११ व्युत्क्रममृतौ

अथव्युत्क्रममृतौ मृतेपितरियस्याथविद्यतेचपितामहः ।

तेनदेयास्त्रयःपिण्डाःप्रपितामहपूर्वकाः १ तेभ्यश्चपैतृकःपिण्डोनियोक्तव्यस्तुपूर्ववत् ।

मातर्यथमृतायांतुविद्यतेचपितामही २ प्रपितामहीपूर्वस्तुकार्यस्तत्नाप्ययंविधिः ।

एवं प्रपितामहजीवनेतत्पित्रादिभिःकार्यःयत्तुव्युत्क्रमात्तुप्रमीतानांनैवकार्यासपिण्डतेतितन्मातापितृभर्तृभिन्नविषयम्

प्रपितामहादिभिःपितुःसपिण्डनेकृतेपश्चात्पितामहमरणेपिपुनःपितामहेनसह पितुःसपिण्डनंकार्यम्

यदातुपितुःसपिण्डनात्प्राकपितामहोमृतस्तदापितामहसपिण्डनंकृत्वापितामहादीभिःसहपितृसपिण्डनंकार्यम्

यदाच पितुर्मरणोत्तरंपितामहःप्रपितामहोवामृतस्ययोश्चपुत्रान्तरंसपिण्डनाधिकारीदेशान्तरे

तिष्ठतितदादाहाद्येकादशाहान्तमात्नंकर्मकृत्वासपिण्डनहीनाभ्यामपिपितामहप्रतितामहाभ्यांसहपितुःसपिण्डनंकुर्यात्

पितामहस्यपुत्रान्तराभावेपौत्नेणसपिण्डनषोडशानुमासिकान्तमेवकर्मकार्यम्

पितामहवार्षिकादिकंतुनावश्यकम् इच्छयापितामहवार्षिकादिकरणेतुफलातिशयः ॥

पितृदशाहंकुर्वन्यदिपुत्नोमृतस्तदातत्पुत्नः स्वपितुरौर्ध्वदेहिकंकृत्वापितामहौर्ध्वदेहिकंपुनःसर्वमावर्तयेत्

अतीतेदशाहेतुनपुनरावृत्तिःपुत्नान्तराभावेपितामहसपिण्डनोत्तरंपितृसपिण्डनमित्युक्तम्

अशक्तिवशात्पित्नानुज्ञातेपौत्नेणपितामहदशाहकर्मण्यारब्धेपश्चात्पितृमृतौपित्नाशौचंवहन्नेवपौत्नः

पितामहौर्ध्वदेहिकंकुर्यात् प्रक्रान्तत्वात्पितृदशाहादिकर्मापिकुर्यात्प्राप्तत्वात् ॥