०६ शय्यादानम्

अथशय्यादानम् एकादशाहेशय्यायादाने एषविधिःस्मृतः ।

तेनोपभुक्तंयत्किंचिद्वस्त्रवाहनभाजनम् यद्यदिष्टंचतस्यासीत्तत्सर्वपरिकल्पयेत् ।

प्रेतंचपुरुषंहैमंतस्यांसंस्थापयेत्तदा पूजयित्वाप्रदातव्यामृतशय्यायथोदिता ।

तस्माच्छय्यांसमासाद्यसारदारुमयींदृढाम् दन्तपत्नाचितांरम्यांहेमपट्टैरलंकृताम् ।

हंसतूलिप्रतिच्छन्नांशुभगण्डोपधानिकाम् प्रच्छादनपटीयुक्तांगन्धधूपादिवासिताम् ।

उच्छीर्षकेघृतभृतंकलशंपरिकल्पयेत् ताम्बूलकुङ्कुमक्षोदकर्पूरागरुचन्दनम् ।

दीपिकोपानहच्छत्नचामरासनभाजनम् पार्श्वषुस्थापयेद्भत्तयासप्तधान्यानिचैवहि ।

शयनस्थस्यभवतियदन्यदुपकारकम् भृङ्गाकरकाद्यंतत्पञ्चवर्णवितानकम् ।

संपूज्यद्विजदाम्पत्यंनानाभरणभूषितम् उपवेश्यतुशय्यायांमधुपर्कततोवदेत् ।

दानमन्त्रस्तु । यथानकृष्णशयनं शून्यंसागरजातया ।

शय्यातस्याप्यशून्यास्तुतथाजन्मनिजन्मनि यस्मादशून्यशयनंकेशवस्यशिवस्यच ।

शय्यातस्याप्यशून्यास्तुतथाजन्मनिजन्मनि दत्त्वैवं तस्यसकलंप्रणिपत्यविसर्जयेत् ।

पाद्मेतु अस्थिलालाटकंगृह्यसूक्ष्मंकृत्वासपायसम् ।

भोजयेद्द्विजदांपत्यंविधिरेषसनातनः इत्यक्तम् नैतन्महाराष्ट्रदेशादिशिष्टैराद्रियते

यद्देशेतदाचारस्तत्रास्तु स्वर्गेपुरंदरपुरेलोकपालालयेतथा । सुखंवसत्यसौजन्तुःशय्यादानप्रभावतः ।

आभूतसंप्लवं यावत्तिष्ठत्यातङ्कवर्जितः प्रेतशय्याप्रतिग्राहीनभूयःपुरुषोभवेत् ।

गृहीतायांतुतस्यांवैपुनःसंस्कारमर्हति ॥