०४ आद्यमासिकम्

अथाद्यमासिकम् तस्यामासादौमासिकंकार्यमितिवचनान्मृताहोमुख्यःकालःसचाशौचप्रतिबन्धादतिक्रान्त इति

तदन्ते एकादशेह्नितत्कार्यम् अत एव ब्राह्मणंभोजयेदाद्येहोतव्यमनलेथवा ।

पुनश्चभोजयेद्विप्रंद्विरावृत्तिर्भवेदिह इति प्रथममासिकार्थद्वितीयावृत्तिरुक्त

अत्नचद्विरावृत्तिर्भवेदिहेत्युक्तिःषोडशमासिकानांसपिण्डयधिकारार्थमपकृष्यकर्तव्यानांद्वादशाहादौकरणपक्षेयोज्या

तेषामेकादशाह एवकरणपक्षेतुषोडशमासिकानांषोडशावृत्तय एकंमहैकोद्दिष्टमितिसप्तदशावृत्त्यापत्त्याद्विरावृत्तिर्भवेदिहेत्युक्तेरसङ्गतेः

तथाचसपिण्डयधिकारार्थापकृष्याणांमासिकानांद्वादशाहेकरणे एकादशाहेमहैकोद्दिष्टोत्तरमतिक्रान्तः

माद्यमासिकंकरिष्य इति संकल्प्याद्यमासिकमात्नमन्नेनामेनवाविप्रेदर्भबटौवाप्रेतमावाह्यकार्यम्

नत्वाद्यमासिकस्याग्नौहोमःपुनश्चभोजयेद्विप्रमितिविशेषवचनात्

इत्थंचमहैकोद्दिष्टमेकमाद्यमासिकमेकमित्येकोद्दिष्टस्याद्विरावृत्तिःस्पष्टैव

येत्वाद्यमासिकातिरेकेणमहैकोद्दिष्टस्यैवद्विरावृत्तिंवदन्तितेभ्रान्ताः

अत्नकेचिदाद्याब्दिकस्यापिमृताह एवकाल इति तस्याप्यतिक्रान्तत्वादेकादशाहे

आद्यमासिकमाद्याब्दिकंचतन्त्रेणकरिष्य इति संकल्प्यद्वयमपितन्त्रेणकार्यमित्याहुः

अन्येतुमासादौमासिकंकार्यमाब्दिकं वत्सरेगते

इति वचनाहितीयवर्षारम्भेप्रथमाब्दिकमितिनाब्दिकस्यैकादशाहेऽनुष्ठानमित्याहुः

एवं त्रिपक्षेसपिण्डीकरणपक्षे एकादशाहे आद्यमासिकमूनमासे

ऊनमासिकंद्वितीयमासारम्भेद्वितीयमासिकंपक्षत्नयेत्नैपक्षिकंचैकोद्दिष्टविधिनाः

कृत्वावाशिष्टद्वादशमासिकान्यपकृष्यतथैवकृत्वासपिण्डीकरणम् एवं पक्षान्तरेषूह्यम् ॥

एकादशाहेतन्त्रेणषोडशमासिकापकर्षपक्षेमहैकोद्दिष्टोत्तरंदेशकालौ

संकीर्त्यातिक्रान्तमाद्यमासिकंसपिण्डयधिकारार्थमपकृष्योनमासिकादीन्यूनाब्दिकान्ता

पञ्चदशमासिकानिचतन्त्रेणैकोद्दिष्टेनविधिनाकरिष्य इति संकल्प्यतन्त्रेणषोडशापिकुर्यात्

केचिन्मतेत्वतिक्रान्ते आद्यमासिकाद्याब्दिके ऊनमासिकादीनिचेत्यादिसंकल्पः ॥

मासिकानितु आद्यमासिकम् १ ऊनमासिकम् २ द्वितीयमासिकम् ३ त्नैपक्षिकम्

४ तृतीयमासिकम् ५ चतुर्थमासिकम् ६ पञ्चममासिकम् ७ षष्ठम् ८ ऊनषाण्मासिकम्

९ सप्तममासिकम् १० अष्टमम् ११ नवमम् १२ दशमम् १३ एकादशम् १४ द्वादशम्

१५ ऊनाब्दिकम् १६ चेतिक्रमेणज्ञेयानि ॥