१९ श्राद्धभोजनेप्रायश्चित्तानि

अथश्राद्धभोजनेप्रायश्चित्तानि दर्शश्राद्धेषट्‌प्राणायामाः

महालयादिश्राद्धेषुत्रिवर्षोर्ध्वप्रतिवार्षिकेषुचषट्‌प्राणायामाः

गायत्र्यादशकृत्वोभिमन्त्रितस्यजलस्यपानंवा एवमन्येष्वप्यनुक्तप्रायश्चित्तश्राद्धेषूक्तजलपानमेव

वृद्धिश्राद्धेप्राणायामत्रयम् जातकर्मादिचूडान्तसंस्काराङ्गवृद्धिश्राद्धेसान्तपनकृच्छ्रम्

जातकर्माङ्गश्राद्धेचान्द्रायणंवा अन्यसंस्काराङ्गश्राद्धे उपवासः

सीमन्तसंस्कारेतत्संकाराङ्गश्राद्धेचचान्द्रायणम् आपदिदशाहान्तर्नवसंज्ञकश्राद्धेषु

एकदशाहेचश्राद्धभोजनेप्राजापत्यकृच्छ्रम् द्वादशाहिकसपिण्डीश्राद्धे ऊनमासेचपादोनकृच्छ्रः

द्वितीयमासिकत्रैपक्षिकोनषाण्मासिकोनाब्दिकेष्वर्धकृच्छ्रः

अन्यमासिकेषुप्रथमाब्दिकेवर्षान्तसपिण्डश्राद्धेचपादकृच्छ्रः उपवासोवा

गुरवेद्रव्यंदातुंश्राद्धभोजनेसर्वत्रोक्तार्धम् जपशीलेतदर्शम् अनापद्यूनमासान्तेषुचान्द्रायणंप्रजापत्यंच

द्विमासाद्युक्तचतुर्षुपादोनक्रुच्छ्रः त्रिमासादिषुपूर्वोक्तेष्वर्धकृच्छ्रः प्रथमाब्दिकेपादोनकृच्छ्रः

द्वितीयतृतीयाब्दिके एकोपवासः क्षत्रियश्राद्धे एतद्विगुणम् वैश्यश्राद्धेत्रिगुणम् शूद्रश्राद्धेसर्वत्रचतुर्गुणम्

चाण्डालविषजलसर्पपश्वादिहतपतितक्लिबादिनवश्राद्धेचान्द्रायणम्

एकादशाहान्तंपराकश्चान्द्रंच द्वादशाहादौपराकः द्विमासादिचतुर्ष्वतिकृच्छ्रः

अन्यमाक्षिकेषुकृच्छः आब्दिकेपादः अभ्यासेसर्वत्रसर्वद्विगुणम्

आमहेमश्राद्धेसांकल्पिकेचतत्तदुक्तप्रायश्चित्तार्धम्

यतिश्चब्रह्मचारीचपूर्वोक्तप्रायश्चित्तंकृत्वोपवासत्रयंप्राणायामशतंघृतप्राशनंचाधिकंचरेत्

अनापदिद्विगुणंचरेत् दर्शादौगृहिवदेव ब्रह्मचारिणश्चोलसंस्कारेभोजने कृच्छ्रः

सीमन्तेचान्द्रम् अन्येषूपवासः एकादशाहश्रमोश्राद्धभोजनेचान्द्रंपुनःसंस्कारश्चेतिहेमाद्रिः ॥