१७ पक्वान्नश्राद्धविधिः

तत्रयेषुसंक्रान्तियुगमन्वादिषुवृद्ध्युत्तरकालिकदर्शादिषुवापिण्डदानंनिषिद्धंतत्रसर्वत्रसांकल्पिकविधिः

यश्चपिण्डदानादिबहुविस्तृतंश्राद्धमनुष्ठातुमशक्तःसोपिसांकल्पिकंकुर्यात् तद्यथा

अमुकंश्राद्धसांकल्पिकविधिनान्नेनहविषाकरिष्ये

इति संकल्प्यतृतीयक्षणदानान्तंपूर्ववत्कृत्वार्घ्यदानसमन्त्रकावाहनंचवर्जयेत्

देवानावाहयामीतिपितृनावाहयामीत्येवावाह्यगन्धादिपूजनादिभस्ममर्यादान्तेऽग्नौकरणंवर्जयित्वा

परिवेषणादिसंपन्नवचनान्ते उत्तरापोशनंविकिरपिण्डदानवर्जमक्षय्यवचनान्तंकृत्वा

स्वधांवाचयिष्येस्वधोच्यतामितिवाक्यरहितंसर्वपूर्ववत्समापयेत् इति सांकल्पिकप्रयोगः ॥