०७ उदकुम्भः

अथोदकुम्भः एकादशाहात्प्रभृतिघटस्तोयान्नसंयुतः ।

दिनेदिनेप्रदातव्योयावत्संवत्सरंसुतैः यस्यसंवत्सरादर्वाकसपिण्डीकरणंभवेत् ।

मासिकंचोदकुम्भंचदेयंतस्यापिवत्सरम् अपिश्राद्धशतैर्दत्तैरुदकुम्भंविनानराः ।

दरिद्रादुःखिनस्तातभ्रमन्तिचभवार्णवे यावदब्दंचयोदद्यादुदकुम्भंविमत्सरः ।

प्रेतायान्नसमायुक्तंसोश्वमेधफलंलभेत इदंचोदकुम्भश्राद्धंसपिण्डीकरणात्प्रागेकोद्दिष्टविधिना

सपिण्डयुत्तरंतुपार्वणविधिना इदंत्नयोदशदिनादारभ्यकर्तव्यमितिभट्टाः

अत्रपिण्डदानंकृताकृतम् देवहीनंचैतत् अदैवं पार्वणश्राद्धंसोदकुम्भमधर्मकम् ।

कुर्यात्प्रत्याब्दिकाच्छ्राद्धात्संकल्पविधिनान्वहम्

इति वचनात् प्रायश्चित्ताङ्गविष्णुश्राद्धवदत्नश्राद्धेसर्वेश्राद्धधर्मान सन्तिकिंतुवाचनिकमात्राः

तेनसंकल्पविधिनासंकल्पक्षणपाद्यासनगन्धाच्छादनान्त

पूजनान्नपरिवेषनान्तेपृथ्वीतेपात्नमित्याद्युक्त्वा एष उदकुम्भ इदमन्नं

दत्तंचेत्यागाविधिः अन्तेताम्बूलदक्षिणादि नात्नब्रह्मचर्यापुनर्भोजनादिनियमाः

वृद्धिनिमित्तेनमासिकापकर्षे उदकुम्भश्राद्धानामप्यपकर्षः प्रेतश्राद्धत्वात्

प्रत्यहंसोदकुम्भान्नदानाशक्तेनाप्येकस्मिन्दिनेतावद्भिरामान्नैरुदकुम्भैश्च

तावदामान्नोदकुम्भनिष्क्रयेणवापकृष्योदकुम्भश्राद्धानिकार्याणि

अब्दमध्येप्रत्याहमुदकुम्भश्राद्धंकुर्वतोमध्ये आशौचप्राप्तौतावच्छ्राद्धानांलोप एवदर्शादिवत्

आशौचोत्तरंप्रतिबन्धादकरणेतदुत्तरोदकुम्भेनसहतन्त्रतयातिक्रान्तोदकुम्भानांप्रयोगः

अतिक्रान्तोदकुम्भश्राद्धान्यद्यतनोदकुम्भश्राद्धंचतन्त्रेणकरिष्ये इति संकल्पः ॥

तथाप्रथमाब्देदीपदानमुक्तम् प्रत्यहंदीपकोदेयोमार्गेतुविषमेनरैः ।

यावत्संवत्सरंवापिप्रेतस्यसुखालिप्सया प्राङ्गुखोदङ्गुखंदीपंदेवागारेद्विजालये ।

कुर्याद्याम्यमुखंपित्र्ये अद्भिः संकल्प्यसुस्थिरम् इति ॥