३७ द्वादशाहेनारायणबलिः

अथद्वादशाहेनारायणबलिः देशादिस्मृत्वासिद्धिंगतस्यभिक्षोः

संभावितसर्वपापक्षयपूर्वकंविष्णुलोकावाप्तिद्वाराश्रीनारायणप्रीत्यर्थनारायणबलिंकरिष्ये

इति संकल्प्यत्नयोदशयतीन्विप्रान्वानिमन्त्र्यशुक्लपक्षेकेशवरुपिगुर्वर्थे त्वयाक्षणःकर्तव्य इत्येवं

दामोदरान्तकेशवादिद्वादशनामाभिःक्षणोदेयः कृष्णेतुसंकर्षणादिद्वादशनामभिः

त्नयोदशंविप्रंविष्ण्वर्थत्वयाक्षणःकर्तव्य इति निमन्त्र्य पादान्प्रक्षाल्यप्राङ्मुखानुपवेशयेत् विप्राग्रेस्थण्डिलेग्निप्रतिष्ठापनादि

अन्वाधानेचक्षुषी आज्येनेत्यन्तेऽग्निंवायुंसूर्यप्रजापतिंचव्यस्तसमस्तव्याहतिभिरेकैकपायसाहुत्याविष्णुमतोदेवा इति षडभिः

प्रत्यृचमेकैकपायसाहुत्यानारायणंपुरुषसूक्तेनप्रत्यृचमेकैकपायसाहुत्याशुक्लेकेशवादिद्वादशदेवताः

कृष्णेसंकर्षणादिद्वादशदेवताः एकैकपायसाहुत्याशेषेणेत्यादि

द्विपञ्चाशदधिकशतमुष्टीन्निरुप्यबलिपर्याप्ततण्डुलानोप्याष्टत्निंशदाहुति

पर्याप्तंपुरुषाहारमितविष्णुनैवेद्यपर्याप्तंचक्षीरेश्रपयित्वाज्यभागान्तेग्निपूर्वतः

शालग्रामेविष्णुंपुरुषसूक्तेनाष्टाक्षरेणचषोडशोपचारैःसंपूज्यस्त्रुचाहस्तेनवान्वाधानानुसारेणहोमत्यागोविदध्यात्

एवं शुक्लकृष्णभेदेनकेशवादिद्वादशान्ताःसंकर्षणाद्यन्तावाऽष्टत्निंशदाहुतीर्हुत्वास्विष्टकृदादिशेषंसमाप्यपुनः

शालग्रामंसंपूज्याविष्णुगायत्र्याविष्णवेऽर्घ्यदत्वाहुतशेषपायसेनविष्णवेबलिंदत्वानिमन्त्रितत्नयोदशविप्रान्केशवादिक्रमेण

केशवरुपिगुरवेनम इदमासनमित्यादिनासनगन्धपुष्पधूपदीपाच्छादनानिदत्वात्नयोदशेविप्रेपुरुषसूक्तेन

प्रत्यृचान्तेविष्णवेनम इत्येवमादिनाविष्णुंदीपान्तोपचारैःपूजयेत्

चतुरस्त्रमण्डलेषुत्नयोदशभोजनपात्नाण्यासाद्योंपस्तीर्यान्नंपरिषिच्यपृथिवीतेपात्नमित्यादिनाकेशवादिद्वादशोद्देशेनविष्णूद्देशेनचान्नं त्यक्त्वा

अतोदेवा० ॐतद्रह्मॐतद्वायुर्ब्रह्मार्पणमित्याद्यापोशनादिप्राणाहुत्यनेनारायणाद्युपनिषद्भागान्पठेत्

तृप्तिप्रश्नात्ने आचान्तेषुप्रागग्रान्दर्भानास्तीर्याष्टाक्षरेणाक्षतोदकंदत्त्वाकेशवरुपिणेगुरवेऽयंपिण्डःस्वाहानम इत्येवं द्वादश

पिण्डान्दद्यात् कृष्णेतुसंकर्षणादिनामभिरितिसर्वत्र पिण्डेषुविष्णुंसंपूज्यपुरुषसूक्तेनस्तुत्वा विसर्जयेत्

विप्रेभ्यस्ताम्बूलदक्षिणादिदत्त्वात्नयोदशायविप्रायनाभ्या आसीदित्याद्यृकत्नयेणफलताम्बूलदक्षिणांदत्त्वानमस्कृत्यतांशालग्राममूर्तिमाचार्यायदद्यात्

इति नारायणबलिविधिः ॥