४६ दाहादौ

अथदाहादौ समोत्कृष्टवर्णप्रेतस्यस्नेहादिनादाहोदकदानादिसकलौर्ध्वदेहिककरणेतत्तज्जात्याशौचम्

तदन्तेस्नेहलोभाद्यनुसारेणगुरुलघुप्राजापत्यादीनांत्रयम् स्नेहादिनासवर्णानांदाहमात्रकरणे

तद्गृहवासेत्रिरात्रम् तदन्नभक्षणेदशरात्रम् तदुभयाभावे एकाहः

हीनवर्णेनोत्तमवर्णस्यदाहमात्रकरणेशवजात्याशौचम् भृतिग्रहणेनसवर्णस्यदाहमात्रकरणेपिदशाहाद्येव

मौल्येनोत्तमवर्णदाहेद्विगुणम् उत्तमेनाधमवर्णदाहनिर्हरणकरणेतज्जात्याशौचंतदन्तेक्रमेणद्विगुणंत्रिगुणंचतुर्गुणंप्रायश्चित्तम्

मौल्येनहीनवर्णदाहादौतुप्रायश्चित्तमाशौचंचोक्तापेक्षयाद्विगुणम्

धर्मार्थसमोत्कृष्टवर्णप्रेतस्यदाहादिसकलौर्ध्वदेहिककरणेपिनाशौचंनित्यपिण्डदानाद्यनन्तरंस्नानमात्राच्छुद्धिः

द्विजेनशूद्रस्यधर्मेणापिदाहादिनकार्यम् ॥