०८ षोडशमासिकानि

अथषोडशमासिकानि द्वादशप्रतिमास्यानि ऊनमासंत्निपक्षकम् ।

ऊनषाण्मासिकंचोनाब्दिकंचापीतिषोडश अत्रमतान्तराणिसिन्धौ अथैषां कालाः मासादौमासिकंकार्यमाद्यंत्वेकादशेहनि ।

एकद्वित्रिदिनैरुनेत्निभागेनोन एववा ऊनमासिकमूनाब्दमूनषाण्मासिकंचरेत् ।

त्रैपक्षिकंत्निपक्षेचोनमास्यंद्वादशेह्निवा

तत्रोनमासिकोनषाण्मासिकोनाब्दिकानामेकदिनेनोनपक्षेपञ्चम्यांमृतस्यतृतीयायांद्वाभ्यामूनत्वपक्षेद्वितीयायां

त्रिभिर्न्यूनेप्रतिपदायामनुष्ठानमितिकेचित्

माधवस्तूनषाण्मासिकमूनाब्दिकंचमृताहात्पूर्वेद्युःकार्यमित्याह त्रैपक्षिकंत्रिपक्षेतीतेमृताहेकार्यम् ॥