६४ अतीतप्रेतसंस्कारकालः

अथातीतप्रेतसंस्कारकालः प्रत्यक्षशवसंस्कारेदिनंनैवविशोधयेत् ।

आशौचमध्येसंस्कारेदिनंशोध्यंतुसंभवे १ दशाहोत्तरंतुदिनंसंशोध्यैवग्राह्यम्

तत्रवत्सरादूर्ध्वक्रियमाणप्रेतकर्मण्युत्तरायणमेवश्रेष्ठम् तत्नापिकृष्णपक्ष एव

तत्रनन्दात्नयोदशीचतुर्दशीदिनक्षयान्वर्जयेत् शुक्रशनिवारौवर्ज्यो भौमबारोपिरार्ज्य इत्येके

नक्षत्रेषुभरणीकृत्तिकार्द्राश्लेषामघाज्येष्ठामूलंधनिष्ठोत्तरार्धशततारकादिचतुष्टयंचेतिनक्षत्नाणि

त्रिपुष्करयोगश्चेत्यातिदुष्टानिसर्वथात्यजेत्

कृत्तिकापुनर्वसूत्तराफल्गुनीविशाखोत्तराषाढापूर्वाभाद्रपदाचेतित्रिपादनक्षत्नाणि

द्वितीयासप्तमीद्वादशीचतिथिःकुजशनिरविविवाराश्चेतित्नयाणांयोगेत्रिपुष्करः

कैश्चिद्रविस्थानेगुरुवार उक्तः एतेष्वेवतिथिवारेषुमृगाचित्नाधनिष्ठायोगेद्विपुष्करः

त्रिपुष्करयोगोवृद्धौलाभेनष्टेहतेमृतौचत्रिगुणफलदःद्विपुष्करोद्विगुणफलदः

तेनप्रेतकार्येद्वावपित्याज्यौ द्वयोर्योगेद्विपुष्कर इति कश्चित्

गुरुशुक्रास्तपौषमासमलमासावैधृतिव्यतीपातपरिघयोगाःविष्टिःकरणंचतुर्थाष्टमद्वादशचन्द्रश्चेत्यपिसर्वथात्यजेत्

रोहिणीमृगपुनर्वसुपूर्वोत्तराफल्गुनीचित्नाविशाखाऽनुराधापूर्वोत्तराषाढाधनिष्ठेतिकिंचिद्दुष्टानिसभवेत्यजेत्

भौमवारोपित्याज्य इत्येके कर्तुस्तिसृषुजन्मतारासुप्रत्यरितारायांचपर्णशरादिदाहोनेष्टः ॥

तथाचार्कगुरुचन्द्रवारा अश्विनीपुष्यहस्तस्वातीश्रवणभानिचप्रशस्तानि

मध्यमानिसर्वथात्याज्यानिचोक्तानि नन्दायांशुक्रवारेचतुर्दश्यांत्रिजन्मताराप्रत्यरितारासुचैकोद्दिष्टश्राद्धमतिनिन्द्यम्

साक्षादेकादशाहेनकोपिनिषेधः ॥