७२ गृहात्स्मशानेशवनयनादिप्रकारः

अथगृहात्स्मशानेशवनयनादिप्रकारः तत्रविप्रप्रेतंनगरपश्चिमद्वारेणशूद्रंदक्षिणद्वारेणनिः

सार्यसजातीयाःशवं प्रच्छादितमुखंप्राकशिरसंदाहदेशंनयेयुः पूर्वोक्तोग्निःशवाग्रेन्येननेतव्यः

प्रेताग्न्योर्मध्येन्येननगन्तव्यम्

सर्वेसपिण्डादयोधःकृतोपवीतामुक्तकेशाज्येष्ठपुरःसराःप्रेतमनुगच्छेयुःप्रेतश्चनग्नोनदग्धव्यःनिःशेषतश्चनदाह्यः

शववस्त्रंचस्मशानवासिभ्योदेयम्

प्रेतश्चकेशनखादिवापयित्वासंस्त्राप्यगन्धपुष्पाद्यैरलंकृत्यदग्धव्यःदिनेमृतोदिवैवदाहोरात्निमृतस्यरात्रावेव

दिवावारात्रौवास्थितःशवःपर्युषितःपर्युषितशवं पञ्चगव्येनस्त्रापयित्वाप्राजापत्यत्नयंकृत्वादहेत्

मुखस्थसप्तच्छिद्राणिहिरण्यशकलैराच्छादयेत्

अत्नपात्नन्यासोमन्त्रवद्दाहादिविधिश्चस्वस्वसूत्नानुसारिश्रौतस्मार्तान्त्येष्टिप्रयोगेपुज्ञेयः

ततोदाहान्तेघटस्फोटादिकंकार्यम् शिलाविपर्ययेपिघटस्फोटस्यनावृत्तिः

ततश्चितामप्रपक्षिणंसर्वेपर्यावृत्यसचैलंस्त्रात्वाचम्यसगोत्ससपिण्ड

समानोदकानांमातामहीमातामहयोराचार्यादेश्चदुहितृभगिन्योश्चावश्यंतिलाञ्जलिंदद्युः

तद्यथा वृद्धपूर्वादक्षिणामुखा अमुकगोत्ननामाप्रेतस्तृप्यात्वितिमन्त्रेणाञ्जलिनासकृत्पाषाणेसिञ्चेयुः

अत्नस्त्रानोदकदानेऽपनःशोशुचदघमितिमन्त्रेण स्नानमेवतेनमन्त्रेणेत्यन्ये

स्त्रीणांतुमन्त्रोनास्तिमातुलपितृष्वसृमातृष्वसृस्वस्त्रीयश्वशुरमित्नयाजकादीनामुदकदानंकृताकृतम्

करणपक्षेपिनाश्मन्येवोतिनियमः व्रात्यब्रह्मचारिपतितव्रतिक्लीबचोराश्चनोदकंदद्युः

तत्नव्रात्यायथाकालामुपनयनहीनाः व्रतिनःप्रकान्तप्रायश्चित्ताः चोराःसुवर्णतत्समद्रव्यापहारिणः

ब्रह्मचारिभिर्मातापितृपितामहमातामहगुर्वाचार्यादीनामुदकदानंकार्यम्

प्रक्रान्तप्रायश्चित्तैस्तुतदन्ते उदकदानंत्निरात्नाशौचंचकार्यम् व्रात्यादिभिःप्रेतस्पर्शवहनदाहदिण्डादिकमपिनकार्यम्

अन्याभावे ब्रह्मचार्यपिपित्नादेर्दाहमाशौचंकुर्यात् कर्मलोपस्तुनास्तीत्युक्तम्

इदंचोदकदानमेकवाससापसव्येनैव उदकदानोत्तरंपुनःस्त्रात्वावस्त्राणिनिष्पीड्यकुलबृद्धाः

पुत्रादीन्पूर्वोतिहासैःसमाश्वास्य

विप्रानुमत्याकनिष्ठानुक्रमेणगृहंगत्वानिम्बपत्नाणिशनैर्भक्षयित्वाचम्याग्न्युदकगोमयादीनस्पृष्टा

द्वाराश्मनिपदंनिधायगृहंप्रविशेयुः निम्बपत्नभक्षणंकृताकृतम् ततस्तद्दिने उपवसेयुः

उपवासाशक्तावयाचितलब्धेनान्यगृहपक्केनवैकेनैवहविष्यान्नेनवर्तेरन् ॥

तत्राशौचमध्येमाषमांसापूपमधुरलवणदुग्धाभ्यङ्गताम्बूलक्षाराणिवर्ज्यानि

क्षाराणितु तिलमुद्रादृतेशैम्ब्यंसस्येगोधूमकोद्रवौ । धान्याकंदेवधान्यंचशमीधान्यंतथैवच

स्विन्नधान्यंतथापण्यंमूलंक्षारगणःस्मृतः ।

केचित्सैन्धवं भक्ष्यमित्याहुः आदर्शस्त्रीसङ्गद्यूतादिहसनरोदनोच्चासनानिनित्यंत्यजेयुः

बालवृद्धातुरवर्जतृणकटास्तीर्णभूमौपृथकशयीरन् नकम्बलाद्यास्तीर्णभूमौ

मार्जनादिरहितमेवस्त्रानम् अस्थिसंचयनादूर्ध्वभार्यापुत्नव्यतिरिक्तानांशय्यासनादिभोगोस्त्येव स्त्रीसंगस्तुनास्ति ॥