४५ निर्हरणे

अथनिर्हरणे स्नेहेनसजातीयशवनिर्हरणेतदन्नाशनेतद्गृहवासेचदशाहः

तद्गृहवासमात्रेन्नाशनमात्रेवात्रिरात्रम् अन्नाशनगृहवासयोरभावे एकाहः

ग्रामान्तरस्थंशवं निर्हरत्यग्रामान्तरवासेसज्योतिः मौल्यग्रहणेनसजातीयनिर्हरणेदशाहः

विजातीयनिर्हारेशवजातीयम् भृतिग्रहणेनहीनजातीयनिर्हरणेशवजातीयद्विगुणम्

सोदकशवनिर्हरणेपिदशाहः शवालंकारकरणेपादकृच्छ्रम् अज्ञानादुपवासः अशक्तौस्नानम्

धर्मार्थमनाथद्विजशवनिर्हरणेदाहकरणेचाश्वमेधादिपुण्यंस्नानमात्राच्छुद्धिः

अग्निस्पर्शोघृताशनंचात्रापि धर्मार्थमपिशूद्रशवनिर्हरणेद्विजस्यैकाहः

धर्मार्थमनाथशवानुगमनादौनदोषः ब्रह्मचारिणस्तुपितृमातृमातामहाचार्योपाध्यायभिन्नशवनिर्हरणादौव्रतलोपः

पूर्वोक्तरीत्याशौचंच ततस्तेनकृच्छ्रप्रायश्चित्तंपुनरुपनयनंचकार्यम्

पित्रादेर्निर्हरणेपिब्रह्मचारिणा आशौचिनामन्नंनभक्ष्यम् तेषांस्पर्शोपिनकार्यः अत्रापिनित्यकर्मलोपोन ॥