५९ विधानतः

अथविधानतः यतेर्मृतावाशौचंनास्ति तस्यप्रेतक्रियोदकदानाशौचसपिण्डीकरणादेर्निषिद्धत्वात्

सपिण्डीस्थान एकादशेऽहनिपार्वणश्राद्धमात्नंकार्यम् प्रतिसांवत्सरिकश्राद्धदर्शश्राद्धादिकंतुपार्वणविधिनासपिण्डकंभवत्येव

अत्रविस्तरोग्रन्थान्तरेवक्ष्यते एतच्चत्रिदण्डिनामेकदण्डिनांहंसपरमहंसादीनांसर्वेषामेवज्ञेयम्

एवं वानप्रस्थमरणेपिनाशौचम् कृतजीवच्छ्राद्धेमृतेसपिण्डैराशौचादिकर्तव्यंनवेतिविकल्पः

ब्रह्मचारिमृतौत्वाशौचमस्त्येव युद्धमृतेप्याशौचंनेतिसर्वग्रन्थेषूपलभ्यतेनत्वेवं ब्राह्मणेषुशिष्टोचारः

इति पञ्चधाशौचापवादोनिरुपितः ॥