अथयःपतितोघटस्फोटेनबहिष्कृतोयश्चम्लेच्छीकृतोयश्चप्रायश्चित्तानर्हपापीतस्यत्निविधस्य
पितृमातृभिन्नस्यपतितोदकविध्यनन्तरंसपिण्डीकरणवर्ज्यमन्त्यकर्मपितुर्मातुश्चत्रिविधस्यापि
नारायणबलिपूर्वकंसपिण्डीकरणसहितंसर्वभवतीत्युक्तम् तत्रपतितोदकदानविधिर्यथा
सर्वगांदासीमाहूयतस्यैवेतनंदत्वा अशुद्धपूर्णघटहस्तांतांब्रूयात्
हेदासिगच्छमूल्येनतिलान्तोयपूर्णमिमंघटंचशीघ्रमानय
ततोदक्षिणामुखी उपविश्यवामपादेनतंघटंसतिलक्षिप घटक्षेपणकालेचामुकसंज्ञकपतितप्रेतपिबपिबेतिमुहुरुच्चारयेति
सादासीतद्वाक्यंश्रुत्वामूल्यंगृहीत्वातथाकुर्यात् एवं कृतेपतिततृप्तिर्नान्यथा एतच्चपतितस्यमृतदिनेकार्यम्
इति पतितोदकविधिः इति मृतदोषत आशौचापवादःसप्रसङ्गः सविस्तरोनिरुपितः ॥