७४ तत्पाथेयं श्राद्धं

दाहादिनादारभ्यदशपिण्डादशदिनमध्येदर्भास्तीर्णभूमावमन्त्रकंदेयाः

क्षत्नियादीनांनवपिण्डानवदिनान्तंदशमपिण्डस्त्वाशौचान्त्यदिने

प्रथमेऽहनियोदेशोयश्चकर्तायच्चतण्डुलादिद्रव्यंयच्चोत्तरीयशिलापाकपात्नादितदेवदशाहान्तम्

एतदन्यतमव्यत्ययेयतोव्यत्ययस्ततः

पुनरावृत्तिःशिलाविपर्ययेपिघटस्फोटादेर्नावृतिरित्युक्तेलौंकिकशिलाग्राहणम्

तेनपिण्डदानतिलाञ्जल्यादिकस्यैवावृत्तिर्नदाहस्य केचिदाचार्यविपर्ययेप्यावृत्तिमाहुः

यत्नपुत्नादिमुख्यकर्तुरसान्निधानादमुख्याधिकारिणा

पिण्डदानक्रियारब्धातत्नमध्येपुत्नादिसन्निधानेप्यमुख्यकर्त्नेवदशाहान्ताक्रियासमापनीया

एकादशाहादिकंतुपुत्नादिमुख्येनैव

समन्त्रकदाहमात्नेऽन्येनकृतेतुपिण्डदानादिदशाहकृत्यंसन्निकृष्टमुख्येनैवकार्यमितिमिताक्षरादयः

अन्येतुसगोत्नोऽसगोत्नोवायःसमन्त्रकदाहकर्तास एवदशाहकत्यंकुर्यादित्याहुः

पत्न्याःकर्तृत्वे रजोदर्शनेजातेसातदन्तेकुर्यात् कर्तुरस्वास्थ्येन्येनसर्वाःक्रियाःपुनःकार्याः

पिण्डद्रव्येषुतण्डुलामुख्याः तदभावेफलमूलशाकतिलमिश्रसक्तवोपि

प्रेतश्राद्धेषुपितृशब्दस्वधाशब्दानुशब्दाःपुष्पधूपदीपदानादौमन्त्नाश्चनवाच्याःत्र्यहाशौचेपर्णशरदाहादौप्रथमेदिने एकःपिण्डः

द्वितीयेचत्वारः तृतीयेपञ्चेतिक्रमोबोध्यः पुत्नेणवर्णशरदाहेकृतेतुतस्यदशाहाशौचान्तेनत्र्यहमध्येपिण्डसमाप्तिर्नकार्या

शिरस्त्वाद्येनपिण्डेनप्रेतस्यक्रियतेसदा । द्वितीयेनतुकर्णाक्षिनासिकाः तृतीयेनकण्ठस्कन्धभुजवक्षांसि

चतुर्थेननाभिलिङ्गगुदानि पञ्चमेनजानुजङ्घपादम् षष्ठेनमर्माणि सप्तमेननाड्यः

अष्टमेनदन्तलोमानि नवमेनवीर्यम् दशमेनतुपूर्णत्वं तृप्तताक्षुद्विपर्ययः ।

जलंदशाहमाकाशेस्थाप्यंक्षीरंचमृन्मये १ प्रेतात्नस्नाहीत्युदकम् इदंपिबेतिचक्षीरम्

इदंचकृताकृतम् ततःप्रेतोपकृतयेदशरात्नमखण्डितम् ।

कुर्यात्प्रदीपंतैलेनवारिपात्नंचमार्तिकम् भोज्याद्भोजनकालेतुभक्तमुष्टिंचनिर्वपेत् ।

नामगोत्नेणसंबुद्धयाधरित्र्यांपितृयज्ञवत् २ भूर्लोकात्प्रेतलोकंतुगन्तुंश्राद्धंसमाचरेत् ।

तत्पाथेयंहिभवतिमृतस्यमनुजस्यच ॥३॥