५१ अशौचापवादः

अथाशौचापवादः सपञ्चधा १ कर्तृतः २ कर्मतः ३ द्रव्यतः ४ मृतदोषतः ५ विधानत इति ॥

तत्रकर्तृतोयथा यतीनांब्रह्मचारिणांचसपिण्डजननमरणयोर्नाशौचम्‍ मातापितृमरणेतुयतिब्रह्मचारिणोःसचैलस्नानमात्रंभवत्येव

ब्रह्मचारिणःसमावर्तनोत्तरंब्रह्मचर्यदशायांमृतानापित्रादिसपिण्डानांत्रिरात्रमाशौचमुदकदानंचकार्यम्‍

अनुगमननिर्हरणनिमित्तक्त्वाशौचंब्रह्मचारिणोऽप्यस्त्येव पित्राद्यन्त्यकर्मकरणेब्रह्मचारिण आशौचमप्यस्त्येव

आरब्धप्रायश्चित्तानाप्रायश्चित्तानुष्ठानसमये आशौचंन समाप्तेतुप्रायश्चित्तेत्रिरात्रमतिक्रान्ताशौचम्‍

कृतकर्माङ्गनान्दीश्राद्धानांतत्कर्मसमाप्तिपर्यन्तंतत्कर्मोपयोगिकार्ये आर्त्यादिसंकटे आशौचन

जाताशौचमृताशौचवतोर्मरणसमयप्राप्तौनाशौचम्‍ तेनदानादिकंसतिवैराग्ये आतु अस्यसंनासोऽपिबवतीतिसिन्ध्वादयः

देशविलवदुर्भिक्षादिमहापदिसद्यःशौचम्‍ आपदपगमे आशौचावशेषे अवशिष्टाशौचमस्त्येव ॥

अथकर्मतः अन्नसत्रिणामन्नादिदानेषुनाशौचम्‍ प्रतिग्रहीतुस्तु आमान्नग्रहणेदोषोन

पक्वान्नभोजनेतुत्रिरात्रंक्षीरपानम्‍ गृहीतेऽनन्तव्रतादावेकादश्यादौचारब्धमृच्छ्रादिव्रतेचनाशौचम्‍

तत्रस्नानादिशारीरनियमाःस्वयंकार्याः अनन्तपूजादिकमन्येनकारणीयम्

ब्राह्मणभोजनादिकमाशौचान्तेराजादीनांप्रजापालनादौनाशौचम्‌

ऋत्विजांमधुपर्कपूजोत्तरंतत्कर्मणिनाशौचम्‌

तेनयेष्वाधानपशुबन्धादिषुमधुपर्कोनोक्तस्तेषुकृतेपिवरणेतान्‌त्यक्त्वान्ये ऋत्विजःकार्याः

दीक्षितानांदीक्षणीयोत्तरमवभृथस्नानपर्यन्तंयज्ञकर्मणिनाशौचम्‌

दीक्षितर्त्विग्भ्यास्नानमात्रंकर्ममध्येकार्यम्‌ अवभृथात्पूर्वमेवाशौचाभावः अवभृथंतुनभवत्येवेतिसिन्धुः

कर्मान्तेतुत्रिरात्रंपूर्वन्यायात्‌ रोगभयराजभयादिनाशार्थेशान्तिकर्मणिनाशौचम्‌

क्षुत्पीडितकुटुम्बस्यप्रतिग्रहेनाशौचम्‌ विस्मरणशीलस्याधीतवेदशास्त्रध्ययनेपिनाशौचम्‌

वैद्यस्यनाडीस्पर्शनेनाशौचम्‌ श्राद्धेतूक्तम्‍

मूर्तिप्रतिष्ठाचौलोपनयनविवाहाद्युत्सवतडागाद्युत्सर्गकोटिहोमतुलापुरुषदानादिककर्मसुनान्दीश्राद्धोत्तरंनाशौचम्‌

संकल्पितेपुरश्चरणजपेऽविच्छेदेनसंकल्पितहरिवं शश्रवणादौचप्रारम्भोत्तरंनाशौचम्‌

कालादिनियमाभावेतुस्तोत्रहरिवं शादिकमाशौचेहेयमेव सर्वोप्ययमाशौचापवादोनन्यगतिकत्वे आर्तौचज्ञेय

इति सिन्धौनागोजीयेचोक्तम्‌ तेनानन्यगतिकत्वादिमालोच्यैवाशौचाभावोयोज्यः अत्रयद्वक्तव्यंतत्पूर्वार्धेतत्रतत्रोक्तमेव ॥

केचित्तुव्रतेष्विवदीक्षितानामृत्विजामारब्धोत्सवादीनांचस्वरूपत

आरम्भतश्चावश्यकत्वादार्त्याद्यभावेप्याशौचाभाव इत्याहुः

कन्यायाक्रतुशङ्कादिसंकटेमुहूर्तान्तराभावेकूष्माण्डहोमादिनाजाताशौचेविवाहारम्भोपिकार्य

इत्युक्तम्‌ विवाहादिषुनान्दीश्राद्धोत्तरमाशौचेपातेपूर्वसंकल्पितान्नमसगोत्रैर्दातव्यंभोक्तव्यंच

दातारंभोक्तारंसिद्धान्नंचसूतकीनस्पृशेत्‌

विवाहादौतदन्यत्रवाभुञ्जानेषुविप्रेषुदातुराशौचपातेपात्रस्थमप्यन्नंत्यक्त्वान्यगेहोदकाचान्ताःशुध्यन्तीत्यादिपूर्वार्ध उक्तम्‌

एवं सहस्त्रभोजनादावपिपूर्वसंकल्पितान्नेषुज्ञेयम्‌ पार्थिवशिवपूजायांनाशौचम्‌

आशौचेसंध्याश्रौतस्मार्तहोमादिविषयेपूर्वार्धे उक्तम्‌ अग्निसमारोपप्रत्यवरोहावाशौजयोर्नकार्यो तेन

समारोपोत्तरमाशौचपातेपुनराधानमेव सपारोपप्रत्यवरोहयोरन्यकर्तृकत्वस्याशौचापवादस्यचाभावात्‌

इदंबहृचानांद्वादशाहंहोमलोपेऽन्येषांत्र्यहंहोमलोपे एवपुनराधानंज्ञेयम्‌ ग्रहणनिमित्तकेस्नानश्राद्धदानादौनाशौचम्‌

कश्चित्स्नानमात्रंकार्यनश्राद्धादीत्याहसंक्रान्तिस्नानादावपिनाशौचम्‌

नित्यकृत्येषुस्नानाचमनभोजननियमास्पृश्यस्पर्शनादिनियमेषुनाशौचम्‌

अन्यद्वैश्वदेवब्रह्मज्ञयदेवपूजादिनित्यंनैमित्तिकं काम्यंचाशौचेषुनकार्यम्‌

भोजनकाले आशौचापाकजननमरणश्रवणेमुखस्यंग्रासंत्यक्त्वास्नायात्‌ मुखस्थग्रासभक्षणे

एकोपवासः सर्वान्नभोजनेत्रिरात्रोपवासः इति कर्मत आशौचसदसद्भावविचारः ॥

अथद्रव्यतः

पुष्पफलमूललवणमधुमांसशाकतृणकाष्ठोदकक्षीरदधिघृतौषधतिलतद्विकारेक्षुतद्विकाराणांलाजादिभर्जितान्न

अस्यलड्डुकादीनांशौचिस्वामिकानामाशौचिगृहस्थितानाचग्रहणेदोषोन

आशौचिहस्तात्तकिमप्येतन्नग्राह्यम्‌ पण्येतुवणिजादेराशौचेपितद्धस्ताल्लवणादेरामान्नस्यचक्रयेनदोषः

जलदधिलाजादिकंतुक्रयेणापितद्धस्तान्नग्राह्यम्‌ ॥

अथमृतदोषतः

शास्त्रानुज्ञांविनाशस्त्राग्निविषजलपाषाणभृगुपातानशनादिभिर्बुद्धिपूर्वकंस्वेच्छयात्मघातकानांनाशौचम्‍

तच्चाघातनंक्रोधात्परोद्देशेनवास्तुस्वत एवेष्टसाधनताभ्रमेणवा

तथाचौर्यादिदोषेराजहतानांपारदार्येतत्पत्यादिहतानांविद्युद्धतानांचनाशौचम्‍

अन्यैर्निषिद्धोपिगर्वान्नदीतरणवृक्षाधिरोहकूपावरोहादौप्रवृत्तौमृतस्तस्यापिनाशौचम्

योगवादिहरणार्थतद्धननार्थवा प्रवृत्तौगोसर्पनखिशृङ्गिदंष्ट्रिगजचोरविप्रान्त्यजादिभिर्हतस्तस्यानशौचम्‌

महापातकिनांतत्संसर्गिणांचमहापापितुल्यानांचपतितानानपुसकानांचमरणे

नाशौचम्‌ स्त्रीणांचपत्यादिहन्त्रीणांहीनजातिगामिनीनांगर्भघ्नीनांकुलटानांचपूर्वोक्तात्मघातादि

पापयुक्तानांचमृतौनाशौचमतत्रैषांशवानास्पर्शाश्रुपातवहनदहनान्त्यकर्माणिनकुर्यात्‌

स्पर्शादिकरणेज्ञानाज्ञानाभ्यासादितारतम्येनकृच्छ्रातिकृच्छ्रसांतपनचान्द्रायणादिप्रायश्चित्तानिसिन्ध्वादिग्रन्थान्तरतोज्ञेयानि

तेनैषांमृतदेहस्यजलेप्रक्षेपः

ततःसंवत्सरोत्तरंपुत्रादिस्तदीयात्मघातादिपापानुसारेणप्रायश्चित्तंतस्यकृत्वानारायणबलिंच

कृत्वापर्णशरदाहादिपूर्वकमाशौचमौर्ध्वदेहिकंचकुर्यात्‌

केचित्प्रेतशरीरंदग्ध्वादाहनिमित्तचान्द्रायणत्रयंकृत्वाऽस्थीनिसंस्थाप्याब्दान्तेपूर्वोक्तरीत्यौर्ध्वदेहिकमित्याहुः ॥

अथवालौकिकाग्निनातूष्णींदग्ध्वास्वजीवनसंदेहाद्वाभक्त्यावापुत्रादयः

संवत्सरादर्वगपितत्तदात्मघातादिपापोक्तद्विगुणप्रायश्चित्तपूर्वकंनारायणबलिंकृत्वापर्णशरदाहमस्थिदाहंवाकृत्वाशौचमौर्ध्वदेहिकंचकुर्यः

इदंचप्रायश्चित्तार्हाणामेव प्रायश्चित्तामर्हाणांघटस्फोटेनबहिष्कृतानांचदासीद्वारापतितोदकविध्यनन्तरंसपिण्डीकरणवर्जमौर्ध्वदेहिकम्

तेनसांवत्सरिकमप्येकोद्दिष्टविधिनैव यद्वा त्मघातिनांपुत्रादिर्मृतजातीयवधोक्तब्रह्महत्यादिप्रायश्चित्तसहितं

चान्द्रायणंतप्तकृच्छ्रद्वयंचकृत्वानारायणबलिपूर्वकंतंदहेततथाचात्मघातिनांगोगजव्याघ्रादिहेतुकदुर्मरणवतांच

पतितादीनांचपूर्वोक्तानांसर्वेषानभमर अणदिनादारभ्याशौचंकितुतत्तत्प्रायश्चित्तनारायणबलिपूर्वकसमन्त्रक

दाहदिनमारभ्यैवाशौचम्‌ जलाग्न्यादिभिःप्रमादमृतानांतुमरणदिनादारभ्याशौचादिकमस्त्येव

तच्चत्रिरात्रमितिकेचित्‌ दशाहमितिबहवः

किंतुप्रमादमरणस्यापिदुर्मरणत्वत्तन्निमित्तप्रायश्चित्तपूर्वकमेवदाहादिकार्यम्‌ तदुक्तंस्मृत्यर्थसारे

चण्डालगोब्राह्मणचोरपशुदंष्ट्रिसर्पाग्न्युदकादिभिः

प्रमादान्मरणेचान्द्रायणंतप्तकृच्छ्रद्वयंचतत्प्रायश्चित्तंकृत्वापञ्चदशकृच्छ्राणिवाप्रायश्चित्तंक्रुत्वाविधिवद्दहनाशौचोदकदानादिसर्वकार्यमेवेति

प्राणान्तिकप्रायश्चित्तेनमृतस्यदशाहमाशौचंसर्वाणिप्रेतकार्याणिचकर्तव्यानि प्रायश्चित्तेनतस्यशुद्धत्वात्‌

एवमारब्धप्रायश्चित्तस्यप्रायश्चित्तमध्येमरणेपिशुद्धत्वादिकंज्ञेयम्‌ ॥