४९ अशौच्यन्नभक्षणे

असगोत्रोनापदिबुद्धिपूर्वसकृदप्याशौचिस्वामिकंपक्वमन्नंयस्मिनदिनेभुङ्क्तेतदारभ्यतेनयावत्तेषामाशौचमवशिष्टं

तावदाशौचंकार्यम् आशौचान्तेचविप्राशौचेसांतपनंप्रायश्चित्तम् शूद्राशौचेचान्द्रायणम् क्षत्रियादेःकलावभावान्नलिख्यते

क्वचिल्लेखस्तुव्युत्पादनमात्रार्थोनेदानीमुपयुज्यते इति प्राय उपेक्ष्यते मत्याभ्यासेविप्रशूद्राशौचयोःक्रमेणमासंषण्मासंकृच्छ्रादिव्रताचरणम् अमत्याभोजनेयावदन्नपाकमाशौचंक्रमेणैकरात्रंसप्तरात्रंचोपोषणंदशशतंचप्राणायामाः

अमत्याभ्यासेद्विगुणम् आपद्यमत्याभोजनेतदहराशौचमेकःप्राणायामः

शूद्राशौचेऽष्ठाधिकसहस्त्रगायत्रीजपःज्ञानत आपदित्रिरघमर्षणमष्टोत्तरसहस्त्रगायत्रीजपः

शूद्राशौचेप्राजापत्यम् शूद्रस्यद्विजाशौचेस्नानंपञ्चगव्याशनंच सर्वमिदंजननाशौचेन्यूनंयोज्यम्

एवमाहिताग्न्याशौचेपिन्यूनमितिस्मृत्यर्थसारे सर्वमिदमाशौचिस्वामिकान्नभोजने ॥