४२ यदातुभागिनेयादिर्मातुलादेरन्त्यकर्मः

यदातुभागिनेयादिर्मातुलादेरन्त्यकर्मकरोतितदातन्निमित्तेदशाहाद्याशौचेसतियदिसपिण्डमरणनिमित्तंदशाहादिकंपतत इतदातस्यपूर्वेणशुद्धिर्नभवति कर्माङ्गाशौचस्यास्पृश्यतामत्रप्रयोजकत्वेनसंध्यादिकर्मलोपाभावेनलघुत्वात्

लघुनागुरोर्निवृत्त्याभावात् एवं त्रिरात्रपातेपिजननत्रिरात्रस्यनिवृत्तिर्मृतकत्रिरात्रस्यनेत्यादिकमूह्यम्

पुत्रस्यसपिण्डाशौचेनमातापित्रोराशौचंनापैति एवं भार्यायाभर्त्राशौचंनापैति केचित्पत्युर्भार्याशौचमपिनापैतीत्याहुः

मात्राशौचमध्येपित्राशौचपातेपूर्वान्तेशुद्धिः स्मृत्यर्थसारादयस्तुपितुःसंपूर्णमेवाशौचंकार्यमित्याहुः

पित्राशौचेमातुर्मरणेपित्राशौचंसमाप्यपक्षिणीमधिकांकुर्यात् इयंपक्षिणीवृद्धिर्दशमरात्रेरर्वाकमरणेतज्ज्ञानेवाभवति

दशमरात्रौतद्रात्रिचतुर्थयामेवामातृमरणादौतुद्विरात्रत्रिरात्रावेवनपक्षिणी

मातुरनाहिताग्निभर्तुर्मरणाद्वितीयादिदिनेषुसहगमनेपिनाधिकापक्षिणी भर्त्राशौचान्तेशुद्धिः

नवश्राद्धपिण्दादिकंयुगपत्समापयेत् भर्त्राशौचोत्तरमन्वारोहणेत्रिरात्रम् एतत्रिरात्रंसपिण्डानामेव

पुत्रस्यतुमात्राशौचंसंपूर्णमेवेतिभाति सहगमनेसपिण्डानामपिपूर्णमेवाशौचंत्रिरात्रंत्वनुगमनपरमितिगौडाः

इदमेवयुक्तम् इयंसंपातेपूर्वेणशुद्धिःसूतिकाया अग्निदस्यचनास्ति यदादेशान्तरमृतपितृर्वार्ता

श्रुत्वापुत्रैर्दशाहमाशौचंकृतंसंस्कारस्त्वस्थ्यलाभादिहेत्वन्तरवशान्नकृतोदशाहोत्तरंचसंस्कार

आरब्धस्तत्रसंस्कारकर्तुःपुत्रस्यकर्माङ्गंदशाहमाशौचम् तदाशौचमध्ये सपिण्डमरणेपूर्वान्तेशुद्धिर्न

मातुर्मरणेपिनाधिकापक्षिणी किंतुसपिण्डाशौचंमात्राशौचंचसंपूर्णमेवकार्यम् अतिक्रान्तकालाद्वर्तमानस्यबलवत्त्वात्

एवं द्वादशवर्षादिप्रतीक्षोत्तरंपुत्रादिभिःक्रियमाणपित्रादिसंस्काराङ्गदशाहाशौचेऽन्यसपिण्डादिमरणेपीतिपूर्वशेष एणशुद्धेरपवादः

सिन्धावुक्तः जननाशौचेमृताशौचेवामृतकसंपातेपिण्डदानाद्यन्तकर्मप्रतिबन्धोनास्ति

मृताशौचेजाताशौचेवापुत्रजननेजातकर्मादिप्रतिबन्धोनस्तीत्येके पूर्वाशौचान्तेजातकर्मेत्यन्ये

मातुर्याधिकापक्षिणीतन्मघ्येपितुर्महैकोद्दिष्टश्राद्धंवृषोत्सर्गंशय्यादानादिकंचकुर्यात्

अन्यसपिणाशौचेत्वेकादशाहकृत्यंनकार्यमितिबहवः कार्यमितिकश्चित् ॥