५७ संन्यासाश्रमं तीर्थादिनात्मघातंकुर्वन्ति

इदानींतनशिष्टास्तुरोगादिपीडांसोढुमशक्तौसंन्यासाश्रमंगृहीत्वातीर्थादिनात्मघातंकुर्वन्ति

गृहस्थविधुरादयश्चनकुर्वन्ति केचित्त्वपरिहार्यरोगादिग्रस्तवृद्धादेर्जलाजिनाबुद्धयात्मघातःकलौप्रयागभिन्नदेशेनभवति

भृग्वग्निपतनैश्चैववृद्धादिमरणंतथेतिकलिवर्ज्येषुपरिगणनादित्याहुः

एतन्मतेमरणान्तप्रायश्चित्तविधयःकाशीखण्डादौविप्रादेर्देहत्यागविधयश्चयुगान्तरपराः

प्रयागमरणंस्त्रीणांसगमनंचकलियुगेसर्वसंमतम् अत्रसर्वत्रसहगमनभिन्नेविधिवाक्यानुज्ञातेदेहत्यागेत्रिरात्रमाशौचमितिबहवः

दशाहमितिकेचित् एवं फलकामनयाविहितेकाम्यप्रयागमरणेपिपक्षद्वयंज्ञेयम् ॥