३१ योगपट्टः

अथयोगपट्टः कारितपर्यङ्कशौचोयतिःकटिशौचंकृत्वाकटिसूत्नकौपीनेधृत्वावस्त्रेणावगुण्ठ्यगुर्वनुज्ञयोच्चासने उपविश्यसभ्यैः

सहवेदान्तेकिंचिदुपन्यसेत् गुरुर्यतिःशिष्यंयतिशिरसिशङ्खेनपुरुषसूक्तेनाभिषिच्यवस्त्रगन्धपुष्पदीपनैवेद्यैः

संपूज्यवस्त्रमुपरिधृत्वायतिभिःसहविश्वरुपाध्यायंपश्यामिदेवानित्यारभ्यभुङक्ष्वराज्यंसमृद्धमित्यन्तंपठित्वापूर्वकल्पितंनामदद्यात्

ततःशिष्यंवदेत् इतःपरंत्वयासंन्यासाधिकारिणेसंन्यासोदेयोदीक्षायोगपट्टादिकंचकार्यम्

ज्येष्ठयतयोनमस्कार्याः ततोगुरुःकटिसूत्रंपञ्चमुद्रालंकृतंपूर्वदण्डचाशिष्यायदत्त्वाशिष्यंयथासंप्रदायंनमस्कुर्यात्

अन्येयतयोगृहिणश्चनमस्कुर्युः शिष्योनारायणेत्युक्त्वोच्चासनादुत्थायतत्रगुरुमुपवेश्ययथाविधिनत्वान्ययतीन्नमेत्

इति गृह्याग्निमतोविधुरादेश्चविविदिषासंन्यासप्रयोगः ॥