२४ पतिमुद्दिश्याग्निप्रवेशे

अथपतिमुद्दिश्याग्निप्रवेशे तत्रसहगमनमेवविप्राणाम्

क्षत्रियादेस्तुसहगमनमनुगमनंच एकचित्यारोहेणदंपत्योःसहैवमन्त्रवद्दाहःसहगमनम्

भर्तुःसमन्त्रकदाहोत्तरंपृथकचितावग्निप्रवेशोनुगमनम् तत्रोभयत्रापितिथ्यैक्ये एकदिने एवतन्त्रेणपाकादि

कृत्वादर्शवत्षट्‌पिण्डषडर्घ्यविप्रभेदयुतंपितृपार्वणमातृपार्वणविशिष्टंश्राद्धंकार्यम्

विश्वेदेवास्तुनभिन्नाभिन्नावातिथिभेदेपिश्राद्धदिनैक्ये एवमेव

तिथिभेदाच्छ्राद्धदिनभेदेतुवार्षिकादिपृथगेवकार्यम् केचित्तुसहगमनेतिथिभेदेपिभर्तुःक्षयाहश्राद्धदिने एवपत्न्याः

श्राद्ध्नतुदिनान्तर इत्याहुस्तदल्पकालव्यवधानेयोज्यंनतुद्वित्र्यादितिथिव्यवधाने ॥