६५ अस्यनिषिद्धनक्षत्नादेरपवादः

अस्यनिषिद्धनक्षत्नादेरपवादः युगमन्वदिसंक्रान्तिदर्शेचप्रेतकर्मणि ।

पुनःसंस्कारादिकेपिनक्षत्नादिनशोधयेत् १ गुरुभार्गवयोर्मौढ्येपौषमासेमलिम्लुचे ।

नातीतःपितृमेधःस्याद्नयागोदावरींविना २ इति पुनःसंस्कारकालः ॥

साग्निकस्यपर्णशरदाहेकृतेपश्वाद्देहलाभेपर्णशरदाहीयार्धदग्धकाष्ठैस्तंदहेत्

तादृशकाष्ठालाभेलौकिकाग्निनादग्ध्वातदस्थीनिमहाजलेक्षिपेत्

एवमन्येषांनिरग्नीनामापिपर्णशरदाहोत्तरंशरीरलाभेस्थिलाभेवायोज्यम्

अमृतंमृतमाकर्ण्यकृतंयस्यौर्ध्वदेहिकम् ।

प्रायश्चित्तमसौस्मार्तकृत्वाग्नीनादधीतच अत्रपुनःसंस्कारादिप्रकारःपूर्वार्धे उक्तः

आधानान्ते आयुष्मतेष्टिः अनाहिताग्नेस्तुचरुः

भर्तरिजीवत्येवमरणवार्ताश्रुत्वायदिस्त्रियासहगमनंकृतंतदातत्स्त्रीमरणमवेधमेव

ज्ञातमरणमेवहिसहगमनेनिमित्तं नतुमरणज्ञानमात्रम्

अतस्यस्याभार्याया आत्मघातादिदोषप्रायश्चित्तं तत्पुत्रादिभिःकृत्वानारायणबलिपूर्वकमौर्ध्वदेहिकंकार्यम्

भर्तुस्तुदाहाद्यौर्ध्वदेहिककरणनिमित्तमुक्तपुनःसंस्कारादिकार्यम् ॥

क्कचिज्जीवतोप्यन्त्यकर्मविहितम् यथाप्रायश्चित्तानिच्छोःपतितस्यघटस्फोटे

तथाहिमहापातकेनोपपातकेनवा

पतितोयदिप्रायश्चित्तंनकरोतितदातंगुरुणांबान्धवानांराराज्ञश्चसमक्षमाहूयतत्पापंप्रकटीकृत्यतंपुनःपुनरुपादिशेत्

प्रायश्चित्तंकुरुस्वाचारंलभस्वेति सयद्येवमषिनाङ्गीकरोतितदारिक्तादिनिन्द्यतिथौसायाह्नेसपिण्डाबान्धवाश्चसंभूयदासी

हस्तेनानीतममेध्यकुत्सितजलादिपूर्णघटंसर्वतोदास्याद्यन्वारम्भंकुर्वन्तोदास्यादासस्यवा

वामपोदनन्युब्जंछिन्नाग्रदर्भेषुकारयित्वादासीसहितावदेयुरमुमनुदकंकरोमीतिनामग्रहणपूर्वकंप्राचीनावीतिनोमुक्तशिखाश्चसन्तः

ततोधिकारीकर्तादाहवर्ज्यतीवन्तमेवोद्दिश्यपिण्डोकदानादिप्रेतकार्याण्येकादशाहान्तानिनाम्नैवकुर्यात्

मिताक्षरायांप्रेतकार्योत्तरंघटनिनयनमुक्तम् एकाहमाशौचंसर्वेषाम्

यस्यघटस्फोटःकृतस्तेनसहसंभाषणस्पर्शादिसंसर्गोनकेनापिकार्यः

करणेपतिततुल्यता घटस्फोटप्रयोजनंतुपूर्वार्धान्ते उक्तम्

घटस्फोटनिश्चयोत्तरंघटस्फोटदिनात्प्राकपतितज्ञातीनांधर्मकार्येष्वनधिकार इति कश्चित्त् ॥

कृतघटस्फोटस्यपुंसोनुतापेतत्पापप्रायश्चित्तान्तेसंग्रहविधिरुच्यते तत्रादौशुद्धिपरीक्षा

कृतपायश्चित्तोज्ञातिसमक्षंगोभ्यस्तृणभारंदद्यात् गोभिस्तृणेभक्षितेशुद्धिः

भक्षणाभावेपुजनः प्रायश्चित्तंचरेत् एतंनिश्चितसंशुद्धौसमानेयुर्नवं घटम् ।

हैमंवामृन्मयंवापिपवित्रजलपूरितम् १ ततःसपिण्डास्तंघटंसंस्पृश्याभिमन्त्र्यतज्जलैः

पावमानीभिरापोहिष्ठेत्यादिभिस्तरत्समन्दीभिश्चपापिनमभिषिच्यतेनसहसर्वेस्त्रात्वातंजलघटमस्मैदद्युः

सचशान्ताद्यौःशान्तापृथिवीशान्तंविश्वमन्तरिक्षंयोरोचनस्तंमिहगृहह्णामीतियजुर्भिस्तंघटंगृह्णीयात्

ततस्तदुदुकंतेनैवसाकंसर्वेपिबेयुःततःसकूश्माण्डमन्त्रैराज्यहोमंकृत्वासुवर्णगांचदद्यात्

ततस्तस्यजातकर्मादिव्रतबन्धांताविवाहान्तावासंस्काराःकार्याः एवं कृतेशुद्धेनतेनसंभोजनादिव्यवहारंकुर्यात्

एवमुपपातकेदापातकेचकृतघटस्फोटस्यशुद्धिर्ज्ञेया इति संक्षेपतःकृतघटस्फोटशुद्धिः ॥

वन्देश्रीमदनन्ताभिधगुरुचरणौसतांमताचरणौ । जननीमथान्नपूर्णासंपूर्णासद्भुणैर्वन्द्याम् ॥