३५ मृताशौचम्

अथमृताशौचम्

तत्रमृताशौचवताम् अस्पृश्यत्वं , कर्मानधिकारश् च दशाहानन्तरम्।

नामकरणात् प्राक्‌ शिशुमरणेसपिण्डानांस्नानमात्रम् मातापित्रोस्तुपुत्रमृतौत्रिरात्रंकन्यामृतौचैकाहः

सापत्नमातुः सर्वत्रपितृवत् नाम्नःपूर्वखननमेव नित्यम्

नामकरणानन्तरंचूडाकरणपर्यन्तंतदभावेवर्षत्रयपूर्तिपर्यन्तंदाहखनन्योर्विकल्पः नामकरणोत्तरं

दन्तोत्पत्तेःप्राक्‌पुत्रमरणेदाहेसपिण्डानामेकाहःखननेतुस्नानाच्छुद्धिः मातापित्रोरुभयत्रापित्रिरात्रम्

कन्यामृतौतुत्रिपुरुषसपिण्डानामुभयत्रस्नानाच्छुद्धिः मातापित्रोः कन्यामृतौदन्तोत्पत्तिपर्यन्तमुभयत्रैकाहः

अत्रनामकरणंद्वादशदिनोपलक्षणम् दन्तजननंसप्तममासोपलक्षणम् तेनद्वादशदिनमारभ्यषण्मासपर्यन्तमेकाहादिफलितम्

सप्तममासप्रभृतिचूडाकरणपर्यन्तंतदभावेतृतीयवर्षपूर्तिपर्यन्तंदाहेखननेवासपिण्डानामेकाहः केचित्खनने

एकाहोदाहेत्रिरात्रमित्याहुः मातापित्रोरुभयत्रत्रिरात्रम् एतत्पुत्रमृतौ कन्यामृतौतुवर्शत्रयपर्यन्तंसपिण्डानास्नानाच्छुद्धिः

मातापित्रोःसप्तममासप्रभृतिकन्यामृतौविरात्रम्

विज्ञानेश्वरस्त्वेकादशदिनमारभ्ययवदुपनयनंपुत्रमृतौकन्यामृतौतुयावदिवाहंमातापित्रेस्त्रिरात्रमेवेत्याह

प्रथमवर्षादौकृतचूडस्यपुत्रस्मरणेपित्रादीनांसर्वेषांत्रिदिनंनियतंदाहश्चनियतः

त्रिवर्षोर्ध्वकृतचूडस्याकृतचूडस्यवामरणेप्रागुपनयनात्पित्रादिसर्वसपिण्डनांत्रिदिनम् दाहोनियतः

सोदकानांत्वनुपनीतमरणेऽनूढकन्यामरणेचनाशौचंकितुस्नानमात्रम् अनुपनीतभ्रातृमरणेभगिन्यानाशौचम्

ऊनद्विवर्षस्यखननंमुख्यम् अनुगमनवैकल्पिकम् पूर्वद्विवर्षस्यदाहोमुख्यः अनुगमनंनित्यम्

अत्रदाहोदकदानादितूष्णीमेव कृतचूडायपूर्णत्रिवर्षायचभूमौपिण्डदानम्

दन्तजननपर्यन्तंतत्तुल्यवयस्केभ्योद्वितीयदिनेतदुद्देशेनदुग्धदानम्

त्रिवर्षान्तंचौलान्तंवापायसदानम् तदूर्ध्वमुपनयनपर्यन्तमाशौचान्तेसवयोभ्यस्तदुद्देशेनभोजनादिदानम् ॥

स्त्रीशूद्रयोस्तुकृतचूडचोरप्युदकादानादिवैकल्पिकम् शूद्रस्यत्रिवर्षपर्यन्तमेतदेवा शौचम् अस्योपनयनस्थानेविवाहः

तथाचत्रिवर्षोर्ध्वविवाहापर्यन्तंतदभावेषोडशवर्षपर्यन्तवा शूद्रस्यमरणेत्रिदिनंतदूर्घ्वजात्याशौचम्

कन्यायावर्षत्रयानन्तरंवाग्दानात्प्राङ्मरणेत्रिपुरुषसपिण्डानामेकाहः मातापित्रोस्त्रिदिनम् दाहादितूष्णीम्

वाग्दानोत्तरंविवाहात्प्राक्कन्यामरणेपितृसपिण्डानांभर्तृसपिण्डानां चत्रिदिनम् अत्रोभयकुलेपिसाप्तपुरुषं

सापिण्यम दाहादितूष्णीमेव जननेऽनुपनीतमरणेचातिक्रान्ताशौचनास्ति

पितुरपत्यजननश्रवणेदेशान्तरेकालान्तरेस्नानंभवत्येव अनुपनीतमरणेतिक्रान्तेऽपिस्नानंभव्त्येवेतिस्मृत्यर्थसारः

अनुपनीतस्यानूढकन्यायाश्चमातापितृमरणे एवदशाहाशौचम् अन्यमरणेतु नकिमपि उपनयनोत्तरंमरणे

सपिण्डानांदशाहम् सोदकानांत्रिरात्रम् सगोत्राणामेकाहंस्नानाच्छुद्धिर्वेत्यादिविशेषःप्रागुक्तोत्रानुसन्धेयः ॥

स्त्रीशूद्रयोर्विवाहोत्तरमरणेदशाहः शूद्रस्यविवाहाभावेशोडशवर्षात्तरमित्युक्तम् विवाहोर्ध्व

कन्यायाःपितृगृहेमरणे मातापित्रोःसापत्नमातुःसापत्नभ्रातुःसोदरभ्रातुश्च त्रिरात्रम पितृव्यादीनांतद्गृहवर्तिनामेकाहः

तद्गृहवर्तिनामपिसपिण्डानामेकाह इति केचित ग्रामान्तरमृतौपित्रोःपक्षिणीतिकेचित

ऊढायाःकन्यायाःपतिग्रुहेमरणेपित्रोःसापत्नमातुश्चत्रिरात्रम् भ्रातुः पक्षिणी पितृव्यादीनामेकाह इति केचित ॥

मातापित्रोर्मरणेसापत्नमातुर्मृतौचौढकन्यायास्त्रिरात्रंदशाहान्तःदशाहोर्ध्वकालान्तरेपिपक्शः इणी

भ्रातुरुपनीतस्यविवाहितभगिन्याश्चपरसप्रगृहमरणेपरसप्रस्यत्रिरात्रम् गृहान्तरमृतौपरस्परस्यपक्षिणी

ग्रामान्तरेत्वेकाहः अत्यन्तनिर्गुणत्वे एकग्रामेपिस्नानम् एवं सापत्न भ्रातृभगिन्योरपि

भगिनीमृतौबगिन्या अप्येवमेवेतिभाति ऊढकन्यायाःपितामहपितृव्यादिमरणेस्नानमेव

मातुलमरणेभगिनी पुत्रस्यभगिनीकन्यायाश्चपक्षिणी उपकारकमातुलमरणे स्वगृहेमातुलमरणेचत्रिरात्रम्

अनुपनीतमातुलमरणेग्रामान्तरेमातुलमरणेचैकरात्रम् एवं सापत्नमातुलमरणेऽपि

मातुलानीमरणेभर्तृभगिन्यपत्यस्यपुंसरूपस्यपक्षिणी सापत्नमातुलानीमरनेतुनाशौचम्

उपनीतभागिनेयमरणेमातुलस्यमातुलभगिन्याश्चत्रिरात्रम् एवं सापतन्भागिनेयेमृतेपि

अनुपनीतभागिनेयमरणेमातुलस्यमातुलभगिन्याश्चपक्षिणी एवं सापत्नबागिनेये मृतेपि

अनुपनीतपदेनावशिष्टोपनयनमात्रःकृतचूडश्चूडाया अभावेत्रिवर्षो एध्ववयस्कोवाग्राह्य इति भाति

एवमग्रेप्यनुपनीतदस्यार्थोबोध्यः भागिनेयीमरणेतुस्नानमात्रामितिभाति

मातामहमरणेदुहित्रपत्यस्यपुत्ररूपस्यकन्यारूपस्यवात्रिरात्रम् ग्रामान्तरेपक्षिणी

मातामह्यामृतायांदौहित्रस्यदौहित्र्याश्चपक्षिणि

अत्रसर्वत्रपुरुषस्योपनीतस्यैवस्त्रियाश्चविवाहिताया एवमातापित्रतिरिक्ताशौचेधिकार

इत्युक्तम् अत्रमातुलमातुलानीमातामहादिमृतौख्यपत्यस्याशौचोक्तिस्र्यम्बकीयानुसारेणान्यत्रतुनैवस्पष्टमुपलभ्यते

उपनीतदौहित्रमरणेमातामहस्यमातामह्याश्चत्रिरात्रम्

अनुपनीतेदौहित्रेमृतेमातामहस्यमातामह्याश्चपक्षिणी दौहित्रीमरणेतुनाशौच मितिभाती ॥

श्वश्रूश्वशुरयोर्मरणेजामातुःसन्निधौ त्रिरात्रम असन्निधौतुपक्षिणी

उपकारकयोर्मरणेत्वसन्निधावपित्रिरात्रमेव ग्रामान्तरे

एकरात्रम् भार्यामरणेनानष्टत्तसंबन्धयोःश्वश्रूश्वश्रुयोरनुपकारकयोर्मृतेतुपक्षिण्येकाहोवेतिभाति

जामातरिमृतेश्वशूश्वशुरयोरेकरात्रस्नान्च्छुद्धिर्वा स्वगृहेजामात्रुमरणेत्रिरात्रम् उपनीतेशालकेमृतेभगिनीभर्तुरेकाहः

अनुपनीतेतुशालकेस्नानम ग्रामान्तरेमृतेपिस्नानम् भार्यामरणेननिवृत्तसंबन्धे

शालकेस्नानमितिनागोजीभट्टीयेशालकसुतमरणेस्नानम् कश्चिच्छालिकाया

मृतायांशालयवदेकाहादिकमाह मातुःस्वसरिमृतायांस्वस्त्रपत्ययोःकन्यापुत्रयोःपक्षिणी

वं सापत्नमातुःस्वसृमरणेपि पितुःस्वसरिमृतायाभ्रात्रपत्ययोःकन्यापुत्रयोःपक्षिणीपितुःसाप्त्नस्वसृमरणेतुस्नानमात्रम्

भ्रात्रपत्यमरणेतुपिवृष्वसुःस्नानम् स्वगृहेपितृष्वसृमातृष्वसृमरणेत्र्यहम् ॥

उपनीतबन्धुत्रयमरणेपक्षिणी अनुपनीतस्यगुणहीनस्यवाबन्धुत्रयस्यमरणे एकाहः

स्वगृहेमरणेतुत्रिरात्रम् अत्रबन्धुत्रयपदेनात्मबन्धुत्रयंपितृबन्धुत्रयंमातृबन्धुत्रयमितिनव

बन्धवोग्राह्याः तेयथा आत्मपितृष्वसुःपुत्रा आत्ममातृष्वसुसुताः ।

आत्ममातुलपुत्राश्चविज्ञेया आत्मबान्धवा पितुःपितृष्वसुःपुताःपितुर्मातृष्वसुःसुता ।

पितुर्मातुलपुत्रश्चविज्ञेयाःपितृबान्धवाः मातुःपितृष्वसुःपुत्रामातुर्मातृष्वसुःसुताः ।

मातुर्मातुलपुत्राश्चविज्ञेयामातृबान्धवाः ३ इति पितृष्वस्रादिकन्यानांतुविवाहितानामरने

तद्बान्धुवर्गस्त्वेकेनेतिवचनबलादेकाहोऽनूढानातुमरणेस्नानमात्रमितिनिर्णयसिन्ध्वाशयः

नागोजीभट्टास्तुबन्धुत्रयवाक्येपुत्रपद्कंन्योपलक्षकमित्याहुः तन्मतेपितृष्वस्रादिकन्यानामूढानामरणेपक्षिणी

अनूढानामेकाह इत्यादि पितृष्वस्रादिकन्याभिस्तुबन्धुत्रयमरणेस्नानमात्रं अकर्यमितिसिन्ध्वाशयेनसिध्यति

भट्टमतेतुपुत्रपदवत्तद्वाक्यस्थात्मपदस्यापिकन्यापरत्वापत्त्याकन्याभिरपिबन्धुत्रयाशौचंकार्यमित्यापतति

तत्रच बहुशिष्टाचारविगानमितिसिन्ध्वाशयोयुक्तोभाति ॥

अत्रेदंतत्वम् देवदतीयबन्धुनवकमध्ये

आत्मबन्धुत्रयेसंबन्धसाम्यात्परस्परमाशौचम् अवशिष्टबन्धुषटकेतुबन्धुषटकमरणेदेवदत्तस्य

आशौचंदेवदत्तस्यमरणेतुबन्धुषटकस्यनाशौचंसंबन्धाभावादितिसुधीभिरूह्यम्

दत्तकस्यमरणेपूर्वापरप्तिरोस्त्रिरात्रंसपिण्डानामेकाहमाशौचम्

नीलकण्ठीयेदत्तकनिर्णयेतूपनीतदत्तकमरणादौ अपलकपित्रादिसपिण्डानादशाहादिकमेवाशौचमित्युक्तम्

दत्तकेनापिपूर्वापरपित्रोर्मृतौत्रिरात्रंपूर्वापरसपिण्डानामरणे एकाहः

पित्रोरौर्घ्वदेहिककरणेतुकर्माङ्गदशाहमेव दत्तकस्यपुत्रपौत्रादेजननेमरणेवापूर्वापरसपिण्डानामेकाहः

एवं पूर्वापरसपिण्डमरणादाव्पिदत्तकपुत्रपौत्रादेरेकाहः इदंसपिण्डसमानोदकभिन्ने

दत्तीकृतेज्ञेयम् सगोत्रसपिण्डेसोदकेचदत्तीकृतेयथाक्रमंदशाहंत्रिरात्रंचयथाप्राप्तंभवत्येव ॥