नामङ्गल्यं जुगुप्स्यं वा नाम कुर्यात् समाक्षरम् ।

नातिदीर्घं नातिह्रस्वं नातिगुर्वक्षरान्वितम् ॥

[सुखोच्चार्यं तु तन्नाम कुर्याद् यत् प्रवणाक्षरम्] ।

अशस्तं यथा भूतान्तादि ।

अथ निष्क्रमणम्

तत्र भविष्यपुराणे

द्वादशे ऽहनि राजेन्द्र शिशोः निष्क्रमणं गृहात् ।

[९२] चतुर्थे मासि कर्तव्यं तथान्येषां मतं विभो ॥

द्वादशे ऽहनीति शाखाभेदविकल्पः ।

**यमः **।

ततः तृतीये कर्तव्यं मासि सूर्यस्य दर्शनम् ।

चतुर्थे मासि कर्तव्यं शिशोश् चन्द्रस्य दर्शनम् ॥

अतुल्यार्थत्वात् सूर्यचन्द्रदर्शनयोः समुच्चयः ।

**लौगाक्षिः **।

तृतीये ऽर्धमासे दर्शनम् आदित्यस्य ।

तृतीये पक्ष इत्य् अर्थः ।

**विष्णुः **[२७.१०] ।

    चतुर्थे मास्य् आदित्यस्य दर्शनम् ।

अत्रापि शाखाभेदाद् विकल्पः । अनयोस् तु चन्द्रसूर्यदर्शनयोर् आभ्युदयिकं श्राद्धं नास्ति । [यथा]

सूर्येन्द्वोः कर्मणी ये च तयोः श्राद्धं न विद्यते ।

इति छन्दोगपरिशिष्टे

अन्नप्राशनम्

[अथ यमः

ततो ऽन्नप्राशनं मासि षष्ठे] कार्यं यथाविधि ।

[९३] अष्टमे मासि कर्तव्यं यद् वेष्टं मङ्गलं कुले ॥

मनुः ।

** **[षष्ठे ऽन्नप्राशनं मासि यद् वेष्टं मङ्गलं कुले] ।

यद्वेति कालप्रक्रमात् तद्गोचर एवायं विकल्पः । तेनायम् अर्थः – यत् कालवच् च अन्नप्राशनम् इष्टम् अभिमतं कुले भवति तस्मिन् वा काले कर्तव्यम् ।

शङ्खलिखितौ

संवत्सरे ऽन्नप्राशनम् ।

लौगाक्षिः

[षष्ठेषु अन्नप्राशनम्] । जातेषु दन्तेषु वा ।

अत्रैव गुणफलानि

अत्र पारस्करः [१.१९.५–१३] ।

    [प्राशनान्ते] सर्वान् रसान् सर्वम् अन्नम् एकत उद्धृत्या[थैनं] प्राशयेत् तूष्णीं हन्तेति वा । [“हन्तकारं मनुष्या” इति श्रुतेः । भारद्वाज्या मांसेन वाक्प्रसारकामस्य । कपिञ्जलमांसेनान्नाद्यकामस्य । मत्स्यैर् जवनकामस्य । कृकषाया आयुष्कामस्य । आट्या ब्रह्मवर्चसकामस्य । सर्वैः सर्वकामस्य । अन्नपर्याय वा [ततो ब्राह्मणभोजनम्] ।

[भारद्वाज्या भारद्वाजपक्षिजातीयस्त्रियाः] । वाक्प्रसारितं वाक्प्रसरः । कपिञ्जलो गौरतित्तिरिः । कृकषा [९४] गोधा । [आट्याः शरालिजातीयपक्षिस्त्रियाः] । अन्नपर्याय अन्नपरिपाट्या ।

**शाङ्ख्यायनगृह्यम् **[१.२७.१–६] ।

    षष्ठे मासि अन्नप्राशनम् । आजम् अन्नादिकामः । तैत्तिरं ब्रह्मवर्चसकामः । मात्स्यं जवनकामः । घृतौदनं तजस्कामः । दधिमधुघृतमिश्रम् अन्नं प्राशयेत् ।

जवनं बीजम् ।

अथ चूडाकरणम्

तत्र **मनुः **[२.३५] ।

चूडकर्म द्विजातीनां सर्वेषाम् एव धर्मतः ।

प्रथमे ऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥

प्रथमे ऽब्दे वर्तमाने अन्नप्राशनानन्तरम् ।

यमः ।

** **ततः संवत्सरे पूर्णे चूडकर्म विधीयते ।

द्वितीये वा तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥

द्वितीये पूर्णे इत्य् अनुषङ्गः॥ अन्यथा संवत्सरे पूर्णे इत्य् अनेनैव वा तल्लब्धत्वाद् द्वितीये इत्य् अवचनीयं स्यात् । “तृतीये भूयिष्ठे गते” इति लौगाक्षिव्अचनात् ।

[९५] शङ्खलिखितौ

तृतीये वर्षे चूडाकरणं पञ्चमे वा ।

आश्वलायनगृह्यम् [१.१७.१] ।

तृतीये वर्षे चौलं यथाकुलधर्मं वा ।

लौगाक्षिः

    तृतीयअस्य वर्षस्य भूयिष्ठे गते चूडाकरणम् । दक्षिणतः कमुञ्जा वसिष्ठानाम् । उभयतो ऽत्रिकाश्यपानाम् । मुण्डा भृगवः । पञ्चचूडा अङ्गिरसः । वाजिम् एके मङ्गलार्थम्, शिखिनो ऽन्ये । यथाकुलधर्मं वा । शुद्धस्य पुण्याहे वा ।

भूयिष्ठे बहुतमे । कमुञ्जा चूडा । वाजिः केशपङ्क्तिः । शुद्धस्य शुक्लस्य ।

**आश्वलायनगृह्यम् **[१.४.१–२] ।

    उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः । सर्वकालम् एके विवाहम् ।

अयं चूडाकरणकालानां विकल्पः शाखाभेदापेक्षया व्यवस्थितो बोद्धव्यः ।

स्त्रीणां संस्काराः

अथ मनुः [२.६६–६८] ।

अमन्त्रिका तु कार्येयं स्त्रीणाम् आवृद् अशेषतः ।

संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥

वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः ।

पतिसेवा गुरौ वासो गृहार्थो ऽग्निपरिक्रिया ॥

[एष प्रोक्तो द्विजातीनाम् औपनायनिको विधिः] ॥

आवृत् इतिकर्तव्यता । औपनायनिकः उपनयनकारी । चूडाकरणान्तसंस्कारानन्तरम् ।

याज्ञवल्क्यः [१.१३] ।

तूष्णीम् एताः क्रियाः स्त्रीणां विवाहस् तु समन्त्रकः ।

अनुपनीतधर्माः

इदानीम् उपनयने वक्तव्ये तत्पूर्वकाले प्रतिषिद्धान्य् उच्यन्ते । तत्र मनुः [२.१७२] ।

नाभिव्याहारयेत् ब्रह्म स्वधानिनयनाद् ऋते ।

शूद्रेण हि समस् तावद् यावद् वेदे न जायते ॥

स्वधानिनयनात् श्राद्धमन्त्रात् ।

**[९७] वसिष्ठः **[२.३–७] ।

अथाप्य् उदाहरन्ति —

न ह्य् अस्मिन् विद्यते कर्म किञ्चिद् आ मौञ्जिबन्धनात् ।

[वृत्य शूद्रसमो ह्य् एष यावद् वेदे न जायते] ॥

अन्यत्रोदककर्मस्वधापितृसंयुक्तेभ्यः ।

प्रेतपित्राद्युदकतर्पणश्राद्धपितृसंयुक्तभूमिच्छत्रादिदानाद् अन्यत्रेत्य् अर्थः ।

**दक्षः **।

जातमात्रः शिशुस् तावद् यावद् अष्टौ समा वयः ।

स हि गर्भसमो ज्ञेयो व्यक्तिमात्रप्रदर्शितः ॥

समा वर्षाणि । व्यक्तिमात्रेण न तु कर्माधिकारिकत्वेन ।

उपनीतस्य दोषो ऽस्ति क्रियमाणैर् विगर्हितैः ।

अप्राप्तव्यवहारो ऽसौ बालः षोडशवार्षिकः ॥

अनेन धनप्रयोगादिव्यवहारे स्वातन्त्र्याभावः सूचितः ।

गौतमः [२.१–९] ।

    प्राग् उपनयनात् कामचारवादभक्षः । अहुतात् । ब्रह्मचारी । यथोपपादमूत्रपुरीषो भवति । नास्याचमनकल्पो विद्यते । अन्यत्रापमार्जनप्रधावनप्रोक्षणेभ्यः । न **[९८]** तदुपस्पर्शनाद् अशौचम् । न एव् एवैनम् अग्निहवनबलिहरणयोर् नियुञ्ज्यात् । न ब्रह्माभिव्याहारयेद् अन्यत्र स्वधानिनयनात् ।

कामचारवादभक्षः इत्य् अनेन इच्छया अश्लीलभाषणपर्युषितभक्षणादीनि न निषिद्धानीति प्रतिपादितम् । यानि पुनर् अत्यन्तपतनीयानि तानि निषिद्धान्य् एव, स्मृत्यन्तरे प्रायश्चित्तदर्शनात् । अहुताद् इति हुतं विना, हुतस्याभक्षणम् । ब्रह्मचारी मैथुनवर्जी । यथोपपादमूत्रपुरीषः उदङ्मुखादिनियमवान् न स्याद् इत्य् अर्थः । आचमनकल्पः प्राङ्मुखत्वश्रोत्रस्पर्शादि । आचमनं तु करोत्य् एव । सर्वत्र कल्पनिषेधे प्राप्ते ऽपवादम् आह अन्यत्र इति । अपमार्जनम् उच्छिष्टादिलिप्तस्य उदकेन पाणिना निर्मलीकरणम् । प्रधावनं पुरीषादिलिप्तस्य प्रक्षालनम् । प्रोक्षणम् अशुचिस्पृष्टस्योदकेनाभ्युक्षणम् । एतेन कृतापमार्जनादेः स्पर्शे नाशौचम् । अग्निहवनबलिहरणयोर् नियुञ्ज्याद् इति, सहकारित्वेनापीति शेषः ।

न वै कन्या न युवतिर् नाल्पविद्यो न बालिशः ।

इति बालस्य साक्षाद्धोमकर्तव्यनिषेधात् ।

वृद्धशातातपः ।

प्राक् चूडाकरणाद् बालः प्राग् अन्नप्राशनाच् छिशुः ।

कुमारः स तु विज्ञेयो यावन् मौञ्जीनिबन्धनम् ॥

[९९] शिशोर् अभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् ।

रजस्वलादिसंस्पर्शे स्नातव्यं तु कुमारकैः ॥

वर्जयेद् इत्य् अनुवृत्तौ गौतमः [२.२६] ।

मद्यं नित्यं ब्राह्मणः ।

ब्रह्मपुराणे

मातापित्रोर् अथोच्छिष्टं बालो भुञ्जन् सुखी भवेत् ।

**आपस्तम्बः **[२.१५.१९–२५] ।

    आन्नप्राशनाद् गर्भा नाप्रयता भवन्ति । आ परिसंवत्सराद् इत्य् एके । यावता वा दिशो न प्रजानीयुः । पुरोपनयनाद् इत्य् अपरम् । अत्र ह्य् अधिकारः शास्त्रैर् भवति । सा निष्ठा । स्मृतिश् च ।

[१००]

॥ ४ ॥

अथोपनयनम्

तत्र देवलः

    प्रथमं मातापितृभ्यां गर्भाधानादिभिः संस्कृतो गर्भाष्टमे वर्षे उपनयनार्हो भवति । तत्रोपाध्यायः पिता, माता गायत्री । एवम् उपनीतो द्विपितृङो द्विजातिः स्यात् ।

द्विपितृको द्विमातापितृको एकशेषात् ।

**मनुः **[२.१६९] ।

मातुर् अग्रे ऽधिजननं द्वितीयं मौञ्जिबन्धनात् ।

तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥

**आपस्तम्बः **[१.१.१९] ।

    वसन्ते ब्राह्मणम् उपनयीत, ग्रीष्मे राजन्यम्, शरदि वैश्यम्, गर्भाष्टमेषु ब्राह्मणम्, गर्भैकादशेषु राजन्यम्, गर्भद्वादशेषु वैश्यम् ।

[बुधः]

    गर्भाष्टमे वर्षे वसन्ते ब्राह्मण आत्मानम् उपनाययेत् । एकादशे क्षत्रियो ग्रीष्मे, द्वादशे वैश्यो वर्षासु ।

[१०१] आत्मानम् उपनापयेद् इति, पित्राद्यधिकारिविरहे । वर्षाशब्देन “ऋतुः संवत्सर” इति शरदस् तदन्तर्गतत्वात् सैवोपात्ता ।

विश्वामित्र-याज्ञवल्क्यौ [याज्ज। १.१४] ।

गर्भाष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।

राज्ञाम् एकादशे सैके विशाम् एके यथाकुलम् ॥

उपनयनम् एवोपनायनम् । “विशां सैके एकादशे” इत्य् अन्वयाद् द्वादश इत्य् अर्थः । यथाकुलम् इति, कुलधर्मानुसारेण कालान्तरे ऽपीत्य् अर्थः ।

उपनयनकालक्रमे पारस्करः [२.२.४] ।

यथामङ्गलं वा सर्वेषाम् ।

यस्मिन्न् अपि काले क्रियमाणं कुले मङ्गलाय तत् भवति तत्रापि कर्तव्यम् इत्य् अर्थः ।

**लौगाक्षिः **।

    सप्तमे वर्षे ब्राह्मणस्योपनयनम्, नवमे राजन्यसैकादशे वैश्यस्य ।

सप्तमे वर्षे इत्यादि लौगाक्षिमनुवचनैकवाक्यतार्थं न गर्भादित्वं किं तु जन्मादित्वम् एव ।

[१०२] पैठीनसिः

    गर्भात् पञ्चमे ऽब्दे वा ब्राह्मणम् उपनयेद् गर्भाष्टमे वाष्टमे वा, गर्भाष्टमे राजन्यं गर्भद्वादशे वा, गर्भद्वादशे वैश्यं गर्भषोडशे वा ।

उपनयेद् इत्य् अनुवृत्तौ आपतम्बः [१.१.२०–२६] ।

    अथ काम्यानि । सप्तमे ब्रह्मवर्चसकामम् । अष्टमे आयुष्कामम् । नवमे तेजस्कामम् । दशमे ऽन्नाद्यकामम् । एकादश इन्द्रियकामम् । द्वादशे पशुकामम् ।

**गौतमः **[१.१.७–९, १३] ।

    उपनयनं ब्राह्मणस्याष्टमे । नवमे पञ्चमे वा काम्यम् । गर्भादिसङ्ख्या वर्षाणाम् । एकादशद्वादशयोः क्षत्रियवैश्ययोः ।

मनुः [२.३७] ।

ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पञ्चमे ।

राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनो ऽष्टमे ॥

पैठीनसिः

द्वादशषोडशविंशतिश् चेत्य् अतीता अविरुद्धकाला भवन्ति ।

अत्रेयं व्यवस्था — “वसन्ते ब्राह्मणम् उपनयीत” इत्य् आपस्तम्बवचनेन वसन्तादिकालीनत्वम् उपनयने विहितम् । मनु-विश्वामित्र-याज्ञवल्क्य-पारस्कर-लौगाक्षि-पैठीनसिवाक्येषु विनोपनिबन्धनेन श्रवणाद् ब्राह्मणस्य गर्भाष्टमगर्भपञ्चम**[१०३]जन्माष्टमाः, क्षत्रियस्य गर्भाष्टमजन्मनवम-गर्भैकादशगर्भद्वादशाः, वैश्यस्य गर्भैकादशगर्भद्वादशगर्भषोडशा नित्याः । यथाकुलं चान्यो ऽपि कालो नित्यः सर्ववर्णानाम् । अत्रापि प्राधान्यात् सर्वस्मृतिकारस्**अम्मतत्वाच् च गर्भाष्टमगर्भैकादशगर्भद्वादशा यथाक्रमं ब्राह्मणक्षत्रियवैश्यानां मुख्याः ।

तथा च मनुः [२.३६] ।

गर्भाष्टमे ऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।

गर्भाद् एकादशे राज्ञो गर्भात् तु द्वादशे विशः ॥

गर्भपञ्चमस्य तु पैठीनसिनानुपबन्धम् एव स्मरणदृष्टस्य च सद्यः सावित्रीपठनस्य तदवधारणस्य च केनचिद् एवातिप्राज्ञेन स्पष्टवाचा कर्तुं शक्त्यत्वा नित्यत्वम् एव । प्रतिनित्यं सावित्रीपठनं च सद्य एव गायत्रीप्रवरणं ब्राह्मणस्येति श्रुतेः । क्षत्रियस्य गर्भाष्टमनवमौ कुलव्यवस्थया नित्यौ । एवम् एकादशो वैश्यस्य । अन्ये चाष्टमादयो द्वादशादि वर्णक्रमेणाविरुद्धा । “द्वादशषोडशविंशतिश् चेत्य् अतीता अविरुद्धकाला भवन्ति” इति पैठीनसिवचनात् तेषां च पूर्वपूर्वासम्भवे उत्तरोत्तरविधिना अतीतत्वेनाविरोधवचनात्, असमविशिष्टविकल्पाच् च । “ऊर्ध्वं तु द्वादशात्” इत्य् आ षोडशद्वाविंशतिचतुर्विंशतिर् यावत् यथाक्रमं वर्णानां स्वल्पः प्रत्यवायः । द्वादशपर्यन्तम् एवाविरोधिस्मृतेः । ऊर्ध्वं तु व्रात्या व्रात्यस्तोमेन वोपनयनार्हाः । पञ्चमादिषु कामनोपनिबन्धत्वे तु संयोगपृथक्त्वेन नित्याः काम्याश् च । येषां तु “राज्ञो बलार्थिनः षष्ठ” इत्यादीनां कामनोपनिबन्धेनैव स्मरणम्, तेषां काम्यत्वम् । [१०४] किं तु स्वरूपसिद्धेस् तस्माद् एवोपनयनरूपाः संस्कारो नित्यः सिद्धः । गोदोहनेन प्रणयनसिद्धेर् यथा क्रमकारार्थं चमसेन न पुनः प्रणयनम् । नापि त्रिवर्षस्योपनयनम् । तत्र विशेषो लेखनाभावेनापक्षकस्याभावात्, शरादिना यथा न प्रणयनम् इति । अथोपनयनातिक्रमे व्रात्यता । तत्र सापेक्षवाक्येषु वर्षोपनयनवर्णक्रमानुवृत्तिर् मन्तव्या ।

मनुः [२.३८] ।

आ षोडशाद् ब्राह्मणस्य सावित्री नातिवर्तते ।

आ द्वाविंशात् क्षत्रबन्धोर् आ चतुर्विंशतेर् विशः ॥

अभिविधावाङ्,

औपनायनिकः कालः परः षोडशवार्षिकः ।

द्वाविंशतिः परो ह्य् अस्य स्याच् चतुर्विंशतिः परः ॥

इति व्यासवचनात् ।

याज्ञवल्क्यः [१.३८] ।

अत ऊर्ध्वं पतन्त्य् एते सर्वधर्मबहिष्कृताः ।

सावित्रीपतिता व्रात्या व्रात्यस्तोमाद् ऋते क्रतोः ॥

मनुः [२.४०] ।

नैतैर् अपूतैः विधिवद् आपद्य् अपि हि कर्हिचित् ।

ब्राह्मान् यौनांश् च सम्बन्धान् आचरेद् ब्राह्मणैः सह ॥

अपूतैः अकृतप्रायश्चित्तैः । ब्रह्मग्रहणं प्रदर्शनार्थम् ।

[१०५]

अथोपनेतुर् उपनेयस्य च निरूपणम् ।

तत्र आचार्यलक्षणम्

यमः

सत्यवाग् धृतिमान् दक्षः सर्वभूतदयापरः ।

आस्तिको वेदनिरतः शुचिर् आचार्य उच्यते ॥

वेदाध्ययनसम्पन्नो वृत्तिमान् विजितेन्द्रियः ।

दक्षः व्रतोत्साही । वृत्तिमान् यथाविहितजीवनहेतुवृत्तिमान् ।

**हारीतः **।

न याजयेद् वृत्तिहीनं वृणुयाच् च न तं गुरुम् ।

न हि मज्ज्ञा करौ दिग्धौ रुधिरेण विशुध्यतः ॥

मज्ज्ञा इति मज्जन्शब्दस्य तृतीया ।

**शङ्खलिखितौ **।

नोन्मत्तमूकान् संस्कुर्यात् ।

विष्णुः [२९.४–६] ।

नापरीक्षितं याजयेत् । नाध्यापयेत् । नोपनयेत् ।

**आपस्तम्बः **[१.१.६] ।

अशूद्राणाम् अदुष्टकर्मणाम् उपायनम् ।

अदुष्टकर्मणां मद्यपानादिरहितानाम् ।

[१०६] **कात्यायनः **।

    सावित्र्या ब्राह्मणम् उपनयीत, त्रिष्टुभा राजन्यम्, जगत्या वैश्यम्, सर्वेषां वा सावित्री ।

[लौगाक्षिः]

    तत् सवितुर् वरेण्यम् इति सावित्री ब्राह्मणस्य । तां सवितुर् इति राजन्यस्य । विश्वारूपाणीति वैश्यस्य ।

यमः ।

** **अमन्त्रम् अपि वा कुर्यात् सर्वम् आवृत्य दक्षिणम् ।

एतच् च षोडशवर्षपर्यन्तं कस्याञ्चिद् आपदि मन्त्रस्योपनेतुर् अभावे उपनयनकालातिक्रमसम्भावनायां बोद्धव्यम् ।

**गोबिलः **[२.१०.७] ।

यद् अहर् उपैष्यन् माणवको भवति प्रग एवैनं तद् अहर् भोजयन्ति ।

“प्रग एव” प्रातर् एव ।

उपनेयाधिकारे **पारस्करः **[२.२.५] ।

ब्राह्मणान् भोजयेत् ।

शङ्खलिखितौ

पयोयवाग्वामिक्षाहाराः क्रमशो द्विजातीनाम् ।

[१०७] उपनयनाधिकाराद् उपनेयानां द्विजातीनाम् । आमिक्षा दधिप्रेक्षेपाद् विनष्टक्षीरकठिनभागः ।

अथोपवीतादीनि

तत्र मनुः [२.४४] ।

कार्पासम् उपवीतं स्याद् विप्रस्योर्धव्रतं [वृतम्?] त्रिवृत् ।

शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥

आविकसौत्रिकम् ऊर्णासूत्रनिर्मितम् ।

**बौधायनः **[१.८.५] ।

    कौशं सौत्रं वा त्रिः त्रिवृद्यज्ञोपवीतम् आ नाभेः [दक्षिणं बाहुम् उद्धृत्य सव्यम् अवधाय शिरो ऽवदध्यात्] ।

कौशं कृमिकौशोद्भवम्, पट्टसूत्रमयम् इति यावत् ।

तथा च **आदित्यपुराणे **।

क्षौमजं वाथ कार्पासं पट्टसूत्रम् अथापि वा ।

दध्याद् यज्ञोपवीतं यो न तं हिंसन्ति वायसाः ॥ इति ।

सौत्रं कार्पासम् । त्रिः त्रिवृत्, नवगुणम् । “नव वै त्रिवृत्” इति श्रुतेः ।

**छन्दोगपरिशिष्टे कात्यायनः **।

ऊर्ध्वं तु त्रिवृतं कार्यं तन्तुत्रयम् अधोवृतम् ।

त्रिवृतं चोपवीतं स्यात् तस्यैको ग्रन्थिर् इष्यते ॥

[१०८] वामावर्तं त्रिगुणं कृत्वा प्रदक्षिणावर्तनं नवगुणं स्यात् । तद् एवं च त्रिसरं कार्यम् इत्य् एतद् उक्तम् “त्रिवृतं चोपवीतम्” इत्य् अनेन ।

तथा ।

** **पृष्टदेशे ऽथ नाभ्यां च धृतं यद् विन्दते कटिम् ।

तद् धार्यम् उपवीतं स्यान् नास्ति नीचं न चोच्छ्रितम् ॥

वामस्कन्धकृतं नाभिपृष्ठवंशयोर् धृतं यथा कटिपर्यन्तं प्राप्नोति तावत्परिमाणं कर्तव्यम् इत्य् अर्थः । छन्दोगपरिशिष्टे कात्यायनेन्ओपवीतावस्थापनस्यानुवादेन परिमाणविशेषविधिः ।

अथ गौतमः [१.१९–२३] ।

    वासांसि शाणक्षौमचीरकुतपाः सर्वेषाम् । कार्पासं वाविकृतम् । काषायम् अप्य् एके । वार्क्ष्यं ब्राह्मणस्य । माञ्जिष्ठहारिद्रे इतरयोः ।

शणमयं शाणम् । अतसी क्षुमा । चीरं कुशादिनिष्पन्नम् । कुतपः पार्वतीयछागरोमनिर्मितः । अविकृतं रञ्जकद्रव्यासम्पृक्तम् । काषायपक्षे ब्राह्मणस्य वृक्षकाषायाक्तम्, क्षत्रियवैश्ययोर् माञ्जिष्ठहारिद्राक्तम् ।

**वसिष्ठः **[११.६४–६७] ।

    शुक्लम् अहतं वासो ब्राह्मणस्य । कार्पासं माञ्जिष्ठं क्षत्रियस्य । हारिद्रकौशेयं वैश्यस्य । सर्वेषां व् तान्तवम् अरक्तम् ।

कौशेयं कृमिकोशोत्थम् । तान्तवं अत्र कार्पासम् ।

[१०९] शङ्खः

    क्षौमदुकूलसौत्राणि वासांसि त्रयाणां वर्णानाम् ।

**यमः **।

क्षौमकार्पासकुतपाश् चर्मवल्कलकम्बलाः ।

सर्वं तु धारयेच् छुक्लं वासस् तत्पारिधानिकम् ॥

पारिधानिकं परिधानप्रयोजनम् ।

मनु [२.४१] ।

कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ।

वसीरन्न् आनुपूर्व्येण शाणक्षौमाविकानि च ॥

कृष्णः कृष्णमृगः । रुरुः बहुशाखाशृङ्गो मृगः । बस्तः छागः । आविकं मेषरोमनिर्मितम् ।

**आपस्तम्बः **[१.३.३–१०] ।

    हारिणम् ऐणेयं वा कृष्णं ब्राह्मणस्य । कृष्णं चेद् अनुपस्तीर्णासनशायी स्यात् । रौरवं राजन्यस्य । बस्ताजिनं वैश्यस्य । आविकं सार्ववर्णिकम् । [कम्बलश् च] । ब्रह्मवृद्धिम् इच्छन्न् अजिनान्य् एव वसीत, क्षत्रवृद्धिम् इच्छन् वस्त्राण्य् एव, उभयवृद्धिम् इच्छन् उभयम् इति हि ब्राह्म्णम् । अजिनं त्व् एवोत्तरं धारयेत् ।

ऐणेयम् एणीसमुद्भवम्, एणी गौरमृगी । यदा हारिणं तदा कृष्णं तच् च नोपस्तीर्य आसीत शयीत वा । आविकं मेषचर्म । सार्ववर्णिकं जातिसम्बन्धम् । उत्तरम् उत्तरीयम् ।

[११०] पारस्करः [२.५.१७–२०] ।

    [ऐणम् अजिनम् उत्तरीयं ब्राह्मणस्य । रौरवं राजन्यस्य । ] आजं गव्यं वा वैश्यस्य । सर्वेषां वा गव्यम् असति प्रधानत्वात् ।

यमः

[कृष्णाजिनं ब्राह्मणस्य रौरवं क्षत्रियस्य तु ।

बस्ताजिनं तु वैश्यस्य सर्वेषां रौरवाजिनम् ॥ ]

सर्वेषां रौवाजिनम् इतरचर्म न सम्भवति इति शेषः ।

विष्णुः [२७.१९–२०] ।

    [कार्कासशाणाविकान्य् उपवीतानि वासांसि] । मार्गवैयाघबास्तानि चर्माणि ।

**पैठीनसिः **।

कृष्णरुरुपृषतानाम् आजिनानि ।

अथ मेखलाः

तत्र मनुः [२.४२] ।

मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।

क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥

त्रिवृत् त्रिगुणीकृता । समा न क्वचित् स्थूला, न क्वचित् सूक्ष्मा । श्लक्ष्णा अस्थूला ।

[१११] यमः

एतासाम् अप्य् अलाभे तु कुशाश्मन्तकबल्वजैः ।

मेखलास् त्रिवृतः कार्याः ग्रन्थिनैकेन वा त्रिभिः ॥

त्रिवृत्त्वं त्रिर्वेष्टनेन । ग्रन्थिसङ्ख्या च आचारात् प्रवरसङ्ख्यया वेत्य् अवस्थिता ।

आपस्तम्बः [१.२.३३–३७] ।

    मौञ्जी मेखला त्रिवृद् ब्राह्मणस्य शक्तिविषये दक्षिणावृत्तानाम् । धनुर्ज्या राजन्यस्य । मौञ्जी वा अयोमिश्रा । आवीसूत्रं वैश्यस्य । सैरी ताम्बूली वा इत्य् एके ।

शक्तिविषये मुञ्जापाप्तौ सम्भवन्त्याम् । दक्षिणावृत्तानां प्रदक्षिणावर्तितानां, योग्यत्वात् मुञ्जादिद्रव्याणाम् इत्य् अर्थह् । अयोमिश्रा लोहसूत्रमिश्रा । सैरी सीरस्य हलस्य योक्त्रम् इति यावत् । ताम्बूली मूलोदकवृक्षनिर्मितेति कपर्दी

गोभिलः [२.१०.१०] ।

मुञ्जकाशताम्बूलयो रशनाः ।

पैठीनसिः

    मौञ्जी मेखला अश्मन्तकजा वा ब्राह्मणस्य, बैल्वजा मौर्वी वा राजन्यस्य, शाणी क्षौमी वा वैश्यस्येति ।

[अश्मन्तकः कुशसदृशः तृणविशेषः] ।

[११२] बैजवापः

मेखलां त्रिगुणां प्रसलविसृष्टां प्रदक्षिणं त्रिः परिनयन्तीति ।

प्रसलं प्रदक्षिणं यथा भवत्य् एवं सृष्टां निर्मिताम् । परि समन्तात् नयन्ति प्रदक्षिणं यथा भवति तथा त्रिः वेष्टयन्ति ।

अथ दण्डः

तत्र भविष्यपुराणे

ब्राह्मणे बैल्वपालाशौ तृतीयः प्लक्षजस् तथा ।

न्यग्रोधखादिरौ क्षत्रे तथान्यो वेतसोद्भवः ॥

पैलवौदुम्बरो वैश्ये तृतीयो ऽश्वत्थजस् तथा ।

दण्डान् एतान् महाबाहो धर्मतो ऽर्हन्ति धारितुम् ॥

शङ्खः

पर्णपिप्पलबिल्वानां क्रमाद् दण्डाः प्रकीर्तिताः ॥

पर्णः पलाशः ।

पैठीनसिः

औदुम्बरो खादिरो वारणो वा वैश्यस्य ।

वारणः वरणवृक्षोद्भवः ।

[पारस्करः — २.५.२५–२७]

    पालाशो दण्डो ब्राह्मणस्य, बैल्वो राजन्यस्य, औदुम्बरो वैश्यस्य, सर्वे वा सर्वेषाम् ।

[११३] यमः

[विप्रस्य दण्डः पालाशो बैल्वो वा धर्मतः स्मृतः । ]

अश्वत्थो क्षत्रियस्याथ खादिरो वापि धर्मतः ॥

औदुम्बरो ऽथ वैश्यस्य प्लक्षो वा दण्ड उच्यते ।

तथा

एतेषाम् अप्य् अलाभे तु सर्वेषाम् एव यज्ञियाः ॥

**मनुः **[२.४६] ।

केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।

ललाटसम्मितो राज्ञः स्यात् तु नासान्तिको विशः ॥

दण्ड इत्य् अनुवृत्तौ वसिष्ठः [११.५५–५७] ।

    घ्राणसम्मितो ब्राह्मणस्य, ललाटसम्मितः क्षत्रियस्य, केशसम्मितो 


    वैश्यस्य ।

विष्णुः [२७.२१–२२] ।

    पालाशखदिरौदुम्बरा दण्डाः केशान्तललाटनासादेशतुल्याः ।

**पैठीनसिः **।

केशान्तललाटग्रीवाप्रमाणा ब्राह्मणादिनाम् ।

**मनुः **[२.४७] ।

ऋजवस् ते तु सर्वे स्युर् अव्रणाः सौम्यदर्शनाः ।

[११४] अनुद्वेगकरा नॄणां सत्वचो नाग्निदुःखिताः ॥

गौतमः [१.२७] ।

अपीडिता यूपवक्राः सशल्काः ।

अपीडिताः वल्लीवेष्टनादिभिर् अनुपहताः । यूपवक्राः यूपवद् अनताग्राः । सशल्काः सवल्कलाः । असमासात् सर्व एवंरूपाः ।

**आपस्तम्बः **[१.२.३८] ।

नैयग्रोधस्कन्धजो ऽवाङ्ग्रो राजन्यस्य ।

अथ गायत्र्युपदेशः

अथ हारीतः

    तस्माद् उपेतायोपसन्नाय समीक्षिताय समीक्षमाणाय ब्रह्मानुब्रुवन्ति नेतरेभ्यः, तान् ब्रह्मचारिण इत्य् आचक्षते ।

ब्रह्मशब्दो अत्र सावित्रीपरः ।

पारस्करः [२.३.३–७] ।

    अथास्मै सावित्रीमन्वाहोत्तरतो ऽग्नेः प्रत्यङ्मुखायोपविष्टायोपसन्नाय समीक्षमाणाय समीक्षिताय । दक्षिणतस् तिष्ठत आसीनाय वैके । पच्छो ऽर्धर्चशः सर्वां च तृतीयेन सहानुवर्तयन् । संवत्सरे षण्मास्ये चतुर्विंशत्यहे द्वादशाहे षडहे त्र्यहे वा । सद्यस् त्व् एव गायत्रीं ब्राह्मणायानुब्रूयात् [आग्नेयो वै ब्राह्मण इति श्रुतेः] ।

[११५] पच्छः पादं पादं सर्वां च तृतीयेन पादेन सहानुवरयेत् ।

**यमः **।

ओङ्कारपूर्विकास् तिस्रः गावित्रीं यस् तु विन्दति ।

चरति ब्रह्मचर्यं च स वै श्रोत्रिय उच्यते ॥

तिस्रो महाव्याहृतीर् इति शेषः ।

मनुः [२.८०] ।

एतयर्चा विसंयुक्तः काले च क्रियया स्वया ।

ब्रह्मक्षत्रियविड्योनिर् गर्हणां याति साधुषु ॥

अथ भैक्षचर्या

मनुः [२.४८] ।

प्रतिगृह्येप्सितं दण्डम् उपस्थाय च भास्करम् ।

प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ॥

उपस्थाय संउखम् अवस्थाप । परीत्य परिवेष्ट्य ।

[११६] तथा [२.४९] ।

भवत्पूर्वं चरेद् भैक्षम् उपनीतो द्विजोत्तमः ।

भवन्मध्यं तु राजन्यो वैश्यस् तु भवदुत्तरम् ॥

भविष्ये

मातरं वा स्वसारं वा मातुर् वा भगिनीं निजाम् ।

भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥

सुवर्णं रजतं रत्नं सा पात्रे ऽस्य विनिक्षिपेत् ।

“या चैनं नावमानयेत्” इति अन्यापीत्य् अर्थः । एतच् च प्रथमम् इत्य् उपक्रम्याभिधानात् ज्ञातिकुलादिप्रात्यहिकभिक्षानिषेधाच् चोपनयनप्रयोगान्तर्गतभिक्षाविषयम् ।

भिक्षेतेत्य् अनुवृत्तौ पारस्करः [२.५.५–७] ।

    तिस्रो ऽप्रत्याख्यायिन्यः । षड् वा द्वादशपरिमिता वा । मातरं प्रथमाम् एके ।

अप्रत्याख्यायिन्य इति द्वितीयास्थाने प्रथमा ।

शौनकः

आचरेत् सप्त भिक्षां क्षां च हिं च वर्जयेत् ।

“क्षां च हिं च वर्जयेत्” इति लक्षणया भिक्षाम् इति दण्डादिवद् वर्जयेद् इत्य् अर्थः ।

[११७] तथा

सर्वेषु वर्णेषु, ब्राह्मणाद्याः सवर्णस्थाः ।

भिक्षेरन् इति शेषः ।

व्यासः

ब्राह्मणक्षत्रियविशश् चरेयुर् भैक्षम् अन्वहम् ।

सजातीयगृहेष्व् एव सार्ववर्णिकम् एव वा ॥

गौतमः [२.४२] ।

सार्ववर्णिकं भैक्षचरणम् अभिशस्तपतितवर्जम् ।

तथा [२.४४–४५] ।

आचार्यगुरुज्ञातिष्व् अलाभे ऽन्यत्र । तेषां पूर्वं पूर्वं परिहरेत् ।

मनुः [२.१८३] ।

वेदयज्ञैर् अहीनानां प्रशस्तानां स्वकर्मसु ।

ब्रह्मचार्य् आहरेद् भैक्षं गृहेभ्यः प्रयतो ऽन्वहम् ॥

“प्रशस्तानां स्वकर्मसु” सम्यक् स्वकर्मानुष्ठाननिष्ठानाम् ।

तथा [२.१८४] ।

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।

अलाभे त्व् अन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥

अन्यत्रालाभे गुर्वादिषु भिक्षेत । तत्रापि पूवं पूर्वं विवर्जयेद् उत्तरोत्तरालाबे ।

[११८] भविष्ये

सर्वं वा विचरेद् ग्रामं पूर्वोक्तानाम् असम्भवे ।

अन्त्यवर्जं महाबाहुर् इत्य् आह भगवान् विभुः ॥

वाचं नियम्य प्रयतः आमिषं चापि वर्जयेत् ।

चातुर्वर्ण्यं चरेद् भैक्षम् अलाभे कुरुनन्दन ॥

आपस्तम्बः [१.३.२५] ।

सर्वं लाभम् आहरन् गुरवे सायं प्रातर् अमत्रेण भिक्षाचर्यं चरेत् ।

सर्वं निःशेषं निवेदयेद् इत्य् अर्थः । लाभं लब्धम् । अमत्रेण [कांस्यव्यतिरिक्तेन ताम्रादिपात्रेण] । “भिक्षाचर्यं चरेत्” कुर्वीत ।

यमः ।

हस्तदत्ता तु या भिक्षा व्यञ्जनं सलिलानि च ।

भुक्त्वा त्व् अशुचितां याति दाता स्वर्गं न गच्छति ॥

पैठीनसिः

भैक्षं चरेद् अप्रमत्तः शुचिः शान्तो जितेन्द्रियः ।

अप्रमत्तः अवहितः ।

भिक्षानुवृत्तौ आपस्तम्बः [१.३.३१–३५] ।

    तत् समाहृत्योपनिधाय आचार्याय प्रब्रूयात् । तेन प्रदिष्टं भुञ्जीत । विप्रवासे गुरोर् आचार्यकुलाय । तद्विप्रवासे ऽन्येभ्यो ऽपि श्रोत्रियेभ्यः । नात्मप्रयोजनश् चरेत् ।

[११९] प्रदिष्टम् अनुज्ञातम् । विप्रवासे असन्निधाने । आचार्यकुलाय आचार्यपुत्रादेः । नात्मप्रयोजनः गुर्वादिभ्यो ऽनिवेदयन् । गुरुसमवाये अनेकगुरुसन्निधाने यम् अनुबद्धस् तस्मिन् काले तस्यादधीत इत्य् अर्थः ।

तथा [१.७.१५–१८] ।

    समावृत्तो मात्रे दद्यात् । माता भर्तारं गमयेत् । भर्ता गुरुम् । धर्मकृत्येषु योजयेत् ।

समावृत्तः विद्यां गृहीत्वा त्रिवृतो समावृत्त एव पितृगृहस्थितो ऽत्राभिमतः ।

गौतमः [२.४६–४८] ।

    निवेद्य गुरवे ऽनुज्ञातो भुञ्जीत । असन्निधौ तद्भार्यापुत्रसब्रह्मचारि-सद्भ्यः । वाग्यतस् तृप्यन्न् अलोलुप्यमानः सन्निधाप्योदकम् ।

सब्रह्मचारी सहाध्यायी । सद्भ्यः साधुभ्यः ।

मनुः [२.५१] ।

समाहृत्य तु तद्भैक्षं यावद् अन्नम् अमायया ।

निवेद्य गुरवे ऽश्नीयाद् आचम्य प्राङ्मुखः शुचिः ॥

हारीतः

    आहारशुद्धौ सत्वशुद्धिर् इत्य् आचार्याः । स द्विविधः । ऋतसम्मितो ऽमृतसम्मितश् च । क्रोधदम्भसेवासंव्यवहारवर्जितं **[१२०]** [ऋतसंवितम्] । भैक्षम् अवोक्षितं पर्यग्निकृतम् आदित्यदर्शितं गुरवे निवेदितम् अनुज्ञातम् अमृतसम्मितम् । प्रातस् तद् अश्नन् ब्रह्मचारी ब्रह्मसिद्धिम् अवाप्नोति ।

संव्यवहारः मैत्र्यादि । पर्यग्निकृतं परि सर्वतो अग्निः कृतो यत्र ।

**व्यासः **।

प्रक्षाल्य पाणिपादु तु भुङ्क्त्वा चाप उपस्पृशेत् ।

वसिष्ठः [१२.१८–२०] ।

    प्राङ्मुखो ऽन्नानि भुञ्जीत । तूष्णीं साङ्गुष्ठं कृत्स्नग्रासं ग्रसेत् । न च शब्दं कुर्यात् ।

पैठीनसिः

    हविषो हुत्वा सन्तर्प्याग्निं समिधं दत्वा अन्नं यद् अन्नम् अश्नातीत्य् उक्त्वानुमन्त्रयेत् । त्रिः स्विष्टकृतम् अग्निकार्यं कृत्वानुज्ञातो भुञ्जीत वाग्यतः प्राङ्मुखः इत्य् आह ।


    	नात्य् उच्चैः सुखम् आसीत समदेहो ऽन्नतत्परः ।


    	कालेनाद्यंल् लघु क्षिप्रम् अल्पम् अद्याद् द्रवोत्तरम् ॥

हविषः भिक्षातो हविर्भूतस्यान्नस्य । द्रवोत्तरं द्रवेण नक्तादिना भोजनसमाप्तिं कुर्याद् इत्य् अर्थः ।

[१२१] हारीतः

    प्राङ्मुखः आयुष्कामो ऽश्नीयात् । यशोऽर्थी दक्षिणामुखः । श्रीकामः प्रत्यङ्मुखः । नात्याशयेत् । नासने ऽश्नीयात् । न कार्ष्णायसे । न मृत्पात्रे । नावकीर्णे ।

नात्याशयेत् नात्यशनं कुर्यात् । अवकीर्णे अपवित्रे ।

**याज्ञवल्क्यः **[१.३१] ।

कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।

आपोशनक्रियापूर्वं सत्कृत्यान्नम् अकुत्सयन् ॥

“हविषा हुत्वा” इत्यादिपैठीनसिवचनानुसारेण “कृताग्निकार्य” इति तद् एवात्राग्निकार्यं मतम् । “सत्कृत्य” भूतानाम् उत्पत्तिस्थितिषु हेतुतया ध्यात्वा । “अकुत्सयन्” अन्नदोषम् अकीर्तयन् ।

तथा [१.३२] ।

ब्रह्मचर्ये स्थितो नैकम् अन्नम् अद्याद् अनापदि ।

ब्राह्मणः कामम् अश्नीयात् श्राद्धे व्रतम् अपीडयन् ॥

एकम् अन्नम् एकभिक्षाम् । अनापदि आपदि भिक्षास्थानाभावाद् एकापि । श्राद्धे त्व् अनापद्य् अपि । व्रतम् अपीडयन् [१२२] मधुमांसादि वर्जयन् । ब्राह्मणो यथेष्टम् अश्नीयात्, न क्षत्रियवैश्यौ ।

राजन्यवैश्ययोश् चैव नैतत् कर्म विधीयते ।

इति मनुवचनात् [२.१९०] ।

बौधायनः [२.१.२५–२६] ।

    स चेद् व्याधीयीत कामं गुरोर् उच्छिष्टं भैषज्यार्थं सर्वं प्राश्नीयात् । येनेच्छेत् तेन चिकित्सेत ।

येन इति ब्रह्मचारिनिषिद्धेन मधुमांसादिनापि गुरूच्छिष्टेन ।

**वसिष्ठः **।

अकामापन्नं मधु वाजसनेयके न दुष्यति ।

अकामापन्नं प्रमादादिना आपतितं भक्षितम् ।

मनुः [२.५४–५५] ।

दृष्ट्वा हृष्येत् प्रसीदेच् च प्रतिनन्देच् च सर्वशः ।

पूजितं ह्य् अशनं नित्यं बलम् ऊर्जं प्रयच्छति ॥

प्रसादः क्रोधादिदोषहानेन मनसो ऽनाकुलत्वम् । प्रतिनन्दनं समृद्ध्याशंसनम् । बलं शामर्थम् । ऊर्जम् उत्साहम् ।

[१२३] ब्रह्मपुराणे

अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः कथयेत् ततः ।

अस्माकं नित्यम् अस्त्व् एतद् इति भक्त्याथ वन्दयेत् ॥

मनुः [२.५६] ।

नोच्छिष्टं कस्यचिद् दद्यान् नाद्याच् चैव तथान्तरा ।

न चैवात्यशनं कुर्यान् न चोच्छिष्टः क्वचिद् व्रजेत् ॥

अन्तरा सायम्प्रातःकालयोर् मधे इति मेधातिथिः

आपस्तम्बः [१.३.३६–४५; १.४.१–७] ।

    भुक्त्वा स्वयम् अमत्रं प्रक्षालयेत् । नोच्छिष्टं कुर्यात् । अशक्तौ भूमौ निखनेत् । अप्सु वा प्रवेशयेत् । आर्याय वा पर्यवदध्यात् । अन्तर्धिने वा शूद्राय । प्रोषितो भैक्षाद् अग्नौ कृत्वा भुञ्जीत । भैक्षं हविषा संस्तुतं तत्राचार्यो देवतार्थे । आहवनीयार्थे च । तं भोजयित्वा । यद् उच्छिष्टं प्राश्नाति । हविरुच्छिष्टम् एव तत् । यद् अन्यानि द्रव्याणि यथालाभम् उपहरति दक्षिणा एव ताः । स एष ब्रह्मचारिणो यज्ञो नित्यव्रतः । न चास्मै श्रुतिप्रतिषिद्धम् उच्छिष्टं दद्यात् । यथा क्षारलवणमधुमांसानीति । एतेनान्ये नियअमा व्याख्याताः ।

पर्यवदध्यात् एकत्र भाजने कृत्वा समीपे धारयेत् । अन्तर्धिने आचार्यदासाय । प्रोषितः आचार्यप्र्योजनेनान्यत्र गतः । हविषा हविष्ट्वेन (?) । यद् उच्छिष्टम् आचार्यो भोजयित्वोत्सृजति । न च इति, यथा क्षारलवणादीनि श्रुतौ प्रतिषिद्धत्वान् न दीयन्ते एवं साक्षाद् उच्छिष्टम् ।

[१२४] तथा

    पितुः ज्येष्ठस्य च भ्रातुर् उच्छिष्टं भोक्तव्यम् । धर्मविप्रतिपत्ताव् अभोज्यम् ।

धर्मविप्रतिपत्तौ अधार्मिकत्वे ।

ग्राससङ्ख्यां प्रक्रम्य वसिष्ठ-आपस्तम्ब-हारीत-यमाः

अपरिमितं ब्रह्मचारिणः ।

अनड्वान् ब्रह्मचारी च आहिताग्निश् च ते त्रयः ।

अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिर् अनश्नताम् ॥

अनडुद्ग्रहणं दृष्टान्तार्थम् ।

**गौतमः **[८.५, ९]

सायं प्रातस् त्व् अन्नम् अभिपूजितम् अनिन्दन् भुञ्जीत ।

[१२५]

॥ ५ ॥

अथाचमनम्

देवलः

भुक्त्वाचामेद् अथोक्तेन विधानेन समाहितः ।

शोधयेन् मुखहस्तौ च समृद्भिर् घर्षणैर् अपि ॥

तत्र मनुः [१.५३] ।

उपस्पृश्य द्विजो नित्यम् अन्नम् अद्यात् समाहितः ।

भुक्त्वा चोपस्पृशेत् सम्यग् अद्भिः खानि च संस्पृशेत् ॥

गौतमह् [१.३७–४१] ।

    प्राङ्मुख उदङ्मुखो वा शौचम् आचरेत् । शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीत्या मणिबन्धात् पाणी प्रक्षाल्य वाग्यतो कृदयं स्पृशंस् त्रिश् चतुर् वा अप आचामेत् । [द्विः परिमृज्यत् । पादौ चाभ्युक्षेत् । खानि चोपस्पृशेच् छीर्षन्यानि] ।

“वा” इति भावशुद्ध्यपेक्षया विकल्पः । मणिबन्धात् कण्ठबाहुसन्धिदेशात् । हृदयस्पृशः हृदन्तर्गताः । खानि इन्द्रियाणि । शिर्षण्यानि शिरसि जातानि ।

[१२६] हारीतः

    आ मणिबन्धात् पाणी प्रक्षाल्य । आ जङ्घाभ्यां पादौ च । ज्ञातिश्रैष्थ्यकामो ऽन्नाद्यकामो वा दक्षिणे चरणाङ्गुष्ठे पाणिम् अवस्थाप्य प्राणान् आलभ्य खानि उपस्पृशेत् ।

**देवलः **।

प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेच् छनैः ।

उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः ॥

शिखां बध्वा वसित्वा द्वे निर्णिक्ते वाससी शुभे ।

तूष्णीं भूत्वा समाधाय नोद्गच्छेन् न विलोकयन् ॥

समधाय मन इति शेषः । उद्गच्छन् उत्तिष्ठन् । विलोकयन् दिश इति शेषः, “दिशश् चानवलोकयन्” इति शङ्खवचनात् ।

**तथा **।

न गच्छन् न शयानश् च न चलन् न परं स्पृशन् ।

न ह्वलन् नैव सञ्जल्पन् नात्मानं चापि वीक्षयन् ॥

ह्वलन् कम्पमानः । आत्मानं स्वहृदयम् । वीक्षयन् इति चुरादिषु बहुलनिदर्शनात् स्वार्थे णिच् ।

केशान् नीवीम् अधःकर्यं न स्पृशन् धरणीम् अपि ।

यदि स्पृशति चैतानि भूयः प्रक्षालयेत् करम् ॥

अधःकार्यं नाभेर् अधः प्रदेशम् । न स्पृशन् करेणेति शेषः ।

तथा

इत्य् एवम् अद्भिर् आजानु प्रक्षाल्य चरणौ पृथक् ।

[१२७] हस्तौ चामणिमन्धाभ्यां पश्चाआद् आसीत संयतः ॥

अथापः प्रथमात् तीर्थाद् दक्षिणात् त्रिः पिबेत् समम् ।

अशद्वम् अनवस्त्रावम् अबहिर्जान्व् अबुद्बुदम् ॥

प्रथमात् ब्राह्मात् । अनवस्त्रावं यथा न स्रवति तथा ।

द्विस् तथाङ्गुष्ठमूलेन परिमृज्यात् पुनर् मुखम् ।

नाग्राङ्गुल्या न पृष्टैर् वा परिमृज्यात् कथञ्चन ॥

ततः कृत्वाङ्गुलिस्पर्शं दृग्घ्राणश्रोत्रनाभिषु ।

मूर्धानं चरणौ चाद्भिः सम्प्रोक्ष्याथ शुचिर् भवेत् ॥

पृष्ठैः अङ्गुलीपृष्ठहस्तैः ।

**व्यासः **।

त्रिर् आचामेद् अपः पूर्वं द्विर् उन्मृज्यात् ततो मुखम् ।

पादाव् अभ्युक्ष्य मूर्धानम् अभ्युक्षेत् तदनन्तरम् ॥

अक्षिणी नासिके कर्णाव् ओष्ठौ च तदनन्तरम् ।

ततः स्पृशेन् नाभिदेशं पुनर् आपश् च संस्पृशेत् ॥

विष्णुः [६२.५] ।

    [अनग्न्युष्णाभिर् अफेनिलाभिर् न शूद्रैककरावर्जिताभिर् अक्षाराभिर् अद्भिः शुचौ देशे स्वासीनो ऽन्तर्जानुः प्राङ्मुखश् चोदङ्मुखो वा] तन्मनाः सुमनाश् चाचामेत् ।

तन्मनाः आचमनमनाः ।

नरसिंहपुराणे

दक्षिणं तु करं कृत्वा गोकर्णाकृतिवत् पुरा ।

त्रिः पिबेद् वीक्षितं तोयम् आस्यं द्विः परिमार्जयेत् ॥

[१२८] भविष्यपुराणे

समौ च चरणौ कृत्वा तथा बद्धशिखो नृप ।

अत्यन्तसुखितां चापि त्यक्त्वा राजन् सुदूरतः ॥

तथा

घनाङ्गुलिकरं कृत्वा एकाग्रः सुमना द्विजः ।

अङ्गुष्ठेन प्रदेशिन्या चालभेद् अक्षिणी नृप ॥

अङ्गुष्ठानामिकाभ्यां च नासिकाम् आलभेन् नृप ।

मध्यमाभिर् मुखं नित्यं संस्पृशेत् कुरुनन्दन ॥

कनिष्ठकाङ्गुष्ठकाभ्यां कर्णाव् आलभते तु सः ।

अङ्गुलीभिस् तथा बाहुम् अङ्गुष्ठेन तु मण्डलम् ॥

नाभेः कुरुकुलश्रेष्ठ शिरः सर्वाभिर् एव तु ॥

दक्षः [२.२०.२२७] ।

अनेनैव विधानेन आचान्तः शुचिताम् इयात् ।

प्रक्षाल्य पादौ पाणी च त्रिः पिबेद् अम्बु वीक्षितम् ॥

अनेन वक्ष्यमाणेन ।

संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात् ततो मुखम् ।

संहृत्य तिसृभिः पूर्वमास्यम् एवम् उपस्पृशेत् ॥

“मुखं सम्वृत्य च ततः प्रमृज्यात्” इत्य् अन्वयः । एवम् इति सवृत्येत्य् अर्थः ।

**तहा **[२.२४–२६] ।

अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चाद् अनन्तरम् ।

अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रे पुनः पुनः ॥

नाभिं कनिष्ठाङ्गुष्थाभ्यां हृदयं तु तलेन वै ।

सर्वाभिस् तु शिरः पश्चाद् वाहू चग्रेण संस्पृशेत् ॥

[१२९] प्रदेशिनी तर्जनी । पूर्वम् आस्यं स्पृष्ट्वा पश्चाद् घ्राणम् । अनन्तरञ्चक्षुषी, पुनः श्रोत्रे, पुनर् नाभिं स्पृशेद् इत्य् अन्वयः ।

शङ्खः [१०.७–९]

तर्जन्यङ्गुष्ठयोगेन स्पृशेन् नासापुटद्वयम् ।

अङ्गुष्ठमध्ययोगेन स्पृशेन् नेत्रद्वयं ततः ॥

अङ्गुष्ठानामिकाभ्यां तु श्रवणे समुपस्पृशेत् ।

कनिष्ठाङ्गुष्ठयोगेन स्पृशेत् स्कन्धद्वयं ततः ॥

सर्वासाम् एव योगेन नाभिं च हृदयं तथा ।

संस्पृशेच् च तथा शीर्षम् अयम् आचमने विधिः ॥

पैठीनसिः

    अङ्गुष्ठेन प्रदेशिन्या नासिके संस्पृशेत् । अङ्गुष्ठानामिकाभ्यां च नेत्रे । कनीनिकाङ्गुष्ठाभ्यां श्रोत्रे । मध्यमिकया च मुखम् । अङ्गुष्ठेन च नाभिम् । सर्वाभिः शिरः । प्रदेशिनी वायुः, अनामिका सूर्यः, कनीनिका मघवा, मध्यमिका प्रजापतिः, अग्निर् अङ्गुष्ठः । तस्मात् तेनैव सह सर्वाणि स्थानानि स्पृशति । वायुः सूर्य इन्द्रः प्रजापतिर् अग्निर् इत्य् एता देवता एनं पुनीयुर् इति ।

तथा

नासिकां चक्षुषी श्रोत्रे मुखं नाभिं ततः शिरः ।

स्पृष्ट्वा प्राणान् यथासङ्ख्यं पादौ प्रोक्ष्य ततः शुचिः ॥

सव्ये च पाणौ शेषा आपो निनयेत् ॥

प्राणान् इन्द्रियाणि । यथासङ्ख्यम् इति, यस्येन्द्रियस्य यावती सङ्ख्या ताम् अनतिक्रम्येत्य् अर्थः ।

[१३०] शङ्खलिखितौ

    त्रिः प्राश्य द्विः परिमृज्य शिरश् चक्षुः श्रोत्रं घ्राणं हृदयं चालयेत् ।

आपस्तम्बः [१.१६.१–८] ।

    तिष्ठन् नाचामेत् प्रह्वो वा । आसीनस् त्रिर् आचामेद् हृदयङ्गमाभिर् अद्भिः । त्रिर् ओष्ठौ प्रिमृजेत् । दिव्र् इत्य् एके । सकृद् उपस्पृशेत् । द्विर् इत्य् एके । दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश् चेन्द्रियाण्य् उपस्पृशेत् चक्षुषी नासिके श्रोत्रे च । अथाप उपस्पृशेत् ।

तिष्ठन् प्रह्वो वा नाचामेद् इत्य् अर्थः “सकृद् उपस्पृशेत् द्विर् इत्य् एके” ओष्ठाव् इति सम्बन्धः । सव्यं पाणिम् इति शेषः ।

**हारीतः **।

    प्राङ्मुखः प्रागुदङ्मुखो वोपविश्यान्तर् ऊर्वोर् अरत्नी कृत्वा त्रिर् अपो हार्दं पिबेत् । द्विः प्रमृज्यौष्ठौ सकृन् मूर्धानं चक्षुःश्रोत्रे नाभिं हृदयं पादौ चाभ्युक्ष्योपस्पृश्य प्रयतो भवति ।

**शङ्ख्ः **[९.१०–१३] ।

त्रिः प्राश्नीयाद् यद् अम्भस् तु प्रीतास् तेनास्य देवताः ।

ब्रह्मा विष्णुश् च रुद्रश् च भवतीत्य् अनुशुश्रुम ॥

गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् ।

नासत्यदस्रौ प्रीयेते स्पृष्टे नासापुटद्वये ॥

स्पृष्टे लोचनयुग्मे तु प्रीयेते शशिभास्करौ ।

कर्णयुग्मे तथा स्पृष्टे प्रीयेते त्व् अनिलानलौ ॥

स्कन्धयोः स्पर्शनाद् एव प्रीयन्ते सर्वपर्वताः ।

[१३१] नाभिसंस्पर्शनान् नागाः प्रीयन्ते चास्य नित्यशः ॥

संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः ॥

मूर्ध्नः संस्पर्शनाद् अस्य प्रीतस् तु पुरुषो भवेत् ।

नासत्यदस्रौ अश्विनौ ।

इन्द्रियस्पर्शानन्तरम् भविष्यपुराणे ।

यद् भूमाव् उदकं वारि समुत्सृजति मानवः ।

वासुकिप्रमुखान् नागान् तेन प्रीणाति भारत ॥

विना यज्ञोपवीतेन तथा मुक्तशिखो द्विजः ।

अप्रक्षालितपादस् तु आचान्तो ऽप्य् अशुचिर् भवेत् ॥

बहिर्जानुर् उपस्पृश्य एकहस्तार्पितैर् जलैः ।

सोपानत्कस् तथा तिष्ठन् नैव शुद्धिम् अवाप्नुयात् ॥

[देवलः]

सोपानत्को जलस्थो वा मुककेशो ऽपि वा नरः ।

उष्णीषी वापि नाचामेद् वस्त्रेणावेष्ट्य वा शिरः ॥

न शौचं वर्षधाराभिर् आचरेद् वेदतत्त्ववित् ।

मरीचिः

न बहिर्जानु त्वरया नासनस्थो न चोत्थितः ।

न पादुकास्थो नाचित्तः शुचिः प्रयतमानसः ॥

उपस्पृश्य द्विजो नित्यं शुद्धः पूतो भवेन् नरः ।

भुक्त्वासनस्थो ऽप्य् आचामेन् नान्यकाले कदाचन ॥

**व्यासः **।

शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखो ऽपि वा ।

अकृत्वा पादयोः शौचम् आचान्तो ऽप्य् अशुचिर् भवेत् ॥

[१३२] अपः पाणिनखाग्रेण आचामेद् यस् तु ब्राह्मणः ।

सुरापानेन तत् तुल्यम् इत्य् एवम् ऋषिर् अब्रवीत् ॥

**ब्रह्मपुराणे **।

कण्ठं शिरो वा प्रावृत्य् [रथ्यापण]गतो ऽपि वा ।

अकृत्वा पादयोः शौचम् आचान्तो ऽप्य् अशुचिर् भवत् ॥

आपणः क्रयविक्रयभूमिः ।

बौधायनः [१.८.१०] ।

    पादप्रक्षालनोच्छेषणेन नाचामेत्, यद्य् आचामेद् भूमौ स्रावयित्वाचामेत् ।

उच्छेषणेन अवशिष्टेन ।

**आपस्तम्बः **[१.१५.४–५] ।

न वर्षधारास्व् आचामेत् । तथा प्रदरोदके । तप्ताभिश् चाकारणात् ।

प्रदरः स्वयं विदीर्णा भूमिः । अकरणात् व्याध्यादिव्यतिरेकेण ।

[१३३] अप आचामेद् इत्य् अनुवृत्तौ वसिष्ठः [३.३५–३६] ।

    प्रदराद् या गोस् तर्पणसमर्थाः स्युः । न वर्णरसदुष्टाभिर् याश् च स्युर् अशुभागमाः ।

अशुभागमाः अशुभा गतयः । अशुभत्वं च गतेर् निन्दितदेशकालादिवेशेषात् । वर्णरसदुष्टाः द्रव्यान्तरसंसर्गदूषितरसवर्णाः ।

आचामेद् इत्य् अनुवृत्तौ शङ्खलिखितौ

    उद्धृतपरिपूताभिर् अद्भिर् अवेक्षिताभिर् अक्षाराभिर् अनधिश्रिताभिर् अफेनाभिर् अबुद्बुदाभिः । न शूद्राशुच्येकपाण्यावर्जिताभिः ।

परिपूताभिः निरस्तापद्रव्याभिः । न शूद्राशुच्येकपाण्यावर्जिताभिः इति सामान्येनैकपाण्या-वर्जितेनाचमननिषेधात् । “भूमिगतास्व् अप्स्व् आचम्य प्रयतो भवति । यं वा प्रयत आचामयेत्” इत्य् आपस्तम्बवचनेणावर्जने प्रयतपरनियमाच् च, स्वयम् आवर्जितेनाचमनं न शुद्धिहेतुर् इत्य् उक्तं भवतीति । वसिष्ठः

कृत्वा चावश्यकर्माण्य् आचामेच् छौचवित्तमः ।

तत इति प्रकृतत्वात् कमण्डलोर् इत्य् अन्वयः ।

आपस्तम्बः [१.४.२०–२१] ।

    नाग्न्युदकशेषेण वृथा कर्माणि कुर्वीताचामेद् वा । पाणिसङ्क्षुब्धेनोदकेनैक-पाण्यावर्जितेन च नाचामेत् ।

[१३४] अग्न्युदकशेषेण अग्निर् पर्युक्षणाद्यर्थोपात्तोदकशेषेण, वृथा यतो ऽतः कर्माणि न कुर्वीतेत्य् अर्थः । सङ्क्षुब्धेन आलोडितेन ।

याज्ञवल्क्यः [१.२२] विष्णुः [६२.९] ।

हृत्कण्ठतालुगाभिस् तु यथासङ्ख्यं द्विजातयः ।

शुद्ध्येरन् स्त्री च शूद्रश् च सकृत् स्पृष्टाभिर् अन्ततः ॥

अन्ततः आस्यान्तरावयवे । अनेन चाभक्षणं विवक्षितम्,

त्रिर् आचामेद् अपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् ।

शारीरं शौचम् अन्विच्छन् स्त्रीशुद्रं तु सकृत् सकृत् ॥

इति महार्णवलिखित्मनुवचनात् [५.१३९] ।

शुद्ध इत्य् अनुवृत्तौ ब्रह्मपुराणे

स्त्री शूद्रो वाथ नित्याम्भःक्षालनाच् च करोष्ठयोः ।

शूद्राधिकारे गौतमः [१०.५२] ।

आचमनार्थे पदप्रक्षालनम् एवैके ।

आचमनार्थे आचमनरूपे प्रयोजने ।

[१३५]

आचमननिमित्तम्

आचमननिमित्तम् इत्य् अत्र तु मनु-अङ्गिरो-बृहस्पतयः

सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च ।

पीत्वापो ऽध्येष्यमाणश् च आचामेत् प्रयतो ऽपि सन् ॥

आचमननिमित्तविषये तु वायुपुराणे

निष्ठीवने तथाभ्यङ्गे तथा पादावसेचने ।

[उच्छिष्टस्य च सम्भाषाद् अशुच्युपहतस्य च ॥

सन्देहेषु च सर्वेषु शिखां मुक्त्वा तथैव च । ]

विना यज्ञोपवीतेन नित्यम् एवम् उपस्पृशेत् ॥

[उच्छिष्टस्यापि संस्पर्शे दर्शने चान्त्यजन्मनाम् । ]

विष्णुः [२२.७५–७६] ।

    क्षुत्वा सुप्त्वा भुक्त्वा भोजनाध्ययनेप्सुः पीत्वा स्नात्वा निष्ठीव्य वासः परिधाय रथ्याम् आक्रम्य मूत्रपुरीषे कृत्वा पञ्चनखास्थ्य् अस्नेहं स्पृष्ट्वाचामेत् । चाण्डालम्लेच्छसम्भाषणे च ।

ब्रह्मपुराणे ।

क्षुते श्लेष्मपरित्यागे धीते वा भक्षिते सति ।

अवर्णस्य च सम्भाषे सुप्ते वा दन्तधावने ॥

आचम्य प्रयतो भूत्वा ततः शुद्धो भवेन् नरः ।

[१३६] धीते पीते । “धेट् पाने” इत्य् अस्य निष्ठायां रूपम् । अवर्णो अत्र चाण्डालादिः ।

शङ्खः

कृत्वा मूत्रं पुरीषं च स्नात्वा भोक्तुमनास् तथा ।

भुक्त्वा क्षुत्वा तथा सुप्त्वा पीत्वा चाम्भो ऽवगाह्य च ॥

आचमनविध्यन्तरम् देवलः

रेतोमूत्रशकृन्मोक्षे भोजने ऽध्वपरिश्रमे ।

शौचम् एवंविधं प्रोक्तम् ईषष् चान्यत्र दृश्यते ॥

यैर् आचमनाङ्गैर् विना “आचान्तो ऽथ शुचिर् भवेत्” इत्य् उक्तम्, तदिराङ्गत्यागेनापि “रेतोमूत्र” इत्याद्युक्तनिमित्ताद् अन्यत्राचमने किञ्चिद् अङ्गत्यागेनापि तथाविधं सम्पद्यते ।

[तथा]

उच्छिष्टं मानवं स्पृष्ट्वा भोज्यं प्राप्य विनश्यति ।

तथैव हस्तौ पादौ च प्रक्षाल्याचम्य शुद्ध्यति ॥

तथाविधं उच्छिष्टम् ।

तथा

यद् अम्भः शौचनिर्मुक्तं क्षितिं प्राप्य विनश्यति ।

प्रक्षाऌयाशुचिलिप्तं च स्पृष्ट्वा वाचम्य शुध्यति ॥

शौचनिर्मुक्तं शौचपाणीयामत्रात् क्षिप्तम्, तत् स्पृष्ट्वा, तत्सम्बन्धाद् भूमिमार्दां स्पृष्ट्वा, तथा “प्रक्षाल्याशुचिलिप्तं च” अशुचिलिप्तम् अङ्गं प्रक्षाल्य च, स्पृष्ट्वा च तथैवाचम्य शुद्ध्यतीत्य् अर्थः ।

[१३७] आपस्तम्बः [१.१५.२३] ।

    मूत्रं कृत्वा पुरीषं वा मूत्रपुरीषलेपान् अन्नलेपान् उच्छेष[लेपान् रेतसश् च ये] लेपास् तान् प्रक्षाल्य पादौ चाचम्य प्रयतो भवति ।

अन्नलेपान् अन्नमयोद्वर्तनादिकृतलेपान् । उच्छेषम् उच्छिष्टम् ।

पैठीनसिः

    उच्छिष्टरेतोमूत्रं संस्पृश्योन्मृज्याचम्य प्रयतो भवति त्रिः प्रक्षाल्य च तं देषम् ।

देशम् उच्छिष्टादिलिप्तम् ।

आचमने वक्ष्यमाणे हारीतः

    रथ्याम् आक्रम्य सुषुप्सुः कृतमूत्रपुरीषो भक्षयित्वा पाणिं पादं प्रक्षाल्याचामेत् ।

आपस्तम्बः [१.१६.१४–१५] ।

    स्वप्ने क्षवथू शिङ्घाणिकाश्र्वालम्भे लोहितस्य केशानाम् अग्नेर् गवां ब्राह्मणस्य स्त्रियाश् चालम्भे महापथं च गत्वामेध्यं चोपस्पृश्याप्रयतं च मनुष्यं नीवीं च परिधायाप उपस्पृशेत् । आर्द्रं वा शकृद् ओषधीर् भूमिं वा ।

शिङ्घाणिकाश्रु नासिकानिर्गतः श्लेष्मा नेत्रजलं च, [तयोः आलम्भे स्पर्शे] । अत्राग्निगो]ब्राह्मणानां स्पर्शे यदाचमनं तद्विहितस्पर्शेतरस्पर्शमात्रनिमित्तं न तु [१३८] तत्स्पर्शजन्याप्रायत्यनिमित्तकम् । महापथो राजमार्गः । नीवीं परिधाय ग्रन्थिं कृत्वेत्य् अर्थः ।

बौधायनः [१.१०.१७] ।

    नीवीं विस्रंस्य परिधायाप उपस्पृशेत् । आर्द्रं तृणं गोमयं भूमिं वा समुपस्पृशेत् ।

विस्रंस्य मुक्त्वा ।

आपस्तम्बः [१.१५.७–११] ।

    रिक्तपाणिर् वयस उद्यम्याप उपस्पृशेत् । शक्तिविषये न मुहूर्तम् अप्य् अप्रयतः स्यात् । नग्नो वा । नाप्सु सतः प्रयमणं विद्यते । उत्तीर्य त्व् आचामेत् ।

रिक्तपाणिना लोष्टादिरहितपाणिना । वयसे पक्षिणे । उद्यम्य उत्क्षिप्य । प्रक्रमात् पाणिम् इति शेषः । प्रयमणं प्रायत्यं शौचम् इति यावत् ।

यमः

उत्तीर्योदकम् आचम्य अवतीर्य उपस्पृशेत् ।

एवं स्याच् छ्रेयसा युक्तो वरुणश् चैव पूजितः ॥

उत्तीर्य निष्क्रम्य । अवतीर्य प्रविश्य ।

[१३९] जलम् इत्य् अनुवृत्तौ **हारीतः **।

नोत्तरेद् अनुपस्पृश्य ।

उत्तरेत् सन्तरेत् ।

पैठीनसिः

    अन्तरुदक आचान्तो ऽन्तः शुद्धो भवति । बहिरुदक आचान्तो बहिर् एव शुद्धः स्यात् । तस्माद् अन्तर् एकं बहिर् एकं च कृत्वा पादम् आचामेत्, सर्वत्र शुद्धो भवति ।

पाराशरः [१२.१९–२१] ।

क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते ।

पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥

प्रयागादीन तीर्थानि गङ्गाद्याः सरितस् तथा ।

विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति देवताः ॥

आदित्यो वरुणः सोमो अग्निर् वायुस् तथैव च ।

विप्रस्य दक्षिणे कर्णे सन्तीति **मनुर्** अब्रवीत् ॥

आपस्तम्बः [१.१६.१०–१३] ।

    श्यावान्तपर्यन्ताव् ओष्ठाव् उपस्पृश्याचामेत् । न श्मश्रुभिर् उच्छिष्टो भवत्य् अन्तरास्ये सद्भिर् यावन् न हस्तेनोपस्पृशति । य **[१४०]** आस्याद् बिन्दवः पतन्त उपलभ्यन्ते तेष्व् आचमनं विहितम् । ये भूमौ न तेष्व् आचामेद् इत्य् एके ।

श्वान्तपर्यन्तौ विलोमकौ ।

मार्कण्डेयपुराणे [३४.६९–७२] ।

क्षुत्वा निष्ठीव्य वासश् च परिधायाचमेद् बुधः ।

[क्षुए ऽवलीढे वान्ते च तथा निष्ठीवनादिषु] ॥

कुर्याद् आचमनं स्पर्शं गोपृष्ठस्यार्कदर्शनम् ।

कुर्वीतालम्बनं चापि दक्षिणश्रवणस्य वै ॥

यथाविभवतो ह्य् एतत् पूर्वाभावे ततः परम् ।

न विद्यमाने पूर्वोक्ते उत्तरप्राप्तिर् इष्यते ॥

अथ द्विराचमननिमित्तानि

तत्र **आपस्तम्बः **[१.१६.९] ।

    भोक्ष्यमाणस् तु प्रयतो ऽपि द्विर् आचामेत्, द्विः परिमृजेत् सकृद् उपस्पृशेत् ।

एतच् च भोक्षमाणस्यैव नियतं सकृद् ओष्ठोपस्पर्शनम् [?] । सकृद् न द्विः । परिमार्जने ऽपि द्विर् एव इति व्यवस्था ।

**व्यासः **।

प्रक्षाल्य पाणिपादौ च भुञ्जानो द्विर् उपस्पृशेत् ।

याज्ञवल्क्य [१.१९६] ।

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।

[१४१] आचान्तः पुनर् आचामेद् वासो विपरिधाय च ॥

शङ्खलिखितौ

मूत्रपुरीषनिष्ठीवनादिषु शुक्तवाक्याभिधानेषु पुनः पुनर् उपस्पृशेत् ।

शुक्तं परुषम् ।

पैठीनसिः

कलिलकासश्वासागमे रथ्याचत्वरश्मशानक्रान्तेष्व् आचान्तः पुनर् आचामेत् ।

कलिलं कठिनश्लेष्मा । श्वासो अत्र विकृतो व्यायामादिकृतः । चत्वरं भूतादीनां बलिदानस्थानम् ।

अथाचमनापवादः

तत्र मनुः [५.१४१] ।

नोच्छिष्टं कुर्वते मुख्या विप्रुषो ऽङ्गं न यन्ति याः ।

न श्मश्रूणि गतान्य् आस्यं न दन्तान्तरधिष्ठितम् ॥

मुख्याः मुखे भवाः । यन्ति गच्छन्ति । श्मस्रूणि मुखलोमानि । आस्यं गतानि मुखं प्रविष्टानि । दन्तान्तः दन्तमध्ये । अधिष्ठितं प्रविष्टम् ।

गौतमः [१.४४] ।

    दन्तश्लिष्टेषु दन्तवद् अन्यत्र जिह्वाभिमर्शनात् । 

यावज् जिह्वायां दन्तेभ्यो भेदेन नोपलभ्यन्त इत्य् अर्थः ।

तथा [१.४५] ।

प्राक् च्युतेर् इत्य् एके ।

[१४२] सत्य् अपि जिह्वाभिमर्शने यावन् न च्यवते तावच् छुचिर् इत्य् एके मन्यन्ते ।

तथा [१.४६] ।

च्युतेष्व् आस्राववद् विद्यान् निगिरन्न् एव तच्छुचिः ।

देवलः

भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत् ।

दन्तलग्नम् असंहार्यं लेपं मन्येत दन्तवत् ॥

न तत्र बहुशः कुर्याद् यत्नम् उद्धरणे पुनः ।

भवेच् चाशौचम् अत्यन्तं तृणवेधाद् व्रणे कृते ॥

वसिष्ठः [३.३९] ।

न च श्मश्रुगतो लेपः ।

अशुचिः इत्य् शेषः ।

तथा [३.४०] ।

दन्तवद् दन्तलग्नेषु यच् चाप्य् अन्तर्मुखे भवेत् ।

आचान्तस्यावशिष्टं स्यान् निगिरन्न् एव तच्छुचिः ॥

आचान्तस्य यद् अवशिष्यते प्रमादात् तन् निगिरन्न् एव शुचिर् भवति ।

पैठीनसिः

भूमिगता बन्दवः परामृष्टाः पूता विप्रुषः शुद्धा द्विरोमक्लिन्नेष्व् आचामेत् ।

बिन्दवः अत्र आचमनबिन्दवः । परामृष्टाः स्पृष्टाः । पूताः नाप्रायत्यम् आपादयन्ति । अङ्गपतिता अपि [१४३] रोमद्वयार्द्रीभावम् आपादयितुं समर्था एव आचमननिमित्तं भवन्ति ।

याज्ञवल्क्यः [१.१९५] ।

मुखजा विप्रुषो मेध्यास् तथाचमनबिन्दवः ।

श्मश्रु चास्यगतं दन्तशिष्टं त्यक्त्वा ततः शुचिः ॥

मनुः [५.१४१] ।

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।

भौमिकैस् ते समा ज्ञेया न तैर् अप्रयतो भवेत् ॥

अत्रि-अङ्गिरसौ

मधुपर्के च सोमे च अप्सु प्राणाहुतीषु च ।

नोच्छिष्टस् तु भवेद् विप्रो यथ्**आत्रेर्** वचनं तथा ॥

अप्सु इति प्राणाहुतिसाहचर्यप्राप्तापोशानविषयम्, आचमनमध्ये उदकपानविषयं वा, अन्यत्रोदकपाने “पीत्वापो ऽध्येष्यमाणश् च” इत्य् आचमनविधेः ।

**पराशरः **[७.३३] ।

ताम्बूलेक्षुफले चैव भुक्त्स्नेहानुलेपने ।

मधुपर्के च सोमे च नोच्छिष्टं **मनुर्** अब्रवीत् ॥

[१४४] शातातपः

दन्तलग्ने फले मूले भक्ष्ये स्नेहे तथैव च ।

ताम्बूले चेक्षुदण्डे च नोच्छिष्टो भवति द्विजः ॥

फले कटुतिक्तकषाये जातीफलादौ, सताम् आचारात् ।

मुखशुद्धिसाधने वसिष्ठः [३.४२]** ।**

प्रचरन्न् अव्यवहारेषु उच्छिष्टं यदि संस्पृशेत् ।

भूमौ निक्षिप्य तत् पात्रम् आचम्य प्रचरेत् पुनः ॥

उच्छिष्टशब्दो ऽत्राचमनार्हाशुचिविषयः । स्नानाद्यर्हाशुचिवचनत्वे त्व् आचमनमात्रविधिविरोधात् ।

शङ्खलिखितौ

    द्रव्यहस्त् उच्छिष्टो निधायाचम्याभ्युक्षेद् द्रव्यम् । 

एतच् चाभ्यवहार्यद्रव्यविषयम् ।

यत् तु,

उच्छिष्टेन तु संस्पृष्टे द्रव्यहस्तः कथञ्चन ।

अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥

इति मनुवचनम् [५.१४३], तद् अभ्यवहार्यान्नव्यञ्जनव्यतिरिक्तद्रव्यहस्तविषयम् इति विश्वरूप-भर्तृयज्ञौ

[१४५]

बौधायनः [१.८.२२–२६] ।

    तैजसं चेद् आदायोच्छिष्टी स्यात् तद् उदस्याचम्यादास्यन्न् अद्भिः प्रोक्षेत । स चेद् अन्येनोच्छिष्टी स्यात् तद् उदस्याचम्यादास्यन्न् अद्भिः प्रोक्षेत । अथ चेद् अद्भिर् उच्छिष्टी च्यात् तद् उदस्याचम्यादास्यन्न् अद्भिः प्रोक्षेत । एतद् एव विपरीतम् अमत्रे । वानस्पत्ये च विकल्पः ।

“अन्येनोच्छिष्टी स्यात्” अन्येनोच्छिष्टेनोच्छिष्टः । अद्भिः आमचनोदकपानादौ । “एतद् एव” आदानपक्षं चात्र विपरीतत्वम् । तत् उदस्य परित्यज्य आचामेत्, न पुनर् तद् गृह्णीयाद् इत्य् अर्थः ।

बृहस्पतिः [आचार ६–८; प्। ३१०] ।

प्रचरन् स्वान्नपानेषु यदोच्छिष्टम् उपस्पृशेत् ।

भूमौ निधाय तद् द्रव्यम् आचान्तः प्रचरेत् पुनः ॥

अरण्ये ऽनुदके रात्रौ चौरव्याघ्राकुले (?) पथि ।

कृत्वा मूत्रपुरीषं च द्रव्यहस्तो न दुष्यति ॥

शौचं तु कुर्यात् प्रथमं पादौ प्रक्षालयेत् ततः ।

उपस्पृश्य तद् अभ्युक्ष्य गृहीतं शुचिताम् इयात् ॥

[१४६]

॥ ६ ॥

अथ शौचम्

तत्र शौचादिशिक्षा

मनु-शङ्खौ । [मनु २.६९]

उपनीय गुरुः शिष्यं शिक्षयेच् छौचम् आदितः ।

आचारम् अग्निकार्यं च सन्ध्योपासनम् एव च ॥

याज्ञवल्क्यः [१.१५] ।

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।

वेदम् अध्यापयेद् एनं शौचाचारांश् च शिक्षयेत् ॥

आचारः गुर्वभिवादनादिः ।

विण्मूत्रोत्सर्गः

विष्णुपुराणे [३.११.१२–१५] ।

[न कृष्टे सस्यमध्ये वा गोव्रजे जनसंसदि ।

न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ ॥

नाप्सु नैवाम्भसस् तीरे श्मशाने न समाचरेत् ।

उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥

[१४७] उदङ्मुखो दिवा मूत्रं विपरीतमुखो निशि ।

कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥

तृणैर् आस्तीर्य वसुधां वस्त्रप्रावृतमस्तकः] ।

तिष्ठेन् नातिचिरं तत्र नैव किञ्चिद् उदीरयेत् ॥

याज्ञवल्क्यः [१.१५४] ।

दूराद् उच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ।

मनुः [४.१५१] ।

दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् ।

उच्छिष्टान्नं निषेकं च दूराद् एव समाचरेत् ॥

निषेक उच्छिष्टद्रव्यप्रक्षेपः ।

आपस्तम्बः [१.३१.२] ।

आराच् चावसथान् मूत्रपुरीषे कुर्याद् दक्षिणां दक्षिणापरां वा ।

गत्वा इत्य् अस्ह्याहार्यम् । दक्षिणापरा नैर्ती ।

पुनः आपस्तम्बः [१.३१.३] ।

अस्तम् इते च बहिर्ग्रामाद् आराच् चावसथान् मूत्रपुरीषयोः कर्म वर्जयेत् ।

आरात् दूरे ।

[१४८] मनुः [४.४९] ।

तिरस्कृत्योच्चरेत् काष्ठं पत्रं लोष्टं तृणानि वा ।

नियम्य प्रयतो वाचं संवीताङ्गो ऽवगुण्ठितः ॥

तिरस्कृत्य अन्तर्धाय । प्रयतः शुचिः । वाचं नियम्य इत्य् अन्वयः । संवीतं निवीतम्, “संवीतं मानुषम्” इत्य् तैत्तिरीयश्रुतेः । तदङ्गे यस्य “संवीताङ्गः” ।

बौधायनः [१.१०.१०] ।

    शुष्कं तृणम् अयाज्ञिकं काष्ठं लोष्टं वा तिरस्कृत्याहोरात्रयोर् उदग्दक्षिणामुखः प्रावृत्योच्चरेत् अवमेहेद् वा ।

अयाज्ञिकं यज्ञप्रयोजनकुशलपलाशादिव्यतिरिक्तम् । अवमेहेत् मूत्रं कुर्यात् ।

“विण्मूत्रोत्सर्गं कुर्यात्” इत्य् अनुवृत्तौ वायुपुराणे

शुष्कैस् तृणैर् वा काष्ठैर् वा पत्रैर् वेणुदलेन वा ।

मृन्मयैर् भाजनैर् वापि अन्तर्धाय वसुन्धराम् ॥

कमण्डल्वधिकारे बौधायनः [१.७.३] ।

मूत्रमुरीषे कुर्वन् दक्षिणे हस्ते गृह्णाति सव्ये आचमनीयम् ।

[१४९] हारीतः

    घ्राणास्ये वाससा वेष्टयित्वा मृद्धात्रीं ग्रीवायाम् आसज्य दक्षिणबाहुपार्श्वे कमण्दलुम् आधायोत्सृजेत् ।

[मृद्धात्रीं मृद्धारणपात्रीम् । कमण्डलुं शौचार्थजलपूर्णं पात्रम् । उत्सृजेत्] उत्सर्गं कुर्यार्त् । मूत्रपुरीषे इति शेषः ।

यमः

शिरः प्रावृत्य कुर्वीत शकृन्मूत्रविसर्जनम् ।

[अयज्ञियैर् अनार्द्रैश् च तृणैः सञ्छाद्य मेदिनीम्] ॥

साङ्ख्यायनगृह्यम्

    येद्य् एकवस्त्रो यज्ञोपवीतं कर्णे कृत्वा । नादित्याभिमुखो न जघनेन । अहर् उदङ्मुखो नक्तं दक्षिणामुखः ।

न गघनेन इति अत्यन्तं नम्रतया स्वस्यैव प्रसक्तं जघनसामुख्यं निषिध्यते । मध्याह्ने दक्षिणामुखः ।

देवलः

सदैवोदङ्मुखः प्रातः सायाह्ने दक्षिणामुखः ।

विण्मूत्रम् उत्सृजेन् नित्यं सन्ध्यासु परिवर्जयेत् ॥

अत्रेयं व्यवस्था — देवलवचनानुसारात् प्रातःसायङ्कालयोः त्रिमुहूर्तात्मकयोः उदग्दक्षिणामुखत्वम् । एवं च [१५०] यमवचनं तदतिरिक्ते पूर्वाह्णे अपराह्णे च प्रत्यक्प्राङ्मुखताप्रापकम् ।

आपस्तम्बः [१.३१.१] ।

    प्राङ्मुखो ऽन्नानि भुञ्जीत उच्चरेद् दक्षिणामुखः । उदङ्मुखो मूत्रं कुर्यात् प्रत्यक्पादावसेचनम् ।

“उच्चरेद् दक्षिणामुख” इति रात्रिसायाह्नविषयम् । यमदेवलवचनात् प्रत्यक्पश्चिमाभि-मुखं भवति । इदं च वचनं सन्ध्याकालव्यतिरिक्तकालविषयम् ।

हारीतः

उभे सन्ध्ये उदङ्मुखः ।

मनुः [४.५१] ।

छायायाम् अन्धकारे वा रात्राव् अहनि वा द्विजः ।

यथासुखमुखः कुर्यात् प्राणबाधाभयेषु च ॥

छायान्धकारयोः प्राणपीडायां व्याघ्रादिभये च दिङ्मुखनियमो ऽनादेयः इत्य् उक्तम् ।

[१५१] पुनः मनुः [४.४५] ।

न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ।

न फालकृष्टे न जले न चित्यां न च पर्वते ॥

चित्याम् अग्निचयनस्थाने ।

तथा [४.४६–४८] ।

न जीर्णदेवायतने न वल्मीके कदाचन ।

न ससत्वेषु गर्तेषु न गच्छन् नापि च स्थितः ॥

न नदीतीरम् आसाद्य न च पर्वतमस्तके ।

वाय्वग्निविप्रम् आदित्यम् अपः पश्यंस् तथैव गाः ॥

न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ।

“न च पर्वत” इति पर्वतनिषधकेन पर्वतमस्तकनिषेधे सिद्धे ऽपि पुन्स् तन्निषेधो दोषभूयस्त्वार्थः । “वायुं पश्यन्” सम्मुखम् उपलभमानः ।

**देवलः **।

वापीकूपनदीगोष्ठचैत्याम्भःपथिभस्मसु ।

अग्नौ काम्ये श्मशाने च विण्मूत्रं न समाचरेत् ॥

[१५२] चैत्यः ग्रामप्रसिद्धो वृक्षः । काम्यः कमनीयः प्रदेशः उद्यानादिः ।

**यमः **।

पल्वलानि तडागानि नदीप्रस्रवणानि च ।

नगगोमयभस्मानि फालकृष्टं च वर्जयेत् ॥

पल्वलम् अल्पसरः । तडागं कृत्रिमसरः ।

तथा

तुषाङ्गारकपालानि देवतायतनानि च ।

राजमार्गश्मशानानि क्षेत्राणि च खलानि च ॥

उपरुद्धो न सेवेत छायां दृश्यं चतुष्पथम् ।

दृश्यं शोभनम् ।

तथा

उदकं चोदकान्तं च पन्थानं च विवर्जयेत् ।

वर्जयेद् वृक्षमूलानि चैत्यश्वभ्रबिलानि च ॥

“पन्थानं च विवर्जयेत्” इत्य् अनेनैव राजमार्गचतुष्पथयोर् निषेधे सिद्धे पुनस् तयोर् उपादानं दोषाधिक्यज्ञापनार्थम् ।

**हारीतः **।

    न चत्वरोपद्वारयोर् मूत्रपुरीषे कुर्यात् । न तीर्थे । न सस्यपूर्णे । न यज्ञभूमौ । न यज्ञियानां वृक्षाणाम् अधस्तात् । 

[१५३] तीर्थं जलावतरणमार्गः ।

वसिष्ठः [६.१२] ।

नोप्ते, न शाद्वलोपजीव्यासु ।

शाद्वलः हरितः स्निग्धो भूभागः ।

विष्णुः [६०.६]

न चोषरे ।

तथा [६०.१३] ।

न पराशुचौ ।

तथा [६०.२०] ।

नाकाशे ।

आकाशे अट्टालकादिस्थित इत्य् अर्थः ।

तथा [६०.२२–२३] ।

न प्रत्यनिलानलेन्द्वर्कस्त्रीगुरुब्राह्मणानां च । नैवावगुण्ठितशिराः ।

आपस्तम्बः [१.३०.१६–१७] ।

छायायां मूत्रपुरीषयोः कर्म वर्जयेत् । स्वां तु छायाय्म् अवमेहेत् ।

“स्वां तु छायां” स्वां छायां प्रतीत्य् अर्थः ।

[१५४] तथा [१.३०.१८] ।

न सोपानत्को मूत्रपुरीषे कुर्यात् ।

तथा [१.३०.२३] ।

    अग्निम् आदित्यम् अपो ब्राह्मणं गोदेवताश् चाभिमुखो मूत्रपुरीषयोः कर्म वर्जयेत् ।

गौतमः [१९.१३] ।

    न वाय्वग्निविप्रादित्यापो देवता गाश् च प्रतिपश्यन् वा मूत्रपुरीषामेध्यान्य् उदस्येत् ।

**यमः **।

प्रत्यादित्यं न मेहेत न पश्येद् आत्मनः शकृत् ।

दृष्ट्वा सूर्यम् उदीक्षेत गाम् अग्निं ब्राह्मणांस् तथा॥

प्रत्यादित्यं प्रत्यनिलं प्रतिगां च प्रति द्विजम् ।

प्रति सोमं प्रति जलं प्रति सन्ध्ये च नित्यशः ॥

हन्ति मेहयतः प्रज्ञां प्रति पन्थानम् एव च ।

मेहयन्ति च एतांश् च ते भवन्ति गतायुषः ॥

**हारीतः **।

रथ्याचत्वरतीर्थेषु श्मशानायतनेषु च ।

अपध्वंसम् अवाप्नोति आयुषा च वियुज्यते ॥

आहारं च रहः कुर्यान् निर्हारं चैव सर्वदा ।

युज्यते च श्रिया गुप्ते प्रकाशे बाध्यते श्रिया ॥

[१५५]

शौचविधिः

तथा हारीतः

लोष्टेन प्रमृजीत शुष्ककाष्ठेन वा ।

**पारस्करः **[२.७.१६] ।

स्वयं प्रशीर्णेन काष्ठेन वा प्रमृजीत ।

गौतमः [९.१५] ।

न पर्णलोष्टाश्मभिर् मूत्रपुरीषापकर्षणं कुर्यात् ।

**हारीते **तु लोष्टविधिर् इतरद्रव्याभावे ।

आपस्तम्बः [१.१०.२४] ।

    अश्मानं लोष्टम् आर्द्रान् ओषधिवनस्पतीन् ऊर्ध्वान् आच्छिद्य मूत्रपुरीषयोः शुन्धनं वर्जयेत् ।

देवलः

आ शौचान् नोत्सृजेच् छिश्नं प्रस्रावोच्चारयोः स्वयम् ।

याज्ञवल्क्य-बौधायनौ

गृहीतशिश्नश् चोत्थाय मृद्भिर् अभ्युद्धृतैर् जलैः ।

गन्धलेपक्षयकरं शौचं कुर्याद् अतन्द्रितः ॥

अतन्द्रितः सञ्जातालस्यः ।

[१५६] ब्रह्माण्डपुराणे

उद्धृत्योदकम् आदाय मृत्तिकां चैव वाग्यतः ।

उदङ्मुखो दिवा कुर्याद् रात्रौ चेद् दक्षिणामुखः ॥

तथा

सुनिर्णिक्ते मृदं दद्यान् मृदन्ते त्व् अप एव च ।

सुनिर्णिक्ते सुप्रक्षालितपाणिपादे ।

दक्षः

एका लिङ्गे तु सव्ये त्रिर् उभयोर् मृद्द्वयं स्मृतम् ।

सव्ये उभयोः इति च हस्ताभिप्रायेण । त्रिः तिस्रः इत्य् अर्थः । एतावन् मूत्रोत्सर्गे शौचम् ।

तिस्रो ऽपाने दशैकस्मिन्न् उभयोः सप्त मृत्तिकाः ।

गृहस्थशौचम् आख्यातं त्रिष्व् अन्येषु यथाक्रमम् ॥

द्विगुणं त्रिगुणं चैव चतुर्थस्य चतुर्गुणम् ॥

मनुः [५.१३४] ।

विण्मूत्रोत्सर्गसिद्ध्यर्थं मृद्वार्य् आदेयम् अर्थवत् ।

दैहिकानां मलानां च शुद्धिषु द्वादशस्व् अपि ॥

मनु-विष्णू

वसा शुक्रम् असृङ् मज्जा मूत्र विट् घ्राणकर्णविट् ।

श्रेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥

एका लिङ्गे गुदे तिस्रस् तथैवैककरे दश ।

उभयोः सप्त दातव्याः मृदः शुद्धिम् अभीप्सता ॥

[१५७] एतच् छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।

त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥

यमः

शिश्ने त्व् एका गुदे तिस्रो वामे पाणौ चतुर्दश ।

ततः पुनर् उभाभ्यां च दातव्याः सप्त मृत्तिकाः ॥

शङ्खः

मेहने मृत्तिकाः सप्त लिङ्गे द्वे परिकीर्तिते ।

एकस्मिन् विंशतिर् हस्ते द्वयोर् देवाश् चतुर्दश ॥

मेहनं अपानम् ।

**तथा **।

तिस्रस् तु मृत्तिका देयाः कृत्वा तु नखशोधनम् ।

तिस्रस् तु पादयोर् देया शौचकामस्य नित्यशः ॥

शौचम् एतद् गृहस्थानां तथा गुरुनिवासिनाम् ।

द्विगुणं स्याद् वनस्थानां यतीनां त्रिगुणं भवएत् ॥

पैठीनसिः

    मृत्तिकां सङ्गृह्य एका लिङ्गे अपाने पञ्च एकस्मिन् हस्ते दश उभयोः सप्त मृत्तिका ।


    	एतच् छौचं गृहास्थानां द्विगुणं ब्रह्मचारिणाम् ।


    	त्रिगुणं च वनस्थानां यतीनां च चतुर्गुणम् ॥


    गन्धलेपक्षयाद् वा प्रक्षाल्याचम्य प्रयतो भवति ।

[१५८] हारीतः

    एकान्तम् उत्क्रम्य एका लिङ्गे तिस्रो मृदो ऽपाने दद्यात्, न वार्शोदोषात् पाणिं प्रक्षाल्य दश सव्ये षट् पृष्ठे सप्तोभ्याभ्याम् । द्विगुणं ब्रह्मचारिणाम्, त्रिगुणं वानप्रस्थानाम्, चतुर्गुणं भिक्षूणाम् ।

ब्रह्मपुराणे

द्वे लिङ्गे मृत्तिके देये गुदे सप्त यथाक्रमम् ।

द्वात्रिंशद् वामहस्ते च तथा देयास् तु मृत्तिकाः ॥

द्वयोस् तु षोडशान्यास् तु पुनः सप्त च सर्वदा ।

पादयोर् द्वे गृहीत्वा च सुप्रक्षालितपाणिना ॥

द्विर् आचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ।

बौधायनः [१.१०.११–१४] ।

    मूत्रे मृदाद्भिः प्रक्षालनम् । त्रिः पाणौ । तद्वत् पुरीषे पर्यायः । तिस्रः [पायोः पाणेश् च] ।

[यमः

शिश्ने त्व् एका गुदे तिस्रो वामे पाणौ चतुर्दश ।

ततः पुनर् उभाभ्यां च दातव्याः सप्त मृत्तिकाः ॥ ]

शौचम् एतद् गृहस्थस्य द्विगुणं ब्रह्मचारिणः ।

त्रिगुणं च वनस्थस्य भिक्षोर् एतच् चतुर्गुणम् ॥

[१५९] शङ्खः

मेहने मृत्तिकाः [सप्त लिङ्गे द्वे परिकीर्तिते ।

एकस्मिन् विंशतिर् हस्ते द्वयोर् देयाश् चतुर्दश ॥ ]

देवलः

यावत् साध्व् इति मन्येत तावच् छौचं विधीयते ।

प्रमाणं द्रव्यसङ्ख्या वा न शिष्टैर् उपदिश्यते ॥

एतद्वचनानुसारात् मनूक्तमृत्सङ्ख्याधिकोत्तरमृत्सङ्ख्यानां गन्धलेपानुवृत्तिशङ्कया व्यवस्था । या चतुराद्या विहिता सङ्ख्या तदनुष्ठाने तु सङ्ख्याधिगमे ऽपि विहितसङ्ख्यापर्यन्तं शौचम् अवश्यं कर्तव्यम् ।

तद् उक्तं दक्षेण

न्यूनाधिकं न कर्तव्यं शौचशुद्धिम् अभीप्सता ।

प्रायश्चित्तेषु युज्येत विहितातिक्रमे कृते ॥ इति ।

शौचानन्तरं शङ्खलिखितौ

    कमण्डलुम् उपस्पृश्य प्रक्षाल्य पाणिपादौ चाचम्येशानं मनसा ध्यायेत् ।

ईशानं सर्वेश्वरम् ।

शौचानन्तरम् हारीतः

    तिसृभिः पादौ प्रक्षाल्य गोमयेन मृदा वा कमण्डलुं परिमृज्य पूर्ववद् उपस्पृश्यादित्यं सोमम् अग्निं वीक्षेत् ।

[१६०] उपस्पृश्य दिवा आदित्यम् अग्निं रात्रौ सोमम् अग्निं वा वीक्षेत ।

दक्षः

यथोदितं दिवा शौचम् अर्धं रात्रौ विधीयते ।

आतुरस्य तदर्धं स्यात् तदर्धं च पथि स्मृतम् ॥

अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ।

द्वितीया च तृतीया स्यात् तदर्धा परिकीर्तिता ॥

लिङ्गे ऽप्य् अत्र समाख्याता त्रिपर्वी पूर्यते यथा ।

दातव्यम् उदकं तावद् यावत् स्यान् मृत्परिक्षयः ॥

मुधाद्रव्येण शुद्धिः स्यान् न क्लेशो न धनव्ययः ।

मुधाद्रव्येण सुलभद्रव्येण ।

यस्य शौचे ऽपि शैथिल्यं वृत्तं तस्य परीक्षितम् ॥

विष्णुपुराणे [३.१०.१६–१७] ।

वल्मीकमूषिकोत्खातां मृदम् अन्तर्जलात् तथा ।

शौचावशिष्टां गेहाच् च नादद्याल् लेपसम्भवाम् ॥

अन्तः प्रान्यवपन्नां च हलोत्खातां च पार्थिवः ।

परित्यजेन् मृदस् त्व् एताः सकलाः शौचसाधने ॥

“अन्तः प्राण्यवपन्नां” अन्तः मधे प्राणिभिः अवपन्नां व्याप्ताम् ।

[१६१] यमः

आहरेन् मृत्तिकां विप्रः कूलात् ससिकतां तथा ।

नाखूत्कृष्टान् न वल्मीकात् पांसुलान् न च कर्दमात् ॥

न मार्गान् नोषराच् चैव शौचशिष्टां परस्य वा ।

एतास् तु वर्जयेद् विद्वान् वृथाशौचं हि तन्मतम् ॥

आखुः मूषिकः ।

[१६२]

॥ ७ ॥

अथ सन्ध्याविधिः

तत्र विष्णुः [२८.१–२] ।

अथ ब्रह्मचारिणो गुरुकुलवासः । सन्ध्याद्वयोपासनम् ।

योगियाज्ञवल्क्यः

अतः परं प्रवक्ष्यामि सन्ध्योपासननिर्णयम् ।

अहोरात्रकृतैः पापैर् याम् उपास्य प्रमुच्यते ॥

सर्वावस्थो ऽपि यो विप्रः सम्ध्योपासनतत्परः ।

ब्राह्मण्याच् च न हीयेत अन्यजन्मगतो ऽपि सन् ॥

सर्वावस्थः निन्दितसेवादिकर्मरतः, सम्यक् शौचाद्यसमर्थो पीत्य् अर्थः ।

**मनुः **[१.१०१] ।

पूर्वां सम्ध्यां जपंस् तिष्ठन् नैशम् एनो व्यपोहति ।

पश्चिमां तु समासीनो मलं दहति दिवाकृतम् ॥

शातातपः

अनृतं मद्यगन्धं च दिवा मैथुनम् एव च ।

[१६३] पुनाति वृषलस्यान्नं बहिः सन्ध्या ह्य् उपासिता ॥

वृषलो अत्र अधार्मिकः । तद् उक्तं भारते

वृषो हि भगवान् धर्मस् तस्य यः कुरुते त्व् अलम् ।

वृषलं तं विदुर् देवाः ॥ इति ।

यमः

यद् अह्ना कुरुते पापं कर्मणा मनसा गिरा ।

आसीनः पश्चिमां सन्ध्यां प्राणायामैश् च हन्ति तत् ॥

यद् रात्र्या कुरुते पापं कर्मणा मनसा गिरा ।

पूर्वां सन्ध्याम् उपासीनः प्राणायामैर् व्यपोहति ॥

सन्ध्याम् उपासते ये तु सततं संशितव्रताः ।

विधूतपापास् ते यान्ति ब्रह्मलोकं सनातनम् ॥

एतच् चाज्ञानादिकृतपापविषयम्,

दिवा वा यदि वा रात्रौ यद् अज्ञानकृतं भवेत् ।

त्रिकालसन्ध्याकरणात् तत् सर्वं विप्रणश्यति ॥

इति याज्ञवल्क्यवचनात् ।

बौधायनः [२.७.१८] ।

यद् उपस्थकृतं पापं पद्भ्यां वै यत् कृतं भवेत् ।

बाहुभ्यां मनसा चैव वाचा वाथ कृतं भवेत् ॥

सायं सन्ध्याम् उपस्थाय तेन तस्मात् प्रमुच्यते ।

[१६४] शङ्खलिखितौ

सव्रती बहिः सन्ध्याम् उपासीत ।

सव्रती सह व्रतेन यद् वर्तते ऽध्ययनादि तत् सव्रतम्, तद्वान् ब्रह्मचारी ।

मनुः [२.२१९] ।

नैनं ग्रामे ऽभिनिम्लोचेत् सूर्यो नाभ्युदयात् क्वचित् ।

“एनं” ब्रह्मचारिणम् । अभिनिम्लोचेत् अस्तम् गच्छेत् । ग्रामाद् बहिः ब्रह्मचारिणा सूर्योदयास्तमयौ सम्पाद्याव् इति तात्पर्यार्थः ।

**शातातपः **।

गृहेषु प्राकृती सन्ध्या गोष्ठे शतगुणा स्मृता ।

नदीषु शतसाहस्रा अनन्ता शिवसन्निधौ ॥

प्राकृती एकगुणफला ।

संवर्तः

प्रातः सन्ध्यां सनक्षत्राम् उपासीत यथाविधि ।

[१६५] सादित्यां पश्चिमां सन्ध्याम् अर्धास्तमितभास्कराम् ॥

योगियाज्ञवल्क्यः

ह्रासवृद्धी तु सततं दिवसानां यथाक्रमम् ।

सन्ध्या मुहूर्तमात्रं तु ह्रासं वृद्धौ समा स्मृता ॥

मुहूर्तमात्रं नाडीद्वयमात्रम् ।

तथा

सन्धौ सन्ध्याम् उपासीत नास्तगे नोद्गते रवौ ।

बौधायनः [२.७.१२–१४] ।

    सुपूर्वाम् अप् पूर्वाम् उपक्रम्योदिते आदित्ये समाप्नुयात् । अनस्तमित उपक्रम्य सुपश्चाद् अपि पश्चिमाम् । सन्ध्ययोश् च सम्पत्ताव् अहोरात्रयोः सन्ततिः ।

सुपूर्वां सुष्ठु पूर्वकालाम्, बहुषु नक्षत्रेषु विद्यमानेषु । अपिशब्दाद् अल्पएषु नक्षत्रेषु विद्यमानेषु । सुपश्चाद् अपि बहुनक्षत्रदर्शनावधि । अपिशब्दाद् अल्पनक्षत्रदर्शने ऽपि समाप्नुयाड् इत्य् अर्थः ।

गौतमः [२.१४–१७] ।

    अपाम् उपस्पर्शनम् । एके गोदानादि । बहिःसन्ध्यत्वं च । तिष्ठेत् पूर्वाम् आसीन उत्तरां सज्योतिष्या ज्योतिषो दर्शनाद् वाग्यतः ।

[१६६] एके आचार्याः गोदानव्रताद् आरभ्य स्नानं बहिःसन्ध्यत्वं च वदन्तीत्य् अर्थः ।

विष्णुः [२८.२–४] ।

    पूर्वां सन्ध्यां जपेत् तिष्ठन् पश्चिमाम् आसीनः । कालद्वयम् एकाग्निकर्मकरणम् । अप्सु दण्डवन् मज्जनम् ।

हारीतः

अस्नायी स्नायी वा दण्डवत् ।

अत्र च प्रयतो ऽस्नायी अप्रयतः स्नायीति व्यवस्थितो विकल्पः, “अप्रयतो ऽभिषिक्तः प्रयतो वानभिषिक्तः” इति बौधायनवचनात् [२.७.२] ।

आपस्तम्बः [१.२.३०] ।

नाप्सु श्लाधमानः स्नायात् ।

श्लाधमानः स्नानेन स्वापोत्कृष्टं मलं प्रकाशयन् ।

बौधायनः [२.७.१–४] ।

    अथातः सन्ध्योपासनविधिः व्याख्यास्यामः । तीर्थं गत्वाप्रयतो ऽभिषिक्तः प्रयतो वानभिषिक्तः प्रक्षालित**[१६७]**पाणिपादः अप आचम्य “अग्निश् च मा मन्युश् च” इति सायम् अपः पीत्वा “सूर्यश् च मा मन्युश् च” इति प्रातः, सपवित्रेण पाणिना सुरभिमत्या, अब्लिङ्गाभिः, वारुणीभिः हिरण्यवर्णाभिः, पावमानीभिः, व्याहृतिभिर् अन्यैश् च पवित्रैर् आत्मानं प्रोक्ष्य प्रयतो भवति ।

सुरभिमती दधिक्राव्ण इत्यादिका । अब्लिङ्गाभिः आपो हि ष्ठा इत्यादिभिः । वारुण्यः वरुणदेवताका यच् चिद् धि ते विश इत्याद्यास् तिस्रः । हिरण्यवर्णाः हिरण्यवर्णाः शुचयः पावका इति चतस्रः । पावमान्यः पवमानः सुवर्जनः इत्याद्याः ।

अथाप्य् उदाहरन्ति ।

	अम्भो ऽवगाहनं स्नानं विहितं सार्ववर्णिकम् ।

	मन्त्रवत् प्रोक्षणं चापि द्विजातीनां विशिष्यते ॥ इति ।

[१६८] किं च

    सर्वकर्मणां चैवारम्भेषु प्राक् सन्ध्योपासनकालाच् चैतेन पवित्रसमूहेनात्मानं प्रोक्ष्य प्लवतो भवति ।

एतच् च “अग्निश् च मा मन्युश् च” “पवित्रै⌈ इत्यन्तं मार्जनं स्नातस्यापि । योगियाज्ञवल्कीयं “शं न आप” इत्यादि “अघमर्षणसूक्तेन” इत्यन्तं मन्त्रैर् मार्जनं तु अप्रयतस्यैव कर्माङ्गमुख्यस्नानाशक्तौ द्रष्टव्यम् ।

असामर्थ्याच् छरीरस्य कालशक्त्याद्यपेक्षया ।

मन्त्रस्नानादितः सप्त केचिद् इच्छन्ति सूरयः ॥

इति, कालदोषाद् असामर्थात् इति च योगियाज्ञवल्क्यवचनात् । सर्वकर्मणां श्राद्धादीनाम् अपि । पवित्रसमूहः सुरभिमत्यादिर् अनन्तरोक्तो मन्त्रसमूहः ।

अथाप्य् उदाहरन्ति ।


    दर्भेष्व् आसीनो दर्भान् धारयमाणः सोदकेन पाणिना प्राङ्मुखः सावित्रीं सहस्रकृत्व आवर्तयेद् अपरिमितकृत्वः प्राणायामशो वा शतकृत्व उभयतः प्रणवां ससप्तव्याहृतिकां मनसा वा दशकृत्वः त्रिभिश् च प्राणायामैः श्रान्तो ब्रह्महृदयेन वारुणीभ्यां रातिम् उपतिष्ठते “इमं मे वरुण” “तत्वायामि” इति द्वाभ्याम् एवं प्रातः प्राङ्मुखस् तिष्ठन् मैत्रीभ्याम् अहर् उपतिष्ठेत् “मित्रस्य चर्षणी घृतो” “मित्रो जनान् यातयति प्रजानन्” इति द्वाभ्याम् इति ।

[१६९] “अपरिमित” इति पूर्वोक्तसङ्ख्यातिरिक्तसङ्ख्यत्वं विवक्षितम् । “प्राणायामशो वा शतकृत्वः” इति, “प्राणायामशः” प्राणायामेन । एतद् उक्तं भवति — यावद्भिः प्राणायामैः सावित्य्रा शतं भवति तावतः प्राणायामान् कुर्याद् इति । प्राणायामश् चात्र प्राणनिरोधमात्रम् अभिहितम्, पूर्वं सावित्रीमात्रस्य प्रक्रान्तत्वात् । “उभयतः प्रणवां ससप्तव्याहृतिकां मनसा वा दशकृत्वः” इति, “उभयत” आदाव् अन्ते चोङ्कारं कुर्याद् इत्य् अर्थः । एतेषां त्रयाणां पक्षाणां शक्त्यपेक्षया विकल्पः । “त्रिभिश् च प्राणायामैः श्रान्तो ब्रह्महृदयेन” इति, पूर्वोक्तानाम् एकं कल्पम् अनुष्ठाय ततो ब्रह्महृदयेन प्रणवेन त्रीन् प्राणायामान् कृत्वा तैः “श्रान्तः” खिन्न इत्य् अर्थः । एवम्भूतः सन् “इमं मे वरुण” “तत्वायामि” इति द्वाभ्यां वारुणीभ्यां रात्रिम् उपतिष्ठते । वरुणदेवताकत्वाद् रात्रेः वरुणोपस्थानेन तस्या उपस्थानं कृतं भवतीति । एतेन “मैत्रीभ्याम् अहर् उपतिष्ठते” इति व्याख्येयम् । तथा च तैत्तिरीयश्रुतिः: “मैत्रं वा अहर् वारुणी रात्रिः” इति ।

याज्ञवल्क्यः [१.२२] ।

स्नानम् अब्दैवतैर् मन्त्रैर् मार्जनं प्राणसंयमः ।

सूर्यस्य चाप्य् उपस्थानं गायत्र्याः प्रत्यहं जपः ॥

तथा [१.२४–२५] ।

प्राणान् आयम्य सम्प्रोक्ष्य तृचेनाब्दैवतेन तु ।

जपन्न् आसीत सावित्रीं प्रत्यग् आ तारकोदयात् ॥

सन्ध्यां प्राक् प्रातर् एवं हि तिष्ठेद् आ सूर्यदर्शनात् ।

“अब्दैवतैः” “आपो हि ष्ठा” इत्यादिभिः । “मार्जनं” देवतीर्थस्थैः कुशैः शिरस्य् उदकप्रक्षेपः,

[१७०] शिरसो मार्जनं कुर्यात् कुशैः सोदकबिन्दुभिः ।

इति चन्दोगपरिशिष्टे कात्यायनवचनात्** । **“सूर्यस्य चाप्य् उपस्थानं” सौरेण मन्त्रेण “उद् उ त्यं जातवेदसं” इत्यादिना प्रकाशनम् । “प्रत्यक्” पश्चिमाभिमुखः । “प्राक्” पूर्वाभिमुखः ।

योगियाज्ञवल्क्यः

ओङ्कारं व्याहृतीः सप्त गायत्र्या शिरसा सह ।

आपो हि ष्ठा ऋचस् तिस्रः सूक्तं चैवाघमर्षणम् ॥

आदित्यरक्षणार्थाय सायं प्रातर् दिने दिने ।

सृष्टं स्वयम्भुवा पूर्वं ब्रह्मणस् तन् मुखं स्मृतम् ॥

तथा

यावन्तो ऽस्यां विकर्मस्थाः पृथिव्यां बालिशा द्विजाः ।

तेषां च पावनार्थाय सन्ध्या सृष्टा स्वयम्भुवा ॥

सन्ध्या उपासिता येन विष्णुस् तेन उपासितः ।

विकर्मस्थाः विहितकर्मातिक्रमनिषिद्धकर्मकर्तारः ।

तथा

त्रिंशत्कोट्यस् तु विख्याता मन्देहा नाम राक्षसाः ।

प्राद्रवन्ति सहस्रांशुम् उदयन्तं दिने दिने ॥

अहन्य् अहनि ते सर्वे सूर्यम् इच्छन्ति खादितुम् ।

अथ सूर्यस्य तेषां च युद्धम् आसीत् सुदारुणम् ॥

ततो देवगणाः सर्वे ऋषयश् च तपोधनाः ।

[१७१] सन्ध्येति तम् उपासीता यत् क्षिपन्ति महज् जलम् ॥

ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम् ।

तेन दह्यन्ति ते दैत्या वज्रीभूतेन वारिणा ॥

तं सूर्यम् । ओङ्कारब्रह्मसंयुक्तम् ओङ्काररूपेण ब्रह्मणा संयुक्तम् ।

एतद् विदित्वा यो विप्रः उपास्ते शंसितव्रतः ।

दीर्घम् आयुः स विन्देत सर्वपापैः प्रमुच्यते ॥

तथा

पूर्वा सन्ध्या तु गायत्री सावित्री मध्यमा स्मृता ।

या भवेत् पश्चिमा सन्ध्या सा विज्ञेया सरस्वती ॥

श्वेता भवति सावित्री गायत्री रक्तवर्णिका ।

कृष्णा सरस्वती ज्ञेया सन्ध्यात्रयम् उदाहृतम् ॥

तथा

त्रयाणां चैव देवानां ब्रह्मादीनां तु सङ्गमः ।

सन्धिः सुराणां सर्वेषां तेन सन्ध्या उदाहृता ॥

गरीयसीति भूतानां यस्मात् पैत्री तनुर् हि सा ।

“पैत्री तनुः” पितामहस्य पितॄन् सृष्टवतः ।

सन्धत्ते तु परे सूक्ष्मे निर्गुणे गुणबोधिनि ।

[१७२] प्रधानपुरुषातीते सन्धत्ते सन्धिर् उच्यते ॥

“सन्धत्ते परे” सर्वतः श्रेष्ठे, परमात्मनीति यावत्,

सन्ध्या उपासिता येन विष्णुस् तेन उपासितः ।

इति पूर्वम् उक्तत्वात् । सूक्ष्मे अस्थूले । निर्गुणे विकारगुणरहिते । गुणबोधिनि गुणानां मानादीनां सर्वेषां ज्ञातरि । प्रधानपुरुषातीते प्रधानम् अव्यक्तं, पुरुषो जीवः, ताव् अतीते ताभ्यां भिन्ने । सन्धिते सन्धानं कुर्वति, सूर्यस्योपस्थितत्वात् । सूर्ये अधिकरणे पुनः सन्धत्ते तस्मिन् सूर्ये सन्ध्यया देवतया सम्बन्ध इति बोद्धव्यम्, “सन्ध्येति समुपासीना” इत्य् उक्तत्वात् । एतेनैतत् सन्धानद्वयनिमित्तस् तस्मिन् काले सन्धिव्यपदेश इत्य् अभिसन्धिः ।

तथा

सन्ध्यात्रयं तु कर्तव्यं द्विजेनात्मविदा सदा ।

आत्मविदा शरीरेन्द्रियव्यतिरिक्तं, नित्याकरणे परलोके दुःखभागिनम् आत्मानं विजानता ।

प्रसङ्गात् स्नानम् आह ।

उभे सम्ध्ये तु स्नातव्यं ब्राह्मणैश् च गृहाश्रितैः ।

तिसृष्व् अपि च सन्ध्यासु स्नातव्यं तु तपस्विना ॥

तपस्वी वानप्रस्थादिः ।

कालदोषाद् असामर्थान् न शक्नोति यथा ह्य् असौ ।

तदा ज्ञात्वा ऋषिभ्यस् तु मन्त्रैर् दृष्टं तु मार्जनम् ॥

[१७२] असामर्थ्यात् रोगाद्युपघातात् । कालदोषात् अत्यन्तं शीतादेः । “मन्त्रैस् तु मार्जनं दृष्टं ऋषिभ्यो ज्ञात्वा” कुर्याद् इत्य् अर्थः ।

शं न आपस् तु द्रुपदा आपो हि ष्ठाघमर्षणम् ।

एतैश् चतुर्भिर् ऋग्मन्त्रैर् मन्त्रस्नानम् उदाहृतम् ॥

“शं न आपो धन्वान्या” इति कठब्राह्मणे । चतुर्भिः इति सूक्तापेक्षया, ऋचां भूय्स्त्वात् ।

स्नानम् अब्दैवतैर् मन्त्रैर् मार्जनं प्राणसंयमः ।

अघमर्षणसूक्तेन अश्वमेधावभृत्समम् ॥

अप्रायत्ये समुत्पन्ने स्नानम् एव तु कारयेत् ।

पूर्वोद्दिष्टैस् तथा मन्त्रैर् अन्यथा मार्जनं स्मृतम् ॥

तथा

अघमर्षणसूक्तस्य ऋषिर् एवाघमर्षणः ।

[आनुष्टुभं भवेच् छन्दो भाववृत्तश् च दैवतम् ॥

अश्वमेधावभृतके विनियोगस् तु कल्पितः । ]

सर्वपापापनोदार्थं स्मृतिकारैर् उदाहृतः ॥

[“भाववृत्तः” भावे भावात्मके जगति वृत्तः प्रवृत्तो धाता । ]

तथा

तत्वभूताण्डपिण्डस्य स्थित्युत्पत्तिलयं तथा ।

सूक्ष्मे ऽस्मिन् व्याहृतं सर्वं मन्त्रार्थो ऽस्यायम् उच्यते ॥

[१७४] ऽतत्वभूताण्डपिण्डस्य” ब्राह्माण्डस्य, जगत इति यावत् । “सूक्ष्मे” च ब्रह्मणि “सृष्टिस्थितिलया” “अस्मिन्” सूक्ते व्याहृताः ।

हत्वा लोकान् अपीमांस् त्रीन् जपेत् त्रिर् अघमर्षणम् ।

यथाश्वमेधावभृत एव तन् **मनुर्** अब्रवीत् ॥

यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः ।

तथाघमर्षणं सूक्तं सर्वपापापनोदनम् ॥

तथा

सिन्धुद्वीपो भवेद् आर्षं गायत्री छन्द एव तु ।

आपस् तु दैवतं प्रोक्तं विनियोगस् तु मार्जने ॥

सर्वत्र पावनं कर्म अब्लिङ्गानाम् उदाहृतम् ।

कोकिलो राजपुत्रस् तु द्रुपदाद् आर्षम् उच्यते ॥

आनुष्ठुभं भवेच् छन्द आपश् चैव तु दैवतम् ।

सौत्रामण्य् अवभृथके स्नाने तद्विनियोजनम् ॥

द्रुपदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता ।

अन्तर्जले त्रिर् आवर्त्य मुच्यते ब्रह्महत्यया ॥

अपः पाण्योः समादाय त्रिः पठेद् द्रुपदाम् ऋचम् ।

तत् तोयं मूर्ध्नि विन्यस्य सर्वपापैः प्रमुच्यते ॥

एवं ज्ञात्वा तु मन्त्राणां विनियोगं द्विजोत्तम ।

सन्ध्याम् उपासते यद्वद् यथावत् तन् निबोधत ॥

ईशान्याभिमुखो भूत्वा शुचिः प्रयतमानसः ।

आचान्तः पुनर् आचामेद् ऋतम् इत्य् अभिमन्त्र्य च ॥

आन्तरं शुद्ध्यति ह्य् एवम् अन्नपानमलीकृतम् ।

[१७५] त्रिर् आवर्त्य तु सावित्रीं प्रणवं व्याहृतीस् तथा ॥

मार्जनं च तथा कृत्वा आपो हि ष्ठेति मार्जयेत् ।

सार्धाम् ऋचं तु प्रक्षिप्य ऊर्ध्वं शर्धाम् अधः क्षिपेत् ॥

अधोभागविसृष्टायाम् असुरा यान्ति सङ्क्षयम् ।

सर्वतीर्थाभिषेकस् तु ऊर्ध्वं सम्मार्जनाद् भवेत् ॥

[अघमर्षणसूक्तेन मार्जनं कारयेत् ततः ।

शं न आपश् च द्रुपदां वामतः सम्प्रयोजयेत् ॥ ]

ओङ्कारपूर्वां गायत्रीम् अब्लिङ्गाद्यघमर्षणम् ।

सातत्यं ब्रह्म चैतद् वै पुरा दृष्टं स्वयम्भुवा ॥

एवं सम्मार्जनं कृत्वा बाह्यशुद्ध्यर्थकारणम् ।

तथाभ्यन्तरशुद्ध्यर्थं प्राणायामान् समाचरेत् ॥

सततम् एव सातत्यं नित्यानुष्ठेयत्वात् । “ब्रह्म” ब्रह्मदेवः । “शं न आप” इत्यादि तु काम्यविषयम् ।

शङ्खः [९.८–१०] ।

इत्य् एवम् उक्त्वा कर्तव्यं तदा सम्मार्जनं जले ।

आपो हि ष्ठेति तिसृभिर् यथावद् अनुपूर्वशः ॥

हिरण्यवर्णेति च वै ऋग्भिश् चतसृभिस् तथा ।

शं नो देवीर् इति तथा शं न आपस् तथैव च ॥

इदम् आपः प्रवहता तथा मन्त्रम् उदीरयेत् ।

“इत्य् एवम् उक्त्वा” इति, “प्रपद्ये वरुणं देवं” इत्यादि “मां च रक्षन्तु सर्वशः” इत्यन्तमन्त्रसमूहम् ।

आचम्यैवं पुरा प्रोक्तास् तीर्थसम्मार्जने तु ये ।

[१७६] मन्त्रास् तैर् मन्त्रितं तोयं मूर्ध्नि भूमौ तथा क्षिपेत् ॥

क्षिप्तेन मूर्ध्नि तोयेन पापम् अस्य प्रणश्यति ।

भूमौ क्षिप्तेन हन्यन्ते असुरा देवशत्रवः ॥

व्याहृतीः कीर्तयेच् चैव तथैवाव्ययम् अक्षरम् ।

“आचम्यैवम्” अनन्तरोक्ताचमनकल्पेन । “तीर्थसम्मार्जने” अन्तर्जलमार्जने “पुरा प्रोक्ताः” आपो हि ष्टाद्याः । “अव्ययं” ओङ्काररूपम् ।

उपस्पृशेत् ततः पश्चान् मन्त्रेणानेन धर्मतः ।

अन्तश् चरसि भूतेषु गुहायां विश्वतोमुखः ॥

त्वं यज्ञस् त्वं वषट्कार आपो ज्योती रसो ऽमृतम् ।

“उपस्पृशेत्” आचामेत् ।

आचम्य च ततः पश्चाद् आदित्याभिमुखो जलम् ।

उद् उ त्यं जातवेदेति मन्त्रेणानेन च क्षिपेत् ॥

एष एव विधिः प्रोक्तः सन्ध्ययोश् च द्विजातिभिः ।

“एष एव” मध्याह्नप्रोक्तः ।

पूर्वां सन्ध्यां जपेत् तिष्ठन्न् आसीनः पश्चिमां तथा ॥

ततो जपेत् पवित्राणि पवित्रं वा स्वशक्तितः ।

ऋषयो दीर्घसन्ध्यत्वाद् दीर्घं आयुर् अवाप्नुवन् ॥

“पवित्राणि” अघमर्षणादीनि शङ्खोक्तानि । “दीर्घसन्ध्यत्वम्” जपेन दीर्घकालव्याप्ता । एतच् च दीर्घसन्ध्याकरणं दीर्घायुष्कामस्य । जपेतिकर्तव्यतां नैयतिकालिके वक्ष्यामः ।

**छन्दोगपरिशिष्टे कात्यायनः **[गोबिलस्मृति २.१–१७] ।

अत ऊर्ध्वं प्रवक्ष्यामि सन्ध्योपासनकं विधिम् ।

[१७७] अनर्हः कर्मणां विप्रः सन्ध्याहीनो यतः स्मृतः ॥

सव्ये पाणौ कुशान् कृत्वा कुर्याद् आचमनक्रियाम् ।

सव्यः सोपग्रहः कार्यो दक्षिणः सपवित्रकः ॥

“उपग्रहाः” बहवः कुशाः ।

रक्षान्ते वारिणात्मानं परिवेष्ट्य समन्ततः ।

शिरसो मार्जनं कुर्यात् कुशैः सोदकबिन्दुभिः ॥

“अन्ते” पूर्वोक्तकर्मान्ते, आत्मानं समन्ततो वारिण वेष्टयित्वा रक्षा कार्येत्य् अर्थः ।

प्रणवो भूर् भुवः स्वश् च सावित्री च तृतीयका ।

अब्दैवत्यस् तृचश् चैव चतुर्थ इति मार्जनम् ॥

भूराद्याश् तिस्र एवैता महाव्याहृतयो ऽव्ययाः ।

महर् जनस् तपः सत्यं गायत्री च शिरस् तथा ॥

“आपो ज्योती रसो ऽमृतं ब्रह्म भूर् भुवः स्वः” इति शिरः ।

प्रतिप्रतीकं प्रणवम् उच्चारयेद् अन्ते च शिरसः ॥

एता एतां सहैतेन तथैभिर् दशभिः सह ।

त्रिर् जपेद् आयतप्राणः प्राणायामः स उच्यते ॥

करेणोद्धृत्य सलिलं घ्राणम् आसज्य तत्र च ।

जपेद् अनायतासुर् वा त्रिः सकृद् वाघमर्षणम् ॥

उत्थायार्कं प्रति प्रोहेत् त्रिकेणाञ्जलिम् अम्भसः ।

“एताः” व्याहृतीः । “एतां” गायत्रीम् । “एतेन” शिरसा । “एभिः” प्रणवैः दशभिः सह इत्य् अर्थः । “प्रोहेत्” क्षिपेत् । “त्रिकेण” प्रणवव्याहृतिगायत्र्यात्मकेन ।

[१७८] उच् चित्रम् इत्य् ऋग्द्वयेन चोपतिष्ठेद् अनन्तरम् ॥

“उत्” “उद् उ त्यं जातवेदसम्” इत्यादि । “चित्रम्” “चित्रं देवानाम्” इति, “उद् वयं तमसस् पतिः” इति च ।

सन्ध्याद्वये ऽप्य् उपस्थानम् एतद् आहुर् मनीषिणः ।

मध्ये त्व् अहन उदये च बिभ्राडादीच्छया भवेत् ॥

“बिभ्राडादि” “बिभाड् बृहत्” इत्य् अनुवाकः, शिवसङ्कल्पः, मण्डलब्राःमणं,

पुरुषसूक्तं च ।

तद् असंसक्तपार्ष्णिर् वा एकपाद् अर्धपाद् अपि ।

कुर्यात् कृताञ्जलिर् वापि ऊर्ध्वबाहुर् अथापि वा ॥

“तत्” उपस्थानम् । “असंसक्तपार्ष्णिः” पृथिव्याम् अलग्नगुल्फतलभागः ।

यत्र स्यात् कृच्छ्रभूयस्त्वं श्रेयसो ऽपि मनीषिणः ।

भूयस्त्वं ब्रुवते तत्र कृच्छ्राच् छ्रेयो ह्य् अवाप्यते ॥

तिष्ठेद् ओदयनात् पूर्वां मध्यमाम् अपि शक्तितः ।

आसीतोडूद्गमाच् चान्त्यां सन्ध्यां पूर्वत्रिकं जपन् ॥

एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यद् अधिष्ठितम् ।

यस्य नास्त्य् आदरस् तत्र न स ब्राह्मण उच्यते ॥

सन्ध्यालोपस्य चाकर्ता स्नानशीलश् च यः पुमान् ।

तं दोषा नोपसर्पन्ति गरुत्मन्तम् इवोरगाः ॥

“आ उडूद्गमात्” आ तारकोदयात् । “यदधिष्ठितं” यदधीनम् ।

[१७९] शङ्खलिखितौ

    आचारवतां धर्मो ह्य् आवश्यक इत्य् आचारो ऋषीणां स्थितिः देवतानां चरित्रं मनुष्याणाम् । तेन


    	पूर्वां सन्ध्यां जपंस् तिष्ठेत् स्वे काले वापरां चिरम् ।


    	ऋषयो दीर्घसन्ध्यात्वा दीर्घम् आयुर् अवाप्नुयुः ॥


    “आवश्यकम्” मूत्रपुरीषादिकर्म । “चिरम्” इत्य् उभयसन्ध्यासम्बन्धः । “दीर्घसम्ध्यत्वम्” जपेन दीर्घकालव्याप्ता ।

[मनुः] [२.२२२] ।

आचम्य प्रयतो नित्यम् उभे सन्ध्ये समाहितः ।

शुचौ देशे जपन् जप्यम् उपासीत यथाविधि ॥

तथा [२.१०२] ।

पूर्वां सन्ध्यां जपंस् तिष्ठेत् सावित्रीम् अर्कदर्शनात् ।

पश्चिमां तु समासीनः सम्यग् ऋक्षविभावनात् ॥

मनुः [२.७६–७९] ।

अकारं चाप्य् उकारं च मकारं च प्रजापतिः ।

वेदत्रयान् निरदुहद् भूर् भुवः स्वर् इतीति च ॥

त्रिभ्य एव तु वेदेभ्यः पादं पादम् अदुदुहत् ।

तद् इत्य् ऋचो ऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥

एतद् अक्षरम् एतां च जपन् व्याहृतिपूर्विकाम् ।

सन्ध्ययोर् वेदविद् विप्रो वेदपुण्येन युज्यते ॥

[१८०] “एतद् अक्षरम्” प्रणवम् । “वेदपुण्येन” वेदजपुण्येन ।

सहस्रकृत्वस् त्व् अभ्यस्य बहिर् एतत् त्रिकं द्विजः ।

महतो ऽप्य् एनसो मासात् त्वचेवाहिर् विमुच्यते ॥

**विष्णुपुराणे **[३.११.१०२] ।

नित्यकालम् उपस्थानं सन्ध्ययोः पार्थिवेष्यते ।

अन्यत्र सूतकाशौचविभ्रमातुरभीतिभिः ॥

विभ्रमः भयं विनाकुलता ।

**योगियाज्ञवल्क्यः **।

सन्ध्या येन न विज्ञाता सन्ध्या न च उपासिता ।

जीवन्न् एव भवेच् छूद्रो लोके भवति निन्दितः ॥

मनुः [२.४४] ।

नोपतिष्ठति यः पूर्वां नोपास्ते यश् च पश्चिमाम् ।

स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥

दक्षः [२.२७] ।

सन्ध्याहीनो ऽशुचिर् नित्यम् अनर्हः सर्वकर्मसु ।

यद् अन्यत् कुरुते कर्म न तस्य फलभाग् भवेत् ॥

बौधायनः [२.७.१५] ।

अपि चात्र प्रजापतिगीतौ श्लोकाव् उदाहरन्ति ।

	अनागतां तु ये पूर्वाम् अतिक्रान्तां तु पश्चिमाम् ।

	सन्ध्यां नोपासते विप्राः कथं ते ब्राह्मणाः स्मृताः ॥

[१८१] सायं प्रातः सदा सन्ध्यां न ये विप्रा उपासते ।

	कामं तान् धार्मिको राजा शूद्रकर्मसु योजयेत् ॥ इति ।

शातातपः

अनागतां तु यः पूर्वां सादित्यां चैव पश्चिमाम् ।

नोपासीत द्विजः सन्ध्यां स धृष्टो ब्राह्मणः स्मृतः ॥

अङ्गिराः

उभे सन्ध्ये तु यो विप्रो मौनी काले समाहितः ।

दिव्यवर्षसहस्रं तु ब्रह्मलोके महीयते ॥

अत्र शङ्ख-वसिष्ठ-अङ्गिरो-बृहस्पति-पैठीनसि-बौधायनाः

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।

त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥

बृहस्पतिः [आचार ३१] ।

बद्ध्वासनं नियम्यासून् स्मृत्वा ऋष्यादिकं तथा ।

सन्निमीलितदृङ् मौनी प्राणायामं समभ्यसेत् ॥

शङ्खः [१२.७–१२] ।

    आदौ देवताम् आर्षं छन्दश् च संस्मरेत् । [ततः सप्रणवा व्याहृतीर् आदाव् आवर्त्य गायत्रीम् आवर्तयेत्] । अथास्याः सविता देवता, ऋषिर् विश्वामित्रः, गायत्री छन्दः । ओङ्कारस्य प्रणवाख्या । ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् इति व्याहृतयः । आपो ज्योती रसो ऽमृतं ब्रह्म भूर् भुवः स्वर् ॐ इति शीर्षम् ।

[१८२] दक्षः [२.५१] ।

सविता देवता यस्याः मुखम् अग्निस् त्रिपाच् च या ।

विश्वमित्र ऋषिश् छन्दो गायत्री सा विशिष्यते ॥

योगियाज्ञवल्क्यः ।

** **प्राणस्यायमनं कृत्वा आचामेत् प्रयतो ऽपि सन् ।

आन्तरं खिद्यते यस्मात् तस्माद् आचमनं स्मृतम् ॥

[१८३]

॥ ८ ॥

अथाग्निकार्यम्

तत्र सन्ध्याविध्यनन्तरम् याज्ञवल्क्यः [१.२५] ।

अग्निकार्यं ततः कुर्यात् सन्ध्ययोर् उभयोर् अपि ।

मनुः [२.१८६] **भविष्ये **च ।

दूराद् आहृत्य समिधः सन्निदध्याद् गृहोपरि ।

सायं प्रातश् च जुहुयात् ताभिर् अग्निम् अतन्द्रितः ॥

एतेन शिष्यादौ धारणं निरस्तम् ।

आपस्तम्बः [१.४.१४–२१] ।

    सदारण्याद् एधान् आहृत्याधो निदध्यात् ।

अधोनिधानोपरिधानयोर् विकल्पः ।

    नास्तमित् समिद्धारो गच्छेत् । अग्निम् इद्ध्वा परिसमूह्य समिध आदध्यात् सायं प्रातर् यथोपदेशम् । सायम् एवाग्निपूजेत्य् एके । समिद्धम् अग्निं पाणिना परिसमूहन्न् एव समूहन्या । प्राक् तु यथाकामी ।

[१८४] “समिद्धारः” समिधाम् आहर्तारः । “यथोपदेशम्” गृह्योक्तविधिनापि परिसमूहनं कुर्याद् इत्य् अर्थः ।

    नाग्न्युदकशेषेण वृथा कर्माणि कुर्वीताचामेद् वा ।

“वृथा कर्माणि” केवलदृष्टप्रयोजनानि ।

**बैजवापः **।

    पुरास्तमयात् प्रागुदीचीं दिशं गत्वाहिंसन्न् अरण्यात् समिध आहरेत् । शुष्का ब्रह्मवर्चसकामः आर्द्रा अन्नाद्यकामः उभयैर् उभयकामः । अस्तमिते तस्मिन्न् अग्नौ पूर्ववद् आदध्यात् ।

“पुरास्तमयात्” इत्य् अस्तमिते सूते समिदाहरणं निषिद्धम् । “प्रागुदीची” ऐशानी । “अहिंसन्” समिदुपयुक्ताद् अधिकम् अछिन्दन् । “अस्तम् इते” सूर्ये । “तस्मिन्न् अग्नौ” आहवनीयानले । “पूर्ववत्” उपनयनकालवत् । “आदध्यात्” समिधम् इति शेषः ।

पैठीनसिः

    समासिञ्चत्व् इति पर्युक्ष्य सायं प्रातः परिचरेद् अग्निं सूर्याचन्दमसौ सोमं मित्रं वायुम् अपो ब्राह्मणांश् चेति ।

“परिचरेत्” अभिवादयेद् इत्य् अर्थः ।

हारीतः

पुरा जग्राह वै मृत्युर् हिंसयन् ब्रह्मचारिणम् ।

अग्निस् तं मोक्षयामास तस्मात् परिचरेद् धि तम् ॥

ब्रह्मचारी यदा त्व् अग्नाव् आदध्यात् समिधो न हि ।

गृह्णीयात् तं तदा मृत्युर् आदध्यात् समिधस् ततः ॥

[१८५]

॥ ९ ॥

अथाभिवादनोपसम्ग्रहणे

तत्र **शङ्खः **[२.४] ।

प्रयतः कल्यम् उत्थाय स्नातो हुतहुताशनः ।

कुर्वीत प्रणतो भक्त्या गुरूणाम् अभिवादनम् ॥

विष्णुः [२८.१४] ।

कृतसन्ध्योपासनश् च गुरूणाम् अभिवादनं कुर्यात् ।

गौतमः [६.५] ।

स्वनाम प्रोच्याहम् अयम् इत्य् अभिवादो ज्ञसमवाये ।

“ज्ञसमवाये” प्रत्यभिवादनविधिज्ञसमागमे ।

मनुः [२.१२४–१२५] ।

भोःशब्दं कीर्तयेद् अन्ते स्वस्य नाम्नो ऽभिवादने ।

नाम्ना स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥

आयुष्मान् भव सौम्येति वाच्यो विप्रो ऽभिवादने ।

अकारश् चास्य नाम्नो ऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥

“नाम्ना” अभिवाद्यस्य । “भोभावः” भो इति शब्दः । “अस्य” अभिवादस्य ।

[१८६] “अभिवादयीत” इत्य् अनुवृत्तौ साङ्ख्यायनगृह्यम् [४.१२.५–६] ।

    असाव् अहं भो इत्य् आत्मनो नामादिश्य व्यत्यस्तपाणिः असाव् इत्य् अस्य पाणिं सङ्गृह्याशिषम् आशास्ते ।

“अस्य” अभिवादकस्य ।

मनुः [२.१२६] ।

यो न वेत्त्य् अभिवादस्य विप्रः प्रत्यभिवादनम् ।

नाभिवाद्यः स विदुषा यथा शूद्रस् तथैव सः ॥

“अभिवादस्य” अभिवादनस्य । “प्रत्यभिवादनम्” आशीर्वचनम्, यथा “आयुष्मान् भव देवदत्त” इति । “नाभिवाद्यः” सर्वथैव नाभिवादनेद् इत्य् अर्थः ।

आपस्तम्बः [१.५.१२] ।

    ब्रह्मचारी सदा महान्तम् अपररात्रम् उत्थाय गुरोस् तिष्ठन् प्रातरभिवादम् अभिवादयीतासाव् अहं भो इति ।

अभिवादनं “अभिवादः” तं कुर्याद् इत्य् अर्थः, ओदनं पाकं पचतीतिवत्

पुनः आपस्तम्बः [१.५.१६–१७] ।

    दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राःमणो ऽभिवादयीत, उरःसमं राजन्यो, मध्यसमं वैश्यो, नीचैः शूद्रः, प्राञ्जलिः । प्लावनं च नाम्नो ऽभिवादनप्रत्यभिवादने च पूर्वेषां वर्णानाम् ।

“नीचैः शूद्रः” मध्यापेक्षया नीचत्वम् । “प्लावनम्” प्लुतकरणम् । “नाम्नो” नामधेयान्त्यस्वरस्येत्य् अर्थः । “पूर्वेषां” ब्रह्मक्षत्रविशाम् । “अभिवाद्य” इति वाक्यशेषः ।

[१८७] वसिष्ठः [१३.४४–४६] ।

    यो विद्याद् अभिवदितुम् अयम् अहं भो इति ब्रूयात् । यश् च न विद्यात् । प्रत्यभिवादनम् आमन्त्रिते स्वरो ऽन्त्यो ऽस्य प्लवते सन्ध्यक्षरम् अप्रगृह्यम् आयाउभावं च यथा भोभाव् इति ।

“यो विद्याद् अभिवदितुम्” इति । अभिवादने कृते प्रत्यभिवादनं कर्तुम् इत्य् अर्थः । तं स्वनामग्रहणविशेषणेन अभिवादयेत् । यस् (?) तु न जानीयात् प्रत्यभिवादनं तं प्रति “अयम् अहं भो” इत्य् एव ब्रूयाद् इत्य् अर्थः । चशब्दात् स्त्रियश् च । तथा च मनुः [२.१२३] ।

नामधेयस्य ये केचिद् अभिवादं न जानते ।

तान् प्राज्ञो ऽहम् इति ब्रूयात् स्त्रियः सर्वास् तथैव च ॥ इति ।

कथं पुनः प्रत्यभिवादनम् । तद् आह – “आमन्त्रिते” सम्बोधने प्रथमान्ते, “अस्य” नाम्नो, “अन्त्यः” अन्त्यस्वरः, “प्लवत्ते” त्रिमात्रः कार्यः । “सम्ध्यक्षरं” एकारादि । “अप्रगृह्यं” प्रगृह्यसञ्ज्ञारहितम् । “आयाउभावं” आईभावम् आऊभावम् । चशब्दात् प्लुतं च प्रपद्यत इति शेषः ।

आपस्तम्बः [१.१४.२०–२१] ।

    अभिवादयेत् सर्वनाम्ना स्त्रियः । राजानं वैश्यं च नाम्ना, मातरम् आचार्यदारं चेत्य् एके ।

“सर्वनाम्ना” “अहं भोः अभिवादये” इत्य् एतावन्मात्रेण ।”नाम्ना” न सर्वनाम्ना, किं तु स्वनाम्नेत्य् एकीयं मतम् ।

मनुः [२.७२] ।

व्यत्यस्तपाणिना कार्यम् उपसङ्ग्रहणं गुरोः ।

[१८८] सव्येन सव्यः स्पृष्टव्यो दक्षिणेन तु दक्षिणः ॥

बौधायनः [१.३.२६–२८] ।

    दक्षिणं दक्षिणेन सव्यं सव्येन चोपसङ्ग्रहणं दीर्घम् आयुः स्वर्गं चेप्समानः । कामम् अन्यस्मै साधुवृत्ताय गुरुणानुज्ञातो “असाव् अहं भो” इति श्रोत्रे संस्पृश्य मनःसमाधानार्थम् अधस्ताज् जान्वोर् आ पद्भ्याम् ।

“आ पद्भ्याम्” इति, जानुनी आरभ्य पादपर्यन्तं स्पृशेद् इत्य् अर्थः । “मनःसमाधानार्थम्” अभिवाद्यस्यावधानार्थम् इत्य् अर्थः ।

आपस्तम्बः [१.५.१८–२३] ।

    उदिते त्व् आदित्य आचार्येण समेत्योपसङ्ग्रहणम् । सदैवाभिवादनम् । उपसङ्ग्राह्य आचार्य इत्य् एके । दक्षिणेन पाणिना दक्षिणं पादम् अधस्ताद् अध्यभिमृश्य सकुष्ठिकम् उपसङ्गृह्णीयात् । उभाभ्याम् एवोभाव् अभिपीडयतोपसङ्ग्राह्याव् इत्य् एके ।

“उभाभ्याम्” पाणिभ्याम्, “उभौ” पादौ, “अभिपीडयता” सम्यक् पीडयता ।

वसिष्ठः [१३.४१–४३] ।

    गुरोः पादोपसङ्ग्रहणं कार्यम् । ऋत्विक्श्वशुरपितृव्य[मातुलान् अवरवयसः प्रत्युत्थायाभिवादयेत् । ये चैव पादग्राह्यास् तेषां च भार्या गुरोश् च मातापित]रौ ।

अयं तात्पर्यार्थः । ऋत्विगादीनाम् अवरवयसां प्रत्युत्थानं सम्भाषणमात्रेण । “ये चैव पादग्राह्याः” पादोपसङ्ग्रहणयोग्याः [१८९] पूर्वोक्तेभ्यो षड्भ्यो ऽनन्तरोक्ता “अवरवयसः” ते ऽपि प्रत्युत्थाय सम्भाष्याः ।

गौतमः [१.५८] ।

गुरोः पादोपसङ्ग्रहणं प्रातः ।

गुर्वस्हिकारे पैठीनसिः

    उत्तानाभ्यां हस्ताभ्यां दक्षिणेन दक्षिणं सव्यं सव्येन पादाव् अभिवादयेत् ।

पुनः गौतमः [६.१–४] ।

    पादोपसङ्ग्रहणं समवाये ऽन्वहम् । अभिगम्य तु विप्रोष्य । मातृपितृतत्सबन्धूनां पूर्वजानां विद्यागुरूणां तद्गुरूणां च । सन्निधाने परस्य ।

“समवाये” मेलके । “विप्रोष्ये” प्रवासं कृत्वागत्य । “तत्सबन्धूनाम्” मातृपितृसमानजातीयबन्धूनां मातुलमातामहपितृव्यपितामहप्रभृतीनाम् । “पूवजानाम्” ज्येष्थभ्रातॄणाम् । “विद्यागुरवः” अङ्गादिविद्याध्यापितारः । “तद्गुरूणाम्” पूर्वोक्तगुरूणाम् । “सन्निधाने परस्य” एतेषां सर्वेषाम् एकत्र उपस्थाने यः परः प्रधानभूतस् तस्य प्रथमं कर्तव्यम् उपसङ्ग्रहणम् ।

आपस्तम्बः [१.५.१२–१५] ।

    गुरोस् तिष्ठन् प्रातरभिवादनम् अभिवादयेद् असाव् अहं भो इति । समानग्रामे च वसताम् अन्येषाम् अपि वृद्धतराणां प्राक् प्रातराशात् । प्रोष्य च समागमे । स्वर्गम् आयुश् चेप्सन् ।

[१९०] साङ्ख्यायनगृह्यम् [४.१२.१–४] ।

    अहर् अहर् आचार्यायाभिवादयेत् । गुरुभ्यश् च । समेत्य श्रोत्रियस्य । प्रोष्य प्रत्येत्याश्रोत्रियस्य ।

“समेत्य” दैववशात् समागमे । “अश्रोत्रियस्य प्रोष्य प्रत्येत्य” न तु दैववशात् समागमे ऽपीत्य् अर्थः ।

पतिठीनसिः

लौकिकं वैदिकं चैव यच् चान्यद् धर्मसंहितम् ।

यतो विद्यागमं कुर्यात् तं पूर्वम् अभिवादयेत् ॥

“धर्मसंहितं” [धर्मसम्बद्धम् । “विद्यागमम्” विद्याग्रहणम् । ]

**मनुर् **[मनु २.११७–१२१] यमश् च प्रथमे, **पैठीनसिश् **चतुर्थे ।

लौकिकं वैदिकं चापि तथाध्यात्मिकम् एव च ।

आददीत यतो ज्ञानं तं पूर्वम् अभिवादयेत् ॥

सावित्रीमात्रसारो ऽपि वरं विप्रः सुयन्त्रितः ।

नायन्त्रितस् त्रिवेदो ऽपि सर्वाशी सर्वविक्रयी ॥

शय्यासने ऽध्याचरिते श्रेयसा न समाविशेत् ।

शय्यासनस्थश् चैवैनं प्रत्युत्थायाभिवादयेत् ॥

ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर आयति ।

प्रत्युत्थानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते ॥

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।

चत्वारि सम्यग् वर्धन्ते आयुः प्रज्ञा यशो बलम् ॥

[१९१] “लौकिकं” अर्थशास्त्रादि । “आध्यात्मिकं” ब्रह्मप्रतिपादकविद्या । “अध्याचरिते श्रेयसा” श्रेष्ठेन गुर्वादिना “न समाविशेत्” न समुप्विशेत्” । “तान्” प्राणान् ।

भविष्ये

अभीति भगवान् विष्णुः वादयामीति शङ्करः ।

द्वाव् एतौ पूजितौ येन यः करोत्य् अभिवादनम् ॥

मनुः [२.१३२] ।

भ्रातुर् भार्योपसङ्ग्राह्या सवर्णाहन्य् अहन्य् अपि ।

विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसम्बन्धियोषितः ॥

“ज्ञातयः” पितृपक्षाः । “सम्बन्धिनः” मातृपक्षाः श्वशुरादयश् च ।

तथा [२.२१२] ।

गुरुपत्नी तु युवतिर् नाभिवाद्येह पादयोः ।

पूर्णविंसतिवर्षेण गुणदोषौ विजानता ॥

“पूर्णविंशतिवर्षेण” इति यौवनोपलक्षणम् । “गुणदोषौ” च कामजौ सुखदुःखे ।

तथा [२.२१६–२१७] ।

कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।

विधिवद् वन्दनं कुर्याद् असाव् अहम् इति ब्रुवन् ॥

[१९२] विप्रोष्य पादग्रहणम् अन्वहं चाभिवादनम् ।

गुरुदारेषु कुर्वीत सतां धर्मम् अनुस्मरन् ॥

तथा [२.२१०] ।

गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।

असवर्णास् तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥

विष्णुः [३२.५] ।

हीनवर्णाणां गुरुपत्नीनां प्राग् अभिवादनं न पादोपसङ्ग्रहणम् ।

अभिवानदानुवृत्तौ गौतमः [६.६–८] ।

स्त्रीपुं-योगे ऽभिवादनतो ऽनियमम् एके ।
नाविप्रोष्य स्त्रीणाम् अमातृ-पितृव्यभार्या-भगिनीनाम् ।
नोपसङ्ग्रहणं भ्रातुर् भार्याणां श्वश्र्वाश् च ।

“स्त्रीपुंयोगे” विवाहकाले स्त्रीणां गुरुत्वात् प्रत्युत्थानाभिवादे “अनियमम् एके” मन्यन्त इत्य् अर्थः । “अभिवादनतः” अभिवादने ।

तथा [६.९] ।

ऋत्विक्-श्वशुर-पितृव्य-मातुलानां तु यवीयसां प्रत्युत्थानम् अनभिवाद्याः ।

[१९३] “यवीयसां” कनिष्ठानाम् ।
“नोपसङ्ग्रहणं भ्रातुर् भार्याणाम्” इत्य् असवर्णाविषयम्,

भ्रातुर् भार्योपसङ्ग्राह्या
सवर्णाहन्य् अहन्य् अपि ।

इति मनुवचनात् ।

“प्रत्युत्थेया नाभिवाद्याः” इत्य् अनुवृत्तौ गौतमः [६.१०] ।

तथान्यः पूर्वः पौरो ऽशीतिकावरः शूद्रो ऽप्य् अपत्यसमेन ।

“अन्यः” अनन्तरोक्तर्त्विगादिभ्यः ।
“पूर्वः" इति वयोऽपेक्षया ।
“पौरः” समानस्थानवासी ।
“अशीतिकावरः” अशीतिर् एवाशीतिका, सा अवरा अवधित्वेन यस्य स तथेत्य् अर्थः ।
“शूद्रो” यदि पितृसखो भवति, सख्युः पिता वा भवति
तदा “अपत्यसमेन” ब्राह्मणेन प्रत्युत्थेय इत् अर्थः ।

**आपस्तम्बः **[१.१४.१०–११] ।

ऋत्विक्-श्वशुर-पितृव्य-मातुलान् अवरवयसः प्रत्युत्थायाभिवादयेत् ।
तूष्णीं वोपसङ्गृह्णीयात् ।

“अभिवादयेत्” अभिभाषेत । “उपसङ्गृह्णीयात्” उप समीपे सङ्गृह्णीयात् अङ्कपाल्यादिना । विद्यादिज्येष्ठे उपसङ्ग्रहणम्, इतरस्मिन्न् अभिभाषणमात्रम् ।

[१९४] शातातपः

नाभिवाद्यास् तु विप्रेण क्षत्रियाद्याः कथञ्चन ।

ज्ञानकर्मगुणोपेता यद् अप्य् एते बहुश्रुताः ॥

ब्राह्मणाः सर्ववर्णानां स्वस्ति कुर्याद् इति श्रुतिः ।

सवर्णैस् तु सवर्णानां कार्यम् एवाभिवादनम् ॥

अङ्गिराः

अप्रणामगते शूद्रे स्वस्ति कुर्वन्ति ये द्विजाः ।

शूद्रो ऽपि नरकं याति ब्राह्मणस् तदनन्तरम् ॥

देवीपुराणे

शूद्रो ऽपि चाधिकाराढ्यो वादाक्षरसुवर्वितः ।

महापातकतुल्यं तु लभते विनयाद् ऋते ॥

गुर्वनुवृत्तौ मनुः [२.२०२] ।

दूरस्थो नार्चयेद् एनं न क्रुद्धो नान्तिके स्त्रियाः ।

यानासनस्थश् चैवैनम् अवरुह्याभिवादयेत् ॥

आपस्तम्बः [१.१४.१२–१९] ।

    त्रिवर्षपूर्वः श्रोत्रियो ऽभिवादनम् अर्हति । ज्ञायमाने वयोविशेषे वृद्धतरायाभिवाद्यम् । विषमगतायागुरवे नाभिवाद्यम् । अन्वारुह्याभिवादयीत । सर्वत्र तु प्रत्युत्थायाभिवादनम् । अप्रयतेन नाभिवाद्यम्, तथा अप्रयतायाप्रयतश् च न प्रत्यभिवादयेत् । पतिवयसः स्त्रियश् च । न सोपानद्वेष्टितशिराः अवहितपाणिर् वाभिवादयीत ।

[१९५] “त्रिवर्षपूर्वः” त्रिभिर् वर्षैः पूर्वो ज्येष्ठ इत्य् अर्थः । “विषमगताय” उच्चनीचस्थानगताय । “अन्वारुह्य” इत्य् उपलक्षणम् । गुरवे विषमगतायाप्य् अभिवादयेत् । “अवहितपाणिः” वस्त्वन्तरावसक्तपाणिः ।

गौतमः [९.४७] ।

सोपानत्कश् चाशनासनाभिवादननमस्कारान् वर्जयेत् ।

शङ्खलिखितौ

    नोदकुम्भहस्तो ऽभिवादयेत् । न बैक्ष्यं चरन् । न पुष्पादिपाणिः । नाशुचिः । न जपन् । न देवपितृकार्यं कुर्वन् । न परिषन्मध्ये स्वैरवाक् ।

[**बौधायनः **(१.३.३२–३३) ।

    समिद्धार्य् उदकुम्भपुष्पान्नहस्तो नाभिवादयेत्] । यच् चान्यद् अप्य् एवं युक्तम् । न समवाये ॥

“समिद्धारी” समिधो वहन् । “एवं युक्तं” तं नाभिवादयेद् इत्य् अर्थः । “समवाये” परिषदि ।

हारीतः

जपयज्ञजलस्थश् च समित्पुष्पकुशानलान् ।

उदकुम्भं च भैक्ष्यं च वहन्तं नाभिवादयेत् ॥

“जपयज्ञजलस्थश् च” नाभिवादनकर्ता ।

[१९६] हारीतः

    नान्येन कृतप्रणामो ऽन्यम् अभिभाशेत । अभिभाषेत गुरून् ब्राह्मणांश् च । न प्राग् आहाराद् वृषलान् ।

“अन्यं” प्रणामकर्तुः ।

यमः

अभिवादे तु यः पूर्वम् आशिषं न प्रयच्छति ।

यद् दुष्कृतं भवेद् अस्य तस्माद् भागं प्रपद्यते ॥

तस्मात् पूर्वाभिभाषी स्याच् चाण्डालस्यापि धर्मवित् ।

सुरां पिबेति वक्तव्यम् एवं धर्मो न लुप्यते ॥

स्वस्तीति ब्राह्मणे ब्रूयाद् आयुष्यम् इति राजनि ।

वर्धताम् इति वैश्ये तु शूद्रे त्व् आरोग्यम् एव च ॥

यत् सुखं त्रिषु लोकेषु व्याधिव्यसनवर्जितम् ।

यस्मिन् सर्वे स्थिताः कामाः सा स्वस्तीत्य् अभिसञ्ज्ञिता ॥

“अभिवादे तु यः पूर्वम् आशिषं न प्रयच्छति” इत्य् आशिषः प्रस्तुतत्वात् सा आशीः “स्वस्तीत्य् अभिसञ्ज्ञिता” इति सम्बन्धः ।

मनु-यमौ

ब्राःमणं कुशलं पृच्छेत् क्षत्रबन्धुम् अनामयम् ।

वैश्यं क्षेमं समागम्य शूद्रम् आरोग्यम् एव तु ॥

आतिथ्याधिकारे गौतमः [५.४२] ।

कुशलानामयारोग्याणाम् अनुप्रश्नो ऽन्त्यं शूद्रस्य ।

[१९७] आपस्तम्बः [१.१४.२३–२८] ।

    कुशलम् अवरवयसं वयस्यं वा पृच्छेत् । अनामयं क्षत्रियम् । अनष्टं वैश्यम् । आरोग्यं शूद्रम् । नासम्भाष्य श्रोत्रियम् अभिव्रजेत् । अरण्ये च स्त्रियम् ।

“श्रोत्रियो” वेदाध्यायी तथानुष्थाता च । “अरण्ये स्त्रियम्” भयादिनिवृत्यर्थम् ।

यमः

क्षत्रियस् त्रियुगं हन्ति [वैश्यो हन्ति चतुर्युगम् ।

हन्त्य् एकसप्ततियुगं शूद्रो ब्राह्मणं अब्रुवन् ॥

“युगं” जन्म । “अब्रुवन्” अवज्ञया असम्भाषमाणः । ]

इति महाराजाधिराजश्रीमद्गोविन्दचन्द्रदेवमहासन्धिविग्रहिक-

भट्टश्रीहृदयधरात्मजश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ

ब्रह्मचारिकाण्डे अभिवादनोपसङ्ग्रहणे

[१९८]

॥ १० ॥

अथ मान्याः

तत्र शङ्खः

    अथ मान्याः । माता पिता पितुर् भार्या ज्येष्ठो भ्राता ज्येष्ठभगिनी ज्येष्ठश्यालः पितुः सखा गुरु आचार्यः पितृव्यमातुलश्वश्रूश्वशुरवृद्धाः ।

हारीतः

    गुरुशुश्रूषा नाम् ज्ञानधर्मार्थनिमित्तं क्रियते । तत्र ज्ञाननिष्क्रयार्थं गुरुशुश्रूषां कुर्यात् । दिविष्ठा भूमिष्ठाश् च खलु गुरवः । अग्न्यादयो देवा दिविष्ठाः, तेषां जपहोमार्चनादिभिः शुश्रूषां कुर्यात् । भूमिष्ठाः खलु गुरवो, यथा ब्राह्मणो मातापितरौ ज्येष्ठो भ्राता, ज्येष्ठस्य पत्नी उपाध्याय उपाध्यायपत्नी दीक्षितः प्रव्रजितो राजा वयोवृद्धाः ज्ञानवृद्धास् तपोवृद्धाश् चेति । तेषाम् अभिगमनाभिवादनार्घातिथ्यादिभिः शुश्रूषां कुर्यात् । 


    एवं ह्य् आह —


    	मूलं धर्मस्य गुरवो ज्ञानस्य तपसस् तथा ।


    	तस्माद् धि गुरवः सेव्याः पुरुषेण प्रयत्नतः ॥

[१९९] भूमिष्ठा गुरवो येषां तुष्यन्ति सततं नृणाम् ।

	देवा हि तेषां तुष्यन्ति नराणां पुण्यकर्मणाम् ॥

	अतुष्टा [गुरवो येषां प्रणष्टास् ते नराधमाः ।

	तुष्टास् तु] येषां गुरवस् तेषां सर्वाः समृद्धयः ॥

	गुरुमन्युप्रदग्धानां न शुभा विद्यते गतिः ।

“दीक्षितः” सोमक्रयाद् अनन्तरम् । तत्पूर्वं तु “दीक्षितश् च प्रक्क्रयात्” इति वयस्यत्वस्य गौतमेनाभिधानात् । “राजा” अत्र महीपतिः देवलवचनैकवायत्वात्, न क्षत्रियमात्रम् ।

**देवलः **।

उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।

मातुलः श्वशुरस् त्राता मातामहपितामहौ ॥

वर्णज्येष्ठः पितृव्यश् च पुंस्य् एते गुरवः स्मृताः ।

माता मातामही गुर्वी पितुर् मातुश् च सोदराः ॥

श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः (?) ।

“गुर्वी” गुरुपत्नी । “ज्येष्ठा” भगिनीति शेषः ।

तथा

इत्य् उक्तो गुरुवर्गो ऽयं मातृतः पितृतो द्विधा ।

अनुवर्तनम् एतेषां मनोवाक्कायकर्मभिः ॥

गुरुं दृष्ट्वा समुत्तिष्ठेद् अभिवाद्य कृताञ्जलिः ।

नैतैर् उपविशेत् सर्धं विवदेन् नार्थकारणात् ॥

उद्दिष्टं साधयेद् अर्थं प्रतिषिद्धं च वर्जयेत् ।

[२००] तत्पूज्यान् पूजयेन् नित्यं व्यसने न परित्यजेत् ॥

“व्यसने” विपदि ।

क्रोधं वाग्दण्डपारुष्ये उत्सेकं वैकृतान् स्वरान् ।

नर्म हासं विलासं च वर्जयेद् गुरुसन्निधौ ॥

“उत्सेको” गर्वः । “नर्म” क्रीडा । “हसः” परिहासः । “विलासः” शृङ्गारचेष्टा ।

तथा

जीवितार्थम् अपि द्वेषं गुरुभिर् नैव भावयेत् ।

उदितो ऽपि गुणैर् अन्यैर् गुरुद्वेषी पतत्य् अधः ॥

गुरूणाम् अपि सर्वेषां पूज्याः पञ्च विशेषतः ।

तेषाम् अद्यास् त्रयः प्रोक्तास् तेषां माता सुपूजिता ॥

यो भावयति या सूते येन विद्योपदिश्यते ।

ज्येष्ठो भ्राता च भर्ता च पञ्चैते गुरवः स्मृताः ॥

“भर्ता” पोषकः ।

आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः ।

पूजयितव्या विशेषेण पञ्चैते भूतिम् इच्छता ॥

यावत् पिता च माता च द्वाव् एतौ निर्विकारिणौ ।

ताअवत् सर्वं परित्यज्य पुत्रः स्यात् तत्परायणः ॥

पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर् यदि ।

स पुत्रः सकलं धर्मं प्राप्नुयात् तेन कर्मणा ॥

नास्ति मातृसमं दैवं नास्ति पित्रा समो गुरुः ।

तयोः प्रत्युपकारो हि न कथञ्चन विद्यते ॥

[२०१] सम्यग् आराध्य वक्तारं विश्र्ष्टस् तदनुज्ञया ।

शिष्यो विद्याफलं भुङ्क्ते प्रेत्य चापद्यते दिवम् ॥

“विसृष्टः” प्रस्थापितः ।

यो भ्रातरं पितृसमं ज्येष्ठं मूढो ऽवमन्यते ।

तेन दोषेण सम्प्रेत्य निरयं घोरम् ऋच्छति ॥

तस्मात् पितृवद् आराध्यो ज्येष्ठो भ्राता च सर्वदा ।

अपि मातरि लोके ऽस्मिन्न् उपकाराद् धि गौरवम् ॥

ये नरा भर्तृपिण्डार्थं स्वान् प्राणान् सम्त्यजन्ति हि ।

तेषाम् अथाक्षयान् लोकान् प्रोवाच भगवान् **मनुः** ॥

यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् ।

न तस्य निष्कृतिं शक्या कल्पकोटिशतैर् अपि ॥

यो ऽन्तर् नित्यं प्रियं कुर्याद् आचार्यस्य विशेषतः ।

तेषु हि त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥

तेषां त्रयाणां शुश्रूषा परमं अप उच्यते ।

नैतऐर् अनभ्यनुज्ञातो धर्मम् अन्यं समाचरेत् ॥

तथा

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।

अनादृतास् तु यस्यैते सर्वास् तस्याफलाः क्रियाः ॥

यावत् त्रयस् ते जीवेरन् तावन् नान्यत् समाचरेत् ।

तेषां नित्यं तु शुश्रूषां कुर्यात् प्रियहिते रतः ॥

[२०२] तेषाम् अनुपरोधेन पारक्यं यद् यद् आचरेत् ।

तत् तन् निवेदयेत् तेभ्यो मअनोवाक्कायकर्मभिः ॥

त्रिष्व् एतेष्व् इतिकृत्यं हि पुरुषस्य समाप्यते ।

एष धर्मः परः साक्षाद् उपधर्मो ऽन्य उच्यते ॥

इदं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।

गुरुशुश्रूषया त्व् एव ब्रह्मलोकं समश्नुते ॥

विष्णुः [३२.१–३] ।

    राजर्त्विक् श्रोत्रियो ऽधर्मप्रतिषेध्य् उपाध्यायपितृव्यमातामहमातुलश्वशुर-ज्येष्ठभ्रातृसम्बन्धिनस् त्व् आचार्यवत् पूजनीयाः । पत्न्यश् च तेषां सवर्णाः । मातृष्वसा ज्येष्ठा स्वसा च ।

“अधर्मप्रतिषेधी” अधर्माद्यो निवारयति ।

शातातपः ।

अभिवाद्यो नमस्कार्यः पादयोर् वन्द्य एव च ।

गुरुर् अग्निर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥

पतिर् एको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ।

भविष्यपुराणे

ब्राह्मणं पञ्चवर्षं तु दशवर्षं तु भूमिपम् ।

पितापुत्रौ विजानीयाद् ब्राह्मणस् तु तयोः पिता ॥

इत्य् एवं क्षत्रियपिता वैश्यस्यापि पितामहः ।

प्रपितामहश् च शूद्रस्य विप्रः प्रोक्तो मनीषिभिः ॥

मनुर् विष्णुश् च ।

वित्तं बन्धुर् वयः कर्म विद्या भवति पञ्चमी ।

[२०३] एतानि मान्यस्थानानि गरीयो यद् यद् उत्तरम् ॥

वसिष्ठः [१३.५६–५७] ।

    विद्या वित्तं वयः सम्बन्धाः कर्म च मान्यम् । तेषां समवाये पूर्वः पूर्वः गरीयान् ।

गौतमः [६.२०–२४] ।

    वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानि परबलीयांसि । श्रुतं तु सर्वेभ्यो गरीयः । तमूलत्वाद् धर्मस्य । श्रुतेश् च ।

“जातिः” आभिजात्यम्, आधिक्यापादिका ब्राह्मणात्वादिर् वा ।

अत्रायं निर्णय्ः — **मनुना **वित्तं सर्वजघन्यत्वेनोक्तम्, वसिष्ठेन तु विद्यामात्रात् । तत्र च वसिष्ठोक्तं वित्तोत्कृष्टत्वं न्यायार्जितधर्मोपयोगिवित्ताभिप्रायम् । एवं मनु-गौतम-वसिष्ठेषु कर्मण उत्कृष्टत्वमध्यमत्वजघन्यत्वानि श्रद्धादिकारणोत्कृष्टत्वादि-त्रैविध्याभिप्रायेण भूयस्त्वाभिप्रायेण वा बोद्धव्यम् । गौतमेन तु विद्याया वयोजघन्यत्वेनाभिधानं पाठमात्राभिप्रायम् । तेनैव “श्रुतं सर्वेभ्यो ऽपि गरीयः” इत्य् उक्तत्वात् । “वयो” अत्र दशम्यवस्था । मनु-वसिष्ठयोश् च वयोमात्रम् ।

मनुः [२.१३७] ।

पञ्चानां त्रिषु वर्णाषु भूयांसि पुणवन्ति च ।

[२०४] यत्र स्युः सो ऽत्र मानार्हो शूद्रो ऽपि दशमीं गतः ॥

“पञ्चानां” पूर्वोक्तवित्तादीनाम् । “त्रिषु वर्णेषु” ब्राह्मणत्वादिषु । “गुणवन्ति” प्रकर्षवन्ति । “दशमी” नवत्यधिका वयोऽवस्था ।

वसिष्ठः [१३.५८–६०] ।

    स्थविरबालातुरभारिकस्त्रीचक्रवतां पन्थाः समागमे परस्मै परस्मै प्रदेयः ॥ [राजस्नातकयोः समागमे राज्ञा स्नातकाय देयः ।] सर्वैर् एव वध्वाम् उह्यमानायाम् ।

“उह्यमानायां” विवाहकाले ।

“पन्था देय” इत्य् अनुवृत्तौ मार्कण्डेयपुराणे [३४.४०–४१] ।

मूकान्धबधिराणां च मत्तस्योन्मत्तकस्य च ।

पुंश्चल्याः कृतवैरस्य बालस्य पतितस्य च ॥

“पुंश्चली” व्यभिचारिणी ।

“पन्था देय” इत्य् अनुवृत्तौ शङ्खलिखितौ

    बालवृद्धमत्तोन्मत्तोपहतदेहभाराक्रान्तेभ्यः स्त्रियै गर्भिण्यै स्नातकप्रव्रजितविद्याशिल्पगुणप्रकृष्टेभ्यः । 

[२०५] “पुपहतदेहः” पापरोगादिना । “गुणो” अत्र विद्यादि ।

देवल-बोधायनौ [बौध् २.६.३०] ।

पन्था देयो ब्राह्मणाय गवे राज्ञे ऽपचक्षुषे ।

वृद्धाय भारतप्ताय गर्भिण्यै दुरबलाय च ॥

आपस्तम्बः [२.११.५–९] ।

    राज्ञः पन्थाः ब्राह्मणेनासमेत्य । समेत्य तु ब्राह्मणस्यैव पन्थाः । यानस्य भाराभिनिहितस्यातुरस्य स्त्रिया इति सर्वैर् दातव्यः । वर्णज्यायसे चेतरैर् वर्णैः । अशिष्टपतितमत्तोन्मत्तानाम् आत्मनः स्वस्त्ययनार्थेन सर्वैर् एव दातव्यः ।

गौतमः [६.२५–२६] ।

    चक्रिदशमीस्थानुग्राह्यवधूस्नातकराजभ्यः पथो दानम् । 


    राज्ञा तु श्रोत्रियाय ।

याज्ञवल्क्यः [१.११७] ।

वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् ।

पन्था देयो नृपस् तेषां मान्यः स्नातश् च भूपतेः ।

इति मान्याः

[२०६]

॥ ११ ॥

**अथाचार्यसञ्ज्ञामाननक्रमौ **

तत्र मनुः [२.१४०] ।

उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः ।

सकलं सरहस्यं च तम् आचार्यं प्रचक्षते ॥

“कल्पः” प्रत्यक्षवेदमूलको ऽनुष्ठानप्रतिपादको ग्रन्थः । कल्पग्रहणम् अङ्गोपलक्षणार्थम् । “रहस्यं” उपनिषत् । प्रधानत्वात् पृथगभिधानम् ।

वसिष्ठः [३.२१] ।

उपनीय तु यः कृत्स्नं वेदम् अध्यापयेत् स आचार्यः ।

कृत्स्नशब्दो ऽत्र साङ्गत्वपरः । मन्त्रब्राह्मणसमूहस्य वेदपदेन लक्ष्यत्वात् ।

मनुः [२.१४१–१४२] ।

एकदेशं तु वेदस्य वेदाङ्गान्य् अथ वा पुनः ।

यो ऽध्यापयति वृत्त्यर्थम् उपाध्यायः स उच्यते ॥

निषेकादीनि कर्माणि यः करोति यथाविधि ।

सम्भावयति चान्नेन स विप्रो गुरु उच्यते ॥

“वृत्त्यर्थं” आत्मजीवनार्थम् “ । “निषेकादीनि” वेददानपर्यन्तानि संस्कारकर्माणि । “सम्भावयति” संवर्धयति ।

[२०७] तथा [२.१४९] ।

अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।

तम् अपीह गुरुं विद्याच् छ्रुतोपक्रियया तथा ॥

याज्ञवल्क्यः [१.३४] ।

स गुरुर् यः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति ।

उपनीय ददद् वेदम् आचार्यः स उदाहृतः ॥

**यमः **।

सत्यवाग् धृतिमान् दक्षः सर्वभूतदयापरः ।

आस्तिको वेदनिरतः शुचिर् आचार्य उच्यते ॥

वेदाध्ययनसम्पन्नो वृत्तवान् विनितेन्द्रियः ।

इत्य् एतैर् लक्षणैर् युक्तो गुरु भवति नित्यशः ॥

“आचार्य उच्यते” आचार्यवत् पूज्यो भवति । “गुरुर् भवति” गुरुवत् पूज्यो भवतीत्य् अर्थः ।

भविष्ये

उपाध्यायान् दशाचार्य आचार्याणां शतं पिता ।

सहस्रं तु पितुर् माता गौरवेणातिरिच्यते ॥

कृत्वोपाध्यायम् आदौ तु ये पूज्याः कथितास् तव ।

महागुरु महाबाहो सर्वेषाम् अधिकः स्मृतः ॥

“सर्वेषाम् अधिकः” सर्वेभ्यः पूज्यतमः । स च “महागुरुः” “अष्टादश पुराणानि” इत्यादिना वक्ष्यमाणश्लोकैर् ऊहितः । सर्वज्ञत्वेन सहस्रशतसङ्ख्याकाचार्याणाम् इदं मतम् ।

[२०८] अष्टादश पुराणानि रामस्य चरितं तथा ।

विष्णुधर्मादिशास्त्राणि शिवधर्माश् च भारत ॥

कार्ष्णं च पञ्चमं ज्ञेयं यन् महाभारतं स्मृतम् ।

सौराश् च धर्मा राजेन्द्र मानवोक्ता महीपते ॥

जयेति नाम एतेषां प्रवदन्ति मनीषिणः ।

एवं विप्रकदम्बस्य वाचकः प्रवरः स्मृतः ॥

चतुर्णाम् अपि वर्णानां स महागुरुर् उच्यते ।

यस् त्व् एतानि समस्तानि पुराणानीह जानते ॥

भारतं च महाबाहो सर्वज्ञो ऽसौ मतो नृणाम् ।

तस्मात् स पूज्यो राजेन्द्र वर्णैर् विप्रादिभिः सदा ॥

किं त्वया न श्रुतं वाक्यं यथाह भगवन् विभुः ।

अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ॥

तम् अपीह गुरुं विद्याच् छ्रुतोपक्रियया तया ।

मनुः [२.१४३] ।

अग्न्याधेयं पाकयज्ञान् अग्निष्टोमादिकान् मखान् ।

यः करोति वृतो यस्य स तस्यर्त्विग् इहोच्यते ॥

हारीतः

क्षीरहोता आहार्यवृतो विशेषवृत इति ।

श्रोत्रियो ऽस्याग्नीन् आधत्ते स “क्षीरहोता” । तस्यालाभे ऽन्यं नित्यर्थं वृणीते स “आहार्यवृतः” । अथ यान् अन्यान् उत्तरोत्तरेषु क्रतुषु वृणीते स “विशेषवृतः” ।

मनुः [२.१४५] ।

उपाध्यायान् दशाचार्य आचार्याणां शतं पिता ।

[२०९] सहस्रं तु पितुर् माता गौरवेणातिरिच्यते ॥

गौतमः [२.५७–५८] ।

आचार्यः श्रेष्ठो गुरूणाम् । मातेत्य् एके ।

शङ्खलिखितौ

    न मातापित्रोर् अन्तरं गच्छेत् पुत्रः । कामं मातुर् एवानुब्रूयात् । सा हि धारणी पोषणी च । न पुत्रः प्रतिमुच्येतान्यत्र सौत्रामणीयागाच् जीवन्न् ऋणान् मातुः ।

“मातापित्रोः” विवादे सति “न अन्तरं गच्छेत्” औदासीन्यं कुर्याद् इत्य् अर्थः । “कामम्” यदीच्छेत्, “अनुब्रूयात्” मातुर् एवानुकूलं वदेत् ।

मातापित्रधिकारे नारदः

तयोर् अपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।

अभावे बीजिनो माता तदभावे तु पूर्वजः ॥

मनु-विष्णू [मनु २.१४६–४८, १५०; विष्णु ३०.४४–४६] ।

उत्पादकब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता ।

ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥

कामान् माता पिता चैव यद् उत्पादयतो मिथः ।

सम्भूतिं तस्य तां विद्याद् यद् योनाव् अभिजायते ॥

[२१०] आचार्यस् तस्य यां जातिं विधिवद् वेदपारगः ।

उत्पादयति सावित्र्या सा सत्या साजरामरा ॥

ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।

बालो ऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥

यमः

न जन्मना न पलितैर् द्विजैः स्थविर उच्यते ।

यो वै युवाप्य् अधीयानस् तं देवा स्थविरं विदुः ॥

न बन्धुभिर् न वित्तेन पलितैर् नैव हायनैः ।

ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान् ॥

अज्ञो हि बालो भवति पिता भवति मन्त्रदः ।

अज्ञं हि पुत्रम् इत्य् ऊचुर् पितरं मन्त्रदायिनम् ॥

[मनुः [१.१५३]

अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।

अज्ञं हि पुत्रम् इत्य् ऊचुः पितरं मन्त्रदायिनम् ॥

मनु-विष्णू [मनु २.१५५; विष्णु ३२.१८] ।

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।

वैश्यानां धान्यधनतः शूद्राणाम् एव जन्मतः ॥

[२११]

॥ १२ ॥

अथ गुर्वाचार्यानुवृत्तिः

तत्र आपस्तम्बः [१.५.२३–२६; १.६.१–३७; १.७.१–२] ।

    सर्वाह्णं सुयुक्तो ऽध्ययनाद् अनन्तरो ऽध्याये । तथा गुरुकर्मसु । मनसा चानध्याये । आहूताध्यायी च स्यात्। सदा निशायां गुरुं संवेशयेत् तस्य पादौ प्रक्षाल्य संवाह्य । अनुज्ञातः संविशेत् । अन् चैनम् अभिप्रसारयीत । न ख्ट्वायां सतो ऽभिप्रसारणम् अस्तीत्य् एके । न चास्य सकाशे संविष्टो ऽभिभाषेत । अभिभाषितस् त्व् आसीनः प्रतिब्रूयात् । अनूत्थाय तिष्ठन्तम् । गच्छन्तम् अनुगच्छेत् । धावन्तम् अनुधावेत् । न सोपानद्वेष्टितशिरा अवहितपाणिर् वा सीदेत् । देवम् इवाचार्यम् उपासीताविकथयन्न् अविमना वाचं शुश्रूषमाणो ऽस्य । अनुपस्कृतः । अनुवाति वीतः । अप्रतिष्ठब्धः पाणिना । अनपाश्रितो ऽन्यत्र । यज्ञोपवीती द्विवस्त्रः । अधोनीवीतस् त्व् एकवस्त्रः । अभिमुखो ऽनभिमुखम् । अनासन्नो ऽनतिदूरे च । यावद् आसीनो बाहुभ्यां पाप्नुयात् । अप्रतिवातम् । एकाध्यायी दक्षिणं बाहुं प्रत्युपसीदेत् । यथावकाशं बहवः । तिष्थति नासीतानासनयोगविहिते । आसीने च न संविशेत् । **[२१२]** चेष्टति च चिकीर्षंस् तच्छक्तिविषये । न चास्य सकाशे ऽन्वक्स्थानिनम् उपसङ्गृह्णीयात् । गोत्रेण वा कीर्तयेत् । न चैनं प्रत्युपतिष्ठेद् अनूत्तिष्ठेद् वापि चेत् तस्य गुरुः स्यात् । देशात् त्व् आसनाच् च संसर्पेत् । नाम्ना तदन्तेवासिनं गुरुम् अप्य् आत्मन इत्य् एके । यस्मिंस् त्व् अनाचार्यसम्बन्धाद् गौरवं वृत्तिस् तस्मिन्न् अन्वक्स्थानीये ऽप्य् आचार्यस्य । भुक्त्वा चास्य सकाशे नानूत्थायोच्छिष्टं प्रयच्छेत् । आचार्याय वा पर्यवदध्यात् । आचामेद् वा । किं करवाणीत्य् आमन्त्र्य । उत्तिष्ठेत् तूष्णीं वा । नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्यापेयत् ।

अयम् अर्थः । “अनन्तरः” अव्यवहितः वेदाध्ययनात् । “अध्याये” अध्ययनार्हे दिने । “तथा” इति गुरुकर्मस्व् अभियुक्तो ऽनन्तरश् च स्याद् इत्य् अतिदिश्यते । “मनसा चानध्याये” इति, अनध्यायेतर इत्य् अनुषज्यते । अनेन मानसमभ्यासं कुर्याद् इत्य् अर्थः । “आहूताध्यायी स्यात्” आचार्येणाध्ययनार्थम्** [२१३]** आहूत एवाधीयीत । एतस्य कर्म करोमीति बुद्ध्याध्ययनार्थं प्रेरयेद् इत्य् अर्थः । “संवेशयेत्” शाययेत् । “संवाह्य” सम्मृद्य । “एनं” गुरुम् । “अभिप्रसारयीत” पादाव् इत्य् अनुषज्यते । तेन “खञ्व्यां” इति अनन्तरोक्तपादप्रसारणवर्णन-निषेधः । अतः “खट्वायां” प्रतिब्रूयाद् इत्य् अनुषङ्गः । “अनवहितपाणिः” दण्डाद्युपरुद्ध-पाणिः । “अध्वापन्नस् तु” इति, अत्र सोपानत्कादिर् अप्य् आसीदेद् इत्य् अर्थः । “न चेद् उपासीदेत्” यदि तदीयाज्ञाग्रहणविज्ञापनाय प्रवृत्तो न भवेत् । “अनुपस्थकृतः” इतरचरणव्यत्यासेनानुप-विष्टः । “अनुवाति” वाते इति शेषः । “वीतः” विगतयच्चिह्नो, वाति वायौ गुरोस् तस्यां दिशि न तिष्ठेद् इत्य् अर्थः । “अप्रतिष्ठब्धः” पाणिना भूम्यादाव् अकृतालम्बः । “अनपाश्रितो ऽन्यत्र” अन्यत्र कुड्यादौ, अनाश्रितपृष्ठपार्श्वः । “यज्ञोपवीती द्विवस्त्रः” सन् यज्ञोपवीतदुपरि वस्तं दद्यात् । “अधोनिवीतः” अधो वस्त्रस्यैकदेशेणानावृत्तः । “यावद् आसीनो बाहुभ्यां प्राप्नुयात्” तावद् आसीदेद् इत्य् अन्वयः । “चेष्टति” चेष्टां कुर्वति आचार्ये, “तच्छक्तिविषये” तस्मिन् शक्तिविषये शक्ये, “चिकीर्षेत्” । “अन्वक्स्थानिनं” आचार्यान्यूनम् । “गोत्रेण” न नाम्ना । “एनं” अन्वक्स्थानिनम् । “अपि चेत् तस्य गुरुः स्यात्” तस्य ब्रह्मचारिणः । “नाम्ना तदन्तेवासिनम्” इत्य् अत्र “न कीर्तयेत्” इत्य् अन्वयः । “नाम्ना” पूज्यनाम्ना । “यस्मिंस् त्व् अनाचार्यसम्बन्धाद् गौरवं वृत्तिः” इति, यस्मिन् द्विजोत्तमे, “नाचार्ये” आचार्यसम्बन्धाद् विना, विद्योपादानाद् बहुश्रुतत्वाद् [२१४] वयोऽधिकत्वात् स्वकर्मानुष्ठानात् “गौरवं” प्रसिद्धं लोके, “तस्मिन्न् अन्वक्स्थानीये ऽप्य् आचार्यस्य” “वृत्तिः” शुश्रूषा यथाचार्ये तथा तस्मिन् कर्तव्या इत्य् अर्थः । “भुक्त्वा चास्य” इति, आचार्यसकाशे भुक्त्वा “नानूत्थायोच्छिष्टं प्रयच्छेत्” । “आचार्याय वा पर्यवदध्यात्” इति, ब्रह्मचारिणाचार्याय भुक्तशिष्टं समर्पणविहितं तन् नानूत्थितेन कर्तव्यम् । “नापपर्यावर्तेत” कार्यवत्तया गन्तुम् इच्छन् पृष्ठं दर्शयन् न गच्छेत् । किं तु “प्रदक्षिणीकृत्य” “अपेयात्” ।

गौतमः [२.२९–३९] ।

    नामगोत्रे गुरोः समानतो निर्दिशेत् । अर्चिते श्रेयसि चैवम् । शय्यासनस्थानानि विहाय प्रतिश्रवणम् । अभिक्रमणं वचनाद् अदृष्टेन । अधःस्थानासन-तिर्यग्वातसेवायां गुरुदर्शने चोत्तिष्ठेत् । गच्छन्तम् अनुव्रजेत् । कर्म विज्ञाप्याख्याय । आहूताध्यायी । युक्तः प्रियहितयोः ।

“समानतः” सम्यग् आनतः । “श्रेयान्” विद्यादिभिर् उत्कृष्टः । स यदि लोके अर्चितो भवति तदा गुरौ यद् यद् उक्तम् अभिवादनादि तत् सर्वं शब्दातिदिष्तं कर्तव्यम् । “स्थानं” अवस्थानम्, तद् “विहाय” किञ्चिद् उपसृत्येत्य् अर्थः । “प्रतिश्रवणं” अत्र गुरोर् आज्ञाङ्गीकरणम् । “अभिक्रमणं वचनाद् अदृष्टेन” “अदृष्टेन” गुरुणा “वचनात्” आज्ञादानात् “अभिक्रमणं” आभिमुख्येन गमनम् । कार्यम् इति शेषः । “तिर्यग्वातसेवा” मूत्रपुरीषोत्सर्ग इति कपर्दी । “उत्तिष्ठेत्” तस्मात् स्थानात् स्थानान्तरं गच्छेत् । “कर्म विज्ञाप्याख्याय” अनेन शिष्येणाचार्यस्य कर्म कर्तव्यम्, तत् करोमीति [२१५] विज्ञाप्य, कृत्वा चाप्य् आख्याय तिष्ठेद् इत्य् अर्थः । “युक्तः” अभियुक्तः, स्याद् इति शेषः । “प्रियं” आपातप्रियकरणम् । “हितं” परिणतिसुखकरणम् ।

मनुः [२.१९१–२०३] ।

चोदितो गुरुणा नित्यम् अप्रचोदित एव वा ।

कुर्याद् अध्ययने योगम् आचार्यस्य हितेषु च ॥

शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ।

नियम्य प्राञ्जलिस् तिष्ठेद् वीक्ष्यमाणो गुरोर् मुखम् ॥

नित्यम् उद्यतपाणिः स्यात् शध्वाचारः सुसंयतः ।

आस्यताम् इति चोक्तः सन्न् आसीताभिमुखो गुरोः ॥

प्रतिश्रवणसम्भाषे शयानो न समाचरेत् ।

नासीनो न च भुञ्जानो न तिष्ठन् न पराङ्मुखः ॥

आसीनस्य स्थितः कुर्याद् अभिगच्छंस् तु तिष्ठतः ।

प्रत्युद्गम्य त्व् आव्रजतः पश्चाद् धावंस् तु धावतः ॥

पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्तिकम् ।

प्रणम्य तो शयानस्य निदेशे चैव तिष्ठतः ॥

नीचं शय्यासनं चाश्य सर्वथा गुरुसन्निधौ ।

गुरोस् तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥

नोदाहरेद् अस्य नाम परोक्षम् अपि केवलम् ।

न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम् ॥

गुरोर् यत्र परीवादो निन्दा वाभिप्रवर्तते ।

कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः ॥

[२१६] परीवादात् कह्रो भवति श्वा वै भवति निन्दकः ।

सदोषकीर्तनं “परीवादः” । इतरत् “निन्दा” । “परीवादात्” परीवादश्रावणात्, तस्य निषिद्धत्वेन निन्दाविषयत्वात् । पूर्वोक्तनिषेधश् चायम् अर्थवाद इति मेधातिथिः

परिभोक्ता कृमिर् भवति कीटो भवति मत्सरी ॥

दूरस्थो नार्चयेद् एनं न क्रुद्धो नान्तिके स्त्रियाः ।

यानासनस्थश् चैवैनम् अवरुह्याभिवादयेत् ॥

प्रतिवाते ऽनुवाते च नासीत गुरुणा सह ।

असंश्रवे चैव गुरोर् न किञ्चिद् अपि कीर्तयेत् ॥

तथा [२.२१८] ।

यथा खनन् खनित्रेण नरो वार्य् अधिगच्छति ।

तथा गुरुगतां विद्यां शुश्रूषुर् अधिगच्छति ॥

“असंश्रवे” यस्मिन् देश्ē उच्यमानं व्यक्तं न श्रूयते ।

भविष्यपुराणे

आवृण्वृत्ति गुरौ राजन् न किञ्चिद् अपि कीर्तयेत् ।

“आवृण्वृत्ति” रहस्यं प्रच्छादयति ।

शङ्खलिखितौ

    उपशिक्षितानि चास्य न कुर्वीतान्यत्राचारात् । न वाशिष्टकथाभिर् अभिवदेत् ।

“उपशिक्षितानि” गुरोः सकाशात्, गुरुणा अकथितान्य् अपि स्वयम् एव ज्ञातानि तदीयगतिभाषित-चेष्टितानि [२१७] अस्य गुरोः न कुर्वीत । “न वाशिष्टकथाभिर् अभिवदेत्” न गुरुभिर् अनुपदिष्टानाम् कथाभिः स्तोताभिमुख्ये वदेत् ।

हारीतः

    ऊर्ध्वरेताः गुरुणादिष्टानि व्रतानि समुद्वहन् गुरुशुश्रूषां कुर्याद् इति । अथोदकुम्भकुशपुष्पसमिन्मूलफलाहरणं सम्मार्जनोपलेपनाङ्ग-शुश्रूषाप्रभृतिभिर् गच्छन्तं तिष्ठन्तं शयानं भक्त्यानुवर्तेत । सर्वदा सर्वकारी । व्रती । नास्य निर्माल्यशयनासने छायापादुके वाक्रामेत् ।

“ऊर्ध्वरेताः” वर्जितरेतःस्कन्दनः । “अङ्गशुश्रूषा” अङ्गसंवाहनक्रिया । “सर्वकारी” सर्वोचितकारी ।

पैठीनसिः

    दन्तकाष्ठशयनासनास्तरणसंवाहनप्रियवचनादिभिः गुरुं परितोषयेत् ।

आपस्तम्बः [१.२.१९–२०] ।

    आचार्याधीनः स्याद् अन्यत्र पतनीयेभ्यः । हितकारी गुरोर् अप्रतिलोमयन् वाचा ।

“अप्रतिलोमयन् चावा” इति, गुरुप्रतिकूलां वाचम् अवदन् ।

शङ्खः

न स्नानेन न होमेन नैवाग्निपरिचर्यया ।

ब्रह्मचारी दिवं याति स याति गुरुपूजनात् ॥

हितप्रिये गुरोः कुर्याद् भक्त्याहङ्कारवर्जितः ।

[२१८] यमः

अनापृच्छ्य गुरुं चैव न गन्तव्यं कदाचन ।

यत् तु शिष्येण कर्तव्यं कार्यं दासेन वा पुनः ॥

आचार्ये तु वसंश् छिष्यो गुरुकार्येषु तत्परः ।

दर्भेन्धनपरो नित्यम् अग्निकार्यापरः शूचिः ॥

कृताञ्जलिर् गुरुं ब्रूयाद् अध्येष्ये भगवन्न् अहम् ।

“दासेन वा” इति, दासकर्म अपि शिष्येण कर्तव्यम् ।

“वर्जयेत्” इत्य् अनुवृत्तौ गौतमः [२.२०–२१] ।

    गुरुदर्शने कण्ठप्रावृतावसक्थिकापाश्रयणपादप्रसारणानि । निष्ठीवितहसितविजृम्भितावस्फोटनानि ।

“कण्ठप्रावृतं” कण्ठावरणम् । “अवसक्थिका” जानुनोर् उपरि करबन्धः । “अवस्फोटनं” अङ्गुल्याद्यङ्गस्फोटनम् ।

विष्णुः [३२.१०–१२] ।

    न च गुरुणा सह विगृह्यकथाः कुर्यात् । न चैवास्य परीवादम् । न चैवानभिप्रेतम् ।

“विगृह्यकथा” विजिगीषुकथा ।

नारदः [प्। १४२, वेर्से ८] ।

आ विद्याग्रहणाच् छिष्यः शुश्रूषाप्रयतो भवेत् ।

[२१९] आपस्तम्बः [१.४.२२–२८] ।

    स्वप्नं च वर्जयेत् । अथाहर् अहर् आचार्यं गोपायेत् धर्मार्थयुक्तैः कर्मभिः । स गुप्त्वा संविशन् ब्रूयात् “धर्म गोपाय मा जुगुपम् अहम्” इति । प्रमादाद् आचार्यस्य बुद्धिपूर्वं वा नियमातिक्रमं रहसि बोधयेत् । अनिवृत्तौ स्वयं कर्माण्य् आरभेत् । निवर्तयेद् वा । अथ यः पूर्वोत्थायी जघन्यसंवेशी तम् आहुर् न स्वपितीति । स य एवं प्रणिहितात्मा ब्रह्मचार्य् अत्रैवास्य सर्वाणि कर्माणि फलवन्त्य् अवाप्तानि भवन्ति । यान्य् अपि गृहमेधे ।

“स्वप्नं च वर्जयेत्” इति । “गोपायेत्” पूर्वं परतश् चेति शेषः, “अथ यः पूर्वोत्थायी जघन्यसंवेशी तम् आहुर् न स्वपितीति” इत्य् अग्रे विधानात् । “धर्मार्थयुक्तैः” धर्मोपयोगिभिः समित्पुष्पकुशाद्याहरणप्रभृतिभिः अर्थोपयोगिभिः ग्रासाहरणादिभिः । धर्मगोपाय मा जुगुप्सम् अहम् इति माङि लुङ् । ततो ऽयम् अर्थः । एवम् आचार्यम् अहं रक्षाम्य् अथ मां धर्मरक्षेति । “नियमातिक्रमः” अतिथिपूजाद्यकरणादि ।

पैठीनसिः

धृतिमान् अलाभो श्लाधाम् अन्यत्र गुरवे निवेदयेत् ।

“इदं कृतम् इदं करिष्य” इति निवेदयेत् ।

बौधायनः [१.३.२१–२२] ।

    सत्यवादी ह्रीमान् अनहङ्कारः । पूर्वोत्थायी जघन्यसंवेशी । सर्वत्राप्रतिहतगुरुवाक्यो ऽन्यत्र पातकात् ।

[२२०] मनुः [२.१९४] ।

हीनान्नवस्त्रवेषः स्यात् सर्वदा गुरुसन्निधौ ।

आपस्तम्बः [१.७.३१; १.८.१–२२] ।

    समावृत्तस्याप्य् एतद् एव सामयाचारिकम् एतेषु । यथा ब्रह्मचारिणो वृत्तम् । माल्यालिप्तमुख उपलिप्तकेशश्मश्रुर् अक्तो ऽभ्यक्तो वेष्टित्य् उपवेष्टिती काञ्चुक्य् उपानही पादुकी । उदाचारेषु चास्यैतानि न कुर्यात् कारयेद् वा । स्वैरिकर्मसु च । यथा दन्तप्रक्षालनोत्सादनावलेखनानि । तद्द्रव्याणां च न कथयेद् आत्मसंयोगेनाचार्यः । स्नातकस् तु काले यथाविध्य् अभिहृतम् आहूतो ऽभ्येतो वा न प्रतिसंहरेद् इत्य् एके । उच्चैस्तरां नासीत । तथा बहुपादे । सर्वतः प्रतिष्ठिते । शय्यासने ऽध्याचरिते नाविशेत् । यानयुक्तो ऽध्वन्य् अन्वारोहेत् । सभानिकषकटस्वस्तरांश् च । नानभिभाषितो गुरुम् अभिभाषेत प्रियाद् अन्यत् । व्युपतोदव्युपजापव्यभिहासोदामन्त्रणनामधेयग्रहणप्रेषणानीति गुरोर् वर्जयेत् । आपद्य् अर्थं ज्ञापयेत् । सह वसन् सायं प्रातर् अनाहूतो गुरुं दर्शनार्थो गच्छेत् । विप्रोष्य च तद् अहर् एव पश्येत् । आचार्यप्राचार्यसन्निपाते प्राचार्यायोपसङ्गृह्योपसञ्जिघृक्षेद् आचार्यम् । प्रतिषेधेद् इतरः । लुप्यते पूजा चास्य सकाशे । मुहूंश् चाचार्यकुलं दर्शनार्थो गच्छेद् यथाशक्त्य् अधिहस्त्यम् आदायापि दन्तप्रक्षालनानीति ।

अयम् अर्थः — “ब्रह्मचारिणो समावृत्तस्य यथा” “वृत्तं” वर्तनम् अनुष्ठानम् “एतद् एव समावृत्तस्यापि सामयाचारिकम्” । “समावृत्तस्य” विवाहात् प्राक् सामर्थ्यात् सह वसतः । “माली” माल्यवान् । “आलिप्तमुखः” समन्ताच् चन्दनाद् [२२१] आलिप्तमुखः । “उपलिप्तकेशश्मश्रुः” उपशब्दो ऽत्र सम्यगर्थे कर्तनादिना सम्यक् कृते केशश्मश्रुणी यस्य सः । “अक्तः” कृतनेत्राञ्जनः । “अभ्यक्तः” कृताभ्यङ्गः । “वेष्टितिः” कृतकटिवेष्टनः । “कञ्चुकी” कूर्पासकवान् । “उपानही” “पादुकी” इति च प्रसिद्धम् । “उदाचारेषु” उत्कृष्टरूपाचारेषूपसङ्ग्रहणादिष्व् अस्य गुर्वादेः क्रियमाणेषु एतानि मालित्वादीनि न कुर्यात् स्वम्, अन्येन वा न कारयेद् आत्मनि । चशब्दस् तु शब्दार्थे वर्तमानो मालित्वादीनाम् अपवादम् आह । “स्वैरिकर्मसु च” आत्मविषयेषु एतानि मालित्वादीनि न कुर्यात् कारयेद् वा । स्वैरिकर्माण्य् आह — “यथा दन्तप्रक्षालनादीनि” इत्यादिना । “अवलेखनं” कङ्कतकादिना केशप्रसाधनम् । अत्र प्रसङ्गेनाचार्यस्य धमम् आह — “तद् द्रव्याणां” अन्तेवासिनो वस्त्रादिद्रव्याणाम् । “आत्मसंयोगेन” आत्मसंयोगो ऽत्रे स्वस्वाभिभावसम्बन्धः, तेन हेतुना । “न कथयेत्” कथां न कुर्यात् । लिप्तस्य तदीयगुणकथां न कुर्याद् इत्य् अर्थः । पुनः समावृत्तधर्मान् आह “स्नातकस् तु काल” इत्यदिना । समावर्तनकाले “यथाविध्य् अभिहृतं” समन्त्रकं यद् गृहीतं छत्रस्रगनुलेपनकुण्डलादि तदभिहृतः । “अथाहूतो” गुरुणा स्वयं वा गुरुं प्रति “अभ्येतः” गतः “न प्रतिसंहरेत्” स्वशरीराद् इति “एके” आचार्या आहुः । “बहुपादे” असङ्घादौ । [२२२] “अध्याचरिते” उपभुक्ते । “यानयुक्तो अध्वन्य् अन्वारोहेत्” “यानम् आरोह” इति गुरुणोक्तो अध्वनि पश्चाद् आरोहेत् । “सभानिकषे” गुरुणा आरोहेद् इत्य् अन्वयः । “सभा” जनमेलकस्थानम् । “कटः” काष्ठादिघटितं निष्कृष्टमृत्तिकाक्षेत्रसमीकरणकाष्ठम् । “व्युपेतोदो” विविधम् अङ्गुल्यादिना तोदनम् । “व्युपजापो” विविधः समीपे कर्णेजापः । “व्यभिहासः” गुरोर् आभिमुख्येन परिहासः । “उदामन्त्रणं” उच्चैर् अदूरे ऽबधिरे गुराव् आह्वानम् । “नामकरणं” पित्रादिकृतस्य नाम्नो ग्रहणं निषिद्धम्, नान्यस्य पूज्यनाम्नः । शिष्टाचारे तथा दर्शनात् । “आपद्यर्थं ज्ञापयेत्” “आपदि” पीडायाम् । “अर्थं” प्रयोजनम् । प्रयतस्य प्रकारान्तरेण ज्ञापयेद् आचार्यम् । “तद् अहर् एव” इति, अहर्ग्रहणम् उपलक्षणार्थम् । रात्राव् अपि तदानीम् एव गच्छेत् । “उपसञ्जिघृक्षेत्” उपसङ्ग्रहणेच्छां प्रकटीकुर्यात् पाणिप्रसारणादिना । “इतरः” आचार्यः । “अस्य” आचार्यस्य । “दर्शनार्थो गच्छेत्” इति, सामर्थ्यात् समावृत्तविषयम् एव । “अधिहस्त्यं” अधिहस्ते भवमूलफलादीनि स्वयम् एव हस्ते गृहीत्वा गच्छेद् इत्य् अर्थः ।

गुर्वनुवृत्तौ शङ्खलिखितौ

    आसनशयनेषु नैकस् तिष्ठेद् अन्यत्र यज्ञसंस्तरशिबिकावाहन-शकटोपयानाभ्युदयेभ्यः । 

“उपयानं” शव एवानुगतः । “अभ्युदयः” विवाहादाव् उपकर्ताध्वरि तिष्ठन् ।

[२२३] मनुः [२.२०४] ।

गोऽश्वोष्ट्रयानप्रासादसंस्तरेषु कटेषु च ।

आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥

बौधायनः [१.३.३५] ।

नौशिलाफलककुञ्जरप्रासादकटकेषु चक्रवत्सु वादोषं सहासनम् ।

“चक्रवत्सु” शकटादिषु ।

आपस्तम्बः [१.७.२०–२३] ।

    विषमगते त्व् आचार्य उग्रतः शूद्रतो वाहरेत् । सर्वदा शूद्रत उग्रतो वाचार्यार्थस्याहरणं धर्म्यम् इत्य् एके । दत्वा नानुकथयेत् । कृत्वा च नानुस्मरेत् ।

“विषमगतः” आपद्गतः ।

हारीतः

अज्ञानपङ्कदिग्धं वै गुरुः शिष्यं तमोहतम् ।

द्रुतं प्रक्षालयति संस्कारज्ञानवारिणा ॥

ऋचं वापदि वार्धर्चं पादं वा यदि वाक्षरम् ।

सकाशाद् यदि गृह्णीयान् नियतं तत्र गौरवम् ॥

गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।

उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥

नाध्यापयति नाधीते परनीयेषु वर्तते ।

इत्य् एतैर् लक्षणैर् युक्तस् त्यक्तव्यो व्रतिना गुरुः ॥

सम्यक् प्रवृत्तन्तु गुरुं शिष्यो यस् त्व् अवमन्यते ।

हरते दुष्कृतं चास्य तिर्यग्योनिं च गच्छति ॥

[२२४] आपस्तम्बः [१.१४.२–४] ।

    अध्ययनार्थेन यं चोदयेन् न चैनं प्रयाचक्षीत । न चास्मिन् दोषं पश्येत् । यदृच्छायाम् असम्वृत्तौ गतिर् एव तस्मिन् ।

मनुः [२.१४४] ।

य आवृणोत्य् अवितथा कर्मणा श्रवणाव् उभौ ।

स माता स पिता ज्ञेयस् तं न द्रुह्येत् कदाचन् ॥

विष्णुः [३०.४३] ।

लौकिकं वैदिकं चैव तथाध्यात्मिकम् एव च ।

आददीत यतो ज्ञानं तं न द्रुह्येत् कदाचन ॥

वसिष्ठः [२.१०–११] ।

य आवृणोत्य् अवितथेन कर्णाव्

	अदुःखं शृण्वन्न् अमृतं सम्प्रयच्छन् ।

तं मन्येत् पितरं मातरं च

	तस्मै न द्रुह्येत् कतमच्चनाह ॥

अध्यापिता ये गुरुं नाद्रियन्ते

	विप्रा वाचा मनसा कर्मणा वा ।

यथैव ते न गुरोर् भोजनीयास्

	तथैव तान् न भुनक्ति श्रुतं तत् ॥

[२२५]

तथातिदेशः

तत्र विष्णुः [३२.१–२] ।

    राजर्त्विक्श्रोतियाधर्मप्रतिषेध्युपाध्यायपितृव्यमातामहमातुलश्वशुर-गुरुज्येष्ठभ्रातृसम्बन्धिनस् त्व् आचार्यवत् पूजनीयाः । पत्न्यश् चैतेषां सवर्णाः ।

मनुः [२.२०५–२०७] ।

गुरोर् गुरौ सन्निहिते गुरुवद् वृत्तिम् आचरेत् ।

न चानिसृष्टो गुरुणा स्वान् गुरून् अभिवादयेत् ॥

विद्यागुरुस् त्व् एतद् एव नित्या वृत्तिः स्वयोनिषु ।

प्रतिषेधत्सु चाधर्मान् हितं चोपदिशत्स्व् अपि ॥

श्रेयःसु गुरुवद् वृत्तिं नित्यम् एव समाचरेत् ।

गुरुपुत्रेषु वार्येषु गुरोश् चैव स्वबन्धुषु ॥

“गुरोः” उपनीय वेददातुः । “गुरुवत्” एवंरूपम् एव । “अनिसृष्टः” अनादिष्टः । “स्वान्” गुरुपुत्रादीन् । “विद्यागुरुः” उपाध्यायः । “नित्या” सार्वकालिकी । “स्वयोनिषु” पितृव्यादिषु । “श्रेयःसु” विद्यातपःसमृद्धेषु । “आचारेषु” त्रैवर्णिकेषु ।

आपस्तम्बः [१.१४.५–९] ।

    मातरि पितर्य् आचार्यवच् छुश्रूषा । समावृत्तेन सर्वे गुरव उपसङ्ग्राह्याः । प्रोष्य च समागमे । भ्रातृषु भगिनीषु च यथापूर्वम् उपसङ्ग्रहणम् । नित्या च पूजा यथोपदेशम् ।

“यथापूर्वं” यथाज्यैष्ठ्यम् । “यथापदेशं” सव्येन सव्य इत्याद्युक्तप्रकारेण ।

[२२६] पुनः आपस्तम्बः [१.१३.१२–१८] ।

    न बहिर्वेदे गतिर् विद्यते । समादिष्टम् अध्यापयन्तं यावद् अध्ययनम् उपसम्गृह्णीयात् । नित्यम् अर्हन्तम् इत्य् एके । न गतिर् विद्यते । वृद्धानां तु । ब्रह्मणि मिथो विनियोगे न गतिर् विद्यते । ब्रह्म वर्धत इत्य् उपदिशन्ति ।

“न बहिः” इति, यद् वेदाद् बहिर्भूतं बौद्धादिशास्त्रं तद् यस्माद् अपयानं तस्य गतिर् न विद्यते । “गतिः” इति स्मार्तानां दिक् । शुश्रूषायां “समादिष्टः” आचार्येण प्रयोजनान्तरव्यपेक्षेण “समादिष्टम् अध्यापयन्तं यावद् अध्ययनम् उप्सङ्गृह्णीयात्” नान्यदा । “अर्हन्तम्” इतरं समावृत्तेन क्रियमाणम् अभिवादनं यो ऽर्हति तम् अर्हन्तं, समादिष्टाध्ययनाद् आरभ्य विनाप्य् अध्ययनेन नित्यं समावृत्तो ऽप्य् उपसङ्गृह्णीयात् । “न गतिर् विद्यते वृद्धानां तु” इति, अधिकवयसम् अन्तेवासिनं विद्यागुरुर् आत्मशुश्रूषणां न कारयेद् इत्य् अर्थः । “ब्रह्मणि” वेदे “मिथो विनियोगे” प्रदेशभेदेन परस्पराध्यापने सति “न गतिर् विद्यते” न शुश्रूषास्ति । “ब्रह्म वर्धत इत्य् उपदिशन्ति” इति, ब्रह्मवर्धत इति हेतोः शुश्रूषम् उपदिशन्त्य् आचार्याः । सा चेह ब्रह्मवृद्धिः परस्पराध्ययनाद् एव सिद्ध्यतीति पृथक् शुश्रूषा न कार्या ।

[२२७]

॥ १३ ॥

अथ गुरुपुत्रभात्यानुवृत्तिः

तत्र मनुः [२.२०८–२०९] ।

बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि ।

अध्यापयन् गुरुसुतो गुरुवन् मानम् अर्हति ॥

“यज्ञकर्मणि” यज्ञ्कर्मप्रतिपाद्यत्वेन यस्य वेदस्य तस्मिन् यः शिष्यः तं अध्यापयन् गुरुसुतो गुरुवन् मानम् अर्हति ।

उत्सादनं गात्राणां स्नापनोच्छिष्टभोजने ।

न कुर्याद् गुरुपुत्रस्य पादयोश् चावनेजनम् ॥

“अध्याप्य तं” वेदान्तरं तत्प्रदेशान्तरं वा । “उत्सादनं” उद्वर्तनम् । “अवनेजनं” प्रक्षालनम् ।

“आचार्यवृत्तिः” इत्य् अनुवृत्तौ आपस्तम्बः [१.७.३१] ।

    हीनवर्णानां गुरुपत्नीनां प्रागभिवादनं न पादोपसङ्ग्रहणम् । गुरुपत्नीनां गात्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनादीनि न कुर्यात् ।

[२२८] मनुः [२.२१०–२१५]

गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।

असवर्णास् तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥

अभ्यञ्जनं स्नापनं च गात्रोत्सादनम् एव च ।

गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥

स्वभाव एष नारीणां नराणाम् इह दूषणम् ।

अतो ऽर्थान् न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥

अविद्वांसम् अलं लोके विद्वांसम् अपि वा पुनः ।

प्रमदा ह्य् उत्पथं नेतुं कामक्रोधवशानुगम् ॥

मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।

बलवान् इन्द्रियग्रामो विद्वांसम् अपि कर्षति ॥

“विविक्तं” रहस्यम् ।

[२२९]

॥ १४ ॥

अथेन्द्रियनिग्रहः

तत्र मनुः [२.१७५–१८२] ।

सेवेतेमांस् तु नियमान् ब्रह्मचारी गुरौ वसन् ।

सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थम् आत्मनः ॥

नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् ।

देवताभ्यर्चनं चैव समिदाधानम् एव च ॥

वर्जयेन् मधु मांसं च गन्धमाल्यरसान् स्त्रियः ।

शुक्तानि चैव सर्वाणि प्राणिनां चैव हिंसनम् ॥

अभ्यङ्गम् अञ्जनं चाक्ष्णोर् उपानच्छत्रधारणम् ।

कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥

द्यूतं च जनवादं च परिवादं तथानृतम् ।

स्त्रीणां च प्रेक्षणालम्भम् उपघातं परस्य च ॥

एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् ।

कामाद् धि स्कन्दयन् रेतो हिनस्ति व्रतम् आत्मनः ॥

उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् ।

आहरेद् यावद् अर्थानि भैक्षं चाहर् अहश् चरेत् ॥

“रसान्” गुडादीन् रसप्रधानान् । “शुक्तानि” स्वभावमधुराणि आम्रादीनि । “कामो” अत्र विषयान्तराभिलाषातिशयः, मन्मथस्य “स्त्रिय” इत्य् अनेन निषिद्धत्वात् । “जनवाद” [२३०] लोकवादः । “स्त्रीणां च प्रेक्षणालम्भम्” इति मैथुनशङ्कायां स्त्रीणां स्निग्धदृष्टि-निपातनालिङ्गने ।

तथा च वर्जयेद् इत्य् अनुवृत्तौ गौतमः [२.२२] ।

स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् । इति ।

“यावदर्थानि” यावत्प्रयोजनानि ।

यमः

अप्रकीर्णेन्द्रियो दान्तः क्षान्तः शुचिर् अकोपनः ।

स्वाध्यायनिरतो दक्षो नैकाहारो जितेन्द्रिअः ॥

जितनिद्रो निरालस्यो जितक्रोधो जितात्मवान् ।

शुश्रूषुर् अनहङ्कारी गुरुदेवार्चने रतः ॥

खट्वासनं च शयनं वर्जयेद् दन्तधावनम् ।

स्वपेद् एकः कुशेष्व् एव न रेतः स्कन्दयेत् क्वचित् ॥

“अप्रकीर्णेन्द्रियो” अविक्षतेन्द्रियः । “दान्तः” तपःक्लेशसहः ।

बृहस्पतिः [संस्कार २२४, २२३]

यानि शास्त्रनिषिद्धानि तानि यत्नेन वर्जयेत् ।

ध्यायाद् अयं गुरुहितं कुर्याद् देवर्षिपूजनम् ॥

उपनीतो द्विजो नित्यं गुरवे हि समाचरेत् ।

स्रङ्मालाजिनसिक्थाद्यैर् न स्याद् ऐक्षणिकः क्वचित् ॥

“स्रङ्मालाः” स्रग्धारणम् । “सिक्थं” मधूच्छिष्टम्, अधरसंस्कारार्थम् । आद्यशब्दाद् अनुलेपनादिग्रहणम् ।

[२३१]

॥ १५ ॥

अथ ब्रह्मचारिनियमाः

विष्णुः [२८.११] ।

    श्राद्धकृल्लवणशुक्तपर्युषितनृत्यगीतस्त्रीमधुमांसाञ्जनोच्छिष्ट-प्राणिहिंसाश्लीलपरिमार्जनम् ।

“श्राद्धवर्जनम्” अनभ्यर्थितस्य मन्तव्यम्,

ब्राह्मणः कामम् अश्नीयाच् छ्राद्धे व्रतम् अपीडयन् ।

इति याज्ञवल्क्यानुसारात् । “कृऌलवणं” कृतलवणम् ।

गौतमः [२.१८–१९] ।

    नादित्यम् ईक्षेत । वर्जयेन् मधुमांसगन्धमाल्यदिवास्वप्नाञ्जनाभ्यञ्जन-यानोपानच्छत्रकामक्रोधलोभमोहवादवादनस्नानदन्तधावनहर्ष-नृत्तगीतपरिवादभयानि ।

“वादो” बहुप्रलापः । “वादनं” वाद्यानाम् । “स्नानं” उपभोगार्थम् ।

वर्जनानुवृत्तौ गौतमः [२.२३–२४] ।

    द्यूतं हीनसेवाम् अदत्तादानं हिंसाम् आचार्यतत्पुत्रस्त्रीदीक्षितनामानि । शुक्ता वाचः ।

[२३२] “शुक्ताः” निष्ठुराः, परोद्वेगकारिण्य इति वचनात् ।

आपस्तम्बः [१.२.२२–२९] ।

    नानुद्देश्यं भुञ्जीत । तथा क्षारलवणमधुमांसानि । अदिवास्वापी । अगन्धसेवी । मैथुनं न चरेत् । उत्सन्नश्लाघः । अङ्गानि न प्रक्षालयीत । प्रक्षालयीत त्व् अशिचिलिप्तानिगुरोर् असन्दर्शे ।

“अनुद्देश्यं” देवताद्यर्थसङ्कपितम् । “उत्सन्नश्लाघः” त्यक्तश्लाघः, स्याद् इति शेषः ।

हारीतः

    भैक्षवृत्तिर् एकान्नं मधुमांसक्षारलवणाआन्नाशी, म्लेच्छाशुचिस्त्रीशूद्रासम्भाषी ।

**बौधायनः **[१.३.२४] ।

यावदर्थं सम्भाषी स्त्रिभिः ।

**आपस्तम्बः **[१.७.३–११] ॥

    न प्रेक्षेत नग्नां स्त्रियम् । ओषधिवनस्पतीनाम् आच्छिद्य नोपजिघ्रेत् । उपानहौ छत्रं यानम् इति च वर्जयेत् । न स्मयेत । यदि स्मयेतापिगृह्य स्मयेतेति हि ब्राह्मणम् । नोपजिघ्रेत् स्त्रियं मुखेन । न हृदयेन् प्रार्थयेत् । नाकारणाद् उपस्पृशेत् । रजस्वलो रक्तदन्त् सत्यवादी स्याड् इति हि ब्राह्मणम् ।

[२३३] “यदि स्मयेत” हरेत् तदा “अपिगृह्य” पिधाय मुखम् इति शेषः । “नाकारणाद् उपस्पृशेत्” स्त्रियम् इत्य् अन्वयः । प्रस्तुतत्वात् “रजस्वलो” धूलिधूसरः । “रक्तदन्” रक्तदन्तः ।

मनुः [२.१५९] ।

अहिंसयैव भूतानां कार्यं श्रेयो ऽनुशासनम् ।

वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्मम् इच्छता ॥

“अहिंसया” नातिपीडया । भूतशब्देनात्रानुशासनीयाः । “अनुशासनं” शिक्षा । “मधुरा” प्रिया । “श्लक्ष्णा” अनुच्चैः वार्ता ।

एतच् च प्रसङ्गाद् गुरुकृत्यम् उक्तं मनुना [२.१६०–१६३] ।

यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा ।

स वै सर्वम् अवाप्नोति वेदान्तोपगतं फलम् ॥

नारुन्तुदः स्याद् आर्तो ऽपि न परद्रोहकर्मधीः ।

ययास्योद्विजते वाचा नालोक्यां ताम् उदीरयेत् ॥

सम्मानाद् ब्राह्मणो नित्यम् उद्विजेत विषाद् इव ।

अमृतस्येव चाकाङ्क्षेद् अवमानस्य सर्वदा ॥

सुखं ह्य् अवमतः शेते सुखं च प्रतिबुध्यते ।

सुखं चरति लोके ऽस्मिन्न् अवमन्ता विनश्यति ॥

“शुद्धे” निर्दोषे । “सम्यग्गुप्ते” दोषफलरहिते । “सर्वं” सायुज्यादिवेदान्तोपगतम् उपनिषत्प्रतिपादितं [मोक्षफलम्] । “अरुन्तुदः” मर्मव्यथाकारी । “नालोक्या” असाध्वी ।

**शातातपः **।

आप्यायने यथा धेनुस् तृणैर् अमृतसम्भवैः ।

एवं जप्यैश् च होमैश् च पुनर् आप्यायते द्विजः ॥

[२३४] हारीतः

    हयगजरथचैत्यवृक्षविषमारोहणफलप्रचयनसन्धिसर्पण-कूपावरोहणमहानद्यवप्रतरणमहासाहसविरुद्धानि च वर्जयेत् । चलनप्रमादकरणदोषविधानचेष्टाशुक्तवदन दिवास्वप्नविवादम् इति ।

“चैत्यं” देवतायतनम् । “सन्धिः” अत्रे संस्कारावकाशः । “महानद्यो” गङ्गाद्याः । “महासाहसं” अत्र दुर्गमप्रदेशगमनादिकम् । “विरुद्धम्” राजादिद्विष्टगुर्वाश्रयणम् । “चलनम्” अध्ययनादाव् अस्थिरत्वम् । “प्रमादकरणम्” अनवधानेनानुष्ठानम् ।

आपस्तम्बः [१.३.११–१५] ।

    अनृत्तदर्शी । सभाः समाजांश् चागन्ता । अजनवादशीलः । रहःशीलः । गुरोर् उदाचारेष्व् अकर्ता स्वैरिकर्मणि ।

तथा [१.३.२१–२२] ।

दृढधृतिः । अग्लांस्नुः ।

मनुः [२.२११, २१९] ।

सूर्येण ह्य् अभिनिर्मुक्तः शयानं कामचारतः ।

निम्लोचेद् वाप्य् अविज्ञानाज् जपन्न् उपवसेद् दिनम् ॥

मुण्डो वा जटिलो वा स्याद् अथ वा स्याच् छिखाजटः ।

नैनं ग्रामे ऽभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्वचित् ॥

[२३५] “नाभिलिम्लोचेत्” नास्तं गच्छेत् ।

आपस्तम्बः [१.२.३१–३२] ।

जटिलः । शिखाजटो वा वापयेद् इतरान् ।

हारीतः

जटी दीर्घनखरोमा ।

मनुः [२.२२३–२२४] ।

यदि स्त्री यद्य् अवरजः श्रेयः किञ्चित् समाचरेत् ।

तत् सर्वम् आचरेद् युक्तो यत्र वास्य रमेन् मनः ॥

धर्मार्थाव् उच्यते श्रेयः कामार्थौ धर्म एव च ।

अर्थ एवेह वा श्रेयस् त्रिवर्ग इति तु स्थितिः ॥

“अवरजः” शूद्रः । यत् “श्रेयो” गुरुगृहलेपनमार्जनादि तत् स्त्रीशूद्राभ्याम् अप्य् अवाप्यमानं दृष्ट्वानुतिष्ठेत् ।

गौतमः [९.४८–४९] ।

    न पूर्वाह्णमध्यन्दिनापराह्णान् अफलान् कुर्याद् यथाशक्ति धर्मार्थकामेभ्यः । तेषु तु धर्मोत्तरः स्यात् ।

पूर्वादीनि यथाशक्ति धर्मार्थं तत्साधनैर् यथासङ्ख्यम् अवन्ध्यानि कुर्याद् इत्य् अर्थः । “तेषु” धर्मादिषु मध्ये “धर्मोत्तरः स्यात्” धर्मप्रधानो भवेत् ।

हारीतः

उपनयनादि मेखलादण्डाजिनयज्ञोपवीतधारी ।

[२३६] यमः

दण्डं कमण्डलुं चैव मौञ्जीं च रशनां तथा ।

धारयेद् ब्रह्मचर्यं च भैक्षान्नाशी गुरौ वसन् ॥

मनु-विष्णू [मनु २.६४; विष्णु २७.२८] ।

मेखलाम् अजिनं दण्डम् उपवीतं कमण्डलुम् ।

अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥

अथ मनुर् विष्णुश् च द्वितीये [मनु २.१७३–१७४; विष्णु २७.२८] ।

कृतोपनयनस्यास्य व्रतादेशनम् इष्यते ।

ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥

यद् यस्य विहितं कर्म यत् सूत्रं या च मेखला ।

यो दण्डो यच् च सवनं तत् तत् तस्य व्रतेष्व् अपि ॥

“व्रतेषु” औपनिषदादिषु ।

शङ्खलिखितौ

उपनयनाद् ऊर्ध्वं व्रचर्या ।

मनु-बृहस्पती [मनु २.१०८; बृह्। प्रायश्। ६७] ।

अग्नीन् धनं भैक्षचर्याम् अधःशय्यां गुरोर् हितम् ।

आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः ॥

ब्रह्मचारिधर्मानुवृत्तौ गौतमः [३.१०] ।

उत्तरेषां चैतद् अविरोधि ।

[२३७] “एतत्” ब्रह्मचारिण उक्तं द्यूतवर्जनादि, “अविरोधि” यच् छास्त्राद् इतरेण वा बाधितं तत् “उत्तरेषां” गृहस्थादीनाम् अनुवर्तयेत् । यत् तु बाधितं तन् निवर्तयेत् । यथोर्ध्वरेतस्त्वं गृहस्थस्य ।

आचार्यानुवृत्तौ आपस्तम्बः [१.७.३१] ।

समावृत्तस्याप्य् एतद् एव सामयाचारिकम् एतेषु ।

हारीतः

उपनयनादि मेखलादण्डाजिनयज्ञोपवीतधारी ।

“सामयाचारिकं” विधिनिषेधसम्बन्ध इति कपर्दिभाष्यम् ।

पुनः आपस्तम्बः [१.१३.५] ।

न समावृत्ते समादेशो विद्यते ।

“समादेशः” आचार्याज्ञयैव कर्मकरणम् ।

अथ मनुः [२.१६३–१६४] ।

अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः ।

गुरौ वसन् सञ्चिनुयाद् ब्रह्माधिगमिकं तपः ॥

तपोविशेषैर् विविधैर् व्रतैश् च विधिचोदितैः ।

वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥

आपस्तम्बः [१.५.१–२] ।

    नियमेषु तपःशब्दः । तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहापत्याद् एतस्मात् ।

“विद्याकर्म” विद्याग्रहणम् । “निःस्रवति” क्षरति निर्वीर्यं भवतीति यावत् । “ब्रह्म” वेदः । “सहापत्यात्” अपत्यसहिताध्येतुः ।

[२३८] तथा [१.५.९–११] ।

    गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनम् अध्ययनसंवृत्तिर् इति । अतो ऽन्यानि कर्माणि निवर्तन्ते ब्रह्मचारिणः । स्वाध्यायधृग् धर्मरुचिस् तपस्व्य् ऋजुर् मृदुः सिध्यति ब्रह्मचारी ।

“गुरुप्रसादनीयानि” आचार्यप्रसादकराणि पादप्रक्षालनादिकर्माणि । “स्वस्त्ययनं” आत्मरक्षाकरणम् । रात्रौ वृक्षमूलम् उपसर्पता रागादिना (?) “अध्ययनसंवृत्तिः” वेदाभ्यासः । “अन्यानि” देवतायतनकरणादीनि । “स्वाध्यायधृक्” स्वाध्यायधृतिः ।

हारीतः

अथात्रोदाहरन्ति ।

व्रतैश् छन्दांसि सिध्यन्ति कामदानि भवन्ति च ।

छन्दसां साधनार्थाय व्रतान् आह चरेद् बुधः ॥

**लघुव्यासः **।

संस्कारवद्भिः कर्तव्यः वेदस्याध्ययनं बुधैः ।

शुद्धस्य फलवत्ता स्याद् अन्यथा निष्फलं स्मृतम् ॥

ऋग्वेदम् अप्य् अधीयीत मार्गेणोक्तेन धर्मवित् ।

न त्व् एव चतुरो वेदान् अन्यायेन कदाचन ॥

ऋग्यजुःसाम चैवं यन् न्यायतो ऽधिगतं द्विजैः ।

ब्रह्मत्वम् आपादयति नाक्रमेण सुबह्व् अपि ॥

वेदविप्लावनात् तेन वरं मौनं समाश्रितम् ।

वेदविप्लावनाद् विप्रो नरकं यात्य् अधोमुखः ॥

**[२३९] अत्रि-वसिष्थ-अङ्गिरसो यमश् **च द्वितीये ।

यथाश्वा रथहीनास् तु रथो वाश्वैर् यथा विना ।

एवं तपो ऽप्य् अविद्यस्य विद्या वाप्य् अतपस्विनः ॥

यथान्नं मधुसंयुक्तं मधु वान्नेन संयुतम् ।

एवं तपश् च विद्या च संयुक्तं भेषजं महत् ॥

विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपनैत्यकम् ।

सदापि पापकर्माणं प्रतियुक्ते न पातकम् ॥

अथ मनुः [१२.१०४] ।

तपो विद्या च विप्रस्य निःश्र्यसकरं परम् ।

तपसा किल्बिषं हन्ति विद्ययामृतम् अश्नुते ॥

देवलः

विद्या वित्तं तपश् चेति त्रीणि तेजांसि देहिनाम् ।

इह चामुत्र च श्रेयस् तद् एतैः साध्यते त्रिभिः ॥

विद्यया विमलं ज्योतिर् वित्तयोगात् सुखोदयः ।

तपसा विमला भूतिः प्राप्यते त्रितयं त्रिभिः ॥

[२४०]

॥ १६ ॥

अथाध्याप्याः

तत्र बृहस्पतिः [संस्कार २२२] ।

एवं दण्डादिकैर् युक्तं संस्कृत्य तनयं पिता ।

वेदम् अध्यापयेच् छान्तं शास्त्रं मन्वादिकं तथा ॥

यमः

संवत्सरोषिते शिष्ये गुरुर् ज्ञानम् अनिर्दिशन् ।

हरेत दुष्कृतं तस्य शिष्यस्य वस्तो गुरुः ॥

गुरुशुश्रूषानुवृत्तौ आपस्तम्बः [१.८.२४–२८] ।

    तस्मिन् गुरोर् वृत्तिः । पुत्रम् इवैनम् अनुकाङ्क्षन् सर्वधर्मेष्व् अनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् । न चैनम् अध्ययनविघ्नेनात्मार्थेषूपरुन्ध्याद् अनापत्सु । अन्तेवास्य् अनन्तेवासी भवति विनिहितात्मा गुराव् अनैपुणम् आपद्यमानः । आचार्यो ऽप्य् अनाचार्यो भवति श्रुतात् परिहरमाणः ।

“तस्मिन्” गुरुशुश्रूषके “वृत्तिः” उच्यते । “एनं” शुश्रूषकम् । “अनुकाङ्क्षन्” अन्विच्छन् । “सर्वधर्मेषु” कष्टप्रतिपाद्येष्व् अपि । “अनपच्छादयमानः” अवञ्चयन् । “सुयुक्तो” नान्यमनाः । “विनिहितात्मा” विविधप्रकारेण गुरौ समर्पितात्मा । अनेकेषु गुरुष्व् एकस्याम् एव विद्यायाम् ।

[२४१] मनुः [२.१०९] ।

आचार्यपुत्रः शुश्रूषुर् ज्ञानदो धार्मिकः शुचिः ।

आप्तः शक्तो ऽर्थदः साधुः स्वो ऽध्याप्या दश धर्मतः ॥

“ज्ञानदो” विद्यान्तरप्रदः । “शक्तो” ग्रहणधारणयोः । “स्वः” ज्ञातिपुत्रादयः ।

याज्ञवल्क्यः [१.२८] ।

कृतज्ञाद्रोहमेधाविशुचिकल्याणसूचकाः ।

अध्याप्या धर्मतः साधुशक्ताप्तज्ञान्वित्तदाः ॥

“कल्याणसूचकः” शुभलक्षणः । “शक्तः” अत्र ग्रहणे । “अर्थदः” अत्राभृत्यर्थम् अर्थप्रदाता । “भृतकाध्यापनं तथा” इत्य् उपपातकमध्ये पाठात् ।

गौतमः [१०.४] ।

    आचार्यज्ञातिप्रियगुरुधनविद्यानियमेषु ब्रह्मणः सम्प्रदानम् अन्यत्र यथोक्तात् ।

“धनविद्यानियमः” परिवर्तः । “ब्रह्मणो” वेदस्य । “अन्यत्र यथोक्तात्” इति, शुश्रूषकादेर् अन्यत्रैतेष्व् एव ।

विष्णुः [२९.३–४] ।

नापरीक्षितं याजयेत् । नाध्यापयेत् ।

[२४२] आपस्तम्बः [२.६.१–२] ।

    जात्याचारसंशये धर्मार्थम् आगतम् अग्निम् उपसमाधाय जातिम् आचारं च सम्पृच्छेत् । साधुतां चेत् प्रतिजानीते ऽग्निर् उपद्रष्टा वायुर् उपश्रोतादित्यो ऽनुख्याता साधुतां प्रतिजानीते साध्व् अस्मा अस्तु वितथ एष एनस इत्य् उक्त्वा शास्तुं प्रतिपद्येत ।

“अग्निम् उपसमाधाय” स्वगृह्योक्तविधिना ।

मनु-यमौ [मनु २.११०] ।

नापृष्टः कस्यचिद् ब्रूयान् न वान्यायेन पृच्छतः ।

जानन्न् अपि हि मेधावी जडवल् लोक आचरेत् ॥

मनुः [२.११३–११५] ।

विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।

आपद्य् अपि हि घोरायां न त्व् एनाम् इरिणे वपेत् ॥

विद्या ब्राह्मणम् एत्याह शेवधिष्टे ऽस्मि रक्ष माम् ।

असूयकाय मा मा दास् तथा स्यां वीर्यवत्तमा ॥

यम् एव तु शुचिं विद्या नियतब्रह्मचारिणम् ।

तस्मै मां ब्रूहि विप्राय निध्पायाप्रमादिने ॥

“शेवधिः” निधिः । “इरिणे” अनूषरे ।

हारीतः

यो वै धीरः शुश्रूषुर् अध्यायवृत्तो 

	यस्मिन् शोचेन् न व्यथेन् नापि धर्मः ।

[२४३] तस्मै ज्ञानं श्रद्धया सन्दधेयं

	नान्तर् दुष्टे कत्थने दुःखशीले ॥

“व्यथेत्” चलेत् ।

इत्य् अध्याप्याः

अथ शिष्यशिक्षा

**यमः **।

    शिष्यशिष्टिर् अवधेन । अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् । अन्येन घ्नन् राज्ञा शास्यः ।

मनुः [८.२९९–३००] ।

भार्या पुत्रश् च दासश् च [प्रेष्यो] भ्राता सहोदरः ।

प्राप्तापराधास् ताड्याः स्यू रज्वा वेणुदऌएन वा ॥

पृष्ठस् तु शरीरस्य नोत्तमाङ्गे कथञ्चन ।

अथो ऽन्यथा तु प्रहरन् प्राप्तं स्याच् चौरकिल्बिषम् ॥

[२४४]

॥ १७ ॥

**अथाद्यापनविधिः **

तत्र मनुः [२.७०–७५] ।

अध्येष्यमाणस् त्व् आचान्तो यथाशास्त्रम् उदङ्मुखः ।

ब्रह्माञ्जलिकृतो ऽध्याप्यो लघुवासा जितेन्द्रियः ॥

ब्रह्मारम्भे ऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।

संहत्य हस्ताव् अध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥

व्यत्यस्तपाणिना कार्यम् उपसङ्ग्रहणं गुरोः ।

सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥

अध्येष्यमाणं तु गुरुर् नित्यकालम् अतन्द्रितः ।

अधीष्व भो इति ब्रूयाद् विरामो ऽस्त्व् इति चारमेत् ॥

ब्रह्मणः प्रणवं कुर्याद् आदाव् अन्ते च सर्वदा ।

स्रवत्य् अनोङ्कृतं पूर्वं परस्ताच् च विशीर्यति ॥

प्राक्कूलान् पर्युपासीनः पवित्रैर् एव पावितः ।

प्राणायामैस् त्रिभिः पूतस् तत ओङ्कारम् अर्हति ॥

“प्राक्कूलान्” प्रागग्रान् । अध्ययनारम्भकाले पवित्रापादकपावमान्यादिमन्त्रासम्भवाद् दर्भैः पावनं गौतमोक्त इन्द्रियाणाम् उपस्पर्शनम् ।

[२४५] तथा [२.७६–७७] ।

अकारं चाप्य् उकारं च मकारं च प्रजापतिः ।

वेदत्रयान् निरदुहद् भूर् भुवः स्वर् इतीति च ॥

त्रिभ्य एव तु वेदेभ्यः पादं पादम् अदूदुहत् ।

तद् इत्य् ऋचो ऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥

गौतमः [१.५२–६२] ।

    पाणिना सव्यम् उपसङ्गृह्यानङ्गुष्ठम् अधीहि भो इत्यामन्त्रयेत गुरुम् । तत्र चक्षुर्मनाः । प्राणोपस्पर्शनं दर्भैः । प्राणायामास् त्रयः पञ्चदशमात्राः । प्राक्कूलेष्व् आसनं च । ओङ्कारपूर्वा व्याहृतयः पज्च सत्यान्ताः । गुरोः पादोपसङ्ग्रहणं प्रातः । ब्रह्मानुवचने चाद्यन्तयोः । अनुज्ञात उपविशेत् प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखो वा । सावित्री चानुवचनम् आदितो ब्रह्मण आदाने । ओङ्कारो ऽन्यत्रापि ।

“पाणिना” दक्षिणेन “सव्यं” पाणिम् आत्मीयं ब्रह्माञ्जलिर् यथा भवति तथा हस्तौ कृत्वेत्य् अर्थः । “तत्र” गुरौ मनश्चक्षुषी व्यापृक्ते यस्य सः “तत्र चक्षुर्मनाः” । “प्राणाः” इन्द्रियाणि । “मात्राः” ह्रस्वाक्षरकालाः । “सत्यान्ताः” भूर् भुवः स्वह् पुरुषः सत्यम् इत्य् एवम्प्रकाराः । व्याहृतीनां पुरुषान्तरपाठात् सत्यान्ता इत्य् अभिधानम् । “ब्रह्मण आदितः” आरम्भे सावित्री च वक्तव्या ।

आपस्तम्बः [१.१०.१५–१६] ।

गुरुसन्निधौ चाधीहि भो इत्य् उक्त्वाधीयीत । अध्यापयेद् वा ।

[२४६] शङ्खलिखितौ

    आहूताध्यायी पवित्राञ्जलिपाणिः सपवित्रं गायत्रीम् अनुश्राव्य गुरोर् अभिमुखः स्वाध्यायम् अनुपठेत् ।

यमः

कृताञ्जलिर् गुरुं ब्रूयाद् अध्येष्ये भगवन्न् अहम् ।

जितेन्द्रियः शुक्लवासा ब्रह्माञ्जलिकृतः स्थिरः ॥

“ब्रह्माञ्जलिकृतः” कृतब्रह्माञ्जलिः । आहिताग्न्यादेर् आकृतिगणत्वात् कृतशब्दस्य परनिपातः ।

ओङ्कारं प्रथमं कृत्वा ततो ब्रह्म प्रवर्तयेत् ।

ओङ्कारं च ततः कृत्वा भूमिं स्पृष्ट्वा विरामयेत् ॥

अन्यथा विपरीतं स्याद् ब्रह्म तन् नात्र संशयः ।

पैठीनसिः

    स्वाध्यायम् अहर् अहः प्रयुञ्जानः कर्णाव् अपिधाय पञ्चाक्षराण्य् अनुजप्य मस्तकेन पादाव् आलभ्याभिवादयेत् । अनालभ्य गुरुपत्न्याम् ।

“पञ्चाक्षराणि” भूर् भुवः स्वर् इत्य् एतानि ।

संवर्तः

हस्तौ सुसंहतौ कृत्वा धार्यौ जानूपरि स्थितौ ।

गुरोर् अनुकृतिं कुर्यात् पठन् नान्यमतिर् भवेत् ॥

आपस्तम्बः [१.१३.६–८] ।

    ओङ्कारः स्वर्गद्वारं तस्माद् ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येत । विकथां चान्यां कृत्वैवं लौकिक्या वाचा व्यावर्तते ब्रह्म । यज्ञेषु चैतदादयः प्रसवाः । 

[२४७] “विकथां चान्यां कृत्वा” इति, विकथाध्ययनविजातीया कथा । “एतदादि” ओङ्कारादि । एवं “लौकिक्या वाचा व्यावर्तते ब्रह्म” इति, विजातीयकथया लौकिक्या वाचा संसृष्टो वेदः पुनः प्रणवपूर्वकवेदपाठे व्यावर्तते । लौकिक्या वाचा एवं विविक्तो भवतीत्य् अर्थः ।

हारीतः

    अथ ब्राह्मणकर्मधर्मवृत्युपसर्गान् निरूपयिष्यामः । सर्वश्रावणं ब्रह्मतर्कणम् आदेशनं छन्दसाम् अनुपचारो नाम्नोपाध्यायाध्ययनयो रहस्यख्यापनम् अनुयोगो ग्रन्थभृताम् । अव्रताध्ययनम् अनियमाध्ययनम् अगुरुशुश्रूषाध्ययनं क्रयाध्ययनं गुरुद्वेषणम् इत्य् अध्ययनस्य । सङ्करसङ्कीर्णासंव्यवहारस्याध्ययनं भृतकाध्ययनं इत्य् अध्याप्यस्य । सर्वेषाम् अनुविद्रुतवाचनं प्रकीर्णवाचनम् अद्रुतवाचनम् अक्षरवर्णपदपदार्धविहीनं विपर्यस्तम् अनाम्नातम् अविच्छिन्नम् असमाप्तम् अप्रतिष्ठितं चेति जप्यस्यैते । ब्रह्मोपसर्गाद्यैर् उपस्पृष्टं ब्रह्म तेषाम् अवीर्यम् अतेजस्कम् असिद्धम् असमृद्धार्थम् अनायुष्कम् अदैवम् अस्वर्ग्य्यम् अफलं भवति । तस्माद् एतान् धर्मान् धारयन्न् अधीयीताध्यापयेज् जपेत् । एवं ब्रह्मोपसर्गैर् विमुक्तानि छन्दांस्य् अधीयन् स वै पूतः समृद्धार्थः सर्वान् कामान् अवाप्नुयात् ।


    	उपसर्गैर् विमुक्तानां यो ऽधीते यं क्रतुं द्विजः ।


    	तेन तेनेदं भवति प्रजापतिवचो यथा ॥

“ब्राह्मणकर्मधर्मवृत्ति” इति । ब्राह्मणकर्मणीव ते धर्मवृत्ती चेति कर्मधारयः । तत्र धर्मो ऽध्ययनम् । “वृत्तिः” स्वाध्यायाध्यापनम् । “उपसर्गाः” उपद्रवाः । “सर्वश्रावणं” सर्वः [२४८] शूद्रादिः । “ब्रह्मतर्कणं” कुतर्कणं वेदस्याप्रामान्यापादनम् । “आदेशनं” एतद् अनुपसन्नविषयम् । “अनुयोगो” अत्रास्थाने प्रश्नः । एते ग्रन्थभृताम् उपसर्गाः । “व्रतानि” योगाभ्यासादीनि वेदाध्ययनार्थानि (?) । “नियमाः” अध्ययनार्थम् अरण्यावस्थानादयः । “क्रयाध्ययनम्” एतावता धनेनैतावत् पठेयेति व्यवस्थयाध्ययनम् । “सङ्करो” अनूढाजातः । “सङ्कीर्णः” पातकसंसृष्टः । “संव्यवहारो” लोकपङ्क्तिप्राधान्यम् । “सर्वेषां” ग्रन्थभृदध्येत्रध्यापकानाम् । “प्रकीर्णं” अतिविलम्बितम् । “अद्रुतम्” उच्चैर् अत्वरितम् । “अक्षराणि” एकारादीनि । “वर्णाः” ककारादयः । “विपर्यस्तं” भ्रान्तम् । “अनाम्नातम्” अत्रापश्रुत्याधीतम् । “अविच्छिन्नं” त्रैस्वर्यार्धर्चादिविच्छेदशून्यम् । “असमाप्तं” अतित्वरयाज् (?) निमित्तादिजातिवर्णरहितम् । “अप्रतिष्ठितम्” असङ्ख्यातम् । “जप्यस्य” जपनीयस्य मन्त्रस्य । “एते” उपसर्गाः ।

[२४९]

॥ १८ ॥

अनध्यायाः

**गौतमः **[१६.२२–५०] ।

    आकालिका [निर्घात]भूमिकम्पराहुदर्शनोल्काः । स्तनयित्नुवर्षविद्युतश् च प्रादुष्कृताग्निषु । अहर् ऋतौ । विद्युति नक्तं चापररात्रात् । त्रिभागादिप्रवृत्तौ सर्वम् । उल्का विद्युत्समेत्य् एकेषाम् । स्तनयित्नुर् अपराह्णे । अपि प्रदोषे । सर्वं नक्तम् आर्धरात्रात् । अहश् चित् [?] सज्योतिः । विषयस्थे च राज्ञि प्रेते । विप्रोष्य चान्योन्येन सह । सङ्कुलोपाहितवेदसमाप्तिच्छर्दिश्राद्धमनुष्ययज्ञ-भोजनेष्व् अहोरात्रम् । अमावास्यायां च । द्व्यहं वा । कार्तिकी फाल्गुन्य् आषाढी पौर्णमासी । तिस्रो ऽष्टकास् त्रिरात्रम् । अन्त्याम् एके । अभितो वार्षिकम् । सर्वे वर्षविद्युत्स्तनयित्नुसन्निपाते । प्रस्यन्दिनि सन्निपाते त्रिरात्रम् । ऊर्ध्वं भोजनाद् उत्सवे । प्राधीतस्य च । निशायां चतुर्मुहूर्तम् । नित्यम् एके नगरे । मानसम् अप्य् अशुचिः । श्राद्धिनाम् आकालिकम् । अकृतान्नश्राद्धिकसंयोगे च । प्रतिविद्यं च यान् स्मरन्ति ।

“अहः” इति प्रहरचतुष्टयोपलक्षणम् । “ऋतौ” वर्षासु, प्रादुष्कृताग्निसमये मेघवृष्ट्योर् दर्शने ऽहर् अनध्यायः । एतेनानन्तरोक्तस्याकालिकत्वस्यानृतुविषयतोक्ता भवति । “विद्युति” [२५०] वर्षासु सायंसन्ध्यासमये दृश्यमानायां नक्तम् अनध्यायः । स चापराह्णस्य त्रिभागम् आरभ्य सायम्प्रातःसन्ध्यासमये विद्युति अहर् अपराह्ण्पर्यन्तम् अनुवर्तमानाय्ं अन्क्तम् अनध्यायः । स चापररात्रपर्यन्तं चकारात् प्रातःसन्ध्यासमये विद्युति अहर् अपराह्णपर्यन्तम् इत्य् उक्तं भवति । “त्रिभागादि” इति रात्रेर् अह्नश् च त्रिभागम् आरभ्य सायम्प्रातःसन्ध्यापर्यन्तम् अनुवर्तमानायां विद्युति सर्वं नक्तं सर्वम् अहस् तत्पर्यन्तम् अनध्याय इत् **जयस्वामी **। “उल्का” इति, विद्युतीवोल्कायाम् अनध्याय इत्य् एकेषां मतम् । “स्तनयित्नुः” मेघः, असाव् अपराह्णे भवन् विद्युत्समो ऽनध्यायः । “अपि प्रदोषे” प्रोदोषे ऽपि भवत् स्तनयित्नुर् विद्युद्भवम् अनध्यायं करोति । “अहश् चित्” इति, अहश् चेत् प्राग् अपराह्णाद् अनुवर्तते मेघस् तदा दिवान्तं यावद् अनध्यायः । “विषयस्थे” इति, यद्देशे ऽध्येता भवति तद्देशराजनि मृते ऽनध्यायो नान्यदेशस्थे । “विप्रोष्य च” इति, शिष्याध्याप्कयोर् विप्रवासे आकालिकानध्यायस्य पूर्वप्रस्तुतत्वात् । “सङ्कुले” सङ्कीर्णे । “उपाहिते” अग्न्युत्पाते । श्राद्धग्रहणेनैकोद्दिष्टस्याप्य् उपादानात् पूर्वम् एकोद्दिष्टग्रहणं प्रायश्चित्तविशेषवद् आब्दिकादिपरं दोषविशेषज्ञापनार्थम् । “यज्ञभोजने” अतिथित्वेन भोजने । “द्व्यहं वा” इति प्रतिपद्ग्रहणार्थम् । “कार्त्तिकीपौर्णमासी” इत्य् अनध्ययने प्राप्ते पुनर्वचनं दोषातिशयकथनार्थम् । “तिस्रो ऽष्ट्”का” इति, आग्रहायिण्या ऊर्ध्वम् । “अन्त्याम् एके” इति, अन्त्याम् अष्टकायां त्रिरात्रम् अनध्याय इति एके मन्यन्ते । येषाम् एकस्याम् अष्टकायाम् अष्टिकाकर्म तद्विषयम् इदम् । “प्रस्यन्दिनि” वर्षाभ्यो ऽन्यत्र । “प्राधीनस्य” प्रथमम् अध्येतुं प्रवृत्तस्य, भोजनाद् ऊर्ध्वम् अनध्याय इत्य् अनुषङ्गः । “प्रतिविद्य” इति, यान् अनध्यायान् [२५१] पारम्पर्येण स्मरन्ति तेष्व् अपि तेष्वपि (?) नाध्येतव्यम् । यथा ऋग्वेदे प्रकृताख्यस्याध्यायस्य भोजनाद् ऊर्ध्वम् अनध्ययनम् ।

पैठीनसिः

नीललोहितप्रादुर्भावे ।

“रात्राव् इन्द्रधनुर् दृष्ट्वा” इत्य् अत्रैव पूवम् उक्तत्वाद् अह्नि नीललोहितेन्द्रधनुःप्रादुर्भावे इह अहोरात्रम् (?) अनध्ययनम् ।

पुनः पैठीनसिः

शुक्लचतुर्दश्यां सर्वासु चाष्टमीषु पुनर् नक्तम् अनध्यायो ऽष्टकावर्जम् ।

बौधायनः [१.२१.६] ।

देशपतिश्रोत्रियैकतीर्थप्रायणेष्व् अहोरात्रम् अनध्यायः ।

“देशपतिः” सैनिकादिः, राज्ञि याज्ञवल्क्येन त्रिरात्रानध्ययनाभिधानात् । “श्रोत्रियः” स्वशाखेतरशाखापाठपरः । तेन स्मृत्यन्तरे श्रोत्रिये त्रिरात्राभिधानं स्वशाखाध्यायिविषयम्, “स्वशाखाश्रोत्रिये तथा” इति याज्ञवल्क्यवचनात् ।

पुनः बौधायनः [१.२१.१७–१८] ।

    शूद्रापपात्रश्रवणसन्दर्शनयोश् च तावन्तं कालम् । नक्तं शिवाविरावे नाधीयीत स्वप्नान्तम् ।

“अपपात्रं” पतितचाण्डालादिः ।

[२५२] पुनः बौधायनः [१.११.२२] ।

अन्येषु चाद्भुतोत्पातेष्व् अहोरात्रम् अनध्यायो ऽन्यत्र मानसात् ।

गौतमः [१६.४७] ।

मानसम् अप्य् अशुचिः ।

पैठीनसिः

    एकादशाहे सूतके च भुक्त्वा, रात्राव् इन्द्रधनुर् दृष्ट्वा, वज्रपातनाद् आचार्यमरणाद् इन्द्रपातनात् सूर्यचन्द्रमसोर् उपप्लवात् केतुदर्शनान् निर्घातभूमिवलनाद् एकैकस्मिंस् त्रिरात्रम् ।

**आपस्तम्बः **[१.९.४–१२] ।

    निगमेष्व् अध्ययनं वर्जयेत् । आनडुहेन वा शकृत्पिण्डेनोपलिप्ते ऽधीयीत । श्मशाने सर्वतः शम्याप्रासात् । ग्रामेणाध्यवसिते क्षेत्रेण वा नानध्यायः । ज्ञायमाने तु तस्मिन्न् एव देशे नाधीयीत । श्मशानवच् छूद्रपतितौ । समानागार इत्य् एके । शूद्रायां तु प्रेक्षण[प्रतिप्रेक्षणयोर् एवा]नध्यायः । तथान्यस्यां स्त्रियां वर्णव्यतिक्रान्तायां मैथुने ।

“निगमाः” चत्वराः । “शम्या” यज्ञायुधविशेषः । “प्रासः” प्रक्षेपः । “सर्वतः” सर्वासु दिक्षु । “ग्रामेणाध्यवसिते क्षेत्रेण वा” ग्रामतां क्षेत्रतां च गते । “ज्ञायमाने” श्मशानत्वे प्रत्यभिज्ञायमाने । “प्रेक्षणप्रतिप्रेक्षणे” अन्योन्य**[२५३]**दर्शणे । “तथान्यस्यां” इत्यादेर् अयम् अर्थः — अधमवर्णेन मौथुनं गताया अतो ऽन्योन्यदर्शने ऽनध्याय इति ।

पुनः आपस्तम्बः [१.९.१४–१६] ।

    अन्तःशवम् । अन्तश्चाण्डालम् । अभिनिर्हृतानां तु सीम्न्य् अनध्यायः ।

एतेष्व् एव चाण्डालादिष्व् आगत्य ग्रामबाह्यं गतेष्व् अपि तद् अहर् अनध्यायः ।

पुनः आपस्तम्बः [१.९.२२] ।

    [उपव्युषं] यावता वा कृष्णां रोहिणीम् इत् शम्याप्रासाद् विजानीयाद् एतस्मिन् काले विद्योतमाने सप्रदोषम् [अहर् अनध्यायः] ।

यावता कालेन शम्याप्रासाद् अनुच्छिन्नदेशे कृष्णा रोहिणी वा गौर् ज्ञायते, एतस्मिन् काले विद्युति ज्ञायमानायां रात्रिप्रथमप्रहरसहितं दिनम् अनध्यायः ।

हारीतः

    ग्रामनगरद्वाररथ्याचत्वरत्रिसन्ध्यम् आतिष्ठन्न् अमेध्याशुचिश् च नाधीयीत । समूहसन्ततस्तनितविद्युदभिश्रवसां शीतवतो ऽशनिवर्षेषु महासम्भ्रमसम्ग्रामनगरगोब्राह्मणोप्रोधान्तःशवचाण्डालपुल्कस-मौष्टिकेषु तत्कालम् अनध्यायः ।

“ग्रामनगरद्वाररथ्याचत्वरत्रिसन्ध्यम्” इति द्वन्द्वैकवद्भावः । अत्र चाधीतिं वर्जयेद् इत्य् अनुवर्तते । “समूहो” नानाजातिजनमेलकः । सन्ततशब्दो नैरन्तर्ये । सन्ततशब्दः स्तनितादिभिर् वर्षान्तैः प्रत्येकम् अभिसम्बध्यते । “अभिश्रवः” [२५४] शृगालादीनां मिलितानां दीर्घः शब्दः । शीतादयश् सन्तता अनृताव् अनध्ययनहेतवः । “महासम्भ्रमः” ग्रामदाहादिना जनानाम् आकुलता । अन्तःशवादयो यत्र । “पुष्कसो” (?) म्लेच्छविशेषः । “मौष्टिको” मल्लः । “तत्कालम्” तावत्कालम् ।

पुनः हारीतः

    निर्वातभूमिकम्पोल्कावातादिग्दाहपांसुशोणमांसास्थिकेशदधिजलाङ्गार-वर्षेषु शान्तिस्वत्ययनकृत्यभ्युदिताभिनिर्मुक्तवान्तस्कन्ननग्नदुःस्वप्न-दर्शनेष्व् एकोद्दिष्टसूतकेष्व् आद्यप्रायश्चित्तं कृत्वैतेषु निमित्तेषु शान्ति-स्वस्त्ययनादिकरणावधिर् अनध्यायः ।

“अभ्युदित” इति, यस्मिन् प्रश्ने सूर्य उदेति सो ऽभ्युदितः । यस्मिंश् च प्रश्ने ऽस्तमेति सः “अभिनिर्मुक्तः” । “वान्तः” भुक्त्वा कृतवमनः । “स्कन्नः” स्खलितरेताः । “आद्य” आभिमुख्येन प्राधान्येन भुक्त्वा । अत्र चाङ्पूर्वाददेर्ल्य् अपि “बहुलं छन्दसि” इति बहुलवचनाज् जग्धिर् आदेशो न भवति । एतच् चाभ्युदितेषु निमित्तेषु प्रायश्चित्ताकरणे ऽनध्यायः ।

पुनः हारीतः

चैत्रश्रावणमार्गशीर्षाणाम् आदिप्रतिपदो नित्याः ।

“आदिप्रतिपदः” शुक्लप्रतिपदः । “नित्या” इत्य् अनेन प्रतिपदन्तरे ऽनध्यायस्य काम्यत्वम् उक्तम् ।

“अधीयीत” इत्य् अनुवृत्तौ हारीतः

बलिश्राद्धमहोत्सवेषूल्कावद् अनध्यायः ।

[२५५] “बलिः” देवतोपहारः । अत्र चानध्याये ऽवधिविशेषानुपादानाद् अहःशेषम् अहर् अनध्यायः ।

पुनः आपस्तम्बः [१.९.२३–२६] ।

    दह्रे चापररात्रे च स्तनयित्नुना । ऊर्ध्वम् अर्धरात्राद् इत्य् एके । गवां चावरोधे । वध्यानां च यावता वा हन्यन्ते ।

“अपररात्रे” रात्रेस् तृतीये भागे, “दह्रे” अत्रापि प्रदोषे, “अहर् अनध्यायः” इत्य् एतेन सम्बन्धः । “स्तनयित्नुना” शब्दवता मेघेन निमित्तेन । “अवरोधे” प्रसभान् निरोधे । “वध्यानां” वध्यहननपर्यन्तो ऽनध्यायः ।

पुनः आपस्तम्बः [१.१०.२–४] ।

    वैरमणो गुरुष्व् आष्टाक्य औपाकरण इति त्र्यहाः । तथा सम्बन्धिषु ज्ञातिषु । मातरि पितर्य् आचार्य इति द्वादशाहाः ।

“वैरमणे” अध्ययनसमाप्तिदिने । “गुरुषु” संस्थितेषु । “आष्टक्ये” अष्टकायाम् । अयं च द्वादशाहानध्यायः । “मातरि” जनन्याम् । “पितरि” जनके । “आचार्ये” उपनीय साङ्गसरहस्यवेदाध्यापितरि । आचार्ये तु अहर् अनध्ययनं गौणाध्यायविषयम् ।

पुनः आपस्तम्बः [१.१०.२०–२३] ।

    शाखान्तरे च साम्नाम् अनध्यायः । सर्वेषु च शब्दकर्मसु यत्र संसृज्येरन् । छर्दयित्वा स्वप्नान्तम् । सर्पिर् वा प्राश्य ।

“शाखान्तरे” पाठ्य इति शेषः । “सर्वेषु च” इति, तालगीतादिशब्देषु मिलितेष्व् इत्य् अर्थः ।

[२५६] पुनः **आपस्तम्बः **[१.१०.२७] ।

प्रोदकयोश् च पाण्योः ।

पुनः आपस्तम्बः [१.११.१–७] ।

    काण्डोपाकरणे वामातृकस्य । काण्डसमापने वापितृकस्य । मनुष्यप्रकृतीनां च देवानां यज्ञे भुक्त्वेत्य् एके । पर्युषितैस् तण्डुलैर् आममांसेन च नानध्यायः । तथैषधिवनस्पतिमूलफलैः । यत् काण्डम् उपाकुर्वन्ति तस्य चानुवाक्यं कुर्वीत न तत् तद् अहर् अधीयीत । उपाकरणसमापनयोश् च पारायणस्य तां विद्याम् ।

“काण्डोपाकरणे” काण्डोपक्रमे । “मनुष्यप्रकृतीनां” इति, ये मनुष्याः सन्तः कर्मणा देवत्वम् आपन्नाः नन्दीश्वरादयः तेषां यज्ञे भुक्त्वानध्याय इत्य् अर्थः । “पर्युषितैस् तण्डुलैः” इति, तण्डुलग्रहणं प्रदर्शनार्थम् । तेन दिनान्तरं मनुष्यप्रकृतिदेवयज्ञेषु तण्डुलादिषु भुक्तेषु मांसेन च भुक्तेन नानध्याय इत्य् अर्थः । “उपाकरण” इत्यादि, “पारायणं” आदित आरभ्यादृष्टार्थं नियमविशेषणान्तं यावत् पठनं तद् यज्ञविद्यायाः । ताम् एव तदुपक्रमे समाप्तौ च नाधीयीत ।

पुनः आपस्तम्बः [१.११.१०–१२] ।

    स्वैरिकर्मसु च । यथा पादप्रक्षालनोत्सादनानुलेपनानीति । तावन्तं कालं नाधीयीताध्यापयेद् वा ।

“स्वैरिकर्म” स्वेच्छाकर्म । “उत्सादनं” उद्वर्तनम् ।

[२५७] पुनः आपस्तम्बः [१.११.२८–३४] ।

    मुहूर्तं विरते वाते । सलावृक्याम् एकसृक इति स्वप्नपर्यन्तम् । नक्तं चारण्ये ऽनग्नाव् अहिरण्ये वा । अननूक्तं चापर्तौ छन्दसो नाधीयीत । प्रदोषे च । सार्वकालिकम् आम्नातम् । यथोक्तम् अन्यद् अतः परिषत्सु ।

“अननूक्तम्” अनधीतपूर्वम् । “अपर्तौ” व्यपगते वेदाध्ययनकाले, उपाकरणाद् अर्वाग् इति यावत् । “सलावृकी” गृध्रवासिनी । “एकसृकः” एकचरः सृगाल इति कपर्दी । एतयोः शब्दे स्वप्नपर्यन्तम नध्यायः ।

पुनः आपस्तम्बः [१.३२.१२–१४] ।

    अनध्यायो निशायाम् अन्यत्र धर्मोपदेशाच् छिष्येभ्यः । मनसा वा स्वयम् । ऊर्ध्वम् अर्धरात्राद् अध्यापनम् ।

“अनध्यायः” अनध्ययनम् । “निशायां” महानिशायाम् । “मनसा वा” इति, मानसम् अर्धरात्राद् अध्ययनं कार्यम् ।

“अनध्याय” इत्य् अनुवृत्तौ वसिष्ठः [१३.३५] ।

दिङ्नागपर्वतार्चाप्रपातेषूपलरुधिरपांसुवर्षेष्व् आकालिकम् ।

“अर्चा” प्रतिमा ।

“अधीयीत” इत्य् अनुवृत्तौ शङ्खलिखितौ

न नगरचतुष्पथमहापथसङ्क्रमेषु ।

[२५८] तथा

न राजमहापुरुषाणां स्वर्जाते ।

“महापुरुषः” उत्कृष्टचरितः पुरुषः ।

तथा

न कुलमित्रे ऽतीते ।

तथा

नावभृथयज्ञवाटौ । नापश्रूयतः ।

यज्ञार्थं परिवृत्ता भूमिः “यज्ञवाटिः” । “नापश्रूयतः” नान्योन्यं महति सम्बाध इत्य् अर्थः । अन्यथा विप्लवः ।

तथा

न कौमुद्याम् ।

सर्वरात्रा “कौमुदी” आश्वयुक्पौर्णमासी ।

तथा

नेन्द्रचापदर्शनात् ।

तथा [३०.१९–२१] ।

न वान्तः । न विरक्तः । नाजीर्णी ।

**अङ्गिराः **।

    नाध्येतव्ये द्विजैर् ऋग्यजुषी सामध्वनौ । कथĕमिद् यज्ञे ऽध्येये 


    तदङ्गत्वात् ।

मनुः [४४, ९९ ??] ।

नाविस्पृष्टम् अधीयीत न शूद्रं जनसन्निधौ ।

[२५९] न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥

अध्ययनम् इत्य् अनुवृत्तौ देवीपुराणे

न सङ्कीर्णजने कुर्यान् न च तस्करसन्निधौ ।

न श्मश्रुकरके रक्ते करवादिसमावृते ॥

“सङ्कीर्णजने” देशे । “श्मश्रुकरो” नापितः । “करवादिः” उलूकः ।

न श्राद्धभुक्तौ न श्रान्तो नाजीर्णो न च कामितः ।

इन्द्रोत्सवे च दुर्देशे न सङ्क्रान्तौ तहापणे ॥

**नरसिंहपुराणे **।

 महानवम्यां द्वादश्यां भरण्याम् अपि चैव हि ।

तथाक्षयतृतीयायां शिष्यान् नाध्यापयेद् बुधः ॥

माघमासे च सप्तम्यां रथाख्यायां च वर्जयेत् ।

अथापणे तथाभ्यक्तः स्नानकाले च वर्जयेत् ॥

नीयमानं शवं दृष्ट्वा महीस्थं वा द्विजोत्तम ।

“द्वादश्यां” शयनोत्थानद्वादश्याम् । “भरण्यां शक्रपातभरण्याम् । “रथाख्यायां” सप्तम्याम् ।

“नाधीयीत” इत्य् अनुवृत्तौ शङ्खः

देवायतनवल्मीकश्मशानशवसन्निधौ ।

राजत्सु च करोष्ट्रेषु गजेषु च हयेषु च ॥

छिद्राण्य् आहुर् द्विजातीनाम् अनध्यायान् मनीषिणः ।

छिद्रेभ्यः स्रवति ब्रह्म ब्राह्मणेन यदार्जितम् ॥

[२६०] छिद्रेष्व् एवावतिष्ठन्ति ये केचित् पुरुषादकाः ।

तत्रस्था ब्रह्म ते घ्नन्ति ब्राह्मणैर् यद् उपार्जितम् ॥

तथा

आयुः प्रजां पशून् मेधां कृत्यानि सुकृतानि च ।

अनध्यायेष्व् अभ्यसतो ब्रह्म व्याहारतस् तथा ॥

अष्टमी हन्त्य् उपाध्यायं शिष्यं हन्ति चतुर्दशी ।

हन्ति पञ्चदशी मेधां तस्मात् पर्वाणि वर्जयेत् ॥

प्रजापतिर् हि तिष्ठति सर्वविद्यास्व् अपर्वसु ।

तस्माद् धर्मार्थकामो वै नैताः पर्वसु कीर्तयेत् ॥

नित्यप्रश्नशब्दितब्रह्मयज्ञानुवृत्तौ आपस्तम्बः [१.११.१७–२०] ।

    तस्य विधिः । अकृतप्रातरास उदकान्तं गत्वा प्रयतः शुचौ देशे ऽधीयीत यथाध्यायम् उत्सृजन् वाचा । मनसा वानध्याये ।

मनुः [२.१०४–१०७] ।

अपां समीपे नियतो नैत्यकं विधिम् आस्थितः ।

सावित्रीम् अप्य् अधीयीत गत्वारण्यं समाहितः ॥

वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ।

नानुरोधो ऽस्त्य् अनध्याये होममन्त्रेषु चैव हि ॥

“वेदोपकरणं” व्याकरणादि । होममन्त्रग्रहणं कर्ममात्रानुष्ठानकालीनस्तोत्र-शस्त्रादिरूपमन्त्रप्रदर्शनार्थम्, [२६१] “विद्यां प्रत्य् अनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम्” इत्य् आपस्तम्बवचनात् ।

नैत्यके नास्त्य् अनध्यायो ब्रह्मसत्रं हि तत् स्मृतम् ।

ब्रह्माहुतिहुतं पुण्यम् अनध्यायवषट्कृतम् ॥

यः स्वाध्यायम् अधीते ऽब्दं विधिना नियतो द्विजः ।

तस्य नित्यं क्षरत्य् एष पयो दधि घृतं मधु ॥

**इत्य् अनध्ययनम् **

[२६२]

॥ १९ ॥

अथाध्येयम्

तत्र बृहस्पतिः [संस्कार २२६] ।

ब्राह्मणैर् धर्ममूलत्वं श्रुतिस्मृतयोः समं स्मृतम् ।

सदाचारस्य च तथा ज्ञेयम् एतत् त्रिकं सदा ॥

शङ्खलिखितौ

    न शास्त्रम् अफलं कुर्यात् । न वेदम् अनधीत्यान्यां विद्याम् अधीयीतान्यत्र वेदाङ्गस्मृतिभ्यः ।

मनुः [१२.९५–९६] ।

या वेदबाह्याः श्रुतयो याश् च काश् च कुदृष्टयः ।

सर्वास् ता निष्फलाः प्रोक्ताः तमोनिष्ठा हि ताः स्मृताः ॥

उत्पद्यन्ते च्यवन्ते च यान्य् अतो ऽन्यानि कानिचित् ।

तान्य् अर्वाक्कालिकतया निष्फलान्य् अनृतानि च ॥

“वेदबाह्याः श्रुतयः” चैत्यवन्दनादिनोदिकाः । “कुदृष्टयः” कुदर्शनानि बौद्धादिशास्त्राणि ।

तथा [२.१६८] ।

यो ऽनधीत्य द्विजो वेदम् अन्यत्र कुरुते श्रमम् ।

स जीवन्न् एव शूद्रत्वम् आशु गच्छति सान्वयः ॥

“सान्वयः” समन्तात् ।

अथ ब्रह्मचर्यकालावधिः

देवलः

    अतः परम् अष्टाचत्वारिंशद्वार्षिकीं वेदचर्याम् अधितिष्ठेत् । अशक्तश् चेद् वार्षिकीं चतुर्विंशतिवार्षिकीं द्वादशवार्षिकीं वा ।

बौधायनः [१.२.१–६] ।

    अष्टाचत्वारिंअद् वर्षाणि पौराणं वेदब्रह्मचर्यम् । चतुर्विंशतिं द्वादश वा प्रतिवेदम् । संवत्सरार्धं वा प्रतिकाण्डम् । ग्रहणान्तं वा । जीवितस्यास्थिरत्वात् । “कृष्णकेशो ऽग्नीन् आदधीतेति” **श्रुतेः ।**

“पौराणं” पुरातनैर् मन्वादिभिर् वाचरितम् । “संवत्सरार्धं वा प्रतिकाण्डं” काण्डं काण्डं प्रति संवत्सरार्धम् । “ग्रहणान्तं” इति, ब्रह्मचर्ये “ग्रहणान्तं वा” इत्य् अत्र हेतुः “जीवितस्यास्थिरत्वात्” इति ।

याज्ञवल्क्यः [१.३६] ।

प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।

ग्रहणान्तिकम् इत्य् एके केशान्तश् चैव षोडशे ॥

[२६४] मनुः [२.६५] ।

केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।

राजन्यबन्धोर् द्वाविंशे वैश्यस्य द्व्यधिके ततः ॥

ब्रह्मपुराणे

दीर्घकालं ब्रह्मचर्यं धारणं च कमण्डलोः ।

गोत्रान् मातृसपिण्डाद् वा विवाहो गोवधस् तथा ।

नराश्वमेधं मद्यं च कलौ वर्ज्यं द्विजातिभिः ॥

अथाचार्याभावे ऽनुकल्पः

आपस्तम्बः [१.७.१२–१३] ।

    यां विद्यां कुरुते गुरौ ते ऽप्य् अस्याचार्या ये तस्यां गुरोर् वंश्याः । यान् अन्यान् पश्यतो ऽस्योपसङ्गृह्णीयात् तदा त्व् एत उपसङ्ग्राह्याः ।

“यां विद्यां” ऋग्वेदादिरूपाम्, “गुरौ कुरुते” आचार्ये ब्रह्मचार्य् आतिष्ठेत्, आचार्यस्य सकाशात् प्राप्नोति, “अस्याः” विद्यायाः आचार्याः अस्यापि ये आचार्याः तद्वंश्याः, ते ऽपि “अस्य” ब्रह्मचारिणः आचार्याः । “यान्” इति, “अस्य” ब्रह्मचारिणः “पश्यतः” सतः “यान् अन्यान्” नत्वा गुरुः “उपसङ्गृह्णीयात्” “तदा तु” एवङ्काले “एते” उपसङ्ग्राह्याः ।

पैठीनसिः

    ब्रह्मचर्यस्या समाप्तेः मृतश् चेद् आचार्यो गुरुवृत्तिं समस्तां पुत्रे वर्तयेत् । अविद्यमाने पुत्रे भ्रातरि वसेत् ।

इति सान्धिविग्रहिकभट्टश्रीहृदयधरात्मज

श्रीलक्ष्मीधरविरचिते कृत्यकल्पतरौ

आचाराख्ये ब्रह्मचारिकाण्डे उपकुर्वाणकः ।

[२६५]

॥ २० ॥

अथ चातुराश्रम्यव्यवस्था

तत्र वसिष्ठः [७.१-१७] ।

    चत्वार आश्रमाः ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः । तेषां वेदं समधीत्य वेदौ वेदान् वाविशीर्णब्रह्मचर्यो यम् इच्छेत् तम् आविशेत् । ब्रह्मचार्य् आचार्यं परिचरेद् आ शरीरविमोक्षणात् । आचार्ये च प्रेते ऽग्निं परिचरेत् । विज्ञायते ह्य् अग्निर् आचार्यस् तवेति । संयतवाक् । चतुर्थषष्ठाष्तमकालभोजी भैक्ष्यस्य । गुर्वाधीनः । जटिलः शिखाजटो वा । गुरुं गच्छन्तम् अनुगच्छेत् । आसीनं चेत् तिष्ठन् शयानं चेद् आसीन उपासीत । आहूताध्यायी । सर्वं लब्धं निवेद्य तदनुज्ञया भुञ्जीत । खट्वाशयनदन्तप्रक्षालनाञ्जनाभ्यञ्जनवर्ज्यं स्थानासनशीलः त्रिर् अह्नो ऽभ्युपेयाद् अप इति ।

“अविशीर्णब्रह्मचर्यः” अविप्लुतब्रह्मचर्यः । “संयतवाक्” मौनी । “चतुर्थषष्ठाष्टम-कालभोजी” इति, औत्सर्गिकं यावद् भोज्यं तदपेक्षया चतुर्थादिकालसङ्ख्या । “त्रिर् अह्न्यो ऽभ्युपेयाद् अप” इति, त्रिषवणस्नानं कुर्याद् इत्य् अर्थः ।

[२६६] बौधायनः

    ब्रह्मचारिणो ऽत्यन्तम् आत्मानम् उपसङ्गृह्याचार्यकुले श्राम्यन्ति । एके सवनेषूपस्पृशन्तो वान्येनान्येनैकाग्निं जुह्वानाः । सन्न्यस्यैके कर्माण्य् अनग्नयो ऽनिकेताः । कौपीनाच्छादनाः । वर्षास्व् एकस्थाः । परिश्रुताभिर् अद्भिः कार्यं कुर्वाणाः । काषायवासाः । सन्नमुसले व्यङ्गारे निवृत्तशरावसम्पाते भिक्षेत । वाङ्मनःकर्मदण्डैर् भूतानाम् अद्रोही । पवित्रं बिभृयाच् छौचार्थम् । उद्धृताभिर् अद्भिः कार्यं कुर्यात् । अपविध्य वैदिकानि कर्माण्य् उभयतः परिच्छिन्ना मध्यमं पदं संश्लिष्यामह इति वदन्तः ।

“ब्रह्मचारिणो” नैष्ठिकाः “आत्मानं” शरीरं “उपसङ्गृह्य” सन्निरुध्य “आचार्यकुले श्राम्यन्ति” इति सम्बन्धः । “श्राम्यन्ति” तपः कुर्वन्ति । “एके” वानप्रस्थाः । “सवनेषु” प्रातरादिषु । “उपस्पृशन्तः” स्नास्यन्तः । “वन्येन” नीवारादिना । “एके” सन्न्यासिनो योगनिष्ठाः । “कर्माणि” अग्निसाध्यानि । “सन्न्यस्य” परिव्रज्य । “कौपीनं” कुत्सितं प्रजननं तावन्मात्रे “आच्छादनं” येषां ते कौपीनाच्छादनाः । “एकस्थाः” एकत्र वसन्तः । “परिश्रुताभिः” जलपवित्रगालिताभिः । “कर्माणि वैदिकानि” च जपस्वाध्यायादीनि । “अपविध्य उभयतः प्रिच्छिन्नाः” सुखदुःखमानावमानादिप्रकारद्वन्द्वात् प्रत्यक्कृताः । “मध्यमं पदं” सुखदुःखसन्निभम् ऐश्वरं प्रकृतिपुरुषयोर् वा मध्यवर्ति ब्रह्माख्यं पदं वदन्तः श्राम्यन्तीति सम्बन्धः ।

लघुव्यासः

नैष्ठिको वा मुनिर् वापि परिव्राजक एव वा ।

यम् इच्छेद् आश्रमं यत्र वसेत् तत्रैव संयतः ॥

[२६७] शङ्खलिखितौ

    ऊर्ध्वरेतस एवैके पारिव्राज्यम् इच्छन्ति न गृहस्थवानप्रस्थयोः । पूर्वस्यानुच्छेदाद् उभयधर्मोपपत्तेर् उत्तरस्यानपेक्ष्यत्वाद् ऐकाश्रम्यम् ।

“ऊर्ध्वरेतस एव” इत्य् अत्र हेतुः “पूर्वस्य” इत्यादि । तस्याचार्यपूर्वस्योर्ध्वरेतस्त्वस्य पारिव्राज्ये ऽप्य् अनुच्छेदात् “उभयधर्मोपपत्तेः” उभयत्र प्रथमचतुर्थाश्रमयोः ये धर्माः यमनियमादयः तेषाम् उपपत्तेः सम्भवात् “उत्तरस्य” गार्हस्थ्यस्य परिपक्वकषायेणानपेक्षणीयत्वात् “ऐकाश्रम्यं” आद्यान्तिमयोर् आश्रमयोर् एकरूपत्वम् ।

पुनः शङ्खलिखितौ

    चतुर्विंशकम् अष्टाचत्वारिंशकं वा ब्रह्मचर्यम् । तद् गुरवे समाधेयम् । नैष्ठिकम् आत्मज्ञानसंस्थम् । पूर्वोत्तरयोर् एकज्ञानम् अनारम्भत्वात् । आचार्यश्रान्तः यन्त्री शुद्धिम् आप्नोतीत्य् एवम् ह्य् आह ।


    	तपसा भावितात्मानः सत्यधर्मपरायणाः ।


    	ब्रह्मणैवोपसम्पन्ना ब्राह्मणा ब्रह्मलौकिकाः ॥


    	न च्यवन्ते पुनस् तस्माच् छुद्धा धर्मतपोमयाः ।


    	लोकास् तेजोमयास् तेषां ये चरन्त्य् ऊर्ध्वरेतसः ॥

“चतुर्विंशकं” चतुर्विंशतिपरिमितम् । एवं “अष्टाचत्वारिंशकम्” । “गुरवे” गुर्वाराधनाय । “समाधेयं” अनुष्ठेयम् । “आत्मज्ञानसंस्थं” आत्मज्ञानप्रतिष्ठितम् । “पूर्वोत्तरयोः” आद्यचतुर्थयोः । “एकज्ञानं” एकत्वेन ज्ञानम् । “अनारम्भत्वात्” ऋत्विक्साध्यारम्भयज्ञ-परत्वाभावात् । [२६८] “यन्त्री” यन्त्रवान्, यन्त्राणि यमनानि चतुर्थकालभोजनादीनि ।

हारीतः

    सर्वेष्व् आश्रमेष्व् आचारन्तः पुण्यलोकाः भवन्ति । सैषाश्रमनिश्रेणिर् यया देवा स्वपितरश् चामृतत्वम् अगच्छन् । प्रथमपुण्यो ब्रह्मचारी ब्रह्मचर्यनिष्ठो ब्रह्मसिद्धिम् अवाप्नोति । द्विपुण्यो गृहाश्रमनिष्ठो भूयो महिमानं ब्रह्मलोकम् अवाप्नोति । आश्रमानुपूर्वो वानप्रस्थः प्रतिष्ठोभयस्तरमहिमानं ब्रह्मलोकम् । आश्रमाद् आश्रमं गच्छन् भिक्षुर् आशु सिद्धिं विन्देत् । नैष्ठिको ब्रह्मचारिणां श्रेष्ठतमः । यायावरो गृहस्थानाम् । आनुप्रस्थिको वानप्रस्थानाम् । चातुराश्रम्यसिद्धो यतीनाम् ।

“द्विपुण्यः” द्वे पुण्ये आश्रमद्वयकर्मणी यस्य स तथा । “सिद्धिः ब्रह्मपाप्तिः ।

मनुः [६.८९–९१] ।

ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा ।

एते गृहस्थप्रभवाश् चत्वारः पृथगाश्रमा ॥

[सर्वे ऽपि क्रमश्स् त्व् एते यज्ञाशास्त्रं निषेविताः ।]

यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥

सर्वेषाम् अपि चैतेषां वेदस्मृतिविधानतः ।

गृहस्थ उच्यते श्रेष्ठः स त्रीन् एतान् बिभति हि ।\

विष्णुपुराणे [३.१०.१३–१५] ।

गृहीतविधो गुरवे दत्वा च गुरुदक्षिणाम् ।

गार्हस्थ्यम् इच्छन् भूपाल कुर्याद् दारपरिग्रहम् ॥

[२६९] ब्रह्मचर्येण वा कालं कुर्यात् सङ्कल्पपूर्वकम् ।

गुरोः शुश्रूषणं कुर्यात् तत्पुत्रादेर् अथापि वा ॥

वैखानसो वापि भवेत् परिव्राड् अथ वेच्छया ।

प्रजापतिर् इत्य् अनुवृत्तौ हारीतः

    स चतुर्धात्मानं विधाय ब्रह्मच्र्येण ब्रह्मयज्ञैस् तपसा ध्यानेन चात्मानम् अश्राम्यत् तद् आश्रमा अभवन् ।

हरीतः ।

अनाश्रमी व्यपेतश् च आश्रमी च निरर्थकः ।

मिथ्याश्रमी च सर्वे ते निरयं यान्ति मानवाः ॥

“अनाश्रमी व्यपेतः” अनाश्रमी सन् यो व्यपेतो भूतः । “निरर्थकः” स्वाश्रमोक्तकर्मानुष्ठानरहितो लिङ्गमात्रधारी । “मिथ्याश्रमी” दम्भार्थम् आश्रमधर्मान् यो ऽनुतिष्ठति ।

तथा

ब्रह्मचर्यं च सर्वेषां रेतोधारणम् उच्यते ।

ऋतुकालं गृहस्थानां नित्यं वा पर्ववर्जनम् ॥

“ऋतुकालं” ऋतुकाल एव गमनं यत् तद् गृहस्थानां ब्रह्मचर्यम् उच्यत इत्य् अर्थः ।

तथा

मन्त्रद्रव्याग्निसंयोगं यज्ञमार्गं मनीषिणः ।

आत्मयज्ञस् तु भिक्षूणाम् आत्मन्य् एव व्यवस्थितः ॥

व्रतोपवासयन्त्रादि तयोर् नित्यं प्रशस्यते ।

त्रिसत्यपूतं भिक्षूणां प्रवदन्ति मनीषिणः ॥

“आत्मयज्ञः” आत्मज्ञानम् एवाभ्युदयलक्षणयज्ञकार्यकारित्वाद् यज्ञः । “व्रतं” शास्त्रतो ऽग्नीन्धनादि ।

[२७०] यमः

    ब्रह्मचारिणाम् अग्नीन्धनादिर् नियमः । गृहिणः पञ्चमहायज्ञादिः । वनवासिनो वन्याशादिः । भिक्षोर् अहङ्कारपरिग्रहत्यागप्राणायामकृच्छ्रादिः त्रिसत्याद् वाङ्मनःकर्मभिः परपीडासन्न्यासो देवताद्यर्थम् अपि वृत्ते । उपादानपरस्य याच्ञादिर् अहिंसया ।

“अहिंसया” अपीडनया । अतो देवतापूर्वम् अनादिकृता श्रमत्रयाद् ऊर्ध्वं भिक्षोश् चतुर्विधं हिंसावर्जनं न्याय्यम् ।

तथा

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।

सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥

अनेन विधिना यो हि आश्रमान् उपसेवते ।

स सर्वलोकान् निर्जित्य ब्रह्मलोकाय कल्पते ॥ इति ।

दक्षः

यो गृहाश्रमम् आस्थाय ब्रह्मचारी भवेत् पुनः ।

न यतिर् न गृहस्थश् च स सर्वाश्रमवर्जितः ॥

अनाश्रमी न तिष्ठेत् तु दिनम् एकम् अपि द्विजः ।

आश्रमेण विना तिष्ठन् प्रायश्चित्तीयते द्विजः ॥

जपे होमे तथा दाने स्वाध्याये च रतः सदा ।

नासौ फलम् अवाप्नोति कुर्वाणो ऽप्य् आश्रमच्युतः ॥

त्रयाणाम् आनुलोम्यं स्यात् प्रातिलोम्यं न विद्यते ।

प्रातिलोम्ये त्व् अधो याति न तस्मात् पापकृत्तमः ॥

“आनुलोम्यं” ब्रह्मचारी गृहस्थो वानप्रस्थो यतिश् चेत्य् अयं क्रमः । “प्रातिलोम्यं” उक्तवैपरीत्यम् ।

[२७१]

॥ २१ ॥

नैष्ठिकक्रिया

अथ हारीतः

    द्विविध एव ब्रह्मचारी भवति । उपकुर्वाणको नैष्ठिकश् च । तयोर् उपकुर्वाणको व्याख्यातः । निष्ठां चेद् गच्छेद् आ शरीरनिपाताद् गुरुम् अन्वासीत, तदभावे गुरुपत्न्याम्, तदभावे गुरुपुत्रे । गुरुपुत्राभावे ऽग्निम् एव परिचरेत् । यज्ञियाः समिध आहृत्य सम्मार्जनोपलेपनोद्बोधनसमूहन-समिन्धनपर्यग्निकरणपरिक्रमोपस्थानहोमस्तोत्रनमस्कारादिभिर् अग्निं परिचरेत् । नाग्निम् अधितिष्ठेत् । न पद्भ्यां कर्षेत् । न मुखेनोपधमेत् । नापश् चाग्निं च युगपद् धारयेत् । नाजीर्णभुक्त उच्छिष्टो वाभ्यादध्यात् । नाभ्यादधेद् वातिक्रामेत् । न निष्ठीवेत् । विविधचरुहविर्दानविशेषैर् आग्नेयैर् अहर् अहर् अग्निं समिन्धेत् । आमन्त्र्य गच्छेत् । आहृत्य निवेदयेत् । तन्मनाः शरीरोपरमान्ते ब्राह्मणः सायुज्यं गच्छति । सन्न्यस्य वा त्रयोदशगुणं ब्रह्मचर्यम् । अष्टाङ्गं ब्रह्मचर्यम् एके । विष्णुनिष्ठाः परमम् अचलं पदम् आप्नुवन्ति भवन्त्य् एके ।


    	अनेन विधिना यो हि ब्रह्मचर्यं निषेवते ।


    	सर्वलोकान् विनिर्जित्य ब्रह्मलोकाय कल्पते ॥

[२७२] क्षीरं पिबन्ति मधु ते पिबन्ति

		सोमं पिबन्ति ह्य् अष्ट तेन सार्धम् ।

	मृत्योः पुरस्ताद् अमृतं भवन्ति

		ये ब्राःमणा ब्रह्मचर्यं चरन्ति ॥

गुरुसमीपे ऽर्थज्ञानपर्यन्तं स्वाध्यायस्वरूपं प्रयोजनं कुर्वाणः वसतीति “उपकुर्वाणकः” । “उद्बोधनं” अग्नेः प्रकटीकरणम् । “समूहनं” विकीर्णस्याग्नेः कूटीकरणम् । “समिन्धनं” प्रज्वालनम् । “परिक्रमणं” प्रदक्षिणीकरणम् । “उपस्थानं” तद्गतवाङ्मनस्त्वेन समीपे ऽवस्थानम् । आदिशब्दो जय जयेत्यादिशब्दप्रयोगैर् इत्य् अर्थः । “अजीर्णभुक्तः” न जीर्णं ह्य् अस्तनं भुक्तं यस्य स तथा । “अभ्यादध्यात्” मन्त्रपूर्वकं समिदाधानं कुर्यात् । “चरुः” अनाश्रावितम् ऊष्मपक्वम् अन्नम् । “हवींषि” आज्याधानसक्त्वामिक्षादीन्य् अक्षारलवणानि । एतान्य् उद्देशेनाग्नौ प्रतिक्षिपेत् । समिन्धनम् अप्य् एवम् एव सिद्धं भवति । “आमन्त्र्य गच्छेत्” आचार्यं पृष्ट्वा गच्छेत् । “तन्मनाः” गुरुगतचित्तः । “त्रयोदशगुणं” स्त्रीमद्यनिवासप्रवेशाङ्गसङ्गस्पर्शदृष्टिमेलन-सन्दर्शनतिर्यगालोकनसङ्कथनप्रश्नतद्वचनाकर्णनदूरावेक्षणनिकटभ्रमणतज्जन-प्रियवचनं चैते त्रयोदशगुणाः ।

**देवलः **।

    ब्रह्मचारिधर्मो ब्रह्मचर्यं स्वाध्यायावश्यकब्रह्मसूत्राक्षमाला-दण्डकौपीनकुण्डिकामौञ्जीमेखलाधारणं सकृद्भोजनम् असकृदवगाहनम् उभयकालम् अग्निहोत्रं सन्ध्योपस्थानम् अलुप्तलोम-नखत्वग्गन्धमाल्यस्नेहाभ्यञ्जनवेषालङ्कारछत्रोपा**[२७३]**नद्वाहन-लङ्घनप्लवनधावनचिकित्साज्योतिर्लक्षणवाश्तुविद्यामङ्गलपौष्टिकशान्ति-कर्मगान्धर्वसङ्घसमयबन्धनशिल्पलेखनकारुकर्मवेश्मक्षेत्र-द्रव्यधान्यपरिच्छेदशस्त्रद्यूतव्यवहाराज्ञाभावलीलापरिहासप्रणय-कुहकविस्मापनविडम्बनविवादोत्सेकपरिदेवनरोदनवस्तिनस्त-पादोद्वर्तनवर्जनम् । गुरोः पूर्वोत्थानं जघन्यसंवेशनं प्रमाणसन्दिष्टकरणम् इष्टशुश्रूषा नित्योपासनम् अपचितिः । तदभावे तत्पुत्रे ऽस्य दारेषु चानुवृत्तिर् आ मरणाद् इति ।

“कुण्डिका” कमण्डलुः । “लुप्तं” छिन्नं । “वेषः” मण्डनम् । “प्लवनं” उत्प्लवनम् । “लक्षणवास्तुविद्या” सा शूद्रविद्या । “सङ्घः” समूहः । “समयः” सङ्केतः, “बन्धनं” तन्नियमः । “कारवः” सूपकाराद्याः । “भावः” शृङ्गारादिरसनिदानमनोविकारः । “उत्सेको” दर्पः । “वस्तिः” निरूहादिरूपा । “नस्त” इति नस्यं लक्ष्यते । “प्रमाणसन्दिष्टकरणं” प्रमाणेन सन्दिष्टस्य करणं, न भ्रान्त्यादिनेष्टशुश्रूषा । अपचितिः पूजा ।

शङ्खलिखितौ

    कामतो वाश्मिन्न् एव स्वाध्यायः । प्रयोजनापेक्षी गायत्रीरुद्रकल्पोपनिषत्स्व् अभिरतः । सवनोपस्पर्शी शेषवृत्तिसम्बन्धत्वेनोक्तम् उपासीत । आत्मरतिर् गुरुकुलनिष्ठ आत्मनिष्ठो वा । सो ऽमृतत्वम् आप्नोति ।

“प्रयोजनापेक्षी” आचार्यस्येति शेषः । “रुद्रकल्पः” शतरुद्रियविधानम् । “सवनोपस्पर्शी” त्रिकालस्नायी ।

[२७४] मनुः [३.२४२–२४४] ।

नाब्राह्मणे गुरौ शिष्यो वासम् आत्यन्तिकं वसेत् ।

ब्राह्मणे चाननूचाने काङ्क्षन् गतिम् उत्तमाम् ॥

यदि त्व् आत्यन्तिकं वासं रोचयेत् गुरोः कुले ।

युक्तः परिचरेद् एनम् आ शरीरविमोक्षणात् ॥

आ समाप्तेः शरीरस्य यस् तु शुश्रूषते गुरुम् ।

स गच्छत्य् अञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥

तथा [३.२४७–२४९] ।

आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।

गुरुदारे सपिण्डे वा गुरुवद् वृत्तिम् आचरेत् ॥

एषु त्व् अविद्यमानेषु स्थानासनविहारवान् ।

प्रयुञ्जानो ऽग्निशुश्रूषां साधयेद् देहम् आत्मनः ॥

एवं चरति यो विप्रो ब्रह्मचर्यम् अविप्लुतम् ।

स गच्छत्य् उत्तमं स्थानं न चेहाजायते पुनः ॥

“आचार्यप्रेते ऽनुबन्ध” इत्य् अनुवृत्तौ विष्णुः

गुरुदारेषु सवर्णेषु वा ।

**बृहस्पतिः **[संस्कार २५९–२६२] ।

उपकुर्वाणकस्यैतत् समादिष्टं मया व्रतम् ।

अधुना सम्प्रवक्ष्यामि नैष्ठिकस्य समासतः ॥

सन्ध्याग्निकार्यं स्वाध्यायं भैक्ष्याधःशयनं दमः ।

प्राङ्निषिद्धपरित्यागः मनोभवं [?] गुरोर् हितम् ॥

गुर्वभावे तु तद्दारसुतज्ञात्यग्निसेवनम् ।

आ मृत्योर् नैष्ठिकः कुर्वन् ब्रह्मलोकम् अवाप्नुयात् ॥

[२७५]

॥ २२ ॥

अथ गुरुदक्षिणास्नाने

तत्र व्यासः

गुरुशुश्रूषया विद्यां सम्प्राप्य विधिवद् द्विजः ।

स्नायीत गुर्वनुज्ञातो दत्वास्मै दक्षिणां च गाम् ॥

याज्ञवल्क्यः [१.५१] ।

गुरवे तु वरं दत्वा स्नायाच् च तदनुज्ञया ।

वेदव्रतानि वा पारं नीत्वाप्य् उभयम् एव वा ॥

“वरो” गवादिः ।

मनुः [२.२४५–२४६] ।

न पूर्वं गुरवे किञ्चिद् उपकुर्वीत धर्मवित् ।

स्नास्यंस् तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थम् आहरेत् ॥

क्षेत्रं हिरण्यं गाम् अश्वं छत्रोपानहम् अन्ततः ।

धान्यं शाकं च वासांसि गुरवे प्रीतिम् आहरन् ॥

“प्रीतिं” प्रियम् ।

आपस्तम्बः [१.७.१९–२५] ।

    कृत्वा विद्यां यावतीं शक्नुयाद् वेददक्षिणाम् आहरेद् धर्मतो यथाशक्ति । विषमगते त्व् आचार्य उग्रतः शूद्रतो **[२७६]** वाहरेत् । सर्वदा शूद्रत उग्रतो वाचार्यार्थस्याहरणं धर्मम् इत्य् एके । दत्वा वा नानुकथयेत् । कृत्वा च नानुस्मरेत् । आत्मप्रशंसां परगर्हाम् इति वर्जयेत् ।

“यावतीं विद्यां शक्नुयात्” इति, वेदं वेदान् वा तावतीं गृहीत्वेत्य् अर्थः । “वेददक्षिणां” वेदार्थां दक्षिणाम् । “उग्रः” क्षत्रियेण शूद्रायां जातः । तत् क्षात्रवाद् ब्राह्मण्यां इति कपर्दी । “इति” हेतोः, यत् स्वदक्षिणादानं प्रशंसायाम्, परदक्षिणादानं गर्यायां च, अनुकथनस्मरणे च स्याताम् । प्रशंसां वा गर्हां वा वर्जयेद् इत्य् अर्थः ।

वसिष्ठ-बौधायनौ [बौ ४.४.१०] ।

सहस्रं दक्षिणा ऋषभैकादशं गुरुप्रसादो वा ।

“सहस्रं” इति गावः । “ऋषभैकादश” इति सहस्रदानाशक्ताव् इति भर्तृयज्ञः

लघुहारीतः

एकम् अप्य् अक्षरं यस् तु गुरुः शिष्ये निवेदयेत् ।

पृथिव्यां नास्ति तद् द्रव्यं यद् दत्वा त्व् अनृणी भवेत् ॥

अत्रार्थज्ञानम् श्रुत्वानन्तरं लघुव्यासः

शक्त्या समाप्य यो विद्यां न्यायतस् तु तदर्थवित् ।

सम्यग् व्रतानि सम्सेव्य समावर्तनम् अर्हति ॥

ब्रह्मचर्यं समाप्य यन् मन्त्रवत् सुगन्धादिना स्नानं तत् “समावर्तनम्” ।

[२७७] हारीतः

    त्रयः स्नातका भवन्ति विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति । यः समाप्य वेदम् असमाप्य व्रतानि समावर्तते स विद्यास्नातकः । यः समाप्य व्रतान्य् असमाप्य वेदं समावर्तते स व्रतस्नातकः । उभयं समाप्य समावर्तते स विद्याव्रतस्नातक इति । तद् एवं विद्यास्नातो ऽलङ्कारादीनि गृह्णीयात् । यथार्थं चैलान् बिभृयात् ।

“यथर्थं” यथाप्रयोजनम् ।

आपस्तम्बः [१.३०.१–४] ।

    विद्यया स्नातीत्य् एके । तथा व्रतेनाष्टाचत्वारिंशत्परिमाणेन । विद्याव्रतेन चेत्य् एके । तेषु सर्वेषु स्नातकवद् वृत्तिः ।

पुनः आपस्तम्बः [२.१८.४] ।

    अधोनाभ्य् उपरिजान्व् आच्छाद्य त्रिषवणम् उदकम् उपस्पृशन्न् अनग्निपक्ववृत्तिर् अच्छायोपगतः स्थानासनिकः संवत्सरम् एतद् व्रतं चरेत् । एतद् अष्टाचत्वारिंशत्सम्मितम् इत्य् आचक्षते ।

दन्तप्रक्षालनादिमन्त्रान् अभिधाय पारस्करः [२.६.३२] ।

    दन्तप्रक्षालनादीनि नित्यम् अपि । वासश्छत्रोपानहश् चापूर्वाणि चेन् मन्त्रः ।

[२७८] बौधायनः [१.५.१–६] ।

    अन्तर्वास उत्तरीयवान् । वैणवं दण्डं धारयेत् । सोदकं च कमण्डलुम् । द्वियज्ञोपवीती । उष्णीषम् अजिनोत्तरीयम् उपानहौ छत्रं च ।

“अन्तर्वासः” परिधानवस्त्रम् । “उत्तरीयं” उपरिवस्त्रम् । “अजिनोत्तरीयं” वाससा सह वैकल्पिकम्, “अजिनं वासो वा दक्षिणत उपवीती” इति श्रुतेः

मनुः [४.३५] ।

कॢप्तकेशनखश्मश्रुर् दान्तः शुक्लाम्बरः शुचिः ।

स्वाध्याये चैव युक्तः स्यान् नित्यम् आत्महितेषु च ॥

“कॢप्तं” छिन्नम् ।

तथा [४.३६] ।

यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ।

“वेदो” दर्भमुष्टिः । “रौक्मे” सौवर्णे ।

वसिष्ठः [१२.३९] ।

न बहिर् मालां दारयेत् । 

हारीतः

नागन्धां रक्तां वा स्रजम् आबध्नीयाद् अन्यत्र काञ्चनकमलकुवलयेभ्यः ।

“कुवलयं” उत्पलम् ।

आप्स्तम्बः

सुस्रग्गन्धलेपनः स्यात् ।

[२७९] जाबालिः

नित्यं शुचिः सुगन्धिः स्यात् शुक्लाम्बरधरः क्षमी ।

स्वानुष्ठानपरो गेही सपत्नीको व्रतांश् चरेत् ॥

गौतमः [९.१–७] ।

    स विधिपूर्वं स्नात्वा भार्याम् अधिगम्य [यथोक्तान्] गृहस्थधर्मान् प्रयुञ्जान इमानि व्रतान्य् अनुकर्षेत् स्नातकः । नित्यं [शुचिः] सुगन्धिः स्नानशीलः । सति विभवे न जीर्णमलवद्वासाः स्यात् । न रक्तम् उल्बणम् अन्यधृतं वासो बिभृयात् । न स्रगुपानहौ । निर्णिक्तम् अशक्तौ । न रूढश्मश्रुर् अकस्मात् ।

कारणव्यतिरेकेण न दीर्घश्मश्रुः स्याद् इत्य् अर्थः ।

मनुः [४.६६] ।

उपानहौ च वासश् च धृतम् अन्यैर् न धारयेत् ।

उपवीतम् अलङ्कारं स्रजं करकम् एव च ॥

“करकं” कमण्डलुः ।

[इति कृत्यकल्पतरौ ब्रह्मचारिकाण्डे गुरुदक्षिणास्नाने]

[इति महाराजाधिराजश्रीगोविन्दचन्द्रदेवमहासन्धिविग्रहिक-

श्रीभट्टहृदयधरात्मजश्रीलक्ष्मीधरभट्टस्य कृतौ कृत्यकल्पतरौ

ब्रह्मचारिकाण्डम्]