लोहितोयस्तुवर्णेनमुखेपुच्छेचपाण्डुरः । श्वेतःखुरविषाणाभ्यांसनीलोवृष उच्यते
अथवाश्वेतवर्णस्यमुख पुच्छादिश्यामत्वेनीलवृषत्वम् यद्वा सर्वश्यामस्यमुखादिश्वेतत्वेनीलवृषत्वम्
केचितवृषाभावेमृद्भिःपिष्टैर्वावृषंकृत्वाहोमादिविधिनावृषोत्सर्ग इत्याहुः
यथोक्तालाभेयथालाभोद्विवर्ष एकर्षोवावृषोवर्षाधिकाश्चतस्त्र एकावावत्सतरीस्यात्
प्रयोगस्तुस्वस्वसूत्नानुसारीग्राह्यःसव्येनपाणिनापुच्छंसमादायवृषस्यतु ।
दक्षिणेनाप आदायसतिलाःसकुशास्ततः
प्रेतगोत्रंसमुच्चार्यामुकस्मैवृष एषमयादत्तस्तंतारयत्वितिवदन्सहेमजलंभूमावुत्सृजेत्
विधारयेन्नतंकश्चिन्नचकश्चनवाहयेत् । नदोहयेच्चतांधेनुंनचकश्चनबन्धयेत्
पतिपुत्रवत्याःसुवासिन्यानवृषोत्सर्गः तत्स्थाने एकापयस्विनीगौर्देया
पतिपुत्रयोरन्यतराभावेतुस्त्रीणामपिवृषोत्सर्गः सहगमनेतुस्त्रीणांवृषोत्सर्गस्थानेगौरेव
वृषोत्सर्गसाङ्गतार्थतिलोदकुम्भधेनुवस्त्रहिरण्येतिपञ्चदानानि
आशौचान्तरंचेदेकादशाहेप्राप्नोतितदावृषोत्सर्गादिकमाद्यमासिकंशय्यादिदानानिचकुर्यादेव
एवं कृतेवृषोत्सर्गेफलवाजिमखोदितम् । यमुद्दिश्योत्सृजेन्नीलंसलभेतपरांगतिम्
वृषोत्सर्गःपुनात्येवदशातीतान्दशापरान् । इति वृषोत्सर्गः ॥