३८ अतिक्रान्ताशौचम्

तत्रजननाशौचेऽतिक्रान्ताशौचंनास्ति पितुःस्नानमात्रंतत्रापिभवति

मृताशौचेप्यनुपनीमरणादिनिमित्तेषुत्रिरात्रैकरात्रेषुमात्लादिपरगोत्रीयमरणनिमित्तकेषुपक्षिणीत्रिरात्रादिषुचातिक्रान्ताशौचं

नास्ति तत्रोढकन्यायाःपित्रोर्मरणेत्रिरात्रेऽतिक्रान्तेपिदशाहान्तस्त्र्यहम् तदूर्ध्वं वत्सरान्तरेपिपक्षिणीत्युक्तम्

एवं सोदकादिविषयत्रिरात्रादिष्वतिक्रान्ताशौचनं स्नानमात्रंत्वं त्रापिकलान्तरेपिभवत्येव

किंतुदशाहादिमृताशौचविषयमेवातिक्रान्ताशौचकर्तव्यम्

तत्रदशाहाद्याशौचानांत्रिरात्रादीनांचतत्तदाशौचमध्येज्ञानेऽवशिष्टदिनैःशुद्धिः

पुरादेरपिशेषदिनैरेवशुद्धिः अन्त्यकर्मापिशेषदिनैरेवसमापनीयम्

एवमस्थिपर्णशरसंस्कारोपिशेषेणैव एवं सोदकत्रिरात्रेपिशेषेणशुद्धिः

त्रिराताद्युत्तरंतुदशाहन्यूनाशौचा आंदशाहमध्येज्ञानेपि नातिक्रान्तशौचंकिंतुस्नानमात्रम्

मातापित्रोर्मरणेदूरदेशेपिवत्सरान्तरेपिश्रवणेपुत्रस्यश्रवणप्रभृतिदशाहादिपूर्णमेवाशौचम्

दंपत्योःपरस्परंदेशान्तरेकालान्तरेपिपूर्णदशाहमेव सपत्‍नीनांपरस्परंदेशकालविशेषनपेक्षंदशाहमेव

सापत्नमातुर्मरणेपुत्रस्यदशाहोर्ध्वदेशकालानपेक्षत्रिरात्रम् औरसपुत्रमृतौमातापित्रौर्वत्सरान्तरेपित्रिरात्रम्

दशहोर्ध्वमेकदेशेसपिण्डमरणेज्ञातेमासत्रयपर्यन्तंत्रिरात्रम् षण्मासपर्यन्तंपक्षिणी

नवमासपर्यन्तमेकरात्रम् ततोवर्षपर्यन्तं सज्योतिःस्नानमात्रंवा माधवमतेपक्षत्रयपर्यन्तंत्रिरात्रम्

षण्मासपर्यन्तंपक्षिणीवर्षपर्यन्तमेकरात्रम् वर्षोर्ध्वस्नानमात्रमिति अत्रापदनापद्विषयत्वेनव्यवस्था ॥