३४ आतुरसंन्यासः

अथातुरसंन्यासः ॥ आतुरसंन्यासेसंकल्पप्रेषोच्चाराभयदानेतित्नयंप्रधानमवश्यंकार्यम्

अष्टश्राद्धादिदण्डग्रहणान्तमङ्गभूतंयथासंभवं कार्यम् ॥

तत्प्रयोगः मन्त्रस्नानंकृत्वाशुद्धवस्त्रंधृत्वाज्ञानप्राप्तिद्वारामोक्षसिद्धयर्थमातुरविधिनासंन्यासमहंकरिष्ये

पञ्चशिखाकेशानवशेष्यवपनं कृत्वास्नात्वासंध्याद्यौपासनहोमान्तंयथासंभवं संपाद्यात्मनिसमारोपंकुर्यात्

उच्छिन्नाग्नीनांपुनराधानसंभवेसमारोपोन्यथातुनसमारोपः विधुरादीनामग्न्यभावादेवसमारोपोनावश्यकः

ततस्तोयमादायाप्सुजुहोति एषहवा अग्नेर्योनिर्यःप्राणःप्राणंगच्छस्वाहा १ आपोवैसर्वादेवताःसर्वाभ्योदेवताभ्योजुहोमि स्वाहा

२ भूःस्वाहेतिजलेजलैर्हुत्वाहुतशेषंजलमाशुःशिशान इत्यनुवाकेनाभिमन्त्र्य

पुत्नेषणावित्तेषणालोकेषणामयात्यक्ताःस्वाहेतिकिंचित्पिबेत् अभयं सर्वभूतेभ्योमत्तःस्वाहेतिद्वितीयंपिबेत्

संन्यस्तंमयेतिनिःशेषंतृतीयम् ततःपूर्ववत्सावित्नीप्रवेशः ततः प्राङ्मुख ऊर्ध्वबाहुःप्रेषोच्चारंपूर्ववत्कुर्यात्

अभयंसर्वभूतेभ्योमत्तःस्वाहेतिप्राच्यांजलंक्षिपेत् शिखामुत्पाट्ययज्ञोपवीतंछित्त्वाभूःस्वाहेत्यप्सुहुत्वापुत्रगृहेनतिष्ठेत्

अत्यन्तमातुरश्चेत्प्रेषमात्नंवावदेत् जीवतिचेत्स्वस्थःसन्महावाक्योपदेशदण्डग्रहणदिसर्वकुर्यात्

एवमातुरविधिनासंन्यासेमृतस्ययतिवत्संस्कारः ॥