६९ उत्क्रान्तिधेनुः

अथोत्क्रान्तिधेनुः अद्येत्याद्यमुकस्य

सुखेनप्राणोत्क्रमणप्रतिबन्धकसकलपापक्षयद्वा रासुखेनप्राणोत्क्रमणाय

यथाशत्तयलंकृतामिमामुत्क्रान्तिधेनुंरुद्रदैवत्याममुकशर्मणेतुभ्यंसंप्रददेगवामंगेष्वितिमन्त्रान्तेनममेतिवदेत्

धेन्वभावेद्रव्यंदेयम् ॥

उक्तप्रायश्चित्तादिदानान्तविधिमकृत्वापित्नादिमरणेपुत्नादिनाप्रायश्चित्तंकृत्वादाहादिकर्तव्ययम्

दानान्येकादशाहेकार्याणि पितुःपापाभावनिश्चयेप्रायश्चित्तंनावश्यकम्

केचिदुत्क्रान्तिवैतरण्यौचदशदानानिचैवाहि मृतेपिकृत्वातंप्रेतंदहेदित्याहुः

तुलसींसन्निधौकुर्याच्छालग्रामशिलांतथा ।

केचित्तिललोहहेमकार्पासलवणभूमिधेनुसप्तधान्येत्यष्टदानान्याहुः क्कचिन्मुमूर्षोर्मधुपर्कदानमुक्तम् ॥

पुत्नादिःकर्तान्त्यकर्माधिकारार्थकृच्छ्रत्नयादिकंवपनंचकुर्यात्

तत्नमातापित्नोःसापत्नमातुःपितृव्यस्यज्येष्ठभ्रात्रादेश्चान्त्यकर्मकरणेक्षौरमावश्यकम्

पुत्नाणांकर्तृभिन्नानामपिक्षौरंनित्यम् तथादत्तकस्यपूर्वापरयोर्मात्रोःपित्नोर्मृतौक्षौरम्

रात्नौतुदग्ध्वापिण्डान्तंकृत्वावपनवर्जितम् । वपनंवर्जितंरात्नौश्वस्तनीवपनक्रिया

पत्नीपुत्नकनिष्ठभ्रात्नादेरन्त्यकर्मणिक्षौरंनकार्यम् अन्यत्नकृताकृतम् ॥

स्मशानेनीयमानशवस्यशूद्रस्पर्शेशूद्रेणवहनेवा कुम्भेसलिलमादायपश्चगव्यंतथैवच ।

सुमन्त्रैभिमन्त्र्यापस्तेनसंस्त्राप्यदाहयेत् कृच्छ्रत्नयंचकुर्यात्

सूतिकारजस्वलयोःस्पर्शेप्येवमेव प्रायश्चित्तंतुपश्चदशकृच्छ्राः

शूद्रेणद्विजदाहेतुचान्द्रायणपराकप्राजापत्यानिसमुच्चयेनपुत्नादिःकृत्वास्थीनिपुनर्दहेत्

अस्थ्यभावेपालाशविधिः ऊर्ध्वोच्छिष्टाधरोच्छिष्टोभयोच्छिष्टेषुकृच्छ्रत्नयम्

अस्पृश्यस्पर्शनेषट्कृच्छ्राः अन्तरालमृतौनव खट्वामरणेद्वादश निगडमृतौपश्चदश

रजकादिसप्तविधान्त्यजादिस्पृष्टमरणेत्वेकत्निंशत्कृच्छ्राणि

देशान्तरमणेपराकद्वयमष्टौकृच्छ्रवा कृच्छ्रत्रयंप्रकुर्वीत आशौचमरणेपिच ।

अर्धदग्धेशवेचितेरस्पृश्यस्पर्शेकृच्छ्रत्रयम् एवं पुत्नादयःपित्नादेःपाषिनः

पापानुसारेणप्रायश्चित्तकाण्डोक्तंप्रायश्चित्तंदुर्मरणात्मघातादिनिमित्ते

पूर्वोक्तप्रायश्चित्तंनारायणवल्यादिकंचकृत्वैवान्त्यकर्मकुर्युः

एवमुक्तप्रायश्चित्तंविनादाहादिकृतंव्यर्थभवेत् उभयोश्चनरकः ॥

पतिपत्न्येरिककालेदहनेप्राप्तेभार्यायाःपत्यासहद्विवचनान्तमन्त्रोहेनदाहंकृत्वापिण्डादिकंपतिपूर्वकंपृथक्कार्यम्

एवं सपत्नीनामेककालेमृतौसहैवदाहः पिण्डादिकंतुज्येष्ठक्रमेणपृथगेव

एवं पितापुत्रयोर्भ्रात्रोश्चलौकिकाग्निदाह्ययोर्दाहःसहैव पिण्डादिपितृपूर्वज्येष्ठपूर्वचपृथक्

पुंबालानांस्त्रीबालानांचदहनेखननेचैवमेवेतिनागोजीभट्टीये रजस्बलागर्भिण्यादिमरणेसहगमनेचवक्ष्यते ॥

अथगोमयोपलिप्तभूमौकुशेषूपविष्टोदक्षिणशिराःशयितोवागोपीचन्दनादिमृदाकृतातिलकःश्रीविष्णुंस्मरन्

पुण्यसूक्तंगीतांसहस्त्रनामादिस्तोत्नाणिपठेच्छ्रणुयाद्वा

अमृतत्वप्राप्त्यर्थपुण्यसूक्तस्तोत्रादीनांपाठंश्रवणंवाकरिष्ये इति संकल्पः

श्रोतुःसंकल्पाशक्तौश्रावयितास्यामुकशर्मणोमृतत्वप्राप्तयेऽमुकंश्रावयिष्य इति संकल्पयेत्

नानानमितिसूक्तंपुरुषसूक्तंविष्णुसूक्तमुपनिषद्भागा इत्यादिपुण्यसूक्तानि

रामकृष्णादिनास्मरणेजातिमात्नस्याधिकारः ॥