२१ प्रयोगः

अथप्रयोगः देशकालौस्मृत्वामातृपितृश्वशुरादिकुलपूतत्वब्रह्महत्यादिदोषदूषितपतिपूतत्वपत्यवियोगारुन्धती

समाचारत्वसार्धकोटित्नयसहस्त्रसंवत्सरस्वर्महीयमानत्वादिपुराणोक्तनेकफलप्राप्तयेश्रीलक्ष्मीनारायण

प्रीतिद्वाराविमुक्तिप्राप्तयेवापतिचितान्वारोहणंकरिष्ये इति संकल्प्यहरिद्राकुङ्कुमवस्त्रफलादियुतानिशृर्पाणिसुवासिनीभ्योदद्यात्

तत्रमन्त्रः लक्ष्मीनारायणोदेवोबलसत्वगुणाश्रयः ।

गाढंसत्वं चमेदेयाद्वायनैःपरितोषिथ १ सोपस्काराणिशूर्पाणिवायनैःसंयुतानिच ।

लक्ष्मीनारायणप्रीत्यैसत्वकामाददाम्यहम् २ अनेनसोपस्करशूर्पदानेनलक्ष्मीनारायणौप्रीयेताम्

ततोञ्चलेपञ्चरत्नंनीलाञ्जनंचबध्वामुखेमौक्तिकंन्यस्याग्निसमीपंगत्वाग्निप्रार्थनांकुर्यात्

स्वाहासंश्लेषनिर्विण्णशर्वगोत्नहुताशन ।

सत्वमार्गप्रदानेननयमांपत्युरन्तिकम् १ इति अथाग्नावाज्येनजुहुयात्

अग्नयेतेजोधिपतयेस्वाहा १ विष्णवेसत्वाधिपतये स्वाहा २ कालायधर्माधिपतये०

३ पृथिव्यैलोकाधिष्ठात्र्यै० ४ अदभ्द्योरसाधिष्ठात्नीभ्यः ० ५ वायवेबलाधिपतये०

६ आकाशायसर्वाधिपतये० ७ कालायधर्माधिष्ठात्ने० ८ अभ्द्यःसर्वसाक्षिणीभ्यः०

९ ब्रह्मणेवेदाधिपतये० १० रुद्रायस्मशानाधिपतयेस्वाहा ११ इत्येकादशाहुतीर्हुत्वाग्निंप्रदक्षिणीकृत्य

दृषदमुपलांसंपूज्यपुष्पांजलिंगृहीत्वाग्निंप्रार्थयेत् त्वमग्नेसर्वभूतानामन्तश्चरसिसाक्षिवत् ।

त्वमेवदेवजानीषेनविदुर्यानिमानुषाः १ अनुगच्छामिभर्तारं वैधव्यभयपीडिता ।

सत्त्वमार्गप्रदानेननयमांभर्तुरन्तिकम् २ मन्त्रमुच्चार्यशनकैःप्रविशेच्चहुताशनम् ।

विप्राश्च इमानारीरविधवा इत्यृचं इमाःपतिव्रताःपुण्याःस्त्रियोयायाःसुशोभनाः ।

सहभर्तृशरीरेंणसंविशन्तुविभावसुम् १ इति चपठेत् कातरांतुप्रेतोत्तरतःसुप्तांदेवरः

शिष्योवा उदीर्ष्वतिमन्त्राभ्यामुत्थापयेत् अनुव्रजतिभर्तारंस्मशानंयागृहान्मुदा ।

पदेपदेश्वमेधस्यफलंप्राप्नोतिसाध्रुवम् १ यत्तु यास्त्रीब्राह्मणजातीयामृतंपतिमनुव्रजेत् ।

सास्वर्गमात्मघानेनातत्यानंनपतिंनयेत् १ इत्यादिब्राह्मण्यानिषेधवचनजातंतत्पृथकचितिपरम्

भर्तुर्मन्त्राग्निदाहोत्तरमनुगमनंपृथकचितिः मन्त्राग्निदाहात्पूर्वमस्थिभिः

पर्णशरेणवासहगमनमेकचित्निरेव अस्थ्यादेःपतिस्थानापत्त्यापतिशरीरतुल्यत्वात्

इयमेकचितिःसर्ववर्णानाम् पृथकचितिस्तुक्षत्रियवैश्यशूद्रादेरेव नतुब्राह्मणीनाम्

पृथकचितिविधिस्तु देशान्तरमृतेपत्यौसाध्वीतत्पादुकाद्वयम् । निधायोरसिसंशुद्धाप्रविशेज्जातवेदसमिति ॥

पतितेनप्रायश्चित्तार्थमृतेनवाभर्त्नासहान्वारोहणनंभवति यत्तु ब्रह्मघ्नोवाकृतघ्नोवामित्रध्नोवाभवेत्पतिः ।

पुनात्यविधवानारी इत्यादिवाक्यंतज्जन्मान्तरीयब्रह्महत्यादिपापशोधनपरम् दिनैकगम्यदेशस्थासाध्वीचेत्कृतनिश्चया ।

नदहेत्स्वामिनंतस्यायावदागमनंभवेत् १ तृतीयेह्नि उदक्यायामृतेभर्तरिवैद्विजाः । तस्याःसहगमार्थतंस्थापयेदेकरात्रकम् १

रजस्वलायाःप्रथमद्वितीयदिनेपतिमृतौलौकिकाग्निभिरमन्त्रकंतंदग्ध्वापञ्चमेह्नि अस्थिभिः

सहान्वारोहणमयदिरजस्वलादेशकालवशादिनातदैवानुगन्तुमिच्छतिनशुद्धिंप्रतीक्षतेतदासैकद्रोणमितव्रीहीन्मुसलैरबहत्यतदाघातैः

सर्वरजोनिवृत्तौपञ्चमृत्तिकाकाभिःशौचंकृत्वादिनक्रमेणत्रिंशद्विंशतिर्दशवाधेनूर्दत्वाविप्रवचनाच्छुद्धिंलब्ध्वासहगमनंकुर्यात्

अत्रावहननेनरजोनिवृत्तिरतीन्द्रियेतीदंयुगान्तरपरंयोज्यमितिभाति जननमृताशौचयोस्तुसहगमनंनेतिकेचित्

कालतत्वविवेचनेतुपूर्वप्रवृत्ताशौचमध्येभर्तृमरणे आशौचवतीनामपिभार्याणांसहगमनंभवति

सूतिकोदक्ययोस्तुनेत्युक्तम् इदमेवयुक्तंभाति इदंचसहगमनंगर्भिणीबालापत्यासूतिकाभिरदृष्टरजोभिः

पत्तिताभिर्व्यभिचारिणीभिर्भर्तृदुष्टभावाभिश्चनकार्यम् केचिदत्रपतिव्रतानामेवाधिकारः वर्तन्तेयाश्चसततंभर्तृणांप्रतिकूलतः ।

कामात्क्रोधाद्भयान्मोहात्सर्वाःपूताभवन्तिताः १ इत्यादितुवाक्यमर्थवाद इत्याहुः

तत्रपृथकचित्यारोहणेभर्त्राशौचमध्येतदूर्ध्ववाकृतेत्निरात्रमाशौचंपिण्डाश्च सहगमनेतु

तस्याःपिण्डादिकंशौचंपतिपिण्डादितःक्रमात् ।

अन्वारोहेतुनारीणांपत्युश्चैकोदकक्रिया १ पिण्डदानक्रियातद्वच्छ्राद्धंप्रत्याब्दिकंतथा ।

अन्वारोहेकृतेपत्न्याःपृथकपिण्डांस्तिलाञ्जलीन् २ पृथकशिलेनकुर्वीतदद्यादेकशिलेतथा ।

तत्नावयवपिण्डार्थपाकैक्यंभिन्नपिण्डता ३ नवश्राद्धानिभिन्नानिसपिण्डीकरणंपृथक् ।

एक एववृषोत्सर्गो गोरेकातत्रदीयते ४ सपिण्डीकरणंतुनकार्यम् अथवाभर्त्नैवसहकार्यम्

यद्वा भर्त्नादिभिस्त्रिभिःसहकार्यमित्यादिपक्षा उक्ताः मासिकसांवत्सरिकादौपाकैक्यकालैक्यादिव्यवस्थापिश्राद्धप्रकरणे उक्ता इति सहगमनेनिर्णयः ॥

काशीनाथ उपाध्याय इत्थमन्त्यक्रियाविधिम् । निर्णीयभगवत्पादेचार्पयत्तद्विशुद्धये १ इत्यन्त्येष्टिनिर्णयः ॥