७६ नवश्राद्धम्

अथनवश्राद्धम् प्रथमेह्नितृतीयेचपञ्चमेसप्तमेतथा ।

नवमैकादशेचैवतन्नवश्राद्धमुच्यते नवश्राद्धनिपञ्चाहुराश्वलायनशाखिनः ।

आपस्तम्बाःषडित्याहुर्विभाषात्वितरेषुहि पञ्चपक्षे एकादशाहेनवश्राद्धंनकार्यम्

एतान्येवविषमश्राद्धानीत्युच्यन्ते नवश्राद्धनिदशाहान्तर्नवमिश्रंतुवत्सर इत्यन्यत्र

अकृत्वातुनवश्राद्धंप्रेतत्वान्नैव मुच्यते । नवश्राद्धंत्रिपक्षंचषण्मासंमासिकानिच ।

नकरोतिसुतोयस्तुतस्याधःपितरोगताः अर्घ्यहीनमधूपंचगन्धमाल्यविवर्जितम् ।

नवश्राद्धममन्त्रंस्यादवनेजनवर्जितम् आशिषोद्विगुणादर्भाजयाशीः स्वस्तिवाचनम् ।

पितृशब्दःस्वसंबन्धःशर्मशब्दस्तथैवच ३ पात्नालम्भोवगाहश्च उल्मुकोल्लेखनादिकम् ।

तृप्तिप्रश्नश्चविकिरः शेषप्रश्नस्तथैवच प्रदक्षिणाविसर्गश्चसीमान्तगमनंतथा ।

अष्टादशपदार्थाश्चप्रेतश्राद्धेविवर्जयेत्

तिलोसीतिमन्त्रेस्वधानमःपितृशब्दानवाच्याःकिंतुप्रेतशब्दोहेनतूष्णींवातिलावपनम्

तूष्णीमर्घ्यदानम् अमुष्मैस्वाहेतिप्रेतनाम्नापाणिहोमः

बहृचानांसर्वैकोद्दिष्टेष्वग्नौकरणमस्त्येव अन्यशाखिनांतुतान्निषेधः

नाम्नैकःपिण्ड:: निनयनमन्त्रे ऊहः अनुमन्त्रणादिकंत्वमन्त्रकम्

अभिरम्यतामितिविसर्जनम् एवं नवश्राद्धवर्ज्यैकोद्दिष्टेषु

नवश्राद्धंत्वमन्त्रकंसर्वमितिनारायणवृत्तिः उत्तानंस्थापयेत्पात्नमेकोद्दिष्टेसदाबुधः ।

न्युब्जंतुपार्वणेकुर्यात्तस्योपरिकुशानन्यसेत्

सपिण्डीकरणान्तानिप्रेतश्राद्धानिलौकिकाग्नावित्याश्वलायनमतम्

नवश्राद्धानिसंभवेऽन्नेनकुर्यादन्यथामान्नेन ॥

विघ्नेतु नवश्राद्धंमासिकंचयद्यदन्तरितंभवेत्तत्तदुत्तरश्राद्धेनसहतन्त्रेणकार्यम्

शावे आशौचान्तरप्राप्तौनवश्राद्धानिकुर्यादेव सहगमनेतु नवश्राद्धानिभिन्नानिसपिण्डीकरणंपृथक् ।

एक एववृषोत्सर्गोगौरेकातत्रदीयते शूद्रस्यामन्त्रकंसर्वद्विजवन्नाम्नैवकार्यमितिस्मृत्यर्थसारः

अत्रवयोधिकमरणेतत्कनिष्ठानांसपिण्डानांदशमेहनिमुण्डनंकेचिदाहुः

मातापित्नाचार्येषुमृतेषुनियमेनदशमेहनिमुण्डनम् एवं भर्तरिमृतेस्त्रिया अपिमुण्डननियमः

पुत्राणांसर्वेषांदाहकर्तुश्चदाहाङ्गभूतंप्रथमदिनेदशमदिनेचमुण्डनम् अत्नदेशाचाराव्द्यवस्था

अत्नरात्रिमृतस्यरात्नौदाहेपिप्रातरेवमुण्डनमित्युक्तम् ॥

ततोदशेमहनिपूर्ववस्त्रशुद्धिंगृहशुद्धिंचकृत्वागौरसर्षपतिलकल्केनसशिरः

स्त्रानंकृत्वानववस्त्रेपरिधायपरिहितवस्त्राणिप्रेतवस्त्राणिचान्त्यजेभ्यः

आश्रितेभ्यश्चदत्त्वासुवर्णादीनिमङ्गलवस्तूनिस्पृष्टागृहंप्राविशेत् ॥