१० सपिण्डीकरणविचारः

अथसपिण्डीकरणविचारः तत्नसपिण्डनकालः नासपिण्डयाग्निमान्पुत्नःपितृयज्ञंसमाचरोदितिवचनात् पित्रादीनांमात्नादीनां

त्रितयमध्येऽन्यतममरणेसाग्निकोद्वादशाहेसपिण्डनंक्रुत्वागामिदर्शेपिण्डपितृयज्ञादिकंकुर्यात्

अत्नस्मार्ताग्निमानपिसाग्निकोग्राह्य इति भाति तस्यापिपिण्डपितृयज्ञावश्यकत्वात्

साग्नेःप्रेतस्यतुत्निपक्षे एव प्रेतश्चेदाहिताग्निःस्यात्कर्तानग्निर्यदाभवेत् ।

सपिन्डीकरणंतस्यकुर्यान्पक्षेतृतीयके इत्युक्तेः अत्रसाग्निः श्रौताग्निमानेव

द्वयोःसाग्नित्वेद्वादशाह एव साग्निकस्तुयदाकर्ताप्रेतोवाप्यग्निमान्भवेत् ।

द्वादशाहेतदाकुर्यात्सपिण्डीकरणंपितुः इत्युक्तेह द्वयोरप्यनग्नित्वेत्वनेकेकालाः

सपिण्डीकरणंकुर्याद्यजमानस्त्वनग्निमान् । अनाहिताग्नेःप्रेतस्यपूर्णेसंवत्सरेथवा १ एकादशेमासिषष्ठेत्रिमासेवात्निपक्षके ।

मासान्तेद्वादशेवाह्निकुर्याद्वैकादशेहनि यदहर्वृद्धिरापन्नातदहर्वेतिनिश्चितम् ।

अत्नवृद्धिनिमित्तापकर्षोनिरग्नेरेवोक्तस्तथापिसाग्नेरपिसंभवेयोज्यः

अत्नवृद्धिपदंचूडोपनयनविवाहमात्नपरं सीमन्तादिसंस्कारेषुवृद्धिश्राद्धस्यलोप एवकार्योनतुतदर्थसपिण्डनापकर्ष इति केचित्

अन्येतुगर्भाधानपुंसवनादिष्वन्नप्राशनान्तेषुसंस्कारेष्वतरणेदोषोक्तेरावश्यकेषुवृद्धिश्राद्धस्याप्यावश्यकत्वात्सपिण्डनापकर्षःकार्य एव

तथाचचतुःपुरुषसपिण्डेषुसपिण्डीकरणाभावेगर्भाधानादिकमपिनकार्यमित्याहुः

तेनपितामहमरणेपौत्नस्यवृद्धौप्राप्तायामप्यपकर्षःसपिण्डीकरणानुमासिकादीनांसिद्धः

एवमावश्यकवृद्धियुतकर्मप्राप्तौकनिष्ठःपुत्रौवाभ्रातावाभ्रातृपुत्रोवान्यः

सपिण्डोवाशिष्योवागौणकर्तापिकुलप्राप्तवृद्धिसिद्धयर्थसपिण्डनाद्यपकर्षकुर्यात्

तत्नचकृतेमुख्यस्यपुत्रादेर्नपुनःकरणम् वृद्धिनिमित्तापकर्षेपुनःकरणाभावात्

येवाभद्रंदूषयंतिस्वधाभिरितिदोषश्रुतेः वृद्धिंविनागौणाधिकारिणासपिण्ड्यादिकरणेतुमुख्याधिकारिणापुत्रादिनापुनरावर्तनीयम्

एकादशाहान्तकर्मणस्तुनपुनरावृत्तिरित्युक्तम् तत्नावश्यकपदेनानन्यगतिकंवृद्धिकर्मग्राह्यम्

तेनसगतिकेष्टापूर्तादौसगतिकोपनयनविवाहादौचनापकर्षः अगतिकेंचविवाहादावप्यपकर्ष इति व्यवस्थायोज्या

आनन्त्यात्कुलधर्माणांपुंसांचैवायुषःक्षयात् । अस्थिरत्वाच्छरीरस्यद्वा दशाहःप्रशस्यते

अत्नकुलधर्मपदेनवृद्धिश्राद्धयुतंकर्मग्राह्यम् नतुपञ्चमहायज्ञदेवपूजाश्राद्धादि

अस्यवर्णधर्मत्वेननित्यत्वात्सपिण्डीकरणनिमित्तकप्रतिबन्धायोगात्

सपिण्डीकरणात्पूर्वपञ्चमहायज्ञादिधर्मोनकार्य इति क्वपिण्डीकरणनिमित्तकप्रतिबन्धायोगात्

सपिण्डीकरणात्पूर्वपञ्चमहायज्ञादिधर्मोनकार्य इति कापिस्मृतिवचनेनुपलम्भाच्च

एतेनसपिण्डीकरणाभावेसपिण्डेषुदेवपूजाश्राद्धादिधर्मलोपंवदन्तोनिर्मूलत्वादुपेक्ष्याः

अत्रद्वादशाहपदेनाशौचसमाप्त्युत्तरदिनंग्राह्यम् तेनत्रिदिनाशौचेपञ्चमदिनेसपिण्डीकरणम्

द्वादशाहादिकालेषुप्रमादादननुष्ठितम् । सपिण्डीकरणंकुर्यात्कालेषूत्तरभाविषु

इदमुत्तरकालविधानंसाग्निनिरग्निसाधारणम् सपिण्डीकरणश्राद्धमुक्तकालेकृतंनचेत् ।

हस्तार्द्रारोहिणीभेवानुराधायांचतच्चरेत् इदमपिसाधारणम्

स्मृत्यर्थसारेवर्षान्तसपिण्डनपक्षेवर्षान्त्यदिनेपूर्वसंवत्सरविमोक्षश्राद्धंकृत्वासपिण्डनंचकृत्वापरेद्युर्मृताहेवार्षिकंकार्यमित्युक्तम् इति कालविचारः ॥

तच्चसपिण्डनंपुत्नेविदेशस्थेपिसतिनान्यःकुर्यात् एवं ज्येष्ठपुत्नेविदेशस्थेपिनकनिष्ठःकुर्यात्

षोडशश्राद्धानितुज्येष्ठासन्निधानेकनिष्ठेनकार्याणि पुनर्ज्येष्ठेननकार्याणि

आहिताग्निःकनिष्ठोपिसपिण्डनंकुर्यादेव वृद्धिनिमित्तेतुकनिष्ठादिभिरपिण्डनंकार्यमित्युक्तम्

वृद्धिंविनाकनिष्ठपुत्नेणकृतेसपिण्डनेज्येष्ठपुत्रेणपुनःकार्यम्

आहिताग्निनापितृयज्ञार्थकृतेसपिण्डनेपिज्येष्ठेनपुनःकार्यमितिभाति

तत्नपुनःकरणेप्रेतशब्दोनवाच्यः देशान्तरस्थपुत्नाणांश्रुत्वातुवपनंभवेत् ।

दशाहंसूतकंचैवतदन्तेचसपिण्डनम् ॥