४७ पित्रादिमरणे आशौचनं

अथब्रह्मचारिणापितृमातृमातामहादीनामन्याधिकार्यभावेदाहाद्यन्त्यकर्मकार्यम्

तदाकर्माङ्गदशाहमस्पृश्यत्वलक्षणमाशौचंचकार्यम् तदापितेषामाशौचिनामन्नंब्रह्मचारिणानभोक्तव्यम्

आशौचिस्पृष्टतयावासश्चनकार्यः तदुभयकरणेप्रायश्चित्तंपुनरुपनयनंच

ब्रह्मचारिणापूर्वोक्तपित्रादिभिन्नानांदाहाद्यन्त्यकर्मकरणे कृच्छ्रत्रयप्रायश्चित्तं

पुनरुपनयनंचाशौचान्तेकार्यम् पित्रादेर्दाहमात्रकरणे एकाहमाशौचंकार्यम्

अत्रसर्वत्रब्रह्मचारिणःसंध्याग्निकार्यादिकर्मलोपोन

ब्रह्मचारिभिन्नस्यापिदाहादिनिमित्तकसंसर्गाशौचेब्रह्मयज्ञादिनित्यकर्मलोपोनेत्युक्तम्

तत्रदेवपूजावैश्वदेवादिकमन्येनकारणीयम् स्वयंकर्तुयोग्यंतुस्वेनैवकार्यम्

ब्रह्मचारिणःपित्राद्यन्त्यकर्माकरणेतुपित्रादिमरणे आशौचनं

समावर्तनोत्तरपूर्वमृतानांपित्रादिसपिण्डानांत्रिरात्रमाशौचंकार्यम् ॥