०५ एकादशाहेरुद्रगणश्राद्धम्

अथैकादशाहेरुद्रगणश्राद्धम् तच्चैकादशरुद्रोद्देशेनरुद्ररुपप्रेतोद्देशेनवा

रुद्रोद्देशपक्षेसव्येन रुद्ररुपप्रेतोद्देशेपक्षेऽपसव्येन वीरभद्रः १ शम्भुः २ गिरीशः

३ अजैकपात् ४ अहिर्बुध्न्यः ५ पिनाकी ६ अपराजितः ७ भुवनाधीश्वरः

८ कपाली ९ स्थाणुः १० भगः ११ इत्येकादशरुद्राः

अत्नशक्तेनैकैकरुद्रनाम्नैकोविप्र इत्येकादशाविप्राभोज्याः अशक्तेनतुसर्वोद्देशेनैक एवविप्रोभोज्यः

आमान्नान्येकादशैकंवामान्नंदेयम् अत्नश्राद्धेपिण्डदानार्घ्याग्नौकरणविकिराणामभावः

एवमेवाष्टवसुश्राद्धम् एतच्चकृताकृतम् वसुनामान्यप्यन्यत्न

एतदेकादशाहकृत्यंत्र्यहाशौचेचतुर्थदिनेकर्तव्यम् द्वितीयदिनेप्रथमदिनेवास्थिसंचयनम्

पञ्चमदिनेसपिण्डीकरणम् ॥

अत्रैकादशाहेद्वादशाहेवापददानानिकार्याणि तेनप्रेतस्यमार्गेसुखगतिः

आसनोपानहच्छत्रंमुद्रिकाचकमण्डलुः ।

यज्ञोपवीताज्यवस्त्रंभोजनंचान्नभाजनम् दशकंपदमेतत्स्यात्पदान्येवं त्नयोदश ।

देयानिवायथाशक्तितेनासौप्रीणितोभवेत् अन्नंचैवोदकुम्भंचोपानहौचकमण्डलुः ।

छत्रंवस्त्रंतथायष्टिंलोहदण्डंचदापयेत् अग्नीष्टिकांप्रदीपंचतिलांस्तांम्बूलमेवच ।

चन्दनंपुष्पमालांचोपदानानिचतुर्दश

वैतरणीधेनूत्क्रात्निधेनुमोक्षधेन्वादिदानानिगोभूम्यादिदशदानानितिलपात्नदानादीनिमरणकालेनकृतानिचेकादशादौपुत्नादिभिः

प्रेतोद्देशेनकार्याणि अश्वं रथंगजंधेनुमहिर्षीशिबिकादिकम् ।

शालग्रामंपुस्तकंचकस्तूरीकुङ्कुमादिकम्

दासींरत्नंभूषणादिशय्यांछत्नंचचामरम् । दद्याद्वित्तानुसारेणप्रेतस्तत्तत्सुखंलभेत् ॥