४१ अत्रेदंबोध्यम्

अत्रेदंबोध्यम् संपातोनामासौचिनामेकाशौचित्वज्ञानेपराशौचित्वज्ञानं

तेनपूर्वाशौचमध्ये उत्पन्नमपिपराशौचपूर्वाशौचान्तेज्ञातंचेत्पूर्वेणननिवर्ततेसंपाताभावात्

पूर्वत्वपरत्वेतूत्पत्तिकृतेनज्ञानकृते

तेनपूर्वोत्पन्नस्यपरोत्पन्नञानोत्तरंज्ञानेपिपूर्वोत्पन्नेनपरोत्पन्नंतन्मध्येज्ञातंनिवर्तत एव

संपात एवज्ञानकृतोनतुपूर्वत्वादिकमितिसिद्धान्तादिति

दशाहन्त्यरात्रौयदिनिवृत्तियोग्यदशाहसंपातस्तदादिनद्वयमधिकंकार्यम्

दशमरात्रेश्चतुर्थयामेनिवृत्तियोग्यदशाहान्तरसंपातेदिनत्रयमाधिकम्

दशाहान्त्यरात्रौचतुर्थयामेवानिवृत्तियोग्यत्रिरात्राशौचपातेतुपूर्वेणशुद्धिर्नद्वयहादिवृद्धिः

एवं त्र्यहाद्याशौचानांनिवृत्तियोग्यानांपरस्परंतृतीयरात्रौतृतीयरात्रिशेषेवासंपातेपूर्वेणशुद्धिर्नद्वयहादिवृद्धिः

वर्धितद्वित्रिदिनेदशाहान्तरपातेपूर्वेणद्विरात्रेनत्रिरात्रेणवाननिवृत्तिः

वर्धिताद्विरात्रेणपक्षिण्यानिवृत्तिः वर्धितत्रिरात्रेणान्यत्रिरात्रस्यनिवृत्तिः ॥