६६ अन्त्येष्टिनिर्णयंवक्ष्येसर्वशाखोपयोगिनम्

श्रीविठ्ठलंनमस्कृत्यविघ्नकक्षहुताशनम् । अन्त्येष्टिनिर्णयंवक्ष्येसर्वशाखोपयोगिनम् ॥

तत्रान्त्यक्रियाधिकारिणःश्राद्धारम्भे एवोक्ताः

सर्वाभावेधर्मपुत्रःकार्यःतत्रपुत्राद्याधिकारिणापित्रादिकमासन्नमरणंदृष्ट्वासार्धाब्दादि

प्रायश्चित्तंमोक्षन्वादिदानानिचतेनकारणीयानिस्वयंवातमुद्दिश्यकर्तव्यानि

तत्नप्रायश्चित्तप्रयोगःप्रायश्चित्तप्रकरणेद्रष्टव्यः शक्तौसत्यांप्रायश्चित्तान्तेदशदानानिकार्याणि

तत्नगवामङ्गेंषुतिष्ठन्ति इति गोदानमन्त्रःसर्वभूताश्रयाभूर्मिवराहेणसमुद्धृता ।

अनन्तसस्यफलदा अतःशान्तिंप्रयच्छमे इति भूमेःमहर्षेर्गोत्नसंभूताःकाश्यपस्यतिलाःस्मृताः ।

तस्मादेषांप्रदानेनममपापंव्यपोहतु इति तिलानाम् हिरण्यगर्भगर्भस्थमितिहिरण्यस्य कामधेनुषुसंभूतंसर्वक्रतुषसंस्थितम् ।

देवानामाज्यमाहारमतःशान्तिंप्रयच्छमे इत्याज्यस्य शरणंसर्वलोकानांलज्जायारक्षणंपरम् ।

सुवेषधारिवस्त्रत्वमतः० इति वस्त्रंदेयम् सर्वदेवमयंधान्यंसर्वोत्पत्तिकरंमहत् ।

प्राणिनांजीवनोपायमतःशान्तिंप्रयच्छमे इति धान्यम् तथारसानांप्रवरःसदैवेक्षुरसोमतः ।

ममतस्मात्परांलक्ष्मींददस्वगुडसर्वदा इति गुडः प्रीतिर्यतः पितृणांचाविष्णुशंकरयोःसदा ।

शिवनेत्नोद्भवं रुप्यमतः० इति रजतम् यस्मादन्नरसाः सर्वेनोत्कृष्टालवणंविना ।

शंभोःप्रीतिकरंनित्यमतः० इति लवणम् भूम्यादिप्रमाणानितुजननशान्तिप्रकरणे उक्तानि

प्रायश्चित्तादिकर्मसुविष्ण्वादिनामकीर्तनात्साङ्गता

प्रायश्चित्ताद्यसंभवेपिमरणकालेविष्णुशिवनामकीर्तनमात्नात्सर्वपापक्षयोमुक्तिश्चेतिसर्वपुराणादिसिद्धान्तः

तथाचश्रीभागवते यस्यावतारगुणकर्मविडम्बनानिनामानियेऽसुविगमेविवशागृणन्ति ।

तेनेकजन्मशमलंसहसैवावहित्वासंयान्त्यपावृतमृतंतमजंप्रपद्ये इत्यादि मुमूर्षुपितरंषुत्नोयदिदानंप्रदापयेत् ।

तद्विशिष्टंगयाश्राद्धादश्वमेधशतादपि १ तानिच तिलपात्रदानं ऋणधेनुमोक्षधेनुपापधेनुवैतरणीधेनूत्क्रान्तिधेनुदानादीनि

व्यतीपातोथसंक्रान्तिस्तथैवग्रहणंरवेः । पुण्यकालास्तथासर्वेयदामृत्युरुपस्थितः आसन्नमृत्युनादेयागौःसवत्सातुपूर्ववत् ।

तदभावेतुगौरेवनरकोत्तारणायवै २ शुक्कपक्षेदिवाभूमौगङ्गायांचोत्तरायणे ।

धन्यास्तातमरिष्यन्तिहदयस्थेजनार्दने इत्यादिवचनात् इत्यादिवचनात् मुमूर्षोर्दानादौशक्त्यभावेपुत्नादिर्दद्यात् ॥