११ पिण्डनिषेधः

अथपिण्डनिषेधः विवाहव्रतचूडासुवर्षमर्धतदर्धकम् ।

संस्कारेषुतथान्येषुवृद्धिमात्रेचमासकम् १ पिण्डदानंमृदास्नानंनकुर्यात्तिलतर्पणम्

श्राद्धाङ्गतर्पणंनित्यतर्पणंचतिलैर्नकार्यमित्यर्थः

महालयेगयायांपित्रोःप्रत्यब्देयस्यकस्यापिमृतस्यसपिण्डीषोडशमासिकान्तेषुप्रेतकृत्येषुकृतमङ्गलोपिपिण्डान्दद्यात्

केचित्भ्रात्रादिवार्षिकेप्याहुः पिण्डयज्ञेचयज्ञेचसपिण्ड्यांदद्युरेवच ।

तथाविकृतावन्वष्टकादौयत्रपुनःपिण्डदानविधिःयत्रवापूर्वेद्युःश्राद्धादौपिण्डपितृयज्ञ

विकृतित्वं तत्रापिनपिण्डदाननिषेध इति सिन्धुः तेनाष्टकाश्राद्धेपिननिषेध इति भाति

अयंचमङ्गलोत्तरंपिण्डदानतिलतर्पणनिषेधस्त्रिपुरुषसपिण्डानामितिभाति ॥