१५ अयंविशेषः

अत्रायंविशेषः नक्षत्रान्तरेमृतस्यपञ्चकेदाहप्राप्तौपुत्तलाविधिरेवनशान्तिकम्

पञ्चकमृतस्याश्विन्यांदाहप्राप्तौशान्तिकमेवनपुत्तलविधिः शान्तिश्वलक्षहोमरुद्रजपान्यतररुपायथावि भवं कार्या

अथवाकुम्भेयमप्रतिमांसंपूज्यस्वगृह्योक्तविधिनाग्निप्रतिष्ठापनान्वाधानादिचरुश्रपणान्तंकृत्वाज्यभागान्तेनामभिश्चतुर्दशचर्वाहुतीर्जुहुयात्

यमायस्वाहा १ धर्मराजाय २ मृत्यवे ३ अन्तकाय ४ वैवस्वताय ५ कालाय ६ सर्वभूतक्षयाय ७ औदुम्बराय

८ दध्नाय ९ नीलाय १० परमेष्ठिने ११ वृकोदराय १२ चित्नाय १३ चित्नगुप्ताय १४

एवं हुत्वाहोमशेषंसमाप्य कृष्णांगांकृष्णवस्त्रांचहेमनिष्कसमन्विताम् । दद्याद्विप्रायशान्ताययमोमेप्रीयतामिति ॥

त्रिपादृक्षेप्येतदेवशान्तिकं यदिभद्रातिथीनांस्याद्भानुभौमशनैश्चरैः ।

त्निपादृक्षैश्चसंयोगस्तदांयोगस्त्रिपुष्करः १ द्विपुष्करोद्वयोर्योगेथवायंस्याद्द्विपादभैः ।

त्निपादनक्षत्नाणितु पुनर्वसूत्तराषाढाकृत्तिकोत्तरफाल्गुनी ।

पूर्वभाद्राविशाखाचज्ञेयमेतत्रिपादभम् १ मृगाचित्नाधनिष्ठाचज्ञेयमेतद्विपादभम् ।

त्रिपुष्करयोगेद्विपुष्करयोगेचमृतौकृच्छ्रत्नयंप्रायश्चित्तंकृत्वायवपिष्टमयपुरुषत्रयेणसहप्रेतदाहः

पुरुषत्रयस्यप्रेतेन्यास आज्याहुतयश्चपूर्ववत् कनकहीरकनीलपद्मरागमौक्तिकेतिपञ्चरत्नस्यमुखेप्रक्षेपोपि रत्नाभावेकर्षार्धस्वर्णम्

स्वर्णाभावेघृतम् एवं पूर्वत्नापि दहनेमरणेत्निद्विपुष्करेत्निगुणंफलम् ।

द्विगुणंखननेप्येवमेतद्दोषोपशान्तये १ सुवर्णदक्षिणांदद्यात्कृष्णवस्त्रमथापिवा । शान्तिंकुर्यात्सूतकान्तेपूर्वोक्तांतेनमङ्गलम् ॥

त्रिपादृक्षेप्येतदेवशान्तिकं यदिभद्रातिथीनांस्याद्भानुभौमशनैश्चरैः ।

त्निपादृक्षैश्चसंयोगस्तदांयोगस्त्रिपुष्करः १ द्विपुष्करोद्वयोर्योगेथवायंस्याद्द्विपादभैः ।

त्निपादनक्षत्नाणितु पुनर्वसूत्तराषाढाकृत्तिकोत्तरफाल्गुनी ।

पूर्वभाद्राविशाखाचज्ञेयमेतत्रिपादभम् १ मृगाचित्नाधनिष्ठाचज्ञेयमेतद्विपादभम् ।

त्रिपुष्करयोगेद्विपुष्करयोगेचमृतौकृच्छ्रत्नयंप्रायश्चित्तंकृत्वायवपिष्टमयपुरुषत्रयेणसहप्रेतदाहः

पुरुषत्रयस्यप्रेतेन्यास आज्याहुतयश्चपूर्ववत् कनकहीरकनीलपद्मरागमौक्तिकेतिपञ्चरत्नस्यमुखेप्रक्षेपोपि

रत्नाभावेकर्षार्धस्वर्णम् स्वर्णाभावेघृतम् एवं पूर्वत्नापि दहनेमरणेत्निद्विपुष्करेत्निगुणंफलम् ।

द्विगुणंखननेप्येवमेतद्दोषोपशान्तये १ सुवर्णदक्षिणांदद्यात्कृष्णवस्त्रमथापिवा ।

शान्तिंकुर्यात्सूतकान्तेपूर्वोक्तांतेनमङ्गलम् ॥

मृतस्यस्मशानेनयनोत्तरंपुनर्जीवनेसतियस्यगृहेसप्रविशतितस्यमरणम्

तत्नसक्षीरघृताक्तौदम्बरसमिधांसावित्र्यष्टसहस्त्रेणहोमः अन्तेकपिलादानंतिलपूर्णकांस्यपात्नदानंच

एकाशीतिपलंकांस्यंतदर्धवातदर्धकम् । नवषटत्निपलंवापिदद्याद्विप्रायशक्तितः ॥