६२ सर्पहतेव्रतम्

अथसर्पहतेव्रतम्

प्रतिमासंशुक्लपञ्चम्यां उपवासंनक्तंवाकृत्वापिष्टमयंनागंपञ्चफणमनन्तवासुकिशङ्खपद्मकम्बलकर्कोटकाश्वतरधृतराष्ट्र

शङ्खपालकालियतक्षककपिलेतिद्वादशनामभिर्द्वादशमासेषुसंपूज्यपायसेनविप्रान्संभोज्यवत्सरान्तेहेमनागंप्रत्यक्षांगांचदत्वा

नारायणबलिपूर्वकंदाहाशौचादिकंकार्यम् अथवानमो अस्तुसर्पेभ्य इति तिस्त्र आज्याहुतीर्जुहुयात

पञ्चम्यांपन्नगंहैमंस्वर्णेनैकेनकारयेत् ।

क्षीराज्यपात्रमध्यस्थंपूज्यविप्रायदापयेत् प्रायश्चित्तमिदंप्रोक्तंनागदष्टस्यशंभुना । इति ततोनारायणबल्यादि ॥