३८ यथाचारमाराधनम् तत्नप्रयोगः

अथद्वादशाहेत्नयोदशाहेवायथाचारमाराधनम् तत्नप्रयोगः देशकालौस्मृत्वा

श्रीनारायणप्रीत्यर्थमाराधानंकरिष्य इति संकल्प्य गुर्वर्थेक्षणःकर्तव्यः

एवं परमगुर्वर्थेपरमेष्टिगुर्वर्थेपरात्परगुर्वर्थे एवं विप्रचतुष्टयंनिमन्त्र्य

शुक्लेकेशवादिनाभिःकृष्णेसंकर्षणादिनामभिःद्वादशाविप्रान्निमन्त्रयेत्

एवं षोडशविप्राःयतयोवा अशक्तौयथाशक्तिविप्रान्निमन्त्र्ययथायथंषोडशक्षणादेयाः

षोडशानांपादक्षालनंकृत्वाचम्यपादक्षालनोदकंपात्नान्तरेगृहीत्वागन्धपुष्पादिभिःपूजयेत्

विप्रान्प्राङ्मुखानुदङ्मुखान्वोपवेश्यषोडशोपचारैर्गन्धादिपञ्चोपचारैर्वासंपूज्यसपरिकरमन्नंपरिविष्यगायत्र्याप्रोक्ष्य

गुरवे इदमन्नंपरिविष्टं परिवेक्ष्यमाणंचातृप्तेःस्वाहाहव्यंनमम एवं परमगुर्वादिभ्यः

पञ्चदशभ्योन्नत्यागंकृत्वाब्रह्मार्पणमित्यादि भुक्तेष्वाचान्तेषुतेषुताम्बूलदक्षिणावस्त्रादिभिःपूजयेत्

अत्नकेचित्पूर्वस्थापितपादोदकतीर्थपूजांकुर्वन्ति तद्यथा तीर्थपात्नंतण्डुलादिकृतमण्डलेसंस्थाप्य

पुरुषसूक्तेनतीर्थराजायनम इति षोडशोपचारैःसंपूज्यतत्पात्नंशिरसिधृत्वाबन्धुभिः

सहविप्रान्प्रदक्षिणीकृत्यगुरुर्बह्मागुरुर्विष्णुरितिनत्वाप्रथमविप्रहस्तात्तत्तीर्थेपिवेत्

तत्नमन्त्रः अविद्यामूलशमनंसर्वपापप्रणाशनम् । पिबामिगुरुपत्तीर्थपुत्नपौत्रप्रवर्धनम् १

इति कर्मेश्वरार्पणंकृत्वासुहद्युतोभुञ्जीत वर्षपर्यन्तंप्रतिमासंमृततिथावेवमेवाराधनं

कार्यनतुप्रतिमासिकश्राद्धम् प्रत्यब्दंतुपार्वणश्राद्धंकृत्वाराधनमपिकार्यम् ततोदर्शमहालयादि

श्राद्धान्यपिसर्वसाधरण्येनकार्याणि नतत्नाविशेषः इत्याराधनविधिः ॥

अत्रनारायणबलिपार्वणश्राद्धयोरेकदिनानुष्ठानपक्षे एकादशेद्वादशेवादिने

पूर्वनारायणबलिंकृत्वाततःपार्वणश्राद्धंकार्यम् दिनद्वयेकरणपक्षेत्वेकादशेपार्वणंद्वादशेनारायणबलिः

द्वादशेत्रयोदशेवा दिने आराधनम् ऊनमासिकादिकालेष्वप्याराधनमितिकेचित्

प्रतिमासमाधनमित्यन्ये पाणश्राद्धंत्वेकादशाहप्रत्यब्दयोरेव

तच्चपुत्रादीनामगोत्नोल्लेखाधिकारार्थमेकादशेपिशिष्येणपार्वणश्राद्धंकार्यम् ॥

नारायणबल्यादेर्द्वादशाहादावसंभवेशुक्लपक्षस्थद्वादशीश्रावणपञ्चम्यःपूर्णिमामावास्याचेतिगौणकालाः

अत्नपूर्वपूर्वःश्रेयात् भार्याकन्यास्नुषादेःस्त्रियाःयतिसंस्कारकर्तृत्वेतुविधवायाः

वपनपूर्वकंकृच्छ्रत्रयाचरणम् सधवायास्तुकृच्छ्राचरणमेव ॥

देशान्तरस्थपुत्रःपितुर्यतेःसिद्धिवार्ताश्रुत्वा वपनपूर्वकंस्नात्वा

क्षीरतर्पणपूजनादिदशाहान्तंकृत्वैकादशाहादौपार्वणनारायणबल्यादिसर्वमविकृतंकुर्यात्

सन्निहितेनज्येष्ठेनकृतंचेत्कनिष्ठोनकुर्यात् ॥

शुक्लकृष्णादिभेदेनकेशवादिनामानिमृततिथ्यनुरोधेनैवग्राह्याणि नतुवार्ताश्रवणतिथ्यनुरोधेन

मृततिथ्यज्ञानेतुवार्ताश्रवणानुरोधेनैव यतिसंस्कारकरणेश्वमेधसहस्त्रादिफलम् असंस्कृतंविशीर्येतयतेर्यत्नकलेवरम् ।

धर्मलोपोभवेत्तत्नदुर्भिक्षंमरणंतथा १ दिवं गतेगुरौशिष्य उपवासं तदाचरेत् ।

नस्त्रानमाचरेद्भिभुःपुत्रादिनिधनेश्रुते २ पितृमातृक्षयंश्रुत्वास्नानाच्छुद्धयतिसाम्बरात् ॥