५० भोजननिमित्तकाशौच

यदातुतदस्वामिकमाशौचिस्पृष्टमात्रमन्नंभुङ्क्तेतदामत्याभोजनेकृच्छ्रम्‌ अमत्यार्धमितिस्मृत्यर्थसारे उक्तम्‌

आशौचिस्पृष्टाशौचिस्वामिकान्नभोजीतुतत्स्वामिकान्नाशननिमित्तंतत्स्पृष्टान्नाशननिमित्तंचेतिप्रायश्चित्तद्वयंसमुच्चयेनकुर्यात्‌

आशौचिस्वामिकामान्नप्रतिग्रहेतूक्तप्रायश्चित्तार्धम्‌ आशौचंतुनास्ति दातृभोक्तृभ्यामुभाभ्यामज्ञातेजननेमरणेवानदोषः

अन्यतरेणज्ञातेदोषः तत्रदातुर्ज्ञानेभोक्तुरज्ञानेभोक्तुरल्पंप्रायश्चित्तम्‌ दातुरज्ञानेपिभोक्तुर्ज्ञानेपूर्णमेव भोजननिमित्तकाशौचेपिकर्मलोपोन ॥

अथतुकथमपिस्वल्पसबन्धयुक्तेस्नानंवासोयुतंस्यादितित्रिंशच्छलोकी स्मृत्यर्थसारेप्येवम्‌ अयमस्यार्थः

स्वल्पेनापि एकाहाद्याशौचप्रयोजकेनसंबन्धेनयुक्ते शालकजामात्रादौमृतेसचैलंस्नानंकार्यम्‍

सर्वत्रगुरुणोलघुनोवामृताशौचस्यप्राप्तिकालेसमाप्तिकालेचस्नातव्यमितियावत्‌

अथवास्वल्पैर्दशाहाभिन्नपक्षिणीत्रिदिनाद्याशौचप्रयोजकैः

संबन्धैर्युक्तेबन्धुत्रयमातुलानुपनितसपिण्डादौमृतेदेशान्तरेकालान्तरेपिस्नानंभवत्येव

तथाचयस्यसन्निहितकाले आशौचप्राप्तिस्तस्यातिक्रान्तकालेस्नानम्‍

यस्यतुसन्निहितकालेपिन्नानमात्रंतस्यकालान्तरेस्नानमपिनेत्यर्थः यद्वा स्वल्प

आशौचप्रयोजकसंबन्धभिन्नसंबन्धःयथाशालकसुतत्वं ऊढकन्यायाः

पितृव्यतत्पुत्रत्वादिभगिन्याभ्रातृपुत्रत्वादितद्युक्ते आशौचाभावेपिस्नानमात्रंभवत्येव

यत्किंचित्संबन्धे आशौचाभावेपिस्नानमात्रंसन्निधौसर्वत्रकार्यमित्यर्थः पक्षत्रयमपि इदंशिष्टाचारेदृश्यते इति युक्तंभाति ॥